भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.14

7.14.1

द्रविडदेशजयम्
श्रीनारद उवाच -
ऋषभाद्रिं ततो दृष्ट्वा श्रीरङ्गाख्यं हरेः सुतः ॥
कामः कार्ष्णिः पुरीं कांचीं नदीं प्राचीं सरिद्वराम् ॥

7.14.2

कावेरीं च तदोत्तीर्य सह्याद्रिविषयं ययौ ॥
यादवैः सहितः साक्षात्प्रद्युम्नो भगवान्हरिः

7.14.3

शिबिरेषु समायान्तं मुक्तकेशं दिगंबरम् ॥
अवधूतं प्रधावन्तं पुष्टांगं रजसाऽऽवृतम्

7.14.4

बालास्तमनुधावन्तस्तलशब्दैरितस्ततः ॥
कोलाहलं प्रकुर्वंतो हसंतो मैथिलेश्वर

7.14.5

तं दृष्ट्वा चोद्धवं प्राह कर्ष्णिर्बुद्धिमतां वरः

7.14.6

प्रद्युम्न उवाच -
कोऽयं पुष्टवपुर्धावन्बालोन्मत्तपिशाचवत् ॥
तिरस्कृतोऽपि हसति जनैरानन्दवान्महान्

7.14.7

उद्धव उवाच -
अयं परमहंसाख्योऽवधूतो वा हरेः कला ॥
सदानंदमयः साक्षद्दत्तात्रेयो महामुनिः

7.14.8

यस्य प्रसादात्परमां सिद्धिं प्रापुः परे नृपाः ॥
सहस्रार्जुनमुख्या ये यदुकायाधवादयः

7.14.9

श्रीनारद उवाच -
इति श्रुत्वा शंबरारिर्नत्वा संपूज्य तं मुनिम् ॥
संस्थाप्य चासने दिव्ये पप्रच्छेदं यदूत्तमः

7.14.10

प्रद्युम्न उवाच -
भगवन्मे हृदिस्थं वै सन्देहं नाशय प्रभो ॥
जगतो ब्रह्ममार्गांश्च हेत्वंतं ब्रूहि तत्वतः

7.14.11

दत्तात्रेय उवाच -
दृश्यते न वसुर्यावत्तावदुल्काप्रयोजनम् ॥
प्राप्ते वशे महानंदेऽथोल्कायाः किं प्रयोजनम्

7.14.12

तावदास्ते जगत्साधो यावत्तत्वं न वेद्यते ॥
परस्मिन्ब्रह्मणि प्राप्ते जगतः किं प्रयोजनम्

7.14.13

आस्यबिंबो यथाऽऽदर्शे पश्यते न परं वपुः ॥
प्रधानार्थे तथा जीवो ज्ञानेनासौ परात्परम्

7.14.14

यथा सूर्योदये सर्वं वस्तु नेत्रेण दृश्यते ॥
तथा ज्ञानोदये ब्रह्मतत्वं जीवेन सर्वतः

7.14.15

श्रीनारद उवाच -
इति श्रुत्वाथ तं नत्वा प्रद्युम्नो यादवेश्वरः ॥
वैकुण्ठाद्रिं द्राविडेषु ययौ सेनासमन्वितः

7.14.16

सत्यवाग्धर्मतत्वज्ञो राजर्षिर्द्राविडेश्वरः ॥
प्रद्युम्नं पूजयामास भक्त्या परमया युतः

7.14.17

श्रीशैलदर्शनं कृत्वा गिरिशालयमद्‌भुतम् ॥
स्कंदं वीक्ष्य ततो राजन् ययौ पंपासरोवरे

7.14.18

गोदावरीं भीमरथीं गतः श्रीद्वारकेश्वरः ॥
प्रदर्शयन्हरेस्तीर्थं महेंद्राद्रिं ततो ययौ

7.14.19

महेन्द्राद्रिस्थितं रामं भार्गवं क्षत्रियांतकम् ॥
नत्वा प्रदक्षिणीकृत्य तत्र तस्थौ हरेः सुतः

7.14.20

रामस्तस्याशिषं दत्वा यादवानां बलाय वै ॥
चतुरंगाय राजेंद्र योगेनार्हणमाचरत्

7.14.21

भक्तसूपः प्रलेहश्च रुदिका दधिशाकजाः ॥
शिखरिण्यवलेहश्च बलका चक्षुखेरिणी

7.14.22

त्रिकोणशर्करायुक्तो बटको मधुशीर्षकः ॥
फेणिका चोपरिष्टश्च शतपत्र सछिद्रकः

7.14.23

चक्राभचिह्नकाश्चेत्थं सुधाकुण्डलिकाः स्मृताः ॥
घृतपूरो वायुपूरस्तथा चन्द्रकला स्मृताः

7.14.24

दधिस्थलीश्च कर्पूरनाडीस्थं खण्डमंडलम् ॥
गोधूमपरिखाश्चैव सुफलाढ्यास्तथैव च

7.14.25

दधिरूपो मोदकश्च शाकसौधान एव च ॥
मंडकापायसं युक्तं दधि गोघृतमेव च

7.14.26

हैयंगवीनमंडूरी कुपिका पर्पटस्तथा ॥
शक्तिका लसिका चैव सुवृत्संधाय एव ही

7.14.27

सुफलैश्च सितायुक्तैः फलानि विविधनी च ॥
यथा मोहनभोगैश्च लवणं च तथैव च

7.14.28

कषायो मधुरस्तिक्तः कटुरम्लस्त्वनेकधा ॥
षट्पंचाशत्तमश्चैव ह्येते भोगाः प्रकीर्तिताः

7.14.29

एतेषां भार्गवः शैलानकार्षीद्योगमास्थितः ॥
सैन्ये संभोजिते तत्र हस्तन्यूना न तेऽभवन्

7.14.30

वैभवं भार्गवस्यापि दृष्ट्वा सर्वेऽतिविस्मिताः ॥
प्रद्युम्नस्तं नमस्कृत्य यादवैः सहितस्तदा

7.14.31

सर्वेषां शृण्वतां राजन् पप्रच्छेदं हरेः सुतः ॥
प्रद्युम्न उवाच -
भगवन्भवता दत्तं सर्वेभ्यो भोजनं परम्

7.14.32

समृद्धयः सिद्धयश्च त्वदंघ्रावास्थिताः प्रभो ॥
सर्वेषां हरिभक्तानां प्रियो भक्तस्तु को हरेः ॥
एतन्मे ब्रूहि विप्रेंद्र त्वं परावरवित्तमः

7.14.33

परशुराम उवाच -
त्वं प्रभो किं न जानासि लोकवत्पृच्छसेऽथ माम् ॥
लोकसंग्रहमेवारात्कुर्वन् विचरसि क्षितौ

7.14.34

निष्किंचनो हरिपदाब्जपरागलुब्धः
श्रीमत्कथाश्रवणकीर्तनतत्परो यः ॥
तद्‌रूपसिंधुलहरीविनिमग्नचित्तः
श्रीकृष्णचंद्रदयितः कथितः स भक्तः

7.14.35

दांतो महानखिलजंगमवत्सलोऽयं
शांतस्तितिक्षुरतिकारुणिकः सुहृत्सत् ॥
लोकं पुनाति निजपादरजोभिरारा-
च्छ्रीकृष्णचंद्रदयितः कथितः परेश

7.14.36

यः पारमेष्ठ्यमखिलं न महेंद्रधिष्ण्यं
नो सार्वभौममनिशं न रसाधिपत्यम् ॥
नो योगसिद्धिमभितो न पुनर्भवं वा
वांछत्यलं परमपादरजः स भक्तः

7.14.37

निष्किंचनाः स्वकृतकर्मफलैर्विरागा
यत्तत्पदं हरिजना मुनयो महांतः ॥
भक्ता जुषंति हरिपादरजःप्रसक्ता
अन्ये विदंति न सुखं किल नैरपेक्ष्यम्

7.14.38

भक्तात्प्रियो न विदितः पुरुषोत्तमस्य
शंभुर्विधिर्न च रमा न च रौहिणेयः ॥
भक्ताननुव्रजति भक्तनिबद्धचित्त-
चूडामणिः सकललोकजनस्य कृष्णः

7.14.39

गच्छन्निजं जनमनु प्रपुनाति लोका-
नावेदयन्हरिजने स्वरुचिं महात्मा ॥
तस्मादतीव भजतां भगवान्मुकुंदो
मुक्तिं ददाति न कदापि सुभक्तियोगम्

7.14.40

श्रीनारद उवाच -
इति श्रुत्वा यादवेंद्रो नत्वा श्रीभार्गवोत्तमम् ॥
प्राच्यां दिशि ययौ राजन् गंगासागरसंगमम्

7.14.14

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
द्राविडदेशविजयो नाम चतुर्दशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc