भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.20

7.20.1

कौरव-यादवयुद्धम्
श्रीनारद उवाच -
तदैव कौरवाः सर्वे निर्गता दीप्तमन्यवः ॥
स्वैः स्वैर्बलैः समायुक्ता योद्धुं प्रद्युम्नसंमुखे

7.20.2

विजयध्वजसंयुक्ता रत्‍नकंबलमण्डिताः ॥
गजाः षष्टिसहस्राणि निर्ययुः स्वर्णशृंखलाः

7.20.3

प्रलयाब्धिमहावर्तसंघर्षध्वनिकारिणाम् ॥
गजाः षष्टिसहस्राणि दुंदुभीनां विनिर्गताः

7.20.4

गजा गावो बृहद्‌भल्ला लोहकंचुकमंडिताः ॥
शिरस्रङ्‌‍मौलिसंयुक्ता द्विलक्षाणि विनिर्ययुः

7.20.5

हेमकंकणकेयूरकिरीटवरकुंडलाः ॥
गजस्थाश्च द्विलक्षाणि निर्ययुः स्वर्णकंचुकाः

7.20.6

पीतकंचुकसंयुक्तास्तिर्यगुष्णीषशालिनः ॥
गजस्थाश्च द्विलक्षाणि संग्रामे लब्धकीर्तयः

7.20.7

रक्तांबरधराः केचिद्‌रक्तभूषणभूषिताः ॥
रक्तकंबलसंयुक्तैर्गजैरुच्चैर्विनिर्गताः

7.20.8

कृष्णांबरधरा नागैर्हरिद्‌वस्त्रसमावृताः ॥
केचिच्छुक्लांबराः केचिन्निर्ययुः पाटलांबराः

7.20.9

रथैश्च देवधिष्ण्याभैर्मृगेंद्रध्वजशोभितैः ॥
पतत्पताकैरत्युच्चैर्निर्ययुः कोटिशो नृपाः

7.20.10

आंगैर्बांगैः सैंधवैश्च चंचलैस्तुरगैर्नृपाः ॥
मनोजवैः स्वर्णभूषैर्निर्ययुः शस्त्रसंवृताः

7.20.11

समंतान्निर्ययुर्वीरा लोहकंचुकण्डीताः ॥
विद्याधरसमा राजन्संकुला युद्धशालिनः

7.20.12

जगुर्यशः कौरवाणां सूतमागधवन्दिनः ॥
भेरीमृदंगैः पटहैरानकैर्युद्धनिःस्वनैः

7.20.13

मृगेन्द्रध्वजसंयुक्तैः शुक्लवाहनियोजितैः ॥
व्यजनैर्वज्रदण्डैश्च चामरांदोलराजितैः

7.20.14

चतुर्योजनमात्रेण चंद्रमण्डलचारुणा ॥
छत्रेण मण्डिते राजभिर्दत्तेन मनोहरे

7.20.15

दुर्योधनो बभौ सैन्ये महति स्यंदने स्थितः ॥
तथाऽन्ये धार्तराष्ट्राश्च स्यन्दने स्यन्दने स्थिताः

7.20.16

चतुर्योजनमात्रैश्च छत्रैर्मुक्ताविलंबिभिः ॥
सुरथेनातिभीष्मेण कृपेण गुरुणा सह

7.20.17

बाह्लीककर्णशल्यैश्च सोमदत्तेन धीमता ॥
अश्वत्थाम्ना च धौम्येन लक्ष्मणेन धनुष्मता

7.20.18

शकुनिना च वीरेण तथा दुःशासनेन च ॥
संजयेन तथा साक्षाद्‍भूरिणा यज्ञकेतुना

7.20.19

सुयोधनो नृपो रेजे यथा शक्रो मरुद्‌गणैः ॥
इन्द्रप्रस्थात्पांडुपुत्रैः प्रेषितं पृतनाद्वयम्

7.20.20

तदैव चागतं राजन् कौरवाणां सहायकृत् ॥
अक्षौहिणीभिः षोडशभिः कुरूणां चलतां तदा

7.20.21

चचाल भूर्दिशो नेदू रजोव्याप्तं नभोऽभवत् ॥
तारकेव बभौ सूर्यो गजाश्वरथरेणूभिः

7.20.22

अंधकारोऽभवद्‍भूमौ देवाः सर्वेऽपि शंकिताः ॥
यत्र तत्र गजानां च नोदनाभिश्च भूरुहाः

7.20.23

निपेतुस्तुरगैर्वीरैः क्षणं भूखण्डमण्डलम् ॥
सेना कुरूणां वृष्णीनां युयुधुश्च परस्परम्

7.20.24

तीक्ष्णैः शस्त्रैर्यथा सप्त समुद्रास्तरलैर्लये ॥
हया हयैरिभाश्चेभै रथिनो रथिभिः सह

7.20.25

श्येनैः श्येना इव क्रव्ये पत्तयः पत्तिभिर्मृधे ॥
महामात्यैर्महामात्याः सूताः सूतैर्नृपैर्नृपाः

7.20.26

युयुधुः क्रोधसंयुक्ताः सिंहैः सिंहा इवौजसा ॥
खड्गैः कुंतैः शक्तिभिश्च भल्लैः पट्टिशमुद्‌गरैः

7.20.27

गदाभिर्मुसलैश्चक्रैस्तोमरैर्भिंदिपालकैः ॥
शतघ्नीभिर्भुशुण्डीभिः कुठारैश्च स्फुरत्प्रभैः

7.20.28

चिच्छिदुर्बाणपटलैः शिरांसि क्रोधमूर्च्छिताः ॥
बाणांधकारे संजाते प्रद्युम्नो धन्विनां वरः

7.20.29

दुर्योधनेन युयुधे धनुष्टंकारयन्मुहुः ॥
अनिरुद्धश्च भीष्मेण दीप्तिमांश्च कृपेण वै

7.20.30

भानुर्द्रोणेन सांबास्तु बाह्लीकेन नृपेश्वरः ॥
मधुः कर्णेन चायुध्यद्‍बृहद्‌भानुः शलेन वै

7.20.31

चित्रभानुर्हरेः पुत्रः सोमदत्तेन धीमता ॥
अश्वत्थाम्ना वृकश्चैवारुणो धौम्येन मैथिल

7.20.32

पुष्करो लक्ष्मणेनाशु दुर्योधनसुतेन वै ॥
वेदबाहुः कृष्णसुतः शकुनेन महामृधे

7.20.33

दुःशासनेन समरे श्रुतदेवो हरेः सुतः ॥
तथा हि युयुधे युद्धे संजयेन सुनंदनः

7.20.34

विदुरेण गदः साक्षात्कृतवर्मा च भूरिणा ॥
अक्रूरो युयुधे राजन्नाहवे यज्ञकेतुना

7.20.35

एवं परस्परं युद्धं बभूव तुमुलं महत् ॥
कार्ष्णिर्विलोकयामास दुर्योधनबलं महत्

7.20.36

बाणसंधेन वाराहो दंष्ट्रया च यथार्णवम् ॥
बाणसंभिन्नकुम्भानां करिणां प्रपतंति खात्

7.20.37

मुक्ताफलानि रेजुः कौ रात्रौ तारागणा इव ॥
बाणैः संपातयामासू रथिनः सारथीन् रथान्

7.20.38

महामृधे मैथिलेंद्र वेगैर्वातो यथा तरून् ॥
दुर्योधनस्तदा प्राप्तो धनुष्टंकारयन्मुहुः

7.20.39

प्रद्युम्नं ताडयामास सायकैर्दशभिर्मृधे ॥
तान्प्रचिच्छेद भगवान् प्रद्युम्नो यादवेश्वरः

7.20.40

दुर्योधनः पुनस्तस्य कवचे सायकान् दश ॥
निचखान स्वर्णपुंखान् भित्वा वर्म तनौ गताः

7.20.41

सहस्रैर्बाणपटलैः सहस्राश्वाञ्जघान ह ॥
चिच्छेद बाणशतकैः कोदण्डं सगुणं परम्

7.20.52

शंबरारेर्महावीरो धृतराष्ट्रसुतो बली ॥
प्रद्युम्नस्तं रथं त्यक्त्वाथान्यमारुह्य सत्वरम्

7.20.43

कृष्णदत्तं धनुर्नीत्वा सज्जं कृत्वा विधानतः ॥
एकं बाणं समाधाय कर्णांतं तञ्चकर्ष ह

7.20.44

भुजदण्डस्य वेगेन तद्‌रथे निचकर्ष ह ॥
गृहीत्वा तद्‌रथं बाणो भ्रामयित्वा घटीद्वयम्

7.20.45

आकाशात्पातयामास कमण्डलुमिवार्भकः ।
पतनेन रथः सद्यश्चूर्णीभूतो बभूव ह

7.20.46

ससूताश्च हयाः सर्वे पञ्चतां प्रापुरग्रतः ॥
अन्यं रथं समास्थाय धार्तराष्ट्रो महाबलः

7.20.47

प्रद्युम्नं ताडयामास दशभिः सायकैमृधे ॥
तैस्ताडितो हरेः पुत्रो मालाहत इव द्विपः

7.20.48

कृष्णदत्ते च कोदण्दे तथैकं बाणमादधे ॥
बाणस्तं सरथं नीत्वा यावत्प्रागान्महांबरे

7.20.49

तावद्‌बाणो द्वितीयोऽपि तं गृहीत्वा ययौ त्वरम् ॥
तावत्तृतीयः संप्राप्तो नीत्वा तं मंदिराजिरे

7.20.50

धृतराष्ट्रसमीपे च सरथं साश्वसारथिम् ॥
आकाशात्पातयामास पद्मकोशमिवानिलः

7.20.51

बाणस्तं पातयित्वा तु रणे कार्ष्णिं समाययौ

7.20.52

पतनेन विशीर्णोऽभूदंगार इव तद्‌रथः ॥
सुयोधनो मूर्च्छितोऽभूदुद्वमन् रुधिरं मुखात्

7.20.20

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कौरवयुद्धवर्णनं नाम विंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc