भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.19

7.19.1

कौरवोपाख्यानम्
श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुर्ध्वजिनीभिः समन्वितः ॥
नादयन्दुंदुभीन्दीर्घान्दीर्घवेगः कुरून् ययौ

7.19.2

विंशतिर्योजनानां च मर्यादीकृततद्‌बले ॥
तस्थौ तच्छिबिराणां च विस्तारो दशयोजनम्

7.19.3

पंचयोजनमाश्रित्य तद्‌बले राजपद्धतिः ॥
धनाढ्यानां च वैश्यानामापणानि सहस्रशः

7.19.4

तथा रत्‍नपरीक्षाणां वस्त्रव्यापारकारिणाम् ॥
काचकरा वायकाश्च रंगकाराः कुलालकाः

7.19.5

कुंदकारास्तूलकाराः पटकारास्तथैव च ॥
टंककाराश्चित्रकाराः पत्रकाराश्च नापिताः

7.19.6

पट्टकारा रेतिकाराः पर्णकाराश्च शिल्पिनः ॥
लाक्षाकारा मालिनश्च रजकास्तैलिनस्तथा

7.19.7

तांबूलशोधिनस्तत्र चित्रपाषाणकर्मकाः ॥
अन्नभर्जकरास्तत्र काचभेदिन एव हि

7.19.8

मुक्तादीनां च रत्‍नानां सूक्ष्माणां रत्‍नवेधिनः ॥
एते कारुजनाः सर्वे दृश्यंते राजपद्धतौ

7.19.9

क्वचिद्‌भानुमतीर्लीला ऐंद्रजालविधायकाः ॥
क्वचिन्नटाश्च नृत्यंते युद्धं भल्लूकयोः क्वचित्

7.19.10

क्वचित्तु वानरी लीला डमरूवाद्यसंयुताः ॥
गायंति कुत्रचिद्राजन्सूतमागधवन्दिनः

7.19.11

वारांगनाश्च नृत्यंति भूषैर्द्वादशभिर्युताः ॥
दिव्यैः षोडशशृङ्गारैर्हरंत्यप्सरसां मनः

7.19.12

बन्धूनामपि सेनानां महांतका गजाह्वये ॥
चालनं संभ्रमोपेतं विह्वलैश्च जनैरभूत्

7.19.13

विदुद्रुवुर्जनाः सर्वे गृहेष्वापातितार्गलाः ॥
कोलाहलो महानासीद्‌गेहे गेहे जने जने

7.19.14

वीर्य्यशौर्य्यबलोपेताः कौरवाश्चक्रवर्तिनः ॥
आसमुद्राः क्षितीशेंद्रा जातास्तेऽप्यतिशंकिताः

7.19.15

प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥
कौरवेंद्रपुरं प्राप्तो धृतराष्ट्रं ददर्श ह

7.19.16

मदच्युतामास्य नृपस्य दंतिनां
कस्तूरिकाकुंकुमगंडशालिनाम् ॥
सिंदूरशुंडास्पदकर्णताडितैः
षडङ्‌घ्रिभिर्मण्डितमंदिराजिरम्

7.19.17

यं भीष्मकर्णगुरुशल्यकृपैश्च भूरि-
बाह्लीकधौम्यशकुनैः सह संजयेन ॥
दुःशासनेन विदुरेण च लक्ष्मणेन
दुर्योधनेन च कृपीसुतसोमदत्तैः

7.19.18

श्रीयज्ञकेतुसहितैः सहितं नृपेन्द्रं
लीलातपत्रसितचामरहेमपीठैः ॥
संसेवितं परिसमेत्य गजाह्वयेशं
नत्वोद्धवः प्रणत आह कृतांजलिस्तम्

7.19.19

उद्धव उवाच -
प्रद्युम्नेन प्रकथितं शृणु राजेंद्रसत्तम ॥
उग्रसेनः क्षितीशेंद्रो यादवेंद्रो महाबलः

7.19.20

विजित्य नृपतीन्सर्वान् राजसूयं करिष्यति ॥
प्रेषितस्तेन सेनाभिः प्रद्युम्नो रुक्मिणीसुतः

7.19.21

जेतुं महोद्‌भटान् वीराञ्जंबुद्वीपस्थितान्नृपान् ॥
चैद्यशाल्वजरासंधदंतवक्त्रादिभूपतीन्

7.19.22

विजित्य चागतः कार्ष्णिस्तस्मै यच्छ बलिं बहु ॥
उपायनं च दातव्यं बंधूनामैक्यकाम्यया

7.19.23

माभूत्कुरूणां वृष्णीनां कलिर्नोचेद्‌भविष्यति ॥
तेनोदितं मे कथितं तत्क्षमस्व नृपेश्वर ॥
दूतस्य हीनदोषस्य त्वयोक्तं यद्वदामि तत्

7.19.24

श्रीनारद उवाच -
तच्छ्रुत्वा कौरवाः सर्वे राजन्संजातमन्यवः ॥
वीर्य्यशौर्य्यमदोन्नद्धा उचुः प्रस्फुरिताधराः

7.19.25

कौरवा ऊचुः
दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥
सिंहोपरि प्रधावंति शृगाला दुर्बला वने

7.19.26

अस्मत्सकाशात्संबंधा अस्मद्दत्तनृपासनाः ॥
दातॄणां प्रतिकूलास्तु दातॄणां फणीनो यथा

7.19.27

वृष्णयो भीरवः सर्वे युधि विक्लवचेतसः ॥
तथैव शासनं कर्तुं प्रवृत्ता हि गतह्रियः

7.19.28

उग्रसेनोऽल्पवीर्यश्च जंबूद्वीपस्थितान्नृपान् ॥
विजित्याहो बलिं नीत्वा राजसूयं करिष्यति

7.19.29

यत्र भीष्मश्च कर्णश्च द्रोणो दुर्योधनादयः ॥
तत्र त्वं प्रेषितो मंत्री प्रद्युम्नेन कुबुद्धिना

7.19.30

तस्माद्यात पुरीमध्ये यूयं वै जीवनेच्छया ॥
न चेद्यास्यथ वः सर्वान्नयामो यमसादनम्

7.19.31

श्रीनारद उवाच -
इत्थं श्रीकृष्णविमुखैः कौरवैः परिभाषितम् ॥
श्रुत्वोद्धवः शम्बरारिमेत्य सर्वमुवाच ह

7.19.32

कौरवोक्तं वचः श्रुत्वा प्रद्युम्नो धन्विनां वरः ॥
प्रतिशार्ङ्‌गं संगृहीत्वा रोषात्प्रस्फुरिताधरः

7.19.33

प्रद्युम्न उवाच -
कौरवान्घातयिष्यामि बंधूनपि मदोद्धतान् ॥
बाणैस्तीक्ष्णैर्यथा योगी नियमैर्देहजा रुजः

7.19.34

यदूनां सैन्यचक्रेषु बलिं यो न प्रदास्यति ॥
कौरवेभ्योऽपि स पुमान् पितुर्मातुर्न चौरसः

7.19.35

श्रीनारद उवाच -
तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥
गजाह्वयं ययुः सैन्यै राजन्संजातमन्यवः

7.19.19

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कौरवोपाख्यानं नामैकोनविंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc