गणेशपुराणम् · अध्याय 1.5
॥ अथ पञ्चमोऽध्यायः ॥
ततो मातरमभ्येत्य स्नेहकातरयाधिया ।
तां जगाद कथं मातस्त्यजसेऽनपराधिनम्
पुत्र उवाच ॥
सहैवयातु पुत्रोयमिति वाच्यस्त्वया पिता ।
तववाक्यानुरोधेन यदिमांसहनेष्यति
तदावां सेवनं कुर्यां न मे राज्ये मतिस्तथा ।
किं तद्राज्यं सुखं तद्याद्भवद्भ्यांरहितस्यमे
सुधर्मोवाच ॥
एतावद्दुःखशोकाभ्यां युक्तोराजानमेव च ।
करिष्यति महाबाहो तस्माद्गच्छ ममाज्ञया
पातिव्रत्येन धर्मेण परवत्यस्मि बालक ।
भर्तुरन्यो न देवोस्ति योषितां मान्यएव च
सूत उवाच ॥
इत्याकर्ण्य नमश्चक्रे मातरं ससुहृत्सुतः ।
प्रदक्षिणीकृत्य ततोनुज्ञांप्राप्य पुरं ययौ
अलङ्कृतैर्नागरिकैः पताकाध्वजपल्लवैः ।
सिक्तमार्गं सुगन्धाढ्यं यथेन्द्रनगरं तथा
दत्त्वाताम्बूलवासांसि विसृज्य स्वजनान्नृपः ।
प्रविवेश गृहं श्रीमद्धर्षशोकसमन्वितः
चकारराज्यं धर्मेण सुतवत्पालयन्प्रजाः ।
धर्मार्थकाममोक्षेषु यथा शिक्षं मनोदधे
ऋषय ऊचुः ॥
कथं राजा सोमकान्तः किं वनं समुपागतः ।
किं सहायश्च किं चक्रे कर्मनो वदविस्तरात्
सूत उवाच ॥
हंतवः कथयिष्यामि सोमकान्तो यथा वनम् ।
गत्वा चकारयत्कार्यं सादरं श्रृणुतानघाः
सुबल ज्ञानगम्याममात्याभ्यां सुधर्मया ।
धर्मप ! यायुतोरण्यं प्रविवेशदुरासदम्
अग्रतः प्रकृतियातो मध्येराजाथपृष्ठतः ।
धर्मपत्नी सुधर्मागात्सीतेवरामपृष्ठतः
एकाशनाश्च चत्वार एकचित्तासनालयाः ।
समदुःखसुखाश्चापि वनाद्वनमुपाययुः
क्षुधातृषाश्रमैर्वापि निम्नोन्नतगताध्वभिः ।
अत्यन्तकर्षितश्छायामाश्रित्योपाविशन्क्वचित्
पुनर्वनान्तरं गत्वा ददृशुस्ते सरोमहत् ।
यत्र मातङ्गसदृशा नक्राभान्तिसकच्छपाः
तालास्तमालाः सरलाः प्रियालाबकुलाः शुभाः ।
सरलाः पनसाजम्बुनिम्बाश्वत्थवटादयः
वृक्षानानालताजालैर्वेष्टिताः परितोबभुः ।
यत्रास्ते तिमिरं गाढं गिरिदर्युदरे यथा
यत्रवायुः सुखस्पर्शः कुमुदोत्पल गन्धवान् ।
यस्मान्नयन्ति मुनयो विसासन च फलानि च
यत्र हंसा बकाः श्येनाः सुकाः काकाश्चकोकिलाः ।
सारिकाश्चक्रवाकाश्च नानारावान्विकुर्वते
नयत्रशीतोष्णकरांशु संधिर्नानालतापुष्पकुजाश्रितानाम् ।
क्षुत्तृड्भयं यत्र न चैव मृत्युः स्वर्गे यथा पुण्यवतां द्विजेन्द्राः
तत्रगत्वा जलं सर्वे पपुः शीतं श्रमापहम् ।
स्नात्वा नित्यक्रियां कृत्वा फलानि बुभुजुश्च ते
सुष्वापचक्षणंराजाकच्छेकोमलवालुके ।
धर्मपत्नी सुधर्मा च पादसंवाहनेस्थिता
तस्यानुमतमाज्ञाय द्वावमात्यावगच्छताम् ।
आद्रतुं कन्दमूलानि फलानि च विसानि च
ददर्श तत्राद्भुतरूपमुग्रं बालं सुधर्मा प्रभयाज्वलन्तम् ।
उत्कृष्टरूपस्यकृतेस्मरन्तं जातं पुरा बालमितिस्ममेने
दृष्ट्वैव सोतं जहृषे सुधर्मा मेने च तं साहितकारिणं च ।
क्षुब्धं प्रसन्नं हृदयं समीक्ष्यापकारिणं चोपकरं हि वक्ति
पप्रच्छ तं कश्च कुतश्चयातः कस्यासि पुत्रो जननी च का ते ।
वदस्व शब्दामृतधारयामे सखेवकर्णौ परतोषयाशु
सूत उवाच ॥
इतिस्मपृष्टः स जगाद बालस्तां राजपुत्रीं सुधयागिरामे ।
पिता भृगुर्भामिनि मे पुलोमा माता जलार्थी स्वगृहादिहागाम्
च्यवनः खलु नाम्नाहं पितुराज्ञाकरः शुभे ।
त्वं च का कतमोयंते कथं वनमिदं गतः
स्रवन्ति कथमंगानि वर्षाकालेगिरेरिव ।
अति दुर्गन्धता चास्य केन वा वद कर्मणा
कृमिभार समाकीर्णममुंवासेवसे कथम् ।
स्वयंचारुतराभूत्वा सुकुमारी सुलोचना
चारु प्रसन्नवदना चारुसर्वांगशोभिनी ।
कच्चित्पूर्वं न पित्रा ते सुहृद्भिर्भ्रातृभिर्द्विजैः
विज्ञातोयं वरः कुष्ठीकृमिभाराकुलोपि च ।
कथमेनं वृतवती दुर्गमं चागता वनम्
सूत उवाच ॥
इति पृष्टा सुधर्मा सा मुनिपुत्रेण धीमता ।
व्याचष्टे सकलं तस्मै शोकहर्षसमन्विता
सुधर्मोवाच ॥
सौराष्ट्रदेशे विख्यातं देवताख्यं पुरं महत् ।
तत्रायं सोमकान्तो मे भर्त्ताराज्यं चकार ह
अतिमानीवदान्यश्च शूरोदृढपराक्रमः ।
असंख्यातबलोपेतो रिपुराष्ट्रविमर्द्दनः
यज्वाति सुन्दरः श्रीमान्सुहृदानंदकारकः ।
विवेक्तासर्वकार्याणां नीतिशास्त्रविशारदः
राज्यं स्वं बुभुजे राजा बहुकालं द्विजोत्तम ।
इमामवस्थां संप्राप्तः पूर्वकर्म विपाकतः
अमात्यद्वयसंयुक्तो वनमेतत्समागतः ।
भ्रमन्तीपृष्ठलग्नास्य पुत्रेराज्यं प्रयच्छतः
सुबलज्ञानगम्याभ्यां प्रकृतिभ्यामिहागता ।
राज्ञोनुज्ञां समादाय फलार्थं तौ वने गतौ
इहास्मान् राक्षसाः प्रेताभूतानिमृगपक्षिणः ।
नानाविधाभीषयन्ति कथं नोभक्षयन्तिन
नजाने दुःखभोगाय स्थापयन्त्यग्रतोपि च ।
दुःखस्यान्तं नपश्यामि कर्मणो दुष्कृतस्य च
कटुतिक्ताम्ललवणमधुरस्निग्धभोजने ।
न तथा रुचिरस्याभूत्परीतस्य द्विजातिभिः
यथेदानीं कन्दमूल कषायाम्लफलादिषु ।
दरिद्राणां महाहारःपाकोपि भक्षितस्य च
न तथा श्रीमतां शक्ति रशने पाक एव च ।
यः शेते कोमले दिव्ये शयनेस्म मनोरमे
इदानीं यत्रकुत्रापि पश्यकाल विपर्ययम् ।
यस्यदिग्व्यापिनश्चासन्नानापरिमलाः शुभाः
य आनन्दमये सिन्धौ मग्नोभूत्पण्डितैर्वृतः ।
पूयशोणितदिग्धस्य पूतिगन्धोपिसांप्रतम् ।४७॥
स इदानीं दुःखमये कृमिभिः परिवारितः ।
कथन्तरेम दुःखाब्धिं नजाने भृगुनन्दन
भवपोतैवागाधे मज्जन्तं नौरिवार्णवे
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सुधर्माच्यवनसंवादो नाम पञ्चमोऽध्यायः
मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0