भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.33

7.33.1

भूतसन्तापनदैत्यवधम्
श्रीनारद उवाच -
हृष्टं निपतितं श्रुत्वा शकुनिः क्रोधमुर्छितः ॥
भ्रातॄन्संप्रेषयामास देवानां भयकारकान्

7.33.2

भूतसंतापनो नाम गजमारुह्य निर्गतः ॥
वृकः खरं समारुह्य कालनाभोऽथ सूकरम्

7.33.3

महानाभो मत्तपुष्टं हरिश्मश्रुस्तिमिंगिलम् ॥
वैजयंतं रथं जैत्रं मयदैत्यविनिर्मितम्

7.33.4

पंचयोजनविस्तीर्णं सहस्राश्वनियोजितम् ॥
मायामयं कामगं च पताकाशतसंवृतम्

7.33.5

सहस्रकलशाढ्यं च मुक्तादामविलंबितम् ॥
रत्‍नभूषणभूषाढ्यं शतचंद्रसमोज्ज्वलम्

7.33.6

सहस्रचक्रसंयुक्तम् घंटाकारविभूषणम् ॥
आरुह्य शकुनिः पश्चाद्योद्‍धुकामो विनिर्ययौ

7.33.7

अक्षौहिणीभिर्द्वादशभिर्दैत्यानां मैथिलेश्वर ॥
धनुःस्वनैर्वीरशब्दैरश्वहेषारथस्वनैः

7.33.8

चीत्कारैर्हस्तिनामाशामण्डलं तु जगर्ज ह ॥
दैत्यसेनाप्रयाणेन चकंपे मण्डलं भुवः

7.33.9

निपेतुर्गिरयोऽनेका विचेलुः सिंधवो नृप ॥
निपातितार्गला देवैर्बभूवाश्वमरावती

7.33.10

तत्सैन्यं भीषणं दृष्ट्वा प्रद्युम्नो धन्विनां वरः ॥
बली धैर्यधरः कार्ष्णिः प्राहेदं यदुपुंगवान्

7.33.11

प्रद्युम्न उवाच -
इदं शरिरं भुवि पांचभौतिकं
फेनोपमं कर्मगुणादिनिर्मितम् ॥
गतागतं कालवशं कदापि
बुधा न शोचंति यथार्भकैः कृतम्

7.33.12

गच्छंति चोर्ध्वं किल सात्विका जना
मध्ये च तिष्ठंति हि राजसा नराः ॥
अधः प्रगच्छंति हि तामसाः परे
मुहुर्मुहुस्ते विचरंति कर्मभिः

7.33.13

बिभेत्ययं वा किल सर्वतो यथा
नेत्रभ्रमेणाचलतीव भूर्वृथा ॥
तथा च सर्वं मनसा कृतं जग-
त्काचेऽर्भकं ह्यभर्क आवृतो यथा

7.33.14

यथा सुखं मंडलवर्तिनां चलं
तथास्ति पातालनिवासिनामपि ॥
तथामराणां क्रतुभिः कृतं स्मरे-
त्सर्वं त्यजेत्ततृणवत्परो जनाः

7.33.15

ऋतोर्गुणा देहगुणाः स्वभावा
अहर्दिनं यांति यथा तथा जनः ॥
दृश्यं च यद्यन्न हि किंचिदस्ति
यथा व्रजे गच्छति पांथसंगमम्

7.33.16

दृष्टं यथा वस्तु यदोल्कया तथा
परे गते किं ह्युभयप्रयोजनम् ॥
विधाय मार्गं विचरेच्छिवस्य
पश्यन्हि सर्वत्र हरिं परेश्वरम्

7.33.17

यथेंदुरेको जलपात्रवृन्दगो
यथाग्निरेको विदितः समिच्चये ॥
तथा परात्मा भगवाननेकव-
त्सोऽन्तर्बहिः स्यात्सुकृतेषु देहिषु

7.33.18

यो ज्ञाननिष्ठोऽतिविरागमाश्रितः
श्रीकृष्णभक्तस्त्वनपेक्षकोऽपि यः ॥
तपोवनं वापि गृहं गृहं वनं
स्पृशंति तं ते त्रिगुणा न सर्वतः

7.33.19

ततो यतिस्त्वध्यगमत्परात्परं
सुखी सदाऽऽनन्दमयस्तु बालवत् ॥
देहेन पश्यत्युत सर्वकारणं
धृतं च वासो मदिरामदांधवत्

7.33.20

सूर्योदये सर्वतमो विलियते
प्रदृश्यते वस्तु गृहे यथा जनैः ॥
ज्ञानोदयेऽज्ञानतमः प्रलीयते
संभ्राजते ब्रह्म परं तनौ तथा

7.33.21

यथेन्द्रियाणां च पृथक् च वर्त्मभि-
र्नोन्नीयतेऽर्थस्त्रिगुणाश्रयः परः ॥
एकं ह्यनंतस्य परस्य धाम त-
त्तथा मुनीनां किल शास्त्रवर्त्मिभिः

7.33.22

परं पदं केऽपि वदन्ति वैष्णवं
के वापि वैकुण्ठपरं परेशम् ॥
शांतिं च यत्केऽपि तमःपरं बृह-
त्कैवल्यमेके प्रवदन्ति धामके

7.33.23

यदक्षरं केऽपि दिशं वदंति के
गोलोकमाद्यं प्रवदन्त्यथापरे ॥
केचिन्निकुञ्जं निजलीलयाऽऽवृतं
प्राप्नोति कृष्णस्य पदं च तन्मुनिः

7.33.24

श्रीनारद उवाच -
इति कार्ष्णेर्वचः श्रुत्वा सर्वे यादवपुंगवाः ॥
शस्त्राणि जगृहुर्हृष्टा तज्ज्ञाने धैर्यवर्द्धने

7.33.25

बभूव तुमुलं युद्धं दैत्यानां यदुभिः सह ॥
सीतागंगातटे चाब्धौ रक्षसां कपिभिर्यथा

7.33.26

रथिनो रथिभिस्तत्र पत्तिभिः पत्तयो नृप ॥
अश्ववाहैरश्ववाहा युयुधुश्च गजा गजैः

7.33.27

केचित्करींद्रा उन्मत्ता महामात्यैः प्रणोदिताः ॥
गिरीन्द्रा इव दृश्यन्ते मुक्तानां मेघडंबरैः

7.33.28

शुण्डादण्डैश्च फूत्कारैः सचीत्कारैः सशृङ्खलैः ॥
पातयंतो रथानश्वान् वीरान् राजन् रणांगणे

7.33.29

शुण्डादण्डैः संगृहीत्वा रथान्साश्वान्ससारथीन् ॥
निपात्य भूमावुत्थाप्य चिक्षिपुश्चांबरे बलात्

7.33.30

कांश्चिन्ममर्दुः पादाभ्यां संविदार्य करैर्दृढैः ॥
सक्षताश्च गजा राजन्प्रधावन्तो रणांगणे

7.33.31

सपक्षतुरगा राजन्नश्ववाहप्रणोदिताः ॥
उल्लङ्घयन्तोऽथ रथान् गजकुम्भांतरे गताः

7.33.32

केचिदश्वैर्महावीराः शक्तिहस्ता मदोत्कटाः ॥
जघ्नुर्गजस्थान्नृपतीन्मृगेंद्रा इव यूथपान्

7.33.33

अश्वारूढाः केऽपि सेनां संविदार्य विनिर्गताः ॥
खड्गवेगैः पद्मवनं लीलाभिर्वायवो यथा

7.33.34

केचित्परस्परं साश्वैरुत्पतन्तो रणांगणे ॥
खड्गैर्जघ्नुर्यथा क्रव्ये चंचुभिः पक्षिणोऽम्बरे

7.33.35

केचित्खड्गैः परशुभिः केचिच्चक्रैः पदातयः ॥
चिच्छिदुर्निशितैर्भल्लैर्फलानीव शिरांसि च

7.33.36

संग्रामजिद्‍बृहत्सेनः शूरः प्रहरणो विजित् ॥
जयः सुभद्रो वामश्च सत्यकोऽश्वयुरेव हि

7.33.37

भद्रायाश्च सुता ह्येते श्रीकृष्णस्यौरसाः शुभाः ॥
सर्वेषामग्रतः प्राप्ता युयुधुर्दैत्यपुंगवैः

7.33.38

भूतसंतापनो नाम गजारूढो महासुरः ॥
यदुसैन्ये महाराज चक्रे नाराचदुर्दिनम्

7.33.39

बाणांधकारे च कृते भूतसंतापनेन वै ॥
संग्रामजित्तदा प्राप्तः श्रीकृष्णस्य सुतो बली

7.33.40

विव्याध बाणशतकैर्भूतसंतापनो बली ॥
प्रलयार्णवसंघोष-भीमसंघट्टनादिनीम्

7.33.41

धनुर्ज्यां तस्य चिच्छेद भूतसंतापनो बली ॥
संग्रामजिद्धनुश्चान्यद्‌-गृहीत्वा स्वं तडित्प्रभम्

7.33.42

सज्जं कृत्वा विधानेन शतं बाणान्समादधे ॥
ते बाणास्तद्धनुर्ज्यां च कवचं लोहनिर्मितम्

7.33.43

भित्वा छित्वा तनुं तस्य गजं भित्वावनिं गताः ॥
बाणप्रहारव्यथितः किंचिद्व्याकुलमानसः

7.33.44

गजं स्वं नोदयामास भूतसन्तापनो बली ॥
कालांतकसमं नागं दृष्ट्वा संग्रामजिद्‌बली

7.33.45

गृहीत्वा स्वमसिं दिव्यं संजघान रणांगणे ॥
तस्य खड्गप्रहारेण शूण्डादण्डो द्विधाभवत्

7.33.46

चीत्कारमुत्कटं कुर्वन् मदं संस्रावयन्कटात् ॥
भूतसंतापनं त्यक्त्वा भुवनं कंपयन् गजः

7.33.47

निपातयन्महावीरान्घंटानादैर्नदन्मुहुः ॥
न बलात्स्तंभितो दैत्यैः पुरीं चंद्रावतीं ययौ

7.33.48

कोलाहलो महानासीद्‍व्रजन्नेवं गजे च्युते ॥
भूतसंतापनश्चक्रं श्रीकृष्णस्य सुताय वै

7.33.49

चिक्षेप निशितं शीघ्रं ग्रीष्ममार्तंडवत्स्फुरत् ॥
तदागतं भ्रमद्‍दृष्ट्वा चक्रं भद्रात्मजो बली

7.33.50

स्वचक्रेण महाराज लीलया शतधाच्छिनत् ॥
जठरस्य गिरेः शृङ्गं समुत्पाट्य महासुरः

7.33.51

चिक्षेप कृष्णपुत्राय नादयन् व्योममंडलम् ॥
संग्रामजिच्च तच्छृङ्गं गृहीत्वा भुजयोर्बलात्

7.33.52

तताड तेन राजेंद्र भूतसन्तापनं रणे ॥
भूतसन्तापनो दैत्यः संपूर्णं जठरं गिरिम्

7.33.53

गृहीत्वा संगरे तस्थावुद्‌भटो दैत्यपुंगवः ॥
अनेन घातयिष्यामि त्वां रणे प्रवदन्मुखात्

7.33.54

देवकूटं समुत्पाट्य गिरिं च श्रीहरेः सुतः ॥
अनेन घातयिष्यामि त्वां रणे प्रवदन्मुखात्

7.33.55

तस्थौ तत्सम्मुखे राजंस्तदद्‌भुतमिवामवत् ॥
क्षिपन्तं पर्वतं दैत्यं भूतसन्तापनं नृप

7.33.56

तताड गिरिणा स्वेन रणे संग्रामजिद्‌बली ॥
जठरो देवकूटश्च द्वौ गिरी दैत्यमस्तके

7.33.57

पतितौ भूरिभाराढ्यौ वज्रसंघर्षनादिनौ

7.33.58

भूतसन्तापनस्ताभ्यां पतितः पञ्चतां गतः ॥
तज्ज्योतिः संग्रामजिति लीनं जातं विदेहराट्

7.33.59

श्रीसंग्रामजितः सैन्ये नेदुर्दुंदुभयस्तदा ॥
भद्रात्मजोपरी सुराः पुष्पवर्षं प्रचक्रिरे

7.33.33

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
भूतसन्तापनदैत्यवधो नाम त्रयस्त्रिंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc