भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 9.6

9.6.1

हरिमन्दिरप्रतिष्ठावर्णनम्
उग्रसेन उवाच -
कर्मग्रहो गृहस्थोऽयं श्रीकृष्णस्य महात्मनः ॥
सेवां वै केन विधिना कुर्यात्तद्‍ब्रूहि मे मुने

9.6.2

भक्त्यंकुरो यस्य नास्ति वास्ति तस्य न वर्द्धते ॥
तस्य केन प्रकारेण प्रसन्नः स्याद्धरिः स्वयम्

9.6.3

श्रीव्यास उवाच -
यदि भक्त्यंकुरो न स्यात्सत्संगेन स जायते ॥
बलाद्विवर्द्धते तस्मात्सतां संगं समाचरेत्

9.6.4

कृष्णसेवाविधिं तुभ्यं वक्ष्यामि सुलभं परम् ॥
यया गृहस्थोऽयं शीघ्रं श्रीकृष्णं प्राप्नुयान्नृप

9.6.5

आचार्य्यं कुलसंभूतं श्रीकृष्णध्यानतत्परम् ॥
एतादृशं गुरुं कृत्वा सिद्धो भवति मानवः

9.6.6

गुरोः सेवाविधिं शिक्षेच्छ्रीकृष्णस्य महात्मनः

9.6.7

विष्णुदीक्षाविहीनस्य सर्वं भवति निष्फलम् ॥
निर्गुरोर्दर्शनं कृत्त्वा हतपुण्यो भवेन्नरः

9.6.8

उत्तराभिमुखं शश्वत्कारयेद्धरिमंदिरम् ॥
तत्र सिंहासनं प्रोच्यं सपीठं कुंभमण्डितम्

9.6.9

सच्चिदानन्द नाम स्यात्सोपानत्रयभूषितम् ॥
महार्हवस्त्रैराच्छन्नं तत्र तुल्यासनं मृदु

9.6.10

पार्श्वोपबर्हणयुतं स्फुरद्धेमांबरावृतम् ॥
नानाचित्रयुतैः कुड्यैरन्तःपटसमन्वितैः

9.6.11

सर्वतोमंडलैस्तद्वत्तोरणैः समलंकृतम् ॥
गवाक्षवारियन्त्राढ्यं चतुःशालसुजालकैः

9.6.12

राजतप्राङ्गणो देशः सभामण्डपमण्डितः ॥
तत्र प्राङ्गणमध्ये तु तुलसीमन्दीरं शुभम्

9.6.13

मन्दिरस्य बहिर्द्वारि कारयेद्दीपिकाद्वयम् ॥
तथा वै कृत्रिमं राजन् सिंहद्वयमधिष्ठितम्

9.6.14

सुवर्णशिखरस्याधश्चक्रं च शिखरोपरि ॥
द्वारेऽपि हरिनामानि प्रालेख्यानि शुभानि च

9.6.15

शंखं पद्मं गदां शार्ङ्गमालेख्यं भित्तिपार्श्वयोः ॥
इषुधी च तथा बाणः सव्ये दक्षिण एव च

9.6.16

तथा मन्दिरपृष्ठे वै शतचंद्रं च नंदकम् ॥
हलं च मुसलं चैव लेखनीयं प्रयत्‍नतः

9.6.17

सिंहासनस्य पृष्ठे तु गोप्यो गावस्तथैव च ॥
गोपालास्तत्र सोपाने कपाटे विजयो जयः

9.6.18

देहल्यां कल्पवृक्षश्च स्तम्भेषु च लतां शुभाम् ॥
यत्र तत्र च कुड्येषु श्रीगंगा पापहारिणी

9.6.19

वृंदावनं गोवर्धनं यमुनापुलिनानि च ॥
तथा वै चीरहरणमालेख्यं रासमण्डलम्

9.6.20

चित्रकूटः पञ्चवटी लेखनीयं प्रयत्‍नतः ॥
रामरावणयोर्युद्धं जानकीहरणं विना

9.6.21

दशावतारचित्राणि नरनारायणाश्रमः ॥
सप्तपुर्य्यस्त्रयो ग्रामा नवारण्यं नवोपराः

9.6.22

एवं लिखित्वा चित्राणि मन्दिरं कारयेद्‍बुधः ॥
वंशीभावोद्यतकरं वक्रीभूतांघ्रिदक्षिणम्

9.6.23

किशोराकृति कृष्णस्य रूपं सेव्यतमं स्मृतम् ॥
तत्प्रतिष्ठां विधायाशु गुरुहस्तेन मंदिरे

9.6.24

भक्तः परमया भक्त्या स्थापयेत्तत्परो भवेत् ॥
तत्प्रसादे च रसनां घ्राणं च तुलसीदले ॥
न्यसेत्कर्णौ तत्कथायामेवं सेवापरो भवेत्

9.6.25

अहर्निशं कृष्णसेवां यः करोति च भाववित् ॥
तं प्रेमलक्षणं भक्तं विदुर्भागवतोत्तमाः

9.6.26

अश्वमेधसहस्राणि राजसूयशतानि च ॥
राजन् श्रीकृष्णसेवायाः कलां नार्हंति षोडशीम्

9.6.27

श्रीकृष्णदेशिकस्यापि यः कुर्याद्दर्शनं नरः ॥
कोटिजन्मकृतैः पापैर्मुच्यते नात्र संशयः

9.6.28

देहांते तं समानेतुं श्यामसुन्दरविग्रहाः ॥
रथं नीत्वा प्रधावन्ति गोलोकात्कृष्णपार्षदाः

9.6.6

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
हरिमंदिरप्रतिष्ठावर्णनं नाम षष्ठोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc