भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.15

7.15.1

केकयविजयम्
श्रीनारद उवाच -
दिग्जयस्य मिषेणासौ भूभारं हारयन्मुहुः ॥
प्रद्युम्नो भगवान्साक्षादंगदेशं ततो ययौ

7.15.2

अंगेशोऽन्तःपुराधीशो गृहीतो यादवैर्वने ॥
सोऽपि तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने

7.15.3

उड्डीशडामराधीशो बृहद्‌बाहुर्महाबलः ॥
न ददौ स बलिं तस्मै प्रद्युम्नाय मदोत्कटः

7.15.4

प्रद्युम्नप्रेषितो वीरः साम्बो जांबवतीसुतः ॥
एकाकी प्रययौ धन्वी रथेनादित्यवर्चसा

7.15.5

छादयामास बाणौघैर्डामरं नगरं नृप ॥
गिरिं तुषारपटलैर्जीमूत इव सर्वतः

7.15.6

तदा तु डामराधीशो धर्षितः सन्कृतांजलिः ॥
बलिं ददौ नमस्कृत्य प्रद्युम्नाय महात्मने

7.15.7

वंगदेशाधिपो वीरो वीरधन्वा मदोत्कटः ॥
आययौ संमुखे योद्धुमक्षौहिण्याऽऽवृतो बलि

7.15.8

चंद्रभानुर्हरेः पुत्रः प्रद्युम्नस्य प्रपश्यतः ॥
बिभेद तद्‌बलं बाणैः कुवाक्यैर्मित्रतामिव

7.15.9

करिणां बाणभिन्नानां शिरसो मौक्तिकानि च ॥
प्रस्फुरंति निपेतुः कौ रात्रौ तारागणा इव

7.15.10

निपेतू रथिनोऽनेका गजाश्वाश्च पदातयः ॥
तद्‌बाणैश्छिन्नशिरसः कूष्मांडशकला इव

7.15.11

क्षणमात्रेण तत्सैन्यक्षतजानां नदी ह्यभूत् ॥
मनस्विनां हर्षकरी त्रस्तानां भयकारिणी

7.15.12

मुण्डैः कबंधैर्धावद्‌भिर्हरिकेयुरकुंडलैः ॥
किरीटैः कंकणैः शस्त्रैर्महामारीव भूर्बभौ

7.15.13

कूष्माण्डोन्मादवेताला भैरवा ब्रह्मराक्षसाः ॥
शिरांसि जगृहुर्वेगाद्धरमालार्थहेतवे

7.15.14

इत्थं निपातिते सैन्ये वीरधन्वा समागतः ॥
चंद्रभानुं तताडाशु गदया वज्रकल्पया

7.15.15

तद्‌गदातिप्रहारेण न चचाल हरेः सुतः ॥
चंद्रभानुर्गदां नीत्वा तं तताड भुजांतरे

7.15.16

गदाप्रहारव्यथितो मूर्छितो धरणीतले ॥
पपात पादप इव प्रोद्वमन् रुधिरं मुखात्

7.15.17

लब्धसंज्ञो मुहूर्तेन वंगदेशाधिपो नृपः ॥
प्रययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः

7.15.18

याते दत्तबलौ राजन्नगरं वीरधन्वनि ॥
ब्रह्मपुत्रं समुत्तीर्य प्रद्युम्नोऽमितविक्रमः

7.15.19

आशीमाधिपतिं बिंबं गृहीत्वा यादवेश्वरः ॥
बलिमादाय यदुभिः कामरूपं समाययौ

7.15.20

कामरुपेश्वरः पुंड्र ऐंद्रजालविशारदः ॥
निर्गतः सेनया सार्द्धं योद्धुं प्रद्युम्नसंमुखे

7.15.21

आशीमानां यदूनां च घोरं युद्धं बभूव ह ॥
बाणैः कुठारैः परिघैः शूलैः खड्गर्ष्टिशक्तिभिः

7.15.22

पुंड्रो विद्याश्चकाराशु पैशाचोरगराक्षसीः ॥
ततो गुह्यकगंधर्वाः सर्वतो मैथिलेश्वर

7.15.23

प्रधावंतो रणे राजन्पिशाचाः पिशिताशनाः ॥
कोटिशः कोटिशोंऽगारान् क्षेपयंतो मुहुर्मुहुः

7.15.24

क्षणमात्रेण तत्सैन्यं वमंतो गरलं मुखात् ॥
फूत्कारमपि कुर्वंतो दंदशूकाः समागताः

7.15.25

खरारूढा दंतवक्रा ललज्जिह्वाभयंकराः ॥
चर्वयंतो नरान् युद्धे धावंतो राक्षसास्ततः

7.15.26

यक्षाश्च सिंहवदना तुरंगवदना नृप ॥
छिंधि भिंधीति गर्जंतः शूलहस्ता इतस्ततः

7.15.27

क्षणमात्रेण मेघानां समूहैश्छादितं नभः ॥
अंधकारो ह्यभूद्राजन् रजसा वातवेगतः

7.15.28

भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥
भयं प्रापुर्महायुद्धे न्यस्तशस्त्रा यदूत्तमाः

7.15.29

कृष्णदत्तं धनुः कार्ष्णिरादाय प्रतिकारवित् ॥
सत्त्वात्मिकां महाविद्यां बाणैः प्रायुङ्क्त मैथिल

7.15.30

बाणैः पिशाचानुरगान् सयक्षान्
रक्षांसि गंधर्वघनांधकारान् ॥
बिभेद दिव्यैः प्रभवैर्यथा हि
नीहारमेघान् किरणैर्विवस्वान्

7.15.32

बाणैश्च पुंड्रं सरथं सवाहनं
तं भ्रामयित्वा घटिकाद्वयं खे ॥
निपातयामास रणे सपत्‍नं
पद्मं पृथिव्यामिव मारुतः किल ।३१॥
बुद्धस्तदा तं शरणं समेत्य
प्रधर्षितः सद्य उपायनानि ॥
लक्षैर्हयानामयुतैर्गजानां
युतानि दत्त्वा प्रणनाम कार्ष्णिम्

7.15.33

विपाशां स तदोत्तीर्य सैन्यैः शोणनदं नृप ॥
कैकयानाययौ धन्वी प्रद्युम्नो यदुनंदनः

7.15.34

कैकयस्याधिपो राजा धृतकेतुर्महाबलः ॥
वसुदेवस्वसुः साक्षाच्छ्रुतकीर्तेः पतिर्महान्

7.15.35

प्रद्युम्नमर्हयामास धृतकेतुः स यादवम् ॥
भक्त्या परमया राजञ्छ्रीकृष्णस्य प्रभाववित्

7.15.15

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कैकयविजयो नाम पंचदशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc