भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.18

2.18.1

श्रीकृष्णचन्द्रदर्शनम् -
श्रीनारद उवाच -
अथ रात्र्यां व्यतीतायां मायायोषिद्‌वपुर्हरिः ।
राधादुःखप्रशान्त्यर्थं वृषभानोर्गृहं ययौ

2.18.2

राधा तमागतं वीक्ष्य समुत्थायातिहर्षिता ।
दत्तासुना विधानेन पूजयामास मैथिल

2.18.3

श्रीराधोवाच -
त्वया विनाऽहं निशि दुःखिताऽऽसं
त्वय्यागतायां सखि लब्धवस्तुवत् ।
पूर्वं ह्यपथ्यस्य सुखं यथा ततो
दुःखं तथा भामिनि मत्प्रसंगतः

2.18.4

श्रीनारद उवाच -
इति श्रुत्वाऽथ तद्वाक्यं विमना गोपदेवता ।
न किंचिदूचे श्रीराधां दुःखितेव व्यवस्थिता

2.18.5

विज्ञाय खेदसंपन्नां राधिकां गोपदेवताम् ।
सखीभिः संविचार्याथ जगाद स्नेहतत्परा

2.18.6

राधोवाच -
विमनास्त्वं कथं भद्रे वद मां गोपदेवते ।
मात्रा भर्त्रा ननांद्रा वा श्वश्र्वा क्रोधेन भर्त्सिता

2.18.7

सपत्‍नीकृतदोषेण स्वभर्तुर्विरहेण वा ।
अन्यत्र लग्नचित्तेन विमनाः किं मनोहरे

2.18.8

मार्गखेदेन वा कच्चिद्‌विह्वलाऽभूद्रुजाऽथवा ।
शीघ्रं वद महाभागे स्वस्य दुःखस्य कारणम्

2.18.9

कृष्णभक्तमृते विप्रं येन केनापि कुत्सितम् ।
कथितं तेऽथ रंभोरु तच्चिकित्सां करोम्यहम्

2.18.10

गजाश्वादीनि रत्‍नानि वस्त्राणि च धनानि च ।
मन्दिराणि विचित्राणि गृहाण त्वं यदीच्छसि

2.18.11

धनं दत्त्वा तनुं रक्षेत्तनुं दत्त्वा त्रपां व्यधात् ।
धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि ।
धनं दत्त्वा च सततं रक्षेत्प्राणान्निरन्तरम्

2.18.12

यो मित्रतां निष्कपटं करोति
निष्कारणमं धन्यतमं स एव ।
विधाय मैत्रीं कपटं विदध्या-
त्तं लंपटं हेतुपटं नटं धिक्

2.18.13

तस्याः प्रेमवचः श्रुत्वा भगवान् गोपदेवता ।
प्रहसन्नाह राजेन्द्र श्रीराधां कीर्तिनन्दिनीम्

2.18.14

गोपदेवतोवाच -
राधे व्रजन्सानुगिरेस्तटीषु
संकोचवीथीषु मनोहरासु ।
यान्तीं स्वतो मां दधिविक्रयार्थं
रुरोध मार्गे नवनन्दपुत्रः

2.18.15

वंशीधरो वेत्रकरः करे मां
त्वरं गृहीत्वा प्रसहन्विलज्जः ।
मह्यं करादानधनाय दानं
देहीति जल्पन्विपिने रसज्ञः

2.18.16

तुभ्यं न दास्यामि कदापि दानं
स्वयंभुवे गोरसलंपटाय ।
एवं मयोक्ते वचनेऽथ भाण्डं
नीत्वा विशीर्णीकृतवान् स दध्नः

2.18.17

भाण्डं स भित्त्वा दधि किं च पीत्वा
नीत्वोत्तरीयं मम चेदुरीयम् ।
नन्दीश्वराद्रेर्विदिशं जगाम
तेनाहमाराद्‌विमनाः स्म जाता

2.18.18

जात्या स गोपः किल कृष्णवर्णो
ऽधनी न वीरो न हि शीलरूपः ।
यस्मिंस्त्वया प्रेम कृतं सुशीले
त्यजाशु निर्मोहनमद्य कृष्णम्

2.18.19

इत्थं सवैरं परुषं वचस्तत्
श्रुत्वा च राधा वृषभानुनन्दिनी ।
सुविस्मिता वाक्यपदे सरस्वती
पदं स्मयन्ती निजगाद तां प्रति

2.18.20

राधोवाच -
यत्प्राप्तये विधिहरप्रमुखास्तपन्ति
वह्नौ तपः परमया निजयोगरीत्या ।
दत्तः शुकः कपिल आसुरिरंगिरा
यत्पादारविन्दमकरन्दरजः स्पृशन्ति

2.18.21

तं कृष्णमादिपुरुषम् परिपूर्णदेवम्
लीलावतारमजमार्तिहरं जनानाम् ।
भूभूरिभारहरणाय सतां शुभाय
जातं विनिन्दसि कथं सखि दुर्विनीते

2.18.22

गाःपालयन्ति सततं रजसो गवां च
गंगां स्पृशन्ति च जपंति गवां सुनाम्नाम् ।
प्रेक्षन्त्यहर्निशमलं सुमुखं गवां च
जातिः परा न विदिता भुवि गोपजातेः

2.18.23

तत्कृष्णवर्णविलसत्सुकलां समीक्ष्य
तस्मिन्विलग्नमनसा सुसुखं विहाय ।
उन्मत्तवद्‌व्रजति धावति नीलकण्ठो
बिभ्रत्कपर्दविषभस्मकपालसर्पान्

2.18.24

स्वर्लोकसिद्धमुनियक्ष मरुद्‌गणानां
पालाः समस्तनरकिन्नरनागनाथाः ।
यत्पादपद्ममनिशं प्रणिपत्य भक्त्या
लब्धश्रियः किल बलिं प्रददुः स्म तस्मै

2.18.25

वत्साघकालियबकार्जुनधेनुकाना-
माचक्रवातशकटासुरपूतनानाम् ।
एषां वधः किमुत तस्य यशो मुरारे-
र्यः कोटिशोऽण्डनिचयोद्‌भवनाशहेतुः

2.18.26

भक्तात्प्रियो न विदितः पुरुषोत्तमस्य
शंभुर्व्हिधिर्न च रमा न च रौहिणेयः ।
भक्ताननुव्रजति भक्ति निबद्ध चित्तः
चुडामणिः सकललोकजनस्य कृष्णः

2.18.27

गच्छन्निजं जनमनुप्रपुनाति लोका-
नावेदयन् हरिजने स्वरुचिं महात्मा ।
तस्मादतीव भजतां भगवान् मुकुन्दो
मुक्तिं ददाति न कदापि सुभक्तियोगम्

2.18.28

गोपदेवतावाच -
राधे त्वदीयधिषणा धिषणं हसन्ती
वाणीं श्रुतिं प्रकुशलेन विडंबयन्ती ।
अत्रागमिष्यति यदाथ हरिः परेशः
सत्यं ददाति वचनं तव देवि मन्ये

2.18.29

राधोवाच -
यथाऽऽगमिष्यति यदाऽद्य हरिः परेशः
किं कारयामि भवतीं वद तर्हि सुभ्रु ।
चेदागमो न हि भवेद्‌वनमालिनः स्वं
सर्वं धनं च भवनं च ददामि तुभ्यम्

2.18.30

श्रीनारद उवाच -
अथ राधा समुत्थाय नत्वा श्रीनन्दनन्दनम् ।
उपविश्यासने दध्यौ ध्यानस्तिमितलोचना

2.18.31

उत्कंठितां स्वेदयुक्तां बाष्पकंठीं प्रियां हरिः ।
अश्रुपूर्णमुखीं वीक्ष्य बिभ्रत्स्वां पौरुषीं तनुम्

2.18.32

पश्यन्तीनां सखीनां च सहसा भक्तवत्सलः ।
राधां प्राह प्रसन्नात्मा मेघगंभीरया गिरा

2.18.33

श्रीकृष्ण उवाच -
रंभोरु चन्द्रवदने व्रजसुन्दरीशे
राधे प्रिये नवलयौवनमानशीले ।
उमील्य नेत्रमपि पश्य समागतं मां
तूर्णं त्वया मधुरया च गिरोपहूतम्

2.18.34

आगच्छ कृष्ण इति वाक्यमतः श्रुतं मे
सद्यो विसृज्य निजगोकुलगोपवृन्दम् ।
वंशीवटाच्च यमुनानिकटात्प्रधावन्
त्वत्प्रीतयेऽथ ललनेत्र समागतोऽस्मि

2.18.35

मय्यागते सति गता सखिरूपिणी का यक्ष्यासुरीसुरवधू किल किन्नरी वा । मायावती छलयितुं भवतीं च तस्मा-
द्विश्वास एव न विधेय उरंगपत्‍न्याम्

2.18.36

श्रीनारद उवाच -
अथ राधा हरिं दृष्ट्वा नत्वा तत्पादपंकजम् ।
मुदमाप परं राजन् सद्यः पूर्णमनोरथा

2.18.37

एवं श्रीकृष्णचन्द्रस्य चरितान्यद्‌भुतानि च ।
यः शृणोति नरो भक्त्या स कृतार्थो भवेन्नरः

2.18.18

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
श्रीकृष्णचंद्रदर्शनम् नाम अष्टादशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc