भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.21

2.21.1

रासक्रीडा वर्णनम् -
श्रीनारद उवाच -
इत्थं कुंदवने रम्ये मालतीनां वने शुभे ।
आम्राणां नागरंगाणां निंबूनां सघने वने

2.21.2

दाडिमीनां च द्राक्षाणां बदामानां वने नृप ।
कदम्बानां श्रीफलानां कुटजानां तथैव च

2.21.3

वटानां पनसानां च पिप्पलानां वने शुभे ।
तुलसीकोविदाराणां केतकीकदलीवने

2.21.4

करिल्लकुञ्जबकुलमन्दाराणां वने हरिः ।
चरन्कामवनं प्रागाद्‌राजन् व्रजवधूवृतः

2.21.5

तत्रैव पर्वते कृष्णो ननाद मुरली कलम् ।
मूर्च्छिता विह्वला जातास्तन्नादेन व्रजांगनाः

2.21.6

मनोजबाणभिन्नांगाः श्लथन्नीव्यः सुरैः सह ।
कश्मलं प्रययू राजन् विमानेष्वमरांगनाः

2.21.7

चतुर्विधा जीवसंघाः स्थावरैर्मोहमास्थिताः ।
नद्यो नदाः स्थिरीभूताः पर्वता द्रवतां गताः

2.21.8

तत्पादचिह्नसंयुक्तो गिरिः कामवनेऽभवत् ।
तस्य दर्शनमात्रेण नरो याति कृतार्थताम्

2.21.10

अथ गोपीगणैः साकं श्रीकृष्णो राधिकापतिः ।
नंदीश्वरबृहत्सानुतटे रासं चकार ह ।
तत्र गोप्योऽतिमानिन्यो बभूवुर्मैथिलेश्वर ।
तास्त्यक्त्वा राधया सार्धं तत्रैवान्तर्दधे हरिः

2.21.11

गोप्यश्च सर्वा विरहातुरा भृशं
कृष्णं विना मैथिल निर्जने वने ।
ता बभ्रमुश्चाश्रुकलाकुलाक्ष्यो
यथा हरिण्यश्चकिता इतस्ततः

2.21.12

कृष्णं ह्यपश्यन्त्य इति व्यथां गता
यथा करिण्यः करिणं वने वने ।
यथा कुरर्यः कुररं व्रजांगनाः
सर्वा रुदन्त्यो विरहातुरा भृशम्

2.21.13

उन्मत्तवद्‌वृक्षलताकदम्बकं
सर्वा मिलित्वा च पृथग्वने वने ।
पप्रच्छुरारान्नृप नंदनंदनं
कुत्र स्थितं तं वदताशु भूरुहाः

2.21.14

श्रीकृष्ण कृष्णेति गिरा वदन्त्यः
श्रीकृष्णपादांबुजलग्नमानसाः ।
श्रीकृष्णरूपास्तु बभूवुरंगनाः
चित्रं न पेशस्कृतमेत्य कीटवत्

2.21.15

श्रीपादुकाधःस्थलगोपिगोप्यः
श्रीपादुकाब्जं शरनं प्रपन्नाः

2.21.16

ततस्तु तत्प्रसादेन तत्पदार्चनदर्शनात् ।
ददृशुर्गां तदा गोप्यो भगवत्पाद चिह्निताम्

2.21.17

श्रीबहुलाश्व उवाच -
राधेशो राधया सार्धं संकेतवटमाविशत् ।
प्रियायाः कबरीपुष्परचनां स चकार ह

2.21.19

श्रीनारद उवाच -
श्रीकृष्णो राधया सार्धं संकेतवटमाविशत् ।
चित्रपत्रावलीः कृष्ण पूर्णेन्दुमुखमंडले

2.21.20

एवं कृष्णो भद्रवनं खदिराणां वनं महत् ।
बिल्वानां च वनं पश्यन् कोकिलाख्यं वनं गतः

2.21.21

गोप्यः कृष्णं विचिन्वन्त्यो ददृशुस्तत्पदानि च ।
यवचक्रध्वजच्छत्रैः स्वस्तिकाङ्कुशबिन्दुभिः

2.21.22

अष्टकोणेन वज्रेण पद्मेनाभियुतानि च ।
नीलशङ्खघटैर्मत्स्यत्रिकोणेषूर्ध्वधारकैः

2.21.23

धनुर्गोखुरचन्द्रार्द्धशोभितानि महात्मनः ।
तत्पदान्यनुसारेण व्रजन्त्यो गोपिकास्ततः

2.21.24

तद्‌रजः सततं नीत्वा धृत्वा मूर्ध्नि व्रजांगनाः ।
पदान्यन्यानि ददृशुरन्यचिह्नान्वितानि च

2.21.25

केतुपद्मातपत्रैश्च यवेनाथोर्ध्वरेखया ।
चक्रचंद्रार्धांकुशकैर्बिंदुभिः शोभितानि च

2.21.26

लवंगलतिकाभिश्च विचित्राणि विदेहराट् ।
गदापाठीनशंखैश्च गिरिराजेन शक्तिभिः

2.21.27

सिंहासनरथाभ्यां च बिंदुद्वययुतानि च ।
वीक्ष्य प्राहू राधिकया गतोऽसौ नंदनंदनः

2.21.28

पश्यत्यस्तत्पादपद्मं कोकिलाख्यं वनं गताः ।
गोपीकोलाहलं श्रुत्वा राधिकां प्राह माधवः

2.21.29

कोटिचंद्रप्रतीकाशे राधे सर्प त्वरं प्रिये ।
आगता गोपिकाः सर्वास्त्वां नेष्यन्ति हि सर्वतः

2.21.30

तदा मानवती राधा भूत्वा प्राह रमापतिम् ।
रूपयौवनकौशल्यशीलगर्वसमन्विता

2.21.31

राधोवाच -
चलितुं न समर्थाऽहं मन्दिरान्ना विनिर्गता ।
सुकुमारी स्वेदयुक्ता कथं मां नयसि प्रिय

2.21.32

नारच उवाच -
इति वाक्यं ततः श्रुत्वा श्रीकृष्णो राधिकेश्वरः ।
पीतांबरेण दिव्येन वायुं तस्यै चकार ह

2.21.33

हस्तं गृहीत्वा तामाह गच्छ राधे यथासुखम् ।
कृष्णेनापि तदा प्रोक्ता न ययौ तेन वै पुनः

2.21.34

पृष्ठं दत्त्वाऽथ हरये तूष्णींभूता स्थिता पुनः ।
प्रियां मानवतीं राधां प्राह कृष्णः सतां प्रियः

2.21.35

श्रीभगवानुवाच -
विहाय गोपीरिह कामयाना
भजाम्यहं मानिनि चेतसा त्वाम् ।
यत्ते प्रियं तत्प्रकरोमि राधे
मे स्कंधमारुह्य सुखं व्रजाशु

2.21.36

श्रीनारद उवाच -
एवं प्रियां प्रियतमः स्कंधयानेप्सितां नृप ।
विहायान्तर्दधे कृष्णो स्वच्छन्दगतिरीश्वरः

2.21.37

गतमाना कीर्तिसुता भगवद्‌विरहातुरा ।
उच्चै रुरोद राजेन्द्र कोकिलाख्ये वने परे

2.21.38

तदैव यूथाः संप्राप्ता गोपीनां मैथिलेश्वर ।
तद् रोदनं दुःखतरं श्रुत्वा जग्मुस्त्रपातुराः

2.21.39

काश्चित्तां मकरंदैश्च स्नापयांचक्रुरीश्वरीम् ।
चंदनागुरु कस्तूरी कुङ्कुमद्रवसीकरैः

2.21.40

वायुं चक्रुस्तदंगेषु व्यजनान्दोलचामरैः ।
आश्वास्य वाग्भिः परमां नानाऽनुनयकोविदैः

2.21.41

तन्मुखान्मानिनो मानं श्रुत्वा कृष्णस्य गोपिकाः ।
मानवंत्यो मैथिलेन्द्र विस्मयं परमं ययुः

2.21.21

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
रासक्रीडावर्णनं नामैकविंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc