भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · श्लोक 2.10-2

2.10-2.1

श्रीकृष्ण गोचारणवर्णनम् -
श्रीनारद उवाच -
गोपेच्छया रामकृष्णौ गोपालौ तौ बभूवतुः ।
गाश्चारयन्तौ गोपालैः वयस्यैश्चेरतुर्वने

2.10-2.2

अग्रे पृष्ठे तदा गावः चरन्त्यः पार्श्वयोर्द्वयोः ।
श्रीकृष्णस्य बलस्यापि पश्यन्त्यः सुंदरं मुखम्

2.10-2.3

घंटामंजीरझंकारं कुर्वन्त्यस्ता इतस्ततः ।
किंकिणीजालसंयुक्ता हेममालालसद्‌गलाः

2.10-2.4

मुक्तागुच्छैर्बर्हिपिच्छैः लसत्पुच्छाच्छकेसराः ।
स्फुरतां नवरत्‍नानां मालाजालैर्विराजिताः

2.10-2.5

शृङ्गयोरन्तरे राजन् शिरोमणिमनोहराः ।
हेमरश्मिप्रभास्फूर्ज्जत् शृङ्गपार्श्वप्रवेष्टनाः

2.10-2.6

आरक्ततिलकाः काश्चित्पीतपुच्छारुणांघ्रयः ।
कैलासगिरिसंकाशाः शीलरूपमहागुणाः

2.10-2.7

सवत्सा मन्दगामिन्य ऊधोभारेण मैथिल ।
कुंडोध्न्यः पाटलाः काश्चित् लक्षन्त्यो भव्यमूर्तयः

2.10-2.8

काश्चित्पीता विचित्राश्च श्यामाश्च हरितास्तथा ।
ताम्रा धूम्रा घनश्यामा घनश्यामे गतेक्षणाः

2.10-2.9

लघुशृङ्ग्यो दीर्घशृङ्ग्य उच्चशृङ्ग्यो वृषैः सह ।
मृगशृङ्ग्यो वक्रशृङ्ग्यः कपिला मंगलायनाः

2.10-2.10

शाद्वलं कोमलं कान्तं वीक्षन्त्योऽपि वने वने ।
कोटिशः कोटिशो गावश्चरन्त्यः कृष्णपार्श्वयोः

2.10-2.11

पुण्यं श्रीयमुनातीरं तमालैः श्यामलैर्वनम् ।
नीपैर्निम्बैः कदम्बैश्च प्रवालैः पनसैर्द्रुमैः

2.10-2.12

कदलीकोविदाराम्रैः जम्बुबिल्वैर्मनोहरैः ।
अश्वत्थैश्च कपित्थैश्च माधवीभिश्च मंडितम्

2.10-2.13

बभौ वृन्दावनं दिव्यं वसन्तर्तुमनोहरम् ।
नन्दनं सर्वतोभद्रं क्षिपच्चैत्ररथं वनम्

2.10-2.14

यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः ।
रत्‍नधातुमयः श्रीमान् मन्दारवनसंकुलः

2.10-2.15

श्रीखंडबदरीरंभा देवदारुवटैर्वृतः ।
पलाशप्लक्षाशोकैश्चारिष्टार्जुनकदम्बकैः

2.10-2.16

पारिजातैः पाटलैश्च चंपकैः परिशोभितः ।
करंजजालकुञ्जाढ्यः श्यामैरिन्द्रयवैर्वृतः

2.10-2.17

कलकंठैः कोकिलैश्च पुंस्कोकिलमयूरभृत् ।
गाश्चारयन् तत्र कृष्णो विचचार वने वने

2.10-2.18

वृन्दावने मधुवने पार्श्वे तालवनस्य च ।
कुमुद्वने बाहुले च दिव्यकामवने परे

2.10-2.19

बृहत्सानुगिरेः पार्श्वे गिरेर्नन्दीश्वरस्य च ।
सुंदरे कोकिलवने कोकिलध्वनिसंकुले

2.10-2.20

रम्ये कुशवने सौम्ये लताजालसमन्विते ।
महापुण्ये भद्रवने भांडीरोपवने नृप

2.10-2.21

लोहार्गले च यमुनातीरे तीरे वने वने ।
पीतवासःपरिकरो नटवेषो मनोहरः

2.10-2.22

वेत्रभृद्वादयन्वंशीं गोपीनां प्रीतिमावहन् ।
मयूरपिच्छभृन्मौली स्रग्वी कृष्णो बभौ नृप

2.10-2.23

अग्रे कृत्वा गवां वृन्दं सायंकाले हरिः स्वयम् ।
रागैः समीरयन्वंशीं श्रीनन्दव्रजमाविशत्

2.10-2.24

वेणुवंशीध्वनिं श्रुत्वा श्रीवंशीवटमार्गतः ।
गोरजोभिर्नभो व्याप्तं वीक्ष्य गेहाद्‌विनिर्गताः

2.10-2.25

दूरीकर्तुं ह्याधिबाधामाहर्तुं सुखमुत्तमम् ।
विस्मर्तुं न समर्थास्तं द्रष्टुं गोप्यः समाययुः

2.10-2.26

संकोचवीथीषु न संगृहीतः
शनैश्चलन् गोगणसंकुलासु ।
सिंहावलोको गजबाललीलै-
र्वधूजनैः पंकजपत्रनेत्रः

2.10-2.27

सुमंडितं मैथिलगोरजोभि-
र्नीलं परं कुन्तलमादधानः
हेमाङ्गदी मौलिविराजमान
आकर्णवक्रीकृतदृष्टिबाणः

2.10-2.28

गोधूलिभिर्मंडितकुन्दहारः
कर्णोपरि स्फूर्जितकर्णिकारः ।
पीतांबरो वेणुनिनादकारः
पातु प्रभुर्वो हृतभूरिभारः

2.10-2.10

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
श्रीकृष्ण गोचारणवर्णनं नाम दशमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc