भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 6.6

6.6.1

रुक्मिणीहरणप्रसङ्गे राजगणेभ्यः सह युद्धं तथा विजयम् -
श्रीनारद उवाच -
इत्थं विप्रबंधूनां सदाशीर्भिरभिनंदिता ।
देवीं पुनर्विप्रवधूः प्रणनाम मुहुर्मुहुः

6.6.2

त्यक्त्वा मुनिव्रतं भैष्मी गिरजागृहतस्ततः ।
सहालिभिः सखीभिश्च निश्चक्राम शनैः शनैः

6.6.3

कोटिचन्द्रप्रतीकाशां भैष्मीं कमललोचनाम् ।
अकस्माद्ददृशुर्वीराः सुनिधिं निर्धना यथा

6.6.4

आश्वारूढाश्च रथिनो गजिनश्च पदातयः ।
समागता रक्षिणस्ते मुमुहुर्वीक्ष्य रुक्मिणीम्

6.6.5

तदपांगस्मितैस्तीक्ष्णैः बाणैः कामधनुश्च्युतैः ।
उज्झितास्त्रा निपेतुः कावर्दिताः सैनिकास्तदा

6.6.6

रथेन वायुवेगेन घण्टामञ्जीरनादिना ।
नैःश्रेयसंभवैरश्वैर्युतेनातिपताकिना

6.6.7

शीघ्रं स्वसैन्यसंघट्टात्तत्सैन्यं संविदारयत् ।
वायुर्यथा पद्मवनं हरिर्दारुकसारथिः

6.6.8

स्त्रीकदम्बकमेत्याशु पश्यतां द्विषतां प्रभुः ।
समारोप्य रथं भैष्मीं तार्क्ष्यपुत्रः सुधामिव

6.6.9

देवानां पश्यतां राजन् राजकन्यां जहार ह ।
दिव्यं शस्त्रोत्तमं शार्ङ्गं धनुष्टंकारयन्मुहुः

6.6.10

ततो वेगेन महता स्वसैन्यं चागते हरौ ।
देवदुन्दुभयो नेदुर्यदुदुन्दुभयस्तदा

6.6.11

सिद्धाश्च सिद्धकन्याश्च श्रीकृष्णस्य रथोपरि ।
हर्षिता ववृषुर्देवाः पुष्पैर्नंदनसंभवै

6.6.12

ततो ययौ जयारावैः शनै रामयुतो हरिः ।
श्रृगालसंघमध्याच्च केसरी भागहृद्यथा

6.6.13

तदा कोलाहले जाते रुमिणीहरणे सति ।
बभूव रक्षकाणां च शस्त्राशस्त्रि परस्परम्

6.6.14

जरासंधवशाः सर्वे मानिनो नृपसत्तमाः ।
न सेहिरे स्वाभिभवं परं जातं यशःक्षयम्

6.6.15

अहो धिगस्मान्स्वयशो हृतं गोपैश्च धन्विनाम् ।
श्रृगालैरिव सिंहानामतः किं स्यात्पराजयः

6.6.16

एवमुक्त्वाः क्रोधपरा जगृहुः शस्त्रसंहतिम् ।
विसृज्य क्रीडनाक्षादीन् दंशिताः सैन्यसंयुताः

6.6.17

अक्षौहिणीद्वयेनापि पौंड्रकः क्रोधपूरितः ।
अक्षौहिणीत्रयेणापि महावीरो विदूरथः

6.6.18

अक्षौहिणीपञ्चयुतो दन्तवक्रोऽतिदारुणः ।
अक्षौहिणीत्रयेणाशु शाल्वो राजपुरेश्वरः

6.6.19

अक्षौहिणीभिर्दशभिर्जरासंधो महाबलः ।
आययौ संमुखे योद्धुं यादवानां महात्मनाम्

6.6.20

अन्येऽपि चैद्यपक्षीया योद्धुं श्रीकृष्णसंमुखे ।
धनुष्टंकारयंतस्ते समाजग्मुः सहस्रशः

6.6.21

प्रलयाब्धिसमं सैन्यं समालोक्य यदूत्तमाः ।
तर्त्तुमाजग्मुरारात्ते कृष्णकैवर्त्तपोतकाः

6.6.22

बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ।
सैन्ययोश्च स्वपरयोर्देवदानवयोर्यथा

6.6.23

रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।
गजा गजैर्युयुधिरे तुरगाश्च तुरंगभैः

6.6.24

शस्त्रांधकारे संजाते रुक्मिणीं भयविह्वलाम् ।
विलोक्य भगवान्देवो मा भैष्टेत्यभयं ददौ

6.6.25

बलदेवानुजो वीरो गदो धुन्वमहद्धनुः ।
विवेश शत्रुसंघट्टं वनं वह्निरिव प्रभुः

6.6.26

गदबाणविभिन्नांगा रथिनश्छिन्नकंचुकाः ।
हताश्वा हतसूताश्च निपेतुर्भूमिमण्डले

6.6.27

पदातयश्छिन्नपदा गदबाणागतव्यथाः ।
निपेतुर्भूतले राजन् वृक्षा वातहता इव

6.6.28

अश्वारुढाः केऽपि वीरा गदबाणैर्विदारिताः ।
पेतू रणांगणे साश्वा बृहतीफलवन्नृप

6.6.29

गदबाणैर्भिन्नकुम्भा मध्ये मध्ये विदारिताः ।
विरेजुः पतिता भूमौ कूष्मांडशकला इव

6.6.30

ततः पलायितं सैन्यं दृष्ट्वा शाल्वो महाबलः ।
गदं तताड गदया गदायुद्धविशारदः

6.6.31

गदाविद्धो गदो धन्वी गदायुद्धप्रभाववित् ।
धनुर्युद्धं तु संत्यज्य तत्कालान्मनसा त्वरम्

6.6.32

परां व्यथां गते युद्धे पतितोऽपि समुत्थितः ।
तदाऽग्रजेन या दत्ता तां गदा तु गदोऽग्रहीत्

6.6.33

लक्षभारमयी गुर्वी दृढा कौमोदकी यथा ।
तया गदोऽहनच्छाल्वं वज्रेणेंद्रो यथा गिरिम्

6.6.34

गदाप्रहारमथिते शाल्वे निपतिते भुवि ।
पौंड्रकोऽथ जरासंधो दन्तवक्रो विदूरथः

6.6.35

चत्वार आययुस्तत्र गदोपरि रुषान्विताः ।
पौंड्रकोऽपि महावीरो गदस्य रथगं ध्वजम्

6.6.36

चिच्छेद दशभिर्बाणैः कुवाक्यैर्मित्रतामिव ।
दन्तवक्रस्तु गदया गदस्यापि रथं शुभम् ।
चूर्णयामास राजेंद्र दण्डेनेव सुमृद्धटम्

6.6.37

तथाऽश्वांश्च जरासंधः सारथि च विदूरथः ।
पातयामास भूपृष्ठे शितैर्बाणैर्विदेहराट्

6.6.38

ततो मुसलमादाय बलदेवस्त्वरन्बली ।
विकराले मुखे भीमे दन्तवक्रमताडयत्

6.6.39

ततो मुसलघातेन दन्तवक्रस्य युध्यतः ।
मुखे वक्रोऽपि यो दन्तः स तु भूमौ पपात ह

6.6.40

तदा हसति दैत्यारौ रुक्मिणीसहिते हरौ ।
पौंड्रकं च जरासंधं तथा दुष्टं विदूरथम्

6.6.41

जघान मुसलेनाशु बलदेवो रुषान्वितः ।
त्रयोऽपि पतिता युद्धे मूर्छिताः क्षतजाप्लुताः

6.6.42

सेनां समागतां सर्वां समाकृष्य हलेन वै ।
मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः

6.6.43

दशयोजनपर्यंतं रथेभाश्वपदातयः ।
पेशिताश्चूर्णिता भूमौ शयना धरणीं गताः

6.6.44

जरासंधादयः सर्वे मृत्युशेषा नृपाः परे ।
पलायिताश्चैद्यमेत्य प्रोचुर्नष्टोत्सवं भृशम्

6.6.45

भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।
किमेकेन विवाहेन भविता ते शतं भुवि

6.6.46

अद्यैव द्वारकां गत्वा बद्ध्वा रामं समाधवम् ।
अयादवीं करिष्यामः पृथ्वीं सागरमेखलाम्

6.6.47

एवं सम्बोधितो मित्रैश्चैद्योऽगाच्चंद्रिकापुरम् ।
ययुः स्वं स्वं पुरं सर्वे हतशेषा नृपास्ततः

6.6.6

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
रुक्मिणीहरणे यदुविजयो नाम षष्ठोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc