भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 1.13

1.13.1

॥ अथ त्रयोदशोऽध्यायः ॥
व्यास उवाच ॥
पञ्चास्य चतुरास्यश्च सहस्रमस्तकोपि च ।
गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः

1.13.2

ब्रह्मोवाच ॥
प्रसादोन्मुख विघ्नेश कृपापाङ्ग निरीक्षणात् ।
प्राप्तबुद्धि प्रसादास्ते केशास्तंनुनुवुस्तदा

1.13.3

ब्रह्मविष्णुमहेशा ऊचुः ॥
अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्द पूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम

1.13.4

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यमम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम

1.13.5

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम

1.13.6

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदाकार्यसक्तं हृदाचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नतास्मः

1.13.7

सदासत्त्वयोगं मुदाक्रीडमानं सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदाविष्णुरूपं गणेशं नमामः

1.13.8

तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैःस्वं जनं बोधयन्तं सदाशर्वरूपं गणेशं नमामः

1.13.9

तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं सदाब्रह्मरूपं गणेशं नमामः

1.13.10

निजैरोषधीस्तर्पयन्तं करोघैः सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु सन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः

1.13.11

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभुतम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदाशक्तिरूपं गणेशं नमामः

1.13.12

प्रधानस्वरूपं महतत्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं सदाविश्वरूपं गणेशं नतास्मः

1.13.13

त्वदीये मनःस्थापयेदङ्घ्रियुग्मे जनोविघ्नसङ्घान् नपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोयं जनोध्वान्त पीडां कथं वा लभेत

1.13.14

वयं भ्रामिताः सर्वथा ज्ञानयोगादलब्धातवाङ्घ्रि बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वंभराद्य

1.13.15

ब्रह्मोवाच ॥
एवं स्तुतो गणेशस्तु संतुष्टोभून्महामुने ।
कृपया परयोपेतोभिधातुं तान् प्रचक्रमे

1.13.16

गणेश उवाच ॥
यदर्थं क्लेशिता यूयं यदर्थमिहचागताः ।
प्रीतोहमनयास्तुत्या वरंमत्तोवृणीततम्

1.13.17

कृतं च मम यत् स्तोत्रं भवद्भिर्भावितात्मभिः ।
स्तोत्रराजमितिख्यातं भविष्यति ममाज्ञया

1.13.18

इदं यः पठेत् प्रातरुत्थायधीमां स्त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले

1.13.19

ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा सन्तुष्टास्ते तमब्रुवन् ।
तदीक्षया रजःसत्त्वतमोगुणसमुद्भवाः

1.13.20

त्रयऊचुः ॥
यदि तुष्टोसि देवेश सृष्टिसंहारकारक ।
तवाङ्घ्रि कमलेनोस्तु भक्तिरव्यचिभारिणी

1.13.21

किं चास्मांभिः प्रकर्तव्यमाज्ञापयतु नो भवान् ।
अयमेव वरोस्माकं वाञ्छितोद्विरदानन

1.13.22

इति श्रुत्वा वचस्तेषां पुनः प्राह गजाननः ।
भविष्यति महाभागा मयिभक्तिर्दृढाहिवः

1.13.23

संकष्टानि यथा यूयं तरिष्यथ महान्त्यपि ।
भवत् ख्यात्यै प्रवक्ष्यामि कार्याणि च पृथक् पृथक्

1.13.24

सृष्टिकर्ता भव ब्रह्मन् रजोगुण समुद्भवः ।
पालनं कुरु विष्णोत्वं व्यापकः सत्त्वसंश्रयः

1.13.25

हर संहर सर्वं त्वं तमोगुण समुद्भवः ।
ब्रह्मोवाच ॥
वेदशास्त्रपुराणानि सृष्टिसामर्थ्यमेव च

1.13.26

ददौ गणेशोन्यां विद्यां ब्रह्मणे परमात्मने ।
विष्णवे भगवान् प्रादात् योगात्स्वच्छन्द रूपताम्

1.13.27

एकाक्षरं षडर्णं च मन्त्रं सर्वागमांस्तथा ।
हराय भगवान्प्रादाच्छक्तिं संहरणेपि च

1.13.28

ततोब्रह्मादीनमनास्त्रैलोक्येशं जगद्गुरुम् ।
उवाच प्राञ्जलिर्भूत्वा वरदं तमिभाननम्

1.13.29

ब्रह्मोवाच ॥
यथागृहीतशक्तिस्तु वाच्यावाच्यं विवक्तिन ।
तथानेकविधां सृष्टिमदृष्ट्वा क्वापि किञ्चन

1.13.30

कर्त्तुं वापि विभोराज्ञा विभेदं कथमुत्सहे ।
इतः कूप इतोवापीत्येवं प्राप्तं मया कथम्

1.13.31

ततो गजाननः प्राह दिव्यं चक्षुः प्रदायतम् ।
ब्रह्माणं वेदशास्त्रज्ञं तथा व्याकुलितं प्रभुः

1.13.32

गजानन उवाच ॥
बहिरन्तः शरीरेमे संख्यातीतानि पद्मज ।
ब्रह्माण्डानि त्वमद्यैव विभ्रमन्ति विलोकय

1.13.33

ब्रह्मोवाच ॥
ततो गजाननेना सौ स्वोदरे श्वासवायुना ।
नीतो ददर्श धातापि ब्रह्माण्डानि त्वनेकशः ॥
औदुम्बराणीवतरौ तेषु वा मशकानिव

1.13.34

भेदयामास तत्रैकं परमेण स्वतेजसा ।
तदन्तः सकलां सृष्टिं ददर्श कमलासनः

1.13.35

ब्रह्माणं चा परं तत्र विष्णुमिन्द्रं प्रजापतिम् ।
शंकरं भाष्करं वायुं वनानि सरितोम्बुपम्

1.13.36

सागरान् यक्षगन्धर्वानप्सरः किन्नरोरगान् ।
ऋषीन्पुण्यजनान्साध्यान्मनुष्यान्पर्वतान्द्रुमान्

1.13.37

उद्भिजान्जारजान्जन्तून् स्वेदजानण्डजानपि ।
पृथ्वीं च सप्तपातालान्यव्ययान्येकविंशतिम्

1.13.38

ददर्श विश्वं चाहं वै भावाभावं चराचरम्

1.13.39

यद्यद्ब्रह्मा भेदयामास चाण्डं तस्मिंस्तस्मिन् सर्वमेवं ददर्श ।
दृष्ट्वा भ्रान्तिं पूर्ववत्संप्रपेदे तेषामन्तं सर्वथा नाध्यगच्छत्

1.13.40

न स्थातुं नैव वा गन्तुं शशाक कमलासनः ।
उपविश्य ततो ब्रह्मा तुष्टावद्विरदाननम्

1.13.41

ब्रह्मोवाच ॥
वन्दे देवं देवदेवं गणेशं ब्रह्मण्डानां नैव संख्यायदंगे ।
अभ्रोडुनां सागरे वा झषाणां कः संख्याता शर्कराणां च तीरे

1.13.42

लज्जा नमेत्रास्ति सुरेन्द्रवन्द्य पादारविन्दं तव यद्विलोक्य ।
भ्रान्तो भवं ज्ञाननिधौ प्रसन्ने मोक्षोपि तुच्छः किमुतान्यवार्त्ता

1.13.43

दृष्टं च नानार्थ युतं सुरेश ब्रह्माण्डकूटं जठरे त्वदीये ।
स्थातुं बहिर्गन्तुमपीहनेशस्त्वदन्यदेवं शरणं नवेद्मि

1.13.44

ततः प्रसन्नो भगवाननन्तो वै गजाननः ।
बहिर्निष्कासयामास ब्रह्माणं खिन्नमानसम्

1.13.45

नासिकारन्ध्र मार्गेण हरिं तदनुयायिनम् ।
तामसं च हरं देवो ब्रह्मणासह संगतम्

1.13.46

निःसारयामास विभुः श्रुतिरन्ध्राद्गजाननः ।
शयातेस्मतदंगेता बुभौहरिहरौसुखम्

1.13.13

॥ इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मस्तुति वर्णनं नाम त्रयोदशोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc