गणेशपुराणम् · अध्याय 1.14
॥ अथ चतुर्दशोऽध्यायः ॥
राजोवाच ॥
ततः किमकरोद् ब्रह्मा वीक्ष्यांडानि सहस्रशः ।
कथं च सृष्टिमकरोदाज्ञां प्राप्य गजाननात्
भृगुरुवाच ॥
अभवद्गर्वसंपन्नः स्वात्मन्येवं विचारयत् ।
वेद्मिशास्त्राणिवेदांश्च पुराणान्यागमानपि
ज्ञानविज्ञानसंपन्नः शापानुग्रहशक्तिमान् ।
ब्रह्माण्डानि च दृष्टानि सृष्टीनां रचनास्तथा
इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।
इत्येवं गर्वसम्पन्ने सृष्ट्यर्थं कमलोद्भवे
विघ्ना नानाविधा भूप प्रादुरासन्सहस्रशः ।
तं वेष्टयित्वा ब्रह्माणं स्थिताः परमदारुणाः
यथामत्ताः पुष्परसैः सरधा मधुजालकम् ।
त्रिनेत्राः पञ्चहस्ताश्च कूपास्याः सप्तपाणयः
त्र्यन्ध्रयः पञ्चतुण्डाश्च सप्ततुण्डाः षडङ्घ्रयः ।
दशास्याः पञ्चपादाश्च तालदन्ता वृकोदराः
नानारूपा महासत्वाः संख्यातुं न च ते क्षमाः ।
चकम्पे द्रुहिणस्तेषां नानारावान्निशम्यतान्
केचित्तं मुष्टिभिर्जघ्नुर्नेमुश्चनुनुवुः परे ।
चतुःशिखासु संगृह्य दोलयामासुरादरात्
चत्वार्यपि मुखान्यस्य जहसुस्तं तथापरे ।
निनिन्दुश्च प्रशंसां च चक्रुः केचिन्सिषेविरे
मोचयामासुरपरे बबन्धुरपरे पुनः ।
मोचितुं पुनरप्यन्ये विचकर्षुरितस्ततः
आलिलिंगुश्च तं केचिच्चुचुम्बुः शिशुवत्परे ।
अष्टश्मश्रुषुतं धृत्वा ननर्ते कोष्टहस्तवान्
एवं स परवान् ब्रह्मा चिन्ताशोक समन्वितः ।
अखर्वं सृष्टिगर्वं तं तत्याज हृदिसंगतम्
जगाम महतीं मूर्छां निराशः स्वस्यजीवने ।
मुहूर्तमात्रे तु गते सस्मार मनसा विभुम् ॥
प्रार्थयामास कारुण्याद्रुदन्निव गजाननम्
ब्रह्मोवाच ॥
न चायुष्यं स्वल्पं विविध जनने सक्त मनसो,
न मे तत्त्वज्ञानं भवजलधितारं सुविमलम् ।
जनुर्भूमौ लब्ध्वा तव भजनतो यामि परमां,
कदा भुक्तिं मुक्तिं निरुपम सुखां वा खिलगुरो ।१५॥
त्वत्कटाक्षामृतेनाक्तो भक्तः सीदति ते विभो ।
इयं लज्जातवैवास्तां न मे मृत्युश्चिरायुषः
भृगुरुवाच ॥
इत्यसौ प्रार्थयन्नेव शुश्राव गगनेरिताम् ।
गिरं तपस्वेति ततः प्रार्थयामास तां पुनः
अन्तर्हिताश्च ते विघ्नाः श्रुतायां नभसोगिरि ।
नानारूपा महावीर्या मुक्त्वा तं कमलासनम्
स मुक्तश्चिन्तयामास पद्मयोनिर्महायशाः ।
विनामन्त्रं विनास्थानं कथं तप्स्ये तपो महत्
इति व्याकुल चित्तोसौ बभ्राम जलमध्यतः ।
अनन्य मनसा ध्यायन् गजाननमनामयम्
मुकुटेन विराजन्तं मुक्तारत्नयुजा शुभम् ।
रक्तचन्दन लिप्ताङ्गं सिन्दूरारुणमस्तकम्
मुक्तादामलसत्कण्ठं सर्पयज्ञोपवीतिनम् ।
अनर्घ्य रत्नघटित बाहुभूषणभूषितम्
स्फुरन्मरकतभ्राजदंगुलीयक शोभितम् ।
महा हि वेष्टित बृहन्नाभिशोभिमहोदरम्
विचित्र रत्नखचित कटिसूत्र विराजितम् ।
सुवर्णसूत्र विलसद्रक्तवस्त्रसमारतम्
भालचन्द्रं लसद्दन्तन्त शोभाराजत्करं परम् ।
एवं ध्यायति तस्मिंस्तु पुनरेव नभो वचः
उदियाय वटं पश्य वटं पश्येति सुन्दरम् ।
श्रुत्वेति वचनं ब्रह्मा पुनश्चिन्तामवाप सः
॥ इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मचिन्तावर्णनं नाम चतुर्दशोऽध्यायः
मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0