भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 6.7

6.7.1

श्रीनारद उवाच ॥
रुक्मिण्याहरणं श्रुत्वा मित्राणां च पराभवम् ॥
प्रतिज्ञामकरोद्रुक्मी शृण्वतां सर्वभूभुजाम्

6.7.2

अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् ॥
कुंडिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः

6.7.3

इत्युक्त्वा कवचं दिव्यं घनमम्बुदनिर्मितम् ॥
शिरस्त्राणां सिंधुजं च स दधार महोद्भटः

6.7.4

सौवीरस्य धनुः शालि लाटजं चेषुधिद्वयम् ॥
आदाय म्लेच्छदेशस्य खड्गं चर्म च कौटजम्

6.7.6

येठरस्य महाशक्तिं गुर्ज्जराटभवां गदाम् ॥
परिघं वंगजं धृत्वा हस्तत्राणं च कौंकणम् ॥ ५ ।
बद्धगोधांगुलित्राणः किरीटीरत्नकुण्डलः ॥
रुक्मांगदस्तदा रुक्मी युद्धं कर्तुं मनो दधे

6.7.7

जैत्ररथं समारुह्य चंचलाश्वनियोजितम् ॥
पृष्ठतोन्वगमत्कृष्णं कर्षन्नक्षौहिणीं द्वयम्

6.7.8

पुनः समागतां दृष्ट्वा सेनां रामो महाबलः ॥
तया युयोध समरे यदुसेनासमन्वितः

6.7.9

तिष्ठतिष्ठेति देवेशं विसृजन्परुषं वचः॥
संप्राप्नोति रथं रुक्मी धनुष्टंकारयन्मुहुः

6.7.6.7.10

त्वरं मुंच स्वसारं मे यदि जीवितुमिच्छसि ॥
न चेत्त्वां सबलं सद्यो नयामि यमसादनम्

6.7.11

ययातिशापसंमृष्टो गोपालोच्छिष्टभुग्भवान् ॥
जरासंधभयाद्भीतो यवनाग्रात्पलायितः

6.7.12

इत्युक्त्वेषुधितः कृष्ण बाणं चापे निधाय सः ॥
नियम्य कर्णपर्यंतं निचखान हरेर्हृदि

6.7.13

संताडितोपि भगवानन्धनुर्ज्यां तस्य नादिनीम्॥
चिच्छेद सायकेनाशु गरुडः पन्नगो यथा

6.7.14

निधाय शीघ्रं कोदंडं शिंजिनीं स्वर्णभूषिताम् ॥
रूक्मी तु दशभिर्बाणैः संजघान हरिं रणे

6.7.15

हरिरेकेन बाणेन शिंजिनी सहितं धनुः ॥
चिच्छेद रुक्मिणः सद्यो ज्ञानेनेवागुणामयम्

6.7.16

कृष्णो मोघेन बाणेन मंध्यतस्तां द्विधाकरोत् ॥
रुक्मिणं तु शतैर्बार्णैः सं तताड मृधे हरिः

6.7.17

छिन्नधन्वाथ वैदर्भो महाशक्तिं स्फुरत्प्रभाम् ॥
प्राहरद्धरये शक्तिं विज्ञानाय यथा मुनिः

6.7.19

तताड गदया तां वै गदाधारी गदा- ग्रजः ॥
द्विधाभूता महाशक्ति रुक्मेः सूतं जघान ह ।! १८ ॥
कौमोदकी गदा गुर्वी पतंती वेगधारिणी ॥
तद्रथं चूर्णयामास साश्वं शैलं यथा पविः ॥

6.7.6.7.20

प्राहरद्धरये सोपि गदां स्वां भीष्मकात्मजः ॥
चक्रेण चूर्णयामास भगवानपि तां पुनः

6.7.21

परिघं वंगजं नीत्वा रुक्मी रुक्मांगदो बली ॥
जघान श्रीहरिं स्कंधे जगर्ज घनवन्मृधे

6.7.22

सन्ताडितोपि भगवान्मालाहतैव द्विपः ॥
तेनैव परिघेणापि तं जघान रणांगणे

6.7.23

परिघाभिहतो रुक्मी किंचिद्व्याकुलमानसः ॥
भर्त्सयन्माधवं ह्याजौ जग्राह खङ्गचर्मणी

6.7.24

तत्खड्गं चर्मणा छित्त्वा स्वखड्गं हरद्धरिः ॥
खड्गाग्रेण शिरस्त्राणं कंचुकं चिच्छिदे महत्

6.7.25

हस्तत्राणेपि युगपदेते छिन्नीकृते मृधे ॥
खङ्गमुष्टिकरं दृष्ट्वा रुक्मिणं समुपस्थितम्

6.7.26

गृहीत्वा भुजदण्डाभ्यां पातयित्वा महीतले ॥
तस्योपरि हरिः स्थित्वा यथा सिंहो मृगोपरि ॥
शितधारं नन्दकाख्यं खड्गं जग्राह रोषतः

6.7.27

दृष्ट्वा भ्रातृवधोद्युक्तं रुक्मिणी भयविह्वला ॥
पतित्वा पादयोर्भर्तुरुवाच करुणं सती

6.7.28

श्रीरुक्मिण्युवाच ॥
अनन्तदेवेश जगन्निवास योगेश्वराचिंत्य जगत्पते त्वम् ॥
हंतुं न योग्यः करुणासमुद्र मद्भ्रातरं शालभुजम्महाभुजम्

6.7.29

श्रीनारद उवाच ॥
परित्रासैर्विलपतीं दुःखशुष्यन्मुखीं प्रियाम् ॥
रुद्धकण्ठीं सतीं वीक्ष्य न्यवर्त्तत हरिः स्वयम्

6.7.6.7.30

बद्ध्वा तं कटिबंधेन खड्गेन शितधारिणा ॥
वपनं श्मश्रुकेशानां चकारार्द्धमुखे हरिः

6.7.31

अक्षौहिणीद्वयं जित्वा रामः प्राप्तः ससैनिकः ॥
बद्धं विरूपिणं दीनं रुक्मिणन्तु ददर्श ह

6.7.32

विमुच्य बद्धं सदयः प्राह निभर्त्सयन्हरिम् ॥
असाध्विदं त्वया कृष्ण कृतं लोकजुगुप्सितम्

6.7.33

हास्यं वैशालिभद्राणां न हि चैतादृशं भवेत् ॥
यस्याः सहोदरे मुख्ये विरूपे च त्वयाकृते

6.7.34

किं वदिष्यति सापि त्वां भ्रातुर्वैरूप्यचिंतया ॥
मा शोकं कुरु कल्याणि स्वस्था भव शुचिस्मिते

6.7.35

आर्यपुत्रि महाबुद्धे मा शोकं कुरु दुर्मनाः ॥
सर्वकालकृतं मन्ये प्रियमप्रियमेव वा

6.7.36

वायोर्घनावलिरिव वशे स्यादखिलं जगत् ॥
तं कालमीश्वरं विद्धि विष्णुं कलयतां प्रभुम्

6.7.37

अहं ममेति भावोयं जगतो बंधकारणम् ॥
ताभ्यां विरहितो भावो मोक्ष एव न संशयः

6.7.38

सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ॥
मित्रो दासी न रिपवः संसारतमसा कृताः

6.7.39

एवं रामेण देवेन बोधितो भीष्मकात्मजः ॥
वैमनस्यं परित्यज्य रुक्मिणी च ययौ मुदम्

6.7.6.7.40

रुक्मी तु ताभ्यामुत्सृष्टो वितथात्ममनोरथः ॥
स्मरन्विरूपकरणं तपसे स मनोदधत्

6.7.41

वारितो मंत्रिमुख्यैश्च कुंडिनं न गतः पुनः ॥
चक्रे भोजकटं नाम निवासाय पुरं परम्

6.7.42

रुक्मिण्या सह गोविंदः सरामो यदुभिर्वृतः ॥
द्वारकां प्रययौ राजन्नादयञ्जयदुंदुभीन्॥

6.7.43

जाते महोत्सवे पुर्य्यां रुक्मिणीं रुचिराननाम् ॥
उपयेमे विधानेन मार्गशीर्षे हरिः स्वयम्

6.7.44

हरेर्विवाहे सति रुक्मिणीपतेः श्रीरुक्मिणी भूषितरुक्ममंदिरा ॥
पुरंदरस्यापि यथामरावती द्वारावती पुण्यवती तथा बभौ

6.7.45

भैष्मीविवाहस्य कथां विचित्रां शृणोति यः श्रावयते च भक्त्या ॥
इहैव भक्तो विभवेन युक्तः स एव मुक्तिं प्रतियाति मुक्तः

6.7.7

इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे श्रीरुक्मिणीविवाहोनाम सप्तमोध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc