भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 1.6

1.6.1

॥ अथ षष्ठोऽध्यायः ॥
सूत उवाच ॥
इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्दनः ।
त्वरयास्वमुपादाय कलशं जलसंभृशम्

1.6.2

दुःखित परदुःखेन तूष्णीमेवा गमद्गृहम् ।
तं भृगुः परिपप्रच्छ विलंबकारिणं सुतम्

1.6.3

भृगुरुवाच ॥
किमपूर्वं त्वया दृष्टं लक्ष्यसे च कितो यथा ।
विलम्बश्च कथं जातो वद पुत्र ममाग्रतः

1.6.4

पुत्र उवाच ॥
सौराष्ट्र देशे विख्याते दैवते नगरे मुने ।
सोमकान्त इतिख्यातो राजा राजीवलोचनः

1.6.5

चक्रे राज्यं बहुतिथं धर्मेण पालयन्प्रजाः ।
दुर्भगत्वं गतो दैवात् पुत्र राज्यं निवेश्यसः

1.6.6

पत्न्यासुधर्मयायुक्तो भर्तुराज्ञा भृतापितः ।
सुबल ज्ञानगम्याभ्यां प्रकृतिभ्यामिहागतः

1.6.7

गलत्कुष्ठी कृमियुतो विभ्रमन्दुर्गमं सरः ।
सहस्रभगताप्राप्तो यथेन्द्रो गौतमान्मुनेः

1.6.8

क्वसा सुधर्मा चार्वङ्गी क्व गलत्कुष्ठवान्पतिः ।
इति मे पृच्छतो वृत्तं तदीयं गतवान्क्षणः

1.6.9

तदीयैः करुणावाक्यैर्मनो मे कलिलं त्वभूत् ।
ततोहं कलशं पूर्णं कृत्वा शीघ्रमुपागतः

1.6.10

सूत उवाच ॥
सर्वं चा कथयत्तस्मै तयायत्कथितं वचः ।
श्रुत्वातच्च पुनः पुत्रं च्यवनं भृगुरब्रवीत्

1.6.11

भृगुरुवाच ॥
सर्वानानयतान् शीघ्रं पुत्र गच्छ ममाज्ञया ।
द्रक्ष्यामि कौतुकं तेषां स्वीयं वा दर्शयामि तान्

1.6.12

सूत उवाच ॥
इत्थं स चोदितः पित्रा च्यवनः करुणानिधिः ।
जगाम सरसो भूमिं सुधर्मां द्रष्टुमुत्सुकः

1.6.13

तस्मिन्नेव क्षणेमात्यौ फलकन्दभरान्वितौ ।
सुबल ज्ञानगम्यौ तावागतौ राजसंनिधिम्

1.6.14

ततऊचे स तु मुनिः सुधर्मां चारुलोचनाम् ।
पिता मे स्वाश्रमं सर्वानाकारयति सुव्रते

1.6.15

इति तद्वचनं श्रुत्वा सुधर्मा शोकविह्वला ।
तदैव सावधानात्तनुःप्राणैवागते

1.6.16

सुशीला राजपत्नी सा पीत्वा तद्वचनामृतम् ।
अगमत्सासुचार्वङ्गी प्रकृति द्वय संयुता

1.6.17

सोमकान्तेन पतिना मुनि पुत्रसरःसरा ।
गणेशस्कन्दसहिता शिवेवशिवसंयुता

1.6.18

शुशुभे मार्गमध्ये सा वाचस्पतिपुरःसरा ।
मन्त्रघोषयुतं प्राप भृगोराश्रम मण्डलम्

1.6.19

नानापुष्पलताकीर्णं नानापक्षिविनादितम् ।
मार्जारानकुलाः श्येनागजागावोमयूरकाः

1.6.20

भुजंगा पक्षिणः सिंहाव्याघ्राः क्रीडन्ति यत्र च ।
न च वायुर्भृशं वाति न सूर्यस्तपते भृशम्

1.6.21

न वर्षति भृशं मेघो वर्षते च तदिच्छया ।
विविशुस्ते हर्षयुता मुनिपुत्र पुरःसराः

1.6.22

तत्राद्भुतं व्याघ्रमृगाजिनस्थं ददर्श सूर्यप्रतिमं भृगुं तम् ।
राजाथ पत्नी प्रकृति द्वयं च ननाम बद्धाञ्जलिरब्रवीच्च

1.6.23

राजोवाच ॥
अद्याशिषो मे सफला द्विजेन्द्र द्विजेरिता धर्मचयस्तपोपि ।
आजन्मतोहं परिपूत एष पितुर्जनन्याश्च सुजीवितं मे

1.6.24

भवदृशिः संप्रति हन्त्ययैनः पूर्वार्जितैः पुण्यचयौः कृतापि ।
आगामि कल्याणकरी मुनीन्द्र कालत्रये जन्म करोति पूतम्

1.6.25

सौराष्ट्रदेशे खलु देवताख्ये पुरे कृतं राज्यममोघदृष्टे ।
भीतेन पापाद्विजदेवतादि पूजाकृता नीतिमता मुनीन्द्रः

1.6.26

आकस्मिकं मे दुरितं किमेतत् प्रादुर्बभूवोग्रतरं दुरन्तम् ।
येनाहमीदृक् कुदशां प्रणीतो जाने न किंचित्प्रतिकारमत्र

1.6.27

अपायतां यान्ति कृता उपाया युष्मत्कृतोपायमुपायमीहे ।
निर्वैरतां यान्ति हि जातिवैरास्तवाश्रमेवां शरणं प्रपन्नः

1.6.28

सूत उवाच ॥
श्रुत्वेति वचनं तस्य भृगुस्तु करुणायुतः ।
उवाच सोमकान्तं तं ध्यानेनालोक्य सुव्रतः

1.6.29

भृगुरुवाच ॥
उपायं वच्मि नृपते नचिन्तां कर्तुमर्हसि ।
ममाश्रमगतादुःखं नहिर्विन्दन्ति जन्मिनः

1.6.30

जन्मान्तर कृतं चैव दुरितं ते नृपोत्तम ।
येने मां गमितोवस्थां कथयिष्ये तदप्यहम्

1.6.31

कुर्वन्तु भोजनं सर्वे चिरकालं बुभुक्षिताः ।
वनाद्वनान्तरां याताः श्रान्ताः क्लान्ताननाभृशम्

1.6.32

सूत उवाच ॥
इत्युक्त्वा स्नापयामास सुतैलाभ्यङ्गपूर्वकम् ।
भोजयामास चान्नानि षड्रसानि त्वनेकशः

1.6.33

बुभुजुस्तेपि विश्रान्ता भृगोरमिततेजसः ।
आज्ञया मुनिवर्यस्य सुस्नाताः सुष्ठ्वलंकृताः

1.6.34

सुषुपुर्मृदुशय्यायां हित्वा चिन्तां दुरत्ययाम् ।
मुनिना कल्पितायांते स्वराज्यं गमिताइव

1.6.6

॥ इति श्रीगणेशपुराणे उपासनाखण्डे भृगोराश्रमागमनं नाम षष्ठोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc