भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 9.8

9.8.1

महापूजाविधिवर्णनम्
श्रीव्यास उवाच -
अथ स्नात्वा च कृत्वा च नित्यनैमित्तिकीं क्रियाम् ॥
पञ्चवर्णसमायुक्तं शुद्धे स्थण्डिलमण्डले

9.8.2

द्वात्रिंशद्दलसंयुक्तं कार्णिकाकेसरोज्ज्वलम् ॥
विधाय कमलं स्थाप्य विधिवद्वेदसूक्तिभिः

9.8.3

कर्णिकायां न्यसेद्‌राजन्हरेः सिंहासनं शुभम् ॥
तत्र राधां रमां स्थाप्य भूदेवीं विरजां तथा

9.8.4

तन्मध्ये स्थापयेत्साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥
तथाष्टदलमध्ये तु राधिकाष्टसखीः शुभाः

9.8.5

ततोऽष्टदलमध्ये तु श्रीकृष्णस्य तथा सखीन् ॥
तथा षोडशपर्णेषु सखीनां च द्वयं द्वयम्

9.8.6

कमलस्य च पार्श्वेषु शंखं चक्रं गदां तथा ॥
पद्मं च नंदकं शार्ङ्गं बाणांश्च मुसलं हलम्

9.8.7

कौस्तुभं वनमालां च श्रीवत्सं नीलमंबरम् ॥
पीतांबरं तथा वंशीं वेत्रं च स्थापयेद्‍बुधः

9.8.8

ततः पार्श्वेषु तालांकं गरुडांकं रथं तथा ॥
सुमतिं दारुकं सूतं गरुडं कुमुदं तथा

9.8.9

चंडं चैव प्रचंडं च बलं चैव महाबलम् ॥
कुमुदाक्षं बलं चैव स्थापयेद्यत्‍नतः सुधीः

9.8.10

तथा दिक्षु च दिक्पालान्संस्थाप्य च पृथक् पृथक् ॥
विष्वक्सेनं शिवं मां च विधिं दुर्गां विनायकम्

9.8.11

नवग्रहांश्च वरुणं तथा षोडश मातृकाः ॥
तत्पद्माग्रे वीतिहोत्रं स्थंडिले स्थापयेद्‍बुधः

9.8.12

आवाहनमासनं च पाद्यमर्घ्यं विशेषतः ॥
स्नानं च मधुपर्कं च धूपं दीपं तथैव च

9.8.13

यज्ञोपवीतं वस्त्रं च भूषणं गंधमेव च ॥
पुष्पं तथाक्षतांश्चैव नैवेद्यं च मनोहरम्

9.8.14

आचमनं प्रदातव्यं तांबूलं दक्षिणां तथा ॥
प्रदक्षिणां प्रार्थनां च तथा नीराजनं स्मृतम्

9.8.16

नमस्कारं ततः कुर्यात्कर्मणा च पृथक् पृथक् ॥
आवाहने तु पुष्पाणि आसने तु कुशद्वयम् ॥
पाद्ये श्यामां च दूर्वां च विष्णुक्रांतां तथैव च ॥
सौगंधिकानि पुष्पाणि अर्घ्ये योग्यानि यादव

9.8.17

चंदनोशीरकर्पूरकुंकुमागुरुमिश्रितम् ॥
एतादृशं जलं योग्यं स्नाने राजन्महामते

9.8.18

मधुपर्के ह्यामलकमरविंदं तथा मतम् ॥
धूपे गंधाष्टकं देयं दीपे कर्पूरमेव च

9.8.19

यज्ञोपवीतं पीतं च वस्त्रे पीतांबरं मतम् ॥
भूषणे चैव सौवर्णं गंधे कुंकुमचन्दने

9.8.20

तुलसीमंजरी पुष्पेऽक्षतेषु स्युस्तु तंडुलाः ॥
नैवेद्ये तु रसाः षट् च भोगा नानाविधा मताः

9.8.21

जले गंगाजलं योग्यं यमुनाजलमेव च ॥
जातीफलं च कंकोलमंते चाचमने नृप

9.8.22

तांबूले चोषणं त्वेला दक्षिणायां तु हाटकम् ॥
प्रदक्षिणायां भ्रमणं घृतं नीराजने गवाम्

9.8.23

प्रार्थनायां हरेर्भक्तिः प्रेमलक्षणसंयुता ॥
नमस्कारे महाराज साष्टांगनतविग्रहः

9.8.24

द्वादशाक्षरमंत्रेण शिखां बद्ध्वा शुचिः पुमान् ॥
उपचरान्पुरस्कृत्य श्रीमुखे संमुखो भवेत्

9.8.8

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
महापूजाविधिवर्णनं नामाष्टमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc