भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 1.1

1.1.1

॥ श्रीगुरुभ्यो नमः ॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीसरस्वत्यै नमः ॥
॥ श्री रेणुकायै नमः ॥
॥ ॐ नमो भगवते कृष्णचन्द्राय ॥
॥ अथ महर्षिश्रीवेदव्यासप्रणीतं श्रीगणेश पुराणम् ॥
॥ अथ प्रथमोऽध्यायः ॥
ॐ नमस्तस्मैगणेशाय ब्रह्मविद्याप्रदायिने ।
यस्यागस्त्यायतेनाम विघ्नसागरशोषणे ॥
ऋषय ऊचुः ॥
सूतसूतमहाप्राज्ञ वेदशास्त्रविशारद ।
सर्वविद्यानिधेत्वत्तोवक्तान्यौनौपलभ्यते

1.1.2

जन्मजन्मातरीयंनः स्थितंपुण्यं महत्तरम् ।
तेन संदर्शनं जातं सर्वज्ञस्यसतस्तव

1.1.3

वयं धन्यतमालोके जीवितं नः सुजीवितम् ।
पितरो वेदशास्त्राणि तपांस्याश्रम एव च

1.1.4

अष्टादश पुराणानि विस्तराच्छ्रावितानिनः ।
अन्यान्यपिहिनः श्रोतुमिच्छास्तिद्विजसत्तम

1.1.5

शौनकेये महासत्रे सक्ता द्वादशवार्षिके ।
त्वत्कथामृतपानान्तो नान्यद्विश्रामकारणम्

1.1.6

सूत उवाच ॥
साधु पृष्टंं महाभागा भवद्भिः पुण्यकर्मभिः ।
साधूनां समचित्तानां मतिर्लोकोपकारिणी

1.1.7

ममापि परितोषोस्ति कथानां कथने द्विजाः ।
अतोहं साधुवृत्तेभ्यः कथयिष्ये विशेषतः

1.1.8

अन्यान्युपपुराणानि वर्तन्तेऽष्टादशैव च ।
गाणेशं नारदीयं च नृसिंहादीन्यथापि च

1.1.9

गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहम् ।
दुर्लभं श्रवणं यस्य मत्र्यलोके विशेषतः

1.1.10

यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ।
प्रभावमस्य गदितुं नेशःशेषश्चतुर्मुखः

1.1.11

संंक्षेपतोन्नब्रवीम्येतत्तथापि भवदाज्ञया ।
बहुजन्मार्जितैः पुण्यैरस्यतु श्रवणं भवेत्

1.1.12

पाखण्डिनां नास्तिकानां नभवेत्पापकर्मिणाम् ।
नित्यत्वान्निर्गुणत्वाच्च अनादित्वाच्च तत्त्वतः

1.1.13

गणेशस्य स्वरूपं तु वक्तुं केनापिनेष्यते ।
तथाप्युपासनासक्तैः सगुणं तन्निरूप्यते

1.1.14

ॐकाररूपी भगवान् यो वेदादौ प्रतिष्ठितः ।
यं सदा मुनयोदेवाः स्मरन्तीन्द्रादयोहृदि

1.1.15

यं पूजयन्ति सततं ब्रह्मेशानेन्द्रविष्णवः ।
यो हेतुः सर्वजगतां सर्वकारणकारणम्

1.1.16

यदाज्ञया कः सृजतेथ विश्वं यदाज्ञया पालयते च विष्णुः ।
यदाज्ञया संहरते हरोपि यदाज्ञया संभ्रमते दिनेशः

1.1.17

यदाज्ञया वातिसमीरणोपि यदाज्ञयापः प्रवहन्ति दिक्षु ।
यदाज्ञया भानि पतन्ति भूमौ यदाज्ञयाग्निज्र्वलति त्रिलोके

1.1.18

तस्य यच्चरितं गुप्तं कस्यापि न निवेदितम् ।
तदहं वः प्रवक्ष्यामि सादरं श्रूयतां द्विजाः

1.1.19

ब्रह्मणा कथितं पूर्वं व्यासायामिततेजसे ।
भृगवे कथितं तेन सोमकान्ताय तेन च

1.1.20

व्रतैर्यज्ञैस्तपोभिश्च दानैस्तीर्थैश्च कोटयः ।
भवन्ति येषां पुण्यानां तेषां बुद्धिः प्रजायते

1.1.21

गणेशाख्य पुराणस्य श्रवणे द्विजसत्तमाः ।
माया येषां न संसारे न दारापत्यभूमिषु

1.1.22

मयूरेश कथायां ते सादरा मुनिसत्तमाः ।
श्रूयतामस्य महिमा सोमकान्त प्रसङ्गतः

1.1.23

सौराष्ट्रे देवनगरे सोमकान्तो भवन्नृपः ।
वेदशास्त्रार्थतत्त्वज्ञो धर्मशास्त्रार्थतत्परः

1.1.24

दशनागसहस्राणि हयानां द्विगुणानि च ।
रथानां षट्सहस्राणि यंयीत मनुयान्ति च

1.1.25

पदातयोप्यसंख्याता अग्निशस्त्रधरास्तथा ।
कोदण्डधारिणश्चान्ये निषङ्गद्वयधारिणः

1.1.26

बुद्ध्याबृहस्पतिं जिग्ये संपदा धनदञ्चयः ।
क्षमया पृथिवीं जिग्ये गाम्भीर्येण महोदधिम्

1.1.27

सूर्याचन्द्रमसौ जिग्ये भासाकान्त्याचयोनृपः ।
प्रतापेनानलं जिग्ये सौन्दर्येण मनोभवम्

1.1.28

यस्यामात्याः प्रबलिनः पञ्चासन्दृढविक्रमाः ।
नीतिशास्त्रार्थतत्त्वज्ञाः परराष्ट्रविमर्दिनः

1.1.29

रूपवान्प्रथमस्तत्र विद्याधीशस्तथापरः ।
क्षेमंकरो ज्ञानगम्यः सुबलः पञ्चमः स्मृतः

1.1.30

एतैर्नानाविधादेशा आक्रान्ताः स्वपराक्रमात् ।
एतेति सुन्दरा नाना भूषावस्त्रैरलंकृताः

1.1.31

राजकार्य करानित्यं राज्ञः प्रियतमाभृश ।
तस्य राज्ञो भवद्भार्या सुधर्मा गुणशालिनी

1.1.32

तद्रूपमवलोक्यैव रतिरम्भातिलोत्तमाः ।
लज्जिता न सुखं क्वापि लेभिरे नचमेनिरे

1.1.33

अनेकरत्नरचितेताटङ्के काञ्चने शुभे ।
बिभ्रतीकर्णयोः कण्ठे निष्कंमुक्ताफलानि च

1.1.34

कटौरत्नमयींकाञ्चीं तादृशे नूपुरेङ्घ्रिगे ।
अङ्गुलीयान्युत्तमानि करपादाङ्गुलीषु च

1.1.35

वासांस्यनेकवर्णानि महार्हाणि सहस्रशः ।
भगवद्भजनेदानेसक्ताचातिथिपूजने

1.1.36

सेवनेहर्निशं भत्र्तुर्वचने चरता सदा ।
हेमकण्ठ इतिख्यातः पुत्रो भूवनयोः शुभः

1.1.37

नागायुतबलोधीमान् विक्रमी शत्रुतापनः ।
एवमासीत्सोमकान्तः पृथिव्यां राजसत्तमः

1.1.38

सर्वान् राज्ञो वशेकृत्वा चक्रे राज्यं धरातले ।
नित्यं धर्मरतो यज्वादातात्यागीद्विजोत्तमाः

1.1.1

॥ इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तवर्णनं नाम प्रथमोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc