भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 1.2

1.2.1

॥ अथ द्वितीयोऽध्यायः ॥
सूत उवाच ॥
श्रूयतामृषयः सर्वे सोमकान्तस्य दुष्कृतम् ।
अकस्मादभवेत्तस्य गलत्कुष्ठोतिदुःखदः

1.2.2

धर्मशीलस्यराज्ञोथपूर्वकर्मविपाकतः ।
शुभंवाप्यशुभं कर्म नमुञ्चति नरं क्वचित्

1.2.3

यस्यांयस्यामवस्थायां कृतं भवति कर्म यत् ।
तस्यांतस्यामवस्थायां भुज्यते प्राणिभिर्ध्रुवम्

1.2.4

दुःखसागरमग्नोभूदप्लवोजलधौ यथा ।
वेदनामलभद्बह्वीं भुजङ्गेनेव दंशितः

1.2.5

नानाक्षतसमाकीर्णः स्रवद्रक्तस्ततस्ततः ।
पूयशोणितवान् राजा कृमिभिर्विह्वलीकृतः ॥
अस्थिशेषोभवद्राजा यक्ष्मणे वसमावृतः

1.2.6

चिन्तया व्याकुलीभूतः सर्वेन्द्रियरुजान्वितः ।
ततोमात्यान्जगौराजा मनः संरुद्ध्ययत्नतः

1.2.7

राजोवाच ॥
धिङ्मे राज्यं च रूपं च धिग्बलं जीवितं धनम् ।
केनेदं कर्मबीजेन व्यसनं समुपस्थितम्

1.2.8

कान्त्यासोमोजितो येन सोमकान्तस्ततोभवम् ।
येन मे साधवो दीनाः संत सन्यासिनोपि च

1.2.9

पालिताः पुत्रवज्जानपदालोकास्तथापरे ।
येन मे निर्जिता बाणैः शत्रवोघोररूपिणः

1.2.10

येन मे सकलापृथ्वी कृतास्ववशवर्तिनी ।
सम्यगाराधितोदेवः परमात्मा सदाशिवः

1.2.11

दुष्टसङ्गतिहीनेन चित्तनिग्रहकारिणा ।
येन मे वपुषापूर्वमिष्टगन्धानिषेविताः

1.2.12

तदिदानीं पूतिगन्धमतोमे जीवितं वृथा ।
अतोहं काननं यास्ये सर्वेषामभ्यनुज्ञया

1.2.13

हेमकण्ठ सुतं सर्वे बुद्धिविक्रम संयुतम् ।
सिञ्चन्तुराज्यहेतोर्मे पालयन्तु पराक्रमैः

1.2.14

इदानीं न प्रदर्शिष्ये मुखं लोके कथञ्चन ।
न मे राज्यैर्नदारैर्वा जीवितेन श्रियापिवा

1.2.15

प्रयोजनं महामात्याः करिष्ये स्वहितं वने ।
सूत उवाच ॥
इत्युक्त्वा निपपातोर्व्यां तरुर्वातहतोयथा

1.2.16

पूयशोणितधर्मौघैर्व्याप्तोसौ द्विजसत्तमाः ।
कोलाहलो महानासीदमात्यानां च योषिताम्

1.2.17

हाहाकारश्च लोकानां क्षणमासीत्सुदारुणः ।
वस्त्रप्रोंछनवाताद्यैरौषधैः क्षिप्रकारिभिः

1.2.18

मन्त्रि मन्त्र प्रयोगैस्तं सचेतनमकारयन् ।
स्वस्थे जाते नृपे तस्मिन्नमात्याः प्राब्रुवन्निदम्

1.2.19

अमात्याऊचुः ॥
तव प्रसादादमरेन्द्रतुल्यं भुक्तं सुखं सर्वजनेष्वसिद्धम् ।
कथं त्विदानीं त्वदृतेवसामः कथं जीवेम पशुघ्नतुल्याः

1.2.20

कतोतु राज्यं तव सूनुरेकः प्रभूत कोशो बलबान् रिपुघ्नः ।
विहाय सर्वं सुखमद्यराजन्सहैवयामस्तुवनायगन्तुम्

1.2.21

सूत उवाच ॥
ततः सुधर्मा वचनं जगाद वने नृपं सेवितुमेकवीरा ।
व्रजेसहानेन प्रधानवर्या प्रशिष्टराज्यं सहमेसुतेन

1.2.22

दुःखस्य भोक्तानपरोस्ति नैव सुखस्य वा पूर्वकृतस्य जन्तोः ।
यथा यथा कर्मफलं प्रसक्तं तदेव भोग्यं स्वयमेव तादृक्

1.2.23

मयापि नानाविध भोगवत्या सुखेन राज्यं परिभुक्तमस्य ।
स्त्रीणां हि भत्त्र्रा गमनं सहैव परत्रलोके मुनिभिः प्रदिष्टम्

1.2.24

ततः पुत्रो हेमकण्ठो विनीतः शोकसङ्कुलः ।
उवाच तस्मिन्समये सोमकान्दमिदंवचः

1.2.25

हेमकण्ठ उवाच ॥
ननुराज्येन दारैश्च प्राणैर्धनचयैरपि ।
त्वां विना नृपशार्दूल कृत्यं नैवास्ति यत्क्वचित्

1.2.26

विनास्नेहं यथा दीपो विनाप्राणं यथा तनुः ।
वृथाराज्यं तथा राजं स्त्वां विना धर्मपालक

1.2.27

सूत उवाच ॥
अमात्यानां सुधर्मायाः पुत्रस्य वचनामृतम् ।
श्रुत्वा हृष्टमना राजा पुत्रं प्रोवाच धर्मतः

1.2.28

राजोवाच ॥
पितुर्वाक्यरतोनित्यं श्रद्धया श्राद्धकृत्तथा ।
पिण्डदोयो गयायान्तु स पुत्रः पुत्र उच्यते

1.2.29

धर्मशास्त्रार्थतत्त्वज्ञो नीतिज्ञोखिलदोषकृत् ।
पितृऋनुद्धरतेयस्तु पुत्रवान्पुत्र उच्यते

1.2.30

अतोनीत्यासमायुक्तः कुरुराज्यं ममाज्ञया ।
अमात्ययुक्तः शाधित्वं पुत्रवद्धाखिलाः प्रजाः

1.2.31

अहं वनं गमिष्यामि गलत्कुष्ठोऽतिगर्हितः ।
पत्न्यासुधर्मयासार्धमनुजानीहि सुव्रत

1.2.2

॥ इति श्रीगणेशपुराणे उपासनाखण्डे द्वितीयोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc