भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.10

2.10.1

वैदेह उवाच ॥
यद्रजोदुर्लभं लोके योगिनां बहुजन्मभिः ॥
तत्पादाब्जं हरेः साक्षाद्बभौ कालियमूर्द्धसु

2.10.2

कोऽयं कोऽयं पूर्वं कुशलकृत्कालियो फणिनां वरः ॥
एनं वेदितुमिच्छामि ब्रूहि देवर्षिसत्तम

2.10.3

नारद उवाच ॥
स्वायंभुवान्तरे पूर्वं नाम्ना वेदशिरा मुनिः ॥
विंध्याचले तपोऽकार्षीद्भृगुवंशसमुद्भवः

2.10.4

तदाश्रमे तपः कर्तुं प्राप्तोह्यश्वशिरा मुनिः ॥
तं वीक्ष्य रक्तनयनः प्राह वेदशिरा रुषा

2.10.5

वेदशिरा उवाच ॥
ममाश्रमे तपो विप्र मा कुर्यास्सुखदं नहि ॥
अन्यत्र ते तपोयोग्या भूमिर्नास्ति तपोधन

2.10.6

श्रीनारद उवाच ॥
श्रुत्वाथ वेदशिरसो वाक्यं ह्यश्वशिरा मुनिः ॥
क्रोधयुक्तो रक्तनेत्रः प्राह तं मुनिपुंगवम्

2.10.7

अश्वशिरा उवाच ॥
महाविष्णोरियं भूमिर्न ते मे मुनिसत्तम ॥
कतिभिर्मुनिभिश्चात्र न कृतं तप उत्तमम्

2.10.8

श्वसन्सर्प इव त्वं भो वृथा क्रोधं करोषि हि ॥
सदा सर्पो भव त्वं हि भूयात्ते गरुडाद्भयम्

2.10.9

वेदशिरा उवाच ॥
त्वं महा दुरभिप्रायो लघुद्रोहे महोद्यमः ॥
कार्यार्थी काक इव कौ त्वं काको भव दुर्मते

2.10.2.10.10

श्रीनारद उवाच ॥
आविरासीत्ततो विष्णुरित्थं च शपतोस्तयोः ॥
स्वस्वशापाद्दुःखितयोः सांत्वयामास तौ गिरा

2.10.11

श्रीभगवानुवाच ॥
युवां तु मे समौ भक्तौ भुजाविव तनौ मुनी ॥
स्ववाक्यं तु मृषाकर्तुं समर्थोहं मुनीश्वरौ

2.10.12

भक्तवाक्यं मृषाकर्तुं नेच्छामि शपथो मम ॥
ते मूर्ध्नि हे वेदशिरश्चरणौ मे भविष्यतः

2.10.13

तदा ते गरुडाद्भीतिर्न भविष्यति कर्हिचित् ॥
शृणुमेऽश्वशिरो वाक्यं शोचं मा कुरु मा कुरु

2.10.14

काकरूपेपि सुज्ञानं ते भविष्यति निश्चितम् ॥
परं त्रैकालिकं ज्ञानं संयुतं योगसिद्धिभिः

2.10.15

श्रीनारद उवाच ॥
इत्युक्त्वाथ गते विष्णौ मुनिरश्वशिरा नृप ॥
साक्षात्काकभुशंडोऽभूद्योगींद्रो नीलपर्वते

2.10.16

रामभक्तो महातेजा सर्वशास्त्रार्थदीपकः ॥
रामायणं जगौ यो वै गरुडाय महात्मने

2.10.17

चाक्षुषे ह्यन्तरे प्राप्ते दक्षः प्राचेतसो नृप ॥
कश्यपाय ददौ कन्या एकादश मनोहराः

2.10.18

तासां कद्रूश्च या श्रेष्ठा साद्यैवं रोहिणी स्मृता ॥
वसुदेवप्रिया यस्यां बलदेवोऽभवत्सुतः

2.10.19

सा कद्रूश्च महासर्पाञ्जनयामास कोटिशः ॥
महोद्भटान्विषवलानुग्रान्पंचशताननान्

2.10.2.10.20

महामणिधरान्कांश्चिद्दुःसहांश्च शताननान् ॥
तेषां वेदशिरानाम कालियोऽभून्महाफणी

2.10.21

तेषामादौ फणीन्द्रोभूच्छेषोऽनंतः परात्परः ॥
सोद्यैव वलदेवोऽस्ति रामोनंतोऽच्युताग्रजः

2.10.22

एकदा श्रीहरिः साक्षाद्भगवान्प्रकृतेः परः ॥
शेषं प्राह प्रसन्नात्मा मेघगम्भीरया गिरा

2.10.23

श्रीभगवानुवाच ॥
भूमंडलं समाधातुं सामर्थ्यं कस्यचिन्नहि॥
तस्मादेनं महीगोलं मूर्ध्नि त्वं हि समुद्धर

2.10.24

अनंतविक्रमस्त्वं वै यतोनन्त इति स्मृतः ॥
इदं कार्यं प्रकर्तव्यं जनकल्याणहेतवे

2.10.25

शेष उवाच ॥
अवधिं कुरु यावत्त्वं धरोद्धारस्य मे प्रभो ॥
भूभारं धारयिष्यामि ता वत्ते वचनादिह

2.10.26

श्रीभगवानुवाच ॥
नित्यं सहस्रवदनैरुच्चारं च पृथक्पृथक् ॥
मद्गुणस्फुरतां नाम्नां कुरु सर्पेन्द्र सर्वतः

2.10.27

मन्ना-मानि च दिव्यानि यदायांत्यवसानताम् ॥
तदा भूभारमुत्तार्य फणिंस्त्वं सुसुखी भव

2.10.28

शेष उवाच ॥
आधारोहं भविष्यामि मदाधारश्च कोभवत् ॥
निराधारः कथं तोये तिष्ठामि कथय प्रभो

2.10.29

श्रीभगवानुवाच .॥
अहं च कमठो भूत्वा धारयिष्यामि ते तनुम् ॥
महाभारमयीं दीर्घां मा शोकं कुरु मत्सखे

2.10.2.10.30

श्रीनारद उवाच ॥
तदा शेषः समुत्थाय नत्वा श्रीगरुडध्वजम् ॥
जगाम नृप पातालादधौ वै लक्षयोजनम्

2.10.31

गृहीत्वा स्वकरेणेदं गरिष्ठं भूमिमंडलम् ॥
दधार स्वफणे शेषोप्येकस्मिंश्चंडविक्रमः

2.10.32

संकर्षणेऽथ पाताले गतेऽनन्ते परात्परे ॥
अन्ये फणीन्द्रास्तमनु विविशुर्ब्रह्मणोदिताः

2.10.33

अतले वितले केचित्सुतले च महातले ॥
तलातले तथा केचित्संप्राप्तास्ते रसातले

2.10.34

तेभ्यस्तु बह्मणा दत्तं द्वीपं रमणकं भुवि ॥
कालीयप्रमुखास्तस्मिन्नवसन्सुखसंवृताः

2.10.35

इति ते कथितं राजन्कालियस्य कथानकम्॥
भुक्तिदं मुक्तिदं सारं किं भूयः श्रोतुमिच्छसि

इति श्रीमद्गर्गसंहितायां वृन्दावनखण्डे शेषोपाख्यानवर्णनं नाम दशमोऽध्यायः ॥ १०

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc