भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 9.7

9.7.1

राजससेवाकथनम्
श्रीवेदव्यास उवाच -
ब्राह्मे मुहूर्ते चोत्थाय कशिपोश्च मुदा नृप ॥
गुरोर्नाम च गोविंदनामानि प्रवदन्मुहुः

9.7.2

भूमिं नत्वा न्यसेत्पादं जलं स्पृष्ट्वा हरेर्जनः ॥
उपविश्यासने शीघ्रं सकामो यो यथासुखम्

9.7.3

हस्तावुत्संग आधाय श्वासजित्प्राणमास्थितः ॥
ज्ञानमुद्राधरं शांतं श्रीगुरुं स्वस्तिकासनम्

9.7.4

ध्यात्वा कृष्णं परं ध्यायेद्‌भक्त एकाग्रमानसः ॥
किशोरं श्यामलं हृद्यं वंशीवेत्रविभूषितम्

9.7.5

एवं कृत्वा हरेर्ध्यानं पुनर्गच्छेद्‌बहिःस्थलम् ॥
तच्छौचं शृणु राजेन्द्र गृहस्थस्य यथातथम्

9.7.6

अश्वक्रांतेति मंत्रेण मृत्स्नया च जलेन च ॥
एका लिंगे गुदे तिस्रस्तथा वामकरे दश

9.7.8

एतच्चतुर्गुणं प्रोक्तं यतीनां हरिसेविनाम् ॥
तदर्धं रोगिपांथानां स्त्रीशूद्राणां तदर्धकम्

9.7.9

शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः ॥
मुखशुद्धिविहीनस्य मंत्रा न फलदाः स्मृताः

9.7.10

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥
ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते

9.7.11

इति मंत्रं समुच्चार्य कुर्याद्वै दन्तधावनम् ॥
हरितहर्यमंत्रेण सूर्यं नत्वा कृतांजलिः

9.7.12

प्रणमेद्धरिभक्तांश्च प्रह्लादादीन्समाहितः ॥
तुलसीमृत्तिकां नीत्वा ततः स्नानं समाचरेत्

9.7.13

पठितव्यं प्रयत्‍नेन श्रीगंगायमुनाष्टकम् ॥
अयोध्या मथुरा माया काशी कांची अवंतिका

9.7.14

पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥
शालिग्रामो महायोगे शंभलो हरिमन्दिरे

9.7.15

नंदिग्रामः कौशले तु त्रयो ग्रामाः प्रकीर्तिताः ॥
दंडकं सैधवारण्यं जंबुमार्गं च पुष्कलम्

9.7.16

उत्पलावर्तमारण्यं नैमिषं कुरुजांगलम् ॥
अर्बुदं हेमवंतं च नवारण्यानि वै विदुः

9.7.17

एतानि तीर्थनामानि समुच्चार्य पुनः पुनः ॥
इत्थं स्नात्वा ततो बिभ्रदंबरं क्षौममुत्तमम्

9.7.18

द्वादशांस्तिलकान् बिभ्रदष्टमुद्राधरः परः ॥
कृतसंध्यः शुचिर्मौनी गत्वा श्रीकृष्णमंदिरम्

9.7.19

घंटावाद्यं जयारावं तलशब्दं विधाय च ॥
उत्तष्ठोत्तिष्ठ गोविंद योगनिद्रां विहाय च

9.7.20

उक्त्वापीमां स्मृतिं राजन् भक्त उत्थापयेद्धरिम् ॥
मंगलार्तिं समादाय भ्रामयंस्तन्मुखोपरि

9.7.21

निवेद्य बहुपक्वान्नं नत्वा नत्वा पुनः पुनः ॥
ततः स्नानं कारयित्वा देशकालप्रभाववित्

9.7.22

शृङ्गारं भाववित्कृत्वा वस्त्रभूषणमंगलैः ॥
आर्तिक्यं तु ततः कृत्वा भोज्यान्नं च विधाय च

9.7.23

ततो धृत्वा महाभोगं नानारसमयं परम् ॥
महाभोगार्तिकं कृत्वा कारयेच्छयनं हरेः

9.7.24

ततः प्रसादं परमं तुलसीगंधमिश्रितम् ॥
भुञ्जीत यो हरेर्नित्यं स कृतार्थो न संशयः

9.7.25

राजभोगार्तिकं कृत्वा कारयेच्छयनं हरेः ॥
शंखनादेन विधिवद्‌भोगं धृत्वा यथाविधि

9.7.26

ततः संध्यार्तिकं कृत्वा दुग्धादीन्विनिवेद्य च ॥
ततः प्रदोषसमये पुनरार्तिकमाचरेत्

9.7.27

धृत्वा भोगं परं मिष्टं कारयेच्छयनं हरेः ॥
राजसी चैव राजेन्द्र रजसेवेयमस्ति वै

9.7.28

सर्वं श्रीकृष्णचण्द्रस्य सेवासंलग्नमानसः ॥
तारयित्वा कुलशतं याति चात्यंतिकं पदम्

9.7.29

जन्माष्टमी च कृष्णस्य श्रीरामनवमी तथा ॥
राधाष्टम्यन्नकूटं च द्वादशी वामनस्य च

9.7.30

चतुर्दशी नृसिंहस्य तथानन्तचतुर्दशी ॥
एषु कालेषु कृष्णस्य महापूजां समाचरेत्

9.7.7

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
राजससेवावर्णनं नाम सप्तमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc