भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.34

7.34.1

वृकदैत्यवधम्
श्रीनारद उवाच -
संग्रामजिन्महायुद्धे भूतसन्तापने मृते ॥
हाहाकारो महानासीद्दैत्यसेनासु मैथिल

7.34.2

शकुनिर्वृकः कालनाभो महानाभस्तथैव च ॥
हरिश्मश्रुश्च पञ्चैते सम्प्राप्ता रणमंडले

7.34.3

कार्ष्णिः शकुनिनायुद्ध्यदनिरुद्धो वृकेण वै ॥
कालनाभेन सांबस्तु महानाभेन दीप्तिमान्

7.34.4

हरिश्मश्र्वसुरेणापि भानुः कृष्णसुतो बली ॥
सर्वेषामग्रतः प्राप्तोऽनिरुद्धो धन्विनां वरः

7.34.5

विभेद बाणैर्दैत्यांश्च वज्रेणेंद्रो यथा गिरीन् ॥
अनिरुद्धशरैर्दैत्याश्छिन्नपादांसजानवः

7.34.6

निपेतुर्मूर्च्छिता भूमौ वृक्षा वातहता इव ॥
अनिरुद्धशरैस्तीक्ष्णैः संछिन्ना मेघडंबराः

7.34.7

छिन्नकुम्भा भिन्नशुंडाः पतिता रणमंडले ॥
रुग्णदन्ताश्छिन्नकक्षाः शैला वज्रहता इव

7.34.8

द्विधाभूता गजाः पेतुः स्फुरत्काश्मीरकंबलाः ॥
करिणां भिन्नकुम्भानां मुक्ता रेजुः स्फुरत्प्रभाः

7.34.9

बाणांधकारे राजेन्द्र रात्रौ तारागणा इव ॥
प्रधर्षिताः केऽपि वीरा अनिरुद्धशरान्विता

7.34.10

निपेतुर्मूर्छिता भूमौ तदद्‌भुतमिवाभवत् ॥
केचित्कौ रथिनः पेतुस्तेषां शून्या रथाः स्थिताः

7.34.11

कपित्थस्य फलानीव हस्तकोष्ठगतानि च ॥
क्षणमात्रेण राजेन्द्र दैत्यानां वाहिनीषु च

7.34.12

नदी बभूव संग्रामे भीषणा क्षतजस्रवात् ॥
द्विपग्राहा चोष्ट्रखरकबंधास्यादिकच्छपा

7.34.13

शिशुमाररथा केशशैवाला भुजसर्पिणी ॥
करमीना मौलिरत्‍नहारकुण्डलशर्करा

7.34.14

शस्त्रशक्तिच्छत्रशंखा चामरध्वजसैकता ॥
रथांगवर्तसंयुक्ता सेनाद्वयतटावृता

7.34.15

शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥
प्रमथा भैरवा भूता वेताला योगिनीगणाः

7.34.16

अट्टहासं प्रकृर्वंतो नृत्यंतो रणमण्डले ॥
पिबन्तो रुधिरं शश्वत्कपालेन नृपेश्वर

7.34.17

हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥
सिंहारूढा भद्रकाली डाकिनीशतसंवृता

7.34.18

भक्ष्ययन्ती रणे दैत्यानट्टहासं चकार ह ॥
विद्याधर्यस्त्वंबरस्था गंधर्व्योऽप्सरसस्तथा

7.34.19

क्षात्रधर्मस्थितान् वीरान् वव्रिरे देवरूपिणः ॥
परस्परं कलिर्भूत्वा तासां पत्यर्थमंबरे

7.34.20

ममानुरुपो नायं व इति विह्वलचेतसाम् ॥
केचिद्वीरा धर्मपरा रणरङ्गान्न चालिताः

7.34.21

ययुर्विष्णुपदं दिव्यं भित्वा मार्तंडमण्डलम् ॥
अनिरुद्धं रिपुं दृष्ट्वा केचिद्दैत्याः पलायिताः

7.34.22

केचित्स्वं स्वं रणं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥
तदा वृको महादैत्यः खरारूढो भयंकरः

7.34.23

आजगाम नदन् युद्धे धनुष्टंकारयन्मुहुः ॥
अनिरुद्धस्यापि चायं सिंजिनीसहितं धनुः

7.34.24

चिच्छेद दशभिर्बाणैर्वृकोऽपि रणदुर्मदः ॥
छिन्नधन्वानिरुद्धस्तु द्वितीयं धनुराददे

7.34.25

चिच्छेद दशभिर्बाणैर्वृकचापं महाबलः ॥
वृकस्त्रिशूलमुद्यम्य रुषा प्रस्फुरिताधरः ॥
ललज्जिह्वः प्रत्युवाचानिरुद्धं धन्विनां वरम्

7.34.26

वृकदैत्य उवाच -
अद्यैव त्वां हनिष्यामि क्षत्रियं स्वस्थविक्रमम् ॥
त्वया सेना हता मेऽद्य पश्य विक्रममद्‌भुतम्

7.34.27

अनिरुद्ध उवाच -
ये वदन्ति मुखेनेह ते कुर्वंति न किंचन ॥
अद्यैव त्वां हनिष्यामि पश्य मे विक्रमं परम्

7.34.28

न चेत्त्वां घातयिष्यामि शृणुताच्छपथं मम ॥
विप्रगोभ्रूणबालानां हत्या मे स्यात्सदैव हि

7.34.29

श्रीनारद उवाच -
वृकोऽपि शपथं कृत्वा खरारूढो महाबलः ॥
जघान तं त्रिशूलेनानिरुद्धं धन्विनां वरम्

7.34.30

तच्छूलं वामहस्तेन गृहीत्वा कार्ष्णिनन्दनः ॥
तताड सहसा राजन् वृकदैत्यं महाबलम्

7.34.31

तदासुरः कोपपूर्णो मुक्त्वाथ महतीं गदाम् ॥
चूर्णयामास सहसा चानिरुद्धरथं बलात्

7.34.32

प्राद्युम्निः शितधारेण खड्गेनारिभुजद्वयम् ॥
चिच्छेद भिदुरेणाशु शैलपक्षौ यथा वृषा

7.34.33

तदाभिन्नभुजो दैत्यः पद्‌भ्यामाकंपयन्भुवम्

7.34.34

विस्तीर्णं वदनं कृत्वा ललज्जिह्वं भयंकरम् ॥
करालदंष्ट्रः प्रपिबन्नाकाशं दैत्यपुंगवः

7.34.35

तिमिं तिमिंगिल इव प्राग्रसत्कार्ष्णिनन्दनम् ॥
दैत्योदरे कृष्णपौत्रः श्रीकृष्णस्यानुकंपया

7.34.36

न ममार महाराज कार्ष्णिर्मीनोदरे यथा ॥
वृकोदरे यथा कृष्णो यथा गोपा ह्यघोदरे

7.34.37

बकोदरे यथा कृष्णो यथा वृत्रोदरे वृषा ॥
हाहाकारे तदा जाते यदुसैन्ये विदेहराट्

7.34.38

गदो गदां समादाय बलदेवानुजो बली ॥
तताड मस्तके दैत्यं वृकं नाम महाबलम्

7.34.39

तदा हतशिरा दैत्यो रेजे क्षतजबिंदुभिः ॥
गरिकैर्जलधाराभिर्यथा विंध्याचलो नृप

7.34.40

फाल्गुनः स्वमसिं नीत्वा तत्पादौ चाञ्जसाहरत् ॥
छिन्नांघ्रिः स पपातोर्व्यां छिन्नपक्षो यथा गिरिः

7.34.41

अनिरुद्धस्तदुदरं भीत्वा खड्गेन निर्गतः ॥
जहार तच्छिरश्चायं यथा वज्रेण वृत्रहा

7.34.42

तदा जयजयारावो यदुसैन्ये बभूव ह ॥
देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा

7.34.43

अनिरुद्धोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥
कथितं ह्यद्‍भुतं चैतत्किं भूयः श्रोतुमिच्छसि

7.34.34

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
वृकदैत्यवधो नाम चतुस्त्रिंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc