भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.17

2.17.1

राधाकृष्णसंगमः -
श्रीबहुलाश्व उवाच -
राधाकृष्णस्य चरितं शृण्वतो मे मनो मुने ।
न तृप्तिं याति शरदः पंकजे भ्रमरो यथा

2.17.2

रासेश्वर्या कृष्णपत्‍न्या तुलसीसेवने कृते ।
यद्‍बभूव ततो ब्रह्मन् तन्मे ब्रूहि तपोधन

2.17.3

श्रीनारद उवाच -
राधिकायाश्च विज्ञाय तुलसीसेवने तपः ।
प्रीतिं परीक्षन् श्रीकृष्णो वृषभानुपुरं ययौ

2.17.4

अद्‌भुतं गोपिकारूपं चलज्झंकारनूपुरम् ।
किंकिणीघण्टिकाशब्दमंगुलीयकभूषितम्

2.17.5

रत्‍नकंकणकेयूर मुक्ताहारविराजितम् ।
बालार्कताटंकलसत्कबरीपाशकौशलम्

2.17.6

नासामौक्तिकदिव्याभं श्यामकुन्तलसंकुलम् ।
धृत्वाऽसौ वृषभानोश्च मन्दिरं सन्ददर्श ह

2.17.7

प्राकारपरिखायुक्तं चतुर्द्वारसमन्वितम् ।
करीन्द्रैः कंजलाकारैर्द्वारि द्वारि मनोहरम्

2.17.8

वायुवेगैर्मनोवेगैश्चित्रवर्णैस्तुरंगमैः ।
हारचामरसंयुक्तं प्रोल्लसन्मण्डपाजिरम्

2.17.9

गवां गणैः सवत्सैश्च वृषैर्धर्मधुरन्धरैः ।
गोपाला यत्र गायन्ते वंशीवेत्रधरा नृप

2.17.10

वृषभानुवरस्यैवं पश्यन् मन्दिरकौशलम् ।
मायायुवतिवेषोऽसौ ततो ह्यन्तःपुरं ययौ

2.17.11

यत्र कोटिरविस्फूर्जत्कपाटस्तम्भपंक्तयः ।
रत्‍नाजिरेषु शोभन्ते ललनारत्‍नसंयुताः

2.17.12

वीणातालमृदंगादीन् वादयन्त्यो मनोहराः ।
पुष्पयष्टिसमायुक्ता गायन्त्यो राधिकागुणम्

2.17.13

तस्मिन्नन्तःपुरे दिव्यं भ्राजच्चोपवनं महत् ।
दाडिमीकुन्दमन्दारनिंबून्नतद्रुमावृतम्

2.17.14

केतकीमालतीवृंदैः माधवीभिः विराजितम् ।
तत्र राधानिकुंजोऽस्ति कल्पवृक्षसुगन्धिभृत्

2.17.15

पतन्ति यत्र भ्रमरा मधुमत्ता नृपेश्वर ।
गन्धाक्तः शीतलो वायुर्मन्दगामी वहत्यलम्

2.17.16

सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः ।
पुंस्कोकिला कोकिलाश्च मयूराः सारसाः शुकाः

2.17.17

कूजन्ते मधुरं नादं निकुंजशिखरेषु च ।
पुष्पशय्यासहस्राणि जलकुल्याः सहस्रशः

2.17.18

प्रोच्छलन्ति स्फुरत्स्फारा यत्र वै मेघमन्दिरे ।
बालार्ककुण्डलधराः चित्रवस्त्राम्बराननाः

2.17.19

वर्तन्ते कोटिशो यत्र सख्यस्तत्कर्मकौशलाः ।
तन्मध्ये राधिका राज्ञी भ्रमन्ती मन्दिराजिरे

2.17.20

काश्मीरपंकसंयुक्ते सूक्ष्मवस्त्रविराजिते ।
शिरीषपुष्पक्षितिजदलैरागुल्फपूरके

2.17.21

मालतीमकरन्दानां क्षरद्‌भिर्बिन्दुभिर्वृते ।
कोटिचंद्रप्रतीकाशा तन्वी कोमलविग्रहा ।
शनैः शनैः पादपद्मं चालयन्ती च कोमलम्

2.17.22

समागतां तां मणिमन्दिराजिरे
ददर्श राधा वृषभानुनन्दिनी ।
यत्तेजसा तल्ललनाहृतत्विषो
जातास्त्वरं चंद्रमसेव तारकाः

2.17.23

विज्ञाय तद्‌गौरवमुत्तमं मह-
दुत्थाय दोर्भ्यां परिरभ्य राधिका ।
दिव्यासने स्थाप्य सुलोकरीत्या
जलादिकं चार्हणमारभच्छुभम्

2.17.24

राधोवाच -
स्वागतं ते सखि शुभे नामधेयं वदाशु मे ।
भूरिभाग्यं ममैवाद्य भवत्याऽऽगतया स्वतः

2.17.25

त्वत्समानं दिव्यरूपं दृश्यते न हि भूतले ।
यत्र त्वं वर्तसे सुभ्रु पत्तनं धन्यमेव तत्

2.17.26

वद देवि सविस्तारं हेतुमागमनस्य च ।
मम योग्यं च यत्कार्यं वक्तव्यं तत्त्वया खलु

2.17.27

कटाक्षेण सुदीप्त्या च वचसा सुस्मितेन वै ।
गत्या कृत्या श्रीपतिवद्दृश्यते सांप्रतं मया

2.17.28

नित्यं शुभे मे मिलनार्थमाव्रज
न चेत् स्वसंकेतमलं विधेहि ।
येनैव संगो विधिना भवेद्धि
विधिर्भवत्या स सदा विधेयः

2.17.29

अयि त्वदात्माऽतिपरं प्रियो मे
त्वदाकृतिः श्रीव्रजराजनन्दनः ।
येनैव मे देवि हृतं तु चेत-
स्त्वय ननान्देव वधूर्दधामि तम्

2.17.30

श्रीनारद उवाच -
एवं राधावचः श्रुत्वा मायायुवतिवेषधृक् ।
उवाच भगवान् कृष्णो राधां कमललोचनाम्

2.17.31

श्रीभगवानुवाच -
रम्भोरु नन्दनगरे नन्दगेहस्य चोत्तरे ।
गोकुले वसतिर्मेऽस्ति नाम्नाऽहं गोपदेवता

2.17.32

त्वद्‌रूपगुणमाधुर्यं श्रुतं मे ललितामुखात् ।
तद्‌द्रष्टुं चंचलापाङ्‌गि त्वद्‌गृहेऽहं समागता

2.17.33

श्रीमल्लवंगलतिकास्फुटमोदिनीनां
गुञ्जानिकुञ्जमधुप- ध्वनिकुञ्जपुञ्जम् ।
दृष्टं श्रुतं नवनवं तव कंजनेत्रे
दिव्यं पुरंदरपुरेऽपि न यत्समानम्

2.17.34

श्रीनारद उवाच -
एवं तयोर्मेलनं तद्‌बभूव मिथिलेश्वर ।
प्रीतिं परस्परं कृत्वा वने तत्र विरेजतुः

2.17.35

हसन्त्यौ ते च गायन्त्यौ पुष्पकन्दुकलीलया ।
पश्यन्त्यौ वनवृक्षांश्च चेरतुर्मैथिलेश्वर

2.17.36

कलाकौशल संपन्नां राधां कमललोचनाम् ।
गिरा मधुरया राजन् प्राहेदं गोपदेवता

2.17.37

गोपदेवतोवाच -
दूरे वै नन्दनगरं सन्ध्या जाता व्रजेश्वरि ।
प्रभाते चागमिष्यामि त्वत्सकाशं न संशयः

2.17.38

श्रीनारद उवाच -
श्रुत्वा वचस्तस्य तु तद्‌व्रजेश्वरीं
निक्षिप्य सद्यो नयनांबुसन्ततिम् ।
रोमांचहर्षोद्‌गमभावसंवृता
रंभेव भूमौ पतिता मरुद्धता

2.17.39

शंकागतास्तत्र सखीगणास्त्वरं
सुवीजयन्त्यो व्यजनैर्व्यवस्थिताः ।
श्रीखण्डपुष्प द्रवचर्चितांऽशुकां
जगाद राधां नृप गोपदेवता

2.17.40

गोपदेवतोवाच -
प्रभाते आगमिष्यामि मा शोकं कुरु राधिके ।
गोश्च भ्रातुर्गोरसस्य शपथो मे न चेदिदम्

2.17.41

श्रीनारद उवाच -
एवमुक्त्वा हरी राधां समाश्वास्य नृपेश्वर ।
मायायुवतिवेषोऽसौ ययौ श्रीनन्दगोकुलम्

2.17.17

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
राधाकृष्णसंगमो नाम सप्तदशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc