भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.20

2.20.1

रासक्रीडा वर्णनम् -
अथ कृष्णो हरिर्वारि लीलां कृत्त्वा मनोहरः ।
सर्वैर्गोपीगणैः सार्धं गिरिं गोवर्धनं ययौ

2.20.2

गोवर्धने कन्दरायां रत्‍नभूम्यां हरिः स्वयम् ।
रासं च राधया सार्धं रासेश्वर्या चकार ह

2.20.3

तत्र सिंहासने रम्ये तस्थतुः पुष्पसंकुले ।
तडिद्‌घनाविव गिरौ राधाकृष्णौ विरेजतुः

2.20.4

स्वामिन्यास्तत्र शृङ्गारं चक्रुः सख्यो मुदान्विताः ।
श्रीखण्डकुंकुमाद्यैश्च यावकागुरुकञ्जलैः

2.20.5

मकरन्दैः कीर्तिसुतां समभ्यर्च्य विधानतः ।
ददौ श्रीयमुना साक्षाद्‌राधायै नूपुराण्यलम्

2.20.6

मंजीरभूषणं दिव्यं श्रीगंगा जह्नुनन्दिनी ।
श्रीरमा किंकिणीजालं हारं श्रीमधुमाधवी

2.20.7

चंद्रहारं च विरजा कोटिचंद्रामलं शुभम् ।
ललिता कंचुकमणिं विशाखा कण्ठभूषणम्

2.20.8

अङ्गुलीयकरत्‍नानि ददौ चंद्रानना तदा ।
एकादशी राधिकायै रत्‍नाढ्यं कंकणद्वयम्

2.20.9

भुजकंकणरत्‍नानि शतचंद्रानना ददौ ।
तस्यै मधुमती साक्षात् स्फुरद्रत्‍नांगदद्वयम्

2.20.10

ताटंकयुगलं बन्दी कुंडले सुखदायिनी ।
आनंदी या सखी मुख्या राधायै भालतोरणम्

2.20.11

पद्मा सद्भालतिलकं बिन्दुं चंद्रकला ददौ ।
नासामौक्तिकमालोलं ददौ पद्मावती सती

2.20.12

बालार्कद्युतिसंयुक्तं भालपुष्पं मनोहरम् ।
श्रीराधायै ददौ राजन् चंद्रकांता सखी शुभा

2.20.13

शिरोमणिं सुंदरी च रत्‍नवेणीं प्रहर्षिणी ।
भूषणे चन्द्रसूर्याख्ये विद्युत्कोटिसमप्रभे

2.20.14

राधिकायै ददौ देवी वृन्दा वृन्दावनेश्वरी ।
एवं शृङ्गारसंस्फूर्जद्‌रूपया राधया हरिः

2.20.15

गिरिराजे बभौ राजन् यज्ञो दक्षिणया यथा ।
यत्र वै राधया रासे शृङ्गारोऽकारि मैथिल

2.20.16

तत्र गोवर्धने जातं स्थलं शृङ्गारमंडलम् ।
अथ कृष्णः स्वप्रियाभिर्ययौ चन्द्रसरोवरम्

2.20.17

चकार तज्जले क्रीडां गजीभिर्गजराडिव ।
तत्र चंद्रः समागत्य चंद्रकान्तौ मणी शुभौ

2.20.18

सहस्रदलपद्मे द्वे स्वामिन्यै हरये ददौ ।
अथ कृष्णो हरिः साक्षात् पश्यन् वृंदावनश्रियम्

2.20.19

प्रययौ बाहुलवनं लताजालसमन्वितम् ।
तत्र स्वेदसमायुक्तं वीक्ष्य सर्वं सखीजनम्

2.20.20

रागं तु मेघमल्लारं जगौ वंशीधरः स्वयम् ।
सद्यस्तत्रैव ववृषुर्मेधा अंबुकणांस्तथा

2.20.21

तदैव शीतलो वायुर्ववौ गंधमनोहरः ।
तेन गोपीगणाः सर्वे सुखं प्राप्ता विदेहराट्

2.20.22

जगुर्यशः श्रीमुरारेरुच्चैस्तत्र समन्विताः ।
तस्मात्तालवनं प्रागाच्छ्रीकृष्णो राधिकापतिः

2.20.23

रासमंडलमारेभे गायन् व्रजवधूवृतः ।
तत्र गोपीगणाः सर्वे स्वेदयुक्तास्तृषातुराः

2.20.24

गोप्य ऊचुः -
ऊचू रासेश्वरं रासे कृतांजलिपुटाः शनैः ।
दूरं वै यमुना देव तृषा जाता परं हि नः

2.20.25

कर्तव्यं भवताऽत्रैव रासे दिव्यं मनोहरम् ।
वारां विहारं पानं च करिष्यामो हरे वयम्

2.20.26

श्रीनारद उवाच -
जगत्कर्ता पालकस्त्वं संहारस्यापि नायकः ।
तच्छ्रुत्वा वेत्रदण्डेन कृष्णो भूमिं तताड ह

2.20.27

तदैव निर्गतः स्रोतो वेत्रगंगेति कथ्यते ।
यज्जलस्पर्शमात्रेण ब्रह्महत्या प्रमुच्यते

2.20.28

तत्र स्नात्वा नरः कोऽपि गोलोकं याति मैथिल ।
गोपीभी राधया सार्धं श्रीकृष्णो भगवान् हरिः

2.20.29

वारां विहारं कृतवान् देवो मदनमोहनः ।
ततः कुमुद्वनं प्राप्तो लतावृन्दं मनोहरम्

2.20.30

भ्रमरध्वनिसंयुक्तं चक्रे रासं सखीजनैः ।
राधा तत्रैव शृङ्गारं श्रीकृष्णस्य चकार ह

2.20.31

पुष्पैर्नानाविधैर्द्रव्यैः पश्यन्तीनां व्रजौकसाम् ।
चम्पकोद्यत्परिकरः स्वर्णयूथीभुजांगदः

2.20.32

सहस्रदलराजीव कर्णिकाविलसच्छ्रुतिः ।
मोहिनीमालिनीकुन्दकेतकीहारभृद्धरिः

2.20.33

कदम्बपुष्पविलसत्किरीटकटकोज्ज्वलः ।
मंदारपुष्पोत्तरीयपद्मयष्टिधरः प्रभुः

2.20.34

तुलसीमंजरीयुक्तवनमालाविभूषितः ।
एवं शृङ्गारतां प्राप्तः श्रीकृष्णः प्रियया स्वया

2.20.35

बभौ कुमुद्वने राजन् वसन्तो हर्षितो यथा
मृदंगवीणावशीभिर्मुरुयष्टिसुकांस्यकैः

2.20.36

तालशेषैस्तलैर्युक्ता जगुर्गोप्यो मनोहरम् ।
भैरवं मेघमल्लारं दीपकं मालकोशकम्

2.20.37

श्रीरागं चापि हिन्दोलं रागमेवं पृथक् पृथक् ।
अष्टतालैस्त्रिभिर्ग्रामैः स्वरैः सप्तभिरग्रतः

2.20.38

नृत्यैर्नानाविधै रम्यैः हावभावसमन्वितैः ।
तोषयन्त्यो हरिं राह्दां कटाक्षैर्व्रजगोपिकाः

2.20.39

गायन्मधुवनं प्रागात्सुंदरीगणसंवृतः ।
रासेश्वर्या रासलीलां चक्रे रासेश्वरः स्वयम्

2.20.40

वैशाखचंद्रकौमुद्या मालतीगंधवायुना ।
स्फुरत्सुगंधकह्लार पतद्‌रेणूत्करेण वै

2.20.41

विकचन् माधवीवृंदैः शोभिते निर्जने वने ।
रेमे गोपीगणैः कृष्णो नन्दने वृत्रहा यथा

2.20.20

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
रासक्रीडावर्णनं नाम विंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc