भाषा

ENहिગુ
ग्रंथ पाठ

गण्डव्यूहसूत्र · अध्याय 9

9.1

30 अवलोकितेश्वरः ।
अथ खलु सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेरनुशासनीमनुविचिन्तयन्, तं बोधिसत्त्वाधिमुक्तिकोशं निगमयन्, तद्बोधिसत्त्वानुस्मृतिबलमनुस्मरन्, तं बुद्धनेत्रपरंपराबलं संधारयन्, तं बुद्धानन्तर्यानुसंधिमनुगच्छन्, तं बुद्धनामश्रोत्रानुगममनुस्मरन्, तं बुद्धधर्मदेशनानयमनुलोमयन्, तं बुद्धधर्मसमुदागमव्यूहमवतरन्, तद्बुद्धाभिसंबोधिविनर्दितमधिमुच्यमानः, तदचिन्त्यं तथागतकर्माभिमुखीकुर्वन् अनुपूर्वेण येन पोतलकः पर्वतस्तेनोपसंक्रम्य पोतलकं पर्वतमभिरुह्य अवलोकितेश्वरं बोधिसत्त्वं परिमार्गन् परिगवेषमाणो ऽद्राक्षीदवलोकितेश्वरं बोधिसत्त्वं पश्चिमदिक्पर्वतोत्सङ्गे उत्ससरःप्रस्रवणोपशोभिते नीलतरुणकुण्डलकजातमृदुशाद्वलतले महावनविवरे वज्ररत्नशिलायां पर्यङ्कं बद्ध्वा उपविष्टं नानारत्नशिलातलनिषण्णापरिमाणबोधिसत्त्वगणपरिवृतं धर्मं देशयमानं सर्वजगत्संग्रहविषयं महामैत्रीमहाकरूणामुखोद्योतं नाम धर्मपर्यायं संप्रकाशयन्तम् । दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रहर्षितविकसितानिमिषनयनः कृताञ्जलिपुटः कल्याणमित्रप्रसादवेगानुगताविक्षिप्तचेताः कल्याणमित्रेषु सकलबुद्धदर्शनसंज्ञी कल्याणमित्रप्रभवसर्वधर्ममेघसंप्रतीच्छनसंज्ञी कल्याणमित्राधीनसर्वगुणप्रतिपत्तिसंज्ञी कल्याणमित्रसमवधानदुर्लभसंज्ञी कल्याणमित्रोद्भवदशबलज्ञानरत्नप्रतिलाभसंज्ञी कल्याणमित्रसमुद्भवाक्षयज्ञानालोकसंज्ञी कल्याणमित्राश्रयसंवर्धितपुण्यप्रवालसंज्ञी कल्याणमित्रसंप्रकाशितसर्वज्ञताद्वारसंज्ञी कल्याणमित्रोद्देशितमहाज्ञानसागरावतारसंज्ञी कल्याणमित्रसंजनितसर्वज्ञतासंभारसमुदयसंज्ञी येन अवलोकितेश्वरो बोधिसत्त्वस्तेनाभिजगाम ॥
अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं दूरत एव आगच्छन्तमवलोक्य आमन्त्रयामास - एहि । स्वागतं ते अनुपमोदाराचिन्त्यमहायानसंप्रस्थिता जातमूलकविविधदुःखोपद्रुताप्रतिशरणसर्वजगत्परित्राणाशया सर्वलोकातिक्रान्तानुपमाप्रमेया सर्वबुद्धधर्माध्यक्षताभिलाषिन् महाकरूणावेगाविष्ट सर्वजगत्परित्राणमते समन्तभद्रदर्शनचर्याभिमुख महाप्रणिधानमण्डलपरिशोधनचित्त सर्वबुद्धधर्ममेघसंधारणाभिलषितकुशलमूलोपचयातृप्ताशयकल्याणमित्रानुशासनीसम्यक्प्रवृत्तमञ्जुश्रीज्ञानसागरसंभूत गुणकमलाकर बुद्धाधिष्ठानप्रतिलाभाभिमुखः समाध्यालोकवेगप्रतिलब्ध सर्वबुद्धधर्ममेघसंधारणाभिलषितचित्त बुद्धदर्शनप्रीतिप्रसादवेगप्रहर्षितमानस अचिन्त्याप्रमाणसुचरितवेगाभिष्यन्दितचेतः गुणप्रतिपत्तिवेगविशुद्धपुण्यज्ञानकोश स्वयमभिज्ञामुखसर्वज्ञज्ञानमात्रवेगपरसंदर्शाभिप्राय महाकरुणावेगविपन्नमूलतथागतज्ञानालोकवेग संधारणमते ॥
अथ खलु सुधनः श्रेष्ठिदारको येन अवलोकितेश्वरो बोधिसत्त्वस्तेनोपसंक्रम्य अवलोकितेश्वर बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः ( ग्व् 160 ) प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु अवलोकितेश्वरो बोधिसत्त्वो जाम्बूनदसुवर्णवर्णं विचित्राप्रमेयप्रभाजालवाहव्यूहमेघप्रमुञ्चनं दक्षिणं बाहुं प्रसार्य लक्षणानुव्यञ्जनविसृतविविधविमलामितकायचित्तप्रह्लादसंजननरश्मिप्रतानसंकुसुमितं पाणिं सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य एवमाह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र महाकरुणामुखाविलम्बं नाम बोधिसत्त्वचर्यामुखं प्रजानामि । एतच्च कुलपुत्र महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं सर्वजगदसंभिन्नसत्त्वपरिपाकविनयनप्रवृत्तं समन्तमुखस्रोतविज्ञप्तिसत्त्वसंग्रहविनयपर्युपस्थानम् । सो ऽहं कुलपुत्र महाकरुणामुखाविलम्बबोधिसत्त्वचर्यामुखे प्रतिष्ठितः सर्वतथागतानां च पादमुलान्न विचलामि, सर्वसत्त्वकार्येषु च अभिमुखस्तिष्ठामि । दानेनापि सत्त्वान् संगृह्णामि । प्रियवादितया अर्थक्रियया समानार्थतयापि सत्त्वान् संगृह्णामि । रूपकायविदर्शनेनापि सत्त्वान् परिपाचयामि । अचिन्त्यवर्णसंस्थानरूपदर्शनविशुद्ध्या रश्मिजालोत्सर्गेणापि सत्त्वान् प्रह्लाद्य परिपाचयामि । यथाशयघोषोदाहारेणापि यथाभिमतेर्यापथसंदर्शनेनापि विविधाधिमुक्तिसभागधर्मदेशनयापि नानारूपविकुर्वितेनापि कुशलधर्मोपचयप्रवृत्तसत्त्वचित्तसंचोदनयापि आशयानुरूपविचित्रापरिमाणनिर्माणसंदर्शनेनापि नानाजात्युपपन्नसत्त्वसभागरूपसंदर्शनेनापि एकावासनिवासेनापि सत्त्वान् संगृह्णामि परिपाचयामि । तेन मया कुलपुत्र इदं महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं परिशोधयता सर्वजगत्प्रतिशरणप्रणिधिरुत्पादितः, यदुत सर्वसत्त्वप्रपातभयविगमाय सर्वसत्त्वसंत्रासकभयप्रशमनाय सर्वसत्त्वसंमोहभयविनिवर्तनाय सर्वसत्त्वबन्धनभयसमुच्छेदाय सर्वसत्त्वजीवितोपरोधोपक्रमभयव्यावर्तनाय सर्वसत्त्वोपकरणवैकल्यभयापनयनाय सर्वसत्त्वजीविकाभयव्युपशमनाय । सर्वसत्त्वाश्लोकभयसमतिक्रमणाय सर्वसत्त्वसांसारिकभयोपशमनाय सर्वसत्त्वपर्षच्छारद्यभयविगमाय सर्वसत्त्वमरणभयव्यतिक्रमाय सर्वसत्त्वदुर्गतिभयविनिवर्तनाय सर्वसत्त्वतमोन्धकारविषमगत्यप्रत्युदावर्त्यावभासकरणाय सर्वसत्त्वविषभागसमवधानभयात्यन्तविगमाय सर्वसत्त्वप्रियविप्रयोगभयनिरोधाय सर्वसत्त्वाप्रियसंवासभयापनयनाय सर्वसत्त्वकायपरिपीडाभयसंयोगाय सर्वसत्त्वचित्तपरिपीडनभयनिर्मोक्षणाय सर्वसत्त्वदुःखदौर्मनस्योपायाससमतिक्रमाय

सर्वजगत्प्रतिशरणप्रणिध्यभिनिर्हारः कृतः । अनुस्मृतिमुखं च मे सर्वलोके ऽधिष्ठितं सर्वसत्त्वभयव्युपशमनाय । स्वनामचक्रं मे सर्वलोके ऽभिविज्ञप्तं सर्वसत्त्वभयविगमाय । सर्वजगदनन्ताकृतिभेदशमथो मे काये ऽधिष्ठितो यथाकालजगत्प्रतिविज्ञप्तये । सो ऽहं कुलपुत्र, अनेनोपायेन सत्त्वान् सर्वभयेभ्यः परिमोच्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य अविवर्त्यान् करोमि बुद्धधर्मप्रतिलाभाय । एतमहं कुलपुत्र महाकरुणामुखाविलम्बस्य ( ग्व् 161 ) बोधिसत्त्वचर्यामुखस्य लाभी । किं मया शक्यं समन्तभद्राणां बोधिसत्त्वानां सर्वबुद्धप्रणिधानमण्डलविशुद्धानां समन्तभद्रबोधिसत्त्वचर्यागतिंगतानां कुशलधर्माभिसंस्काराव्यवच्छिन्नस्रोतानां सर्वबोधिसत्त्वसमाधिश्रोत्रसदासमाहितानां सर्वकल्पसंवासचर्याविवर्त्यस्रोतानां सर्वत्र अध्वनयानुगतस्रोतानां सर्वलोकधात्वावर्तपरिवर्तस्रोतकुशलानां सर्वसत्त्वाकुशलचित्तव्युपशमकरस्रोतानां सर्वसत्त्वकुशलचित्तसंवर्धनस्रोतानां सर्वसत्त्वसंसारस्रोतोविनिवर्तिकरस्रोतानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
तत्रेदमुच्यते -
कृत्वा प्रदक्षिणु स्तवित्व च गौरवेण प्रकान्त दक्षिणपथं सुधनः सुदान्तः ।
सो पश्यते रत्नपर्वतकन्दरस्थं अवलोकितेश्वरमृषिं करुणाविहारिम्

9.2

वज्रामये गिरितटे मणिरत्नचित्रे सिंहासने पदुमगर्भि निषण्ण धीरो ।
देवासुरैर्भुजगकिन्नरराक्षसैश्च परिवारितो जिनसुतैर्वदि तेष धर्मम्

9.3

दृष्ट्वोपजात अतुला सुधनस्य प्रीति उपगम्य वन्दति क्रमौ गुणसागरस्य ।
ओवाच देहि मम आर्य कृपां जनित्वा शिक्षां तु अहु लभे इम भद्रचर्याम्

9.4

बाहुं प्रणम्य विमलं शतपुण्यचित्रं प्रभमेघजाल विपुलं शुभ मुञ्चमानः ।
मूर्ध्नि स्थिहित्व सुधनस्य विशुद्धसत्त्वो अवलोकितेश्वरु विदू वचनं भणाति

9.5

एकं विमोक्षमुख जानमि बुद्धपुत्र सर्वजिनान करुणाघनज्ञानगर्भम् ।
संभूत सर्वजगत्रायणसंग्रहाय सर्वत्र वर्तति ममाप्यथ आत्मप्रेम

9.6

त्रायामि सर्वजनतां व्यसनैरनेकैः ये गाढबन्धनगतारिषु हस्तप्राप्ताः ।
गात्रेषु विद्ध तथ चारकसंनिरुद्धा मुच्यन्ति बन्धनगता मम नाम श्रुत्वा

9.7

उत्सृष्टः वध्य नृपतीन कृतापराधाः क्षिप्ता इषु न च क्रमन्ति शरीरि तेषाम् ।
छिद्यन्ति शस्त्र परिवर्तति तीक्ष्ण धारा ये नामधेयु मम तत्र अनुस्मरन्ति

9.8

राजान मध्यगत ये च विवादप्राप्ता विजिनन्ति सर्वरिपवो ऽथ शुभे लभन्ते ।
वर्धन्ति सर्व यश मित्रकुले धनानि भोन्ती अधर्षिय स्मरित्वन मह्य नाम

9.9

चोरंभया अरिभया अटवीप्रवेशाः सिंहऋद्धद्वीपिचमरीमृगव्यालकीर्णाः ।
गच्छन्ति निर्भय जिनित्वन सर्वशत्रून् ये नामधेयु मम केचिदनुस्मरन्ति

9.10

क्षिप्ता मनागिरितटीतु प्रदुष्टचित्तैरङ्गारकर्षु ज्वलिता अपि चो वधार्थम् ।
पद्माङ्कुरा जलनिधि ज्वलना भवन्ति ये नामधेयु मम केचिदनुस्मरन्ति

9.11

प्रक्षिप्त सागरजले न मरेन्ति तत्र नद्यां न चोह्यति न दह्यति चाग्निमध्ये ।
सर्वे अनर्थ न भवन्त्यपि चार्थसिद्धिः नामं ममा अनुस्मरित्व मुहूर्तकं पि

9.12

हडिदण्डबन्धनिगडाश्च तथा कुदण्डा अवमानना तथ विमानन ठम्भनाश्च ।
आक्रोशताडनविभर्त्सनतर्जनाश्च मम नामधेयु स्मरमाण लभन्ति मोक्षम्

9.13

ये वैरिणो विवरछिद्रगवेषिणश्च नित्यप्रदुष्टमन ये च अवर्णवादी ।
सहदर्शनेन तद मैत्रमना भवन्ति भेष्यन्ति वर्णि श्रुत मह्य स्मरित्व नाम

9.14

वेतालमन्त्रथ कखोर्द सदा प्रयुक्ता घातार्थ तेष रिपवः स्तिमिता भवन्ति ।
तेष शरीरि न क्रमन्ति विषा अशेषा ये नामधेषु मम केचिदनुस्मरन्ति

9.15

नागेन्द्राराक्षसगणैर्गरुडैः पिशाचैः कुम्भाण्डपूतनविहेडकरौद्रचित्तैः ।
ओजोहरैर्भयकरैः सुपिनान्तरे ऽपि शाम्यन्ति सर्वि मम नाम अनुस्मरित्वा

9.16

मातापितासुहृदज्ञातिकबान्धवेहि नाविप्रयोगु न पि चाप्रियसंप्रयोगः ।
न धनक्षयो नापि उपैति दरिद्रभावं नामं ममा अनुसरित्व मुहूर्तकं पि

9.17

न च गच्छति च्युत इतो नरकं अवीचिं न तिरश्चयोनि न च प्रेत न चाक्षणानि ।
देवे मनुष्य उपपद्यति शुद्धसत्त्वो यो नामधेयु मम केचिदनुस्मरन्ति

9.18

न च अन्धकाणबधिरा न पि चर्चिगात्रा न च रौद्र खञ्जा अथ चाटक प्रेक्षणीया ।
सर्वेन्द्रियैरविकला बहुकल्पकोट्यो भोन्ती नरा मम स्मरित्वन नामधेयम्

9.19

अवलोकितेति मम ते सुगतिं वज्रन्ति यो पुष्पमुष्टि मम ओकिरते शरीरे ।
धूपांश्च धूपयति यश्च ददाति छत्रं विस्तारिकै पुज करोति प्रसन्नचित्तो
मम बुद्धक्षेत्रि स च भेष्यति दक्षिणीयः

9.20

उपपद्यते इतु च्यवित्वन शुद्धसत्त्वो बुद्धान संमुख दशद्दिशि लोकधातौ ।
बुद्धांश्च पश्यति शृणोति च तेष धर्मं ये नामधेयु मम केचिदनुस्मरन्ति

9.21

एते तथान्य क्षयितुं निमितुं न शक्या यावच्चुपायि अहु सत्त्व विनेमि लोके ।
एको विमोक्ष मम भावितु बुद्धपुत्र नाहं गुणान् गुणधराण विजानि सर्वान्

9.22

अष्टापदाकृतु दशद्दिशि लोकधातौ कल्याणमित्र समुपासित सूधनेन ।
न च तृप्तु धर्म श्रुणमाणु जिनौरसानां कस्मान्न प्रीति भवति श्रुणमान धर्मम्

9.28

तेन खलु पुनः समयेन अनन्यगामी नाम बोधिसत्त्वः पूर्वस्यां दिशि गगनतलेनागत्य सहाया लोकधातोश्चक्रवालशिखरे प्रत्यष्ठात् । समन्तरप्रतिष्ठापितौ च अनन्यगामिना बोधिसत्त्वेन सहाया लोकधातोश्चक्रवालशिखरे पादौ, तत्क्षणादियं सहालोकधातुः षड्विकारं प्राकम्पत, अनेकरत्नमयी च संस्थिताभूत् । तथारूपा च अनन्यगामिना बोधिसत्त्वेन कायात् प्रभा प्रमुक्ता, यया प्रभया सर्वचन्द्रसूर्यप्रभा पर्यादत्ताः, सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालानामग्निमणिज्योतिषां च प्रभा जिह्मीकृताः, सर्वमहानरकाश्चावभासिताः, सर्वतिर्यग्योनियमलोकगतिगहनं चावभासितम्, सर्वापायदुःखानि च तदनन्तरं प्रशान्तानि । सर्वसत्त्वानां च क्लेशा न बाधन्ते । विविधशोकशल्यदुःखानि च प्रस्रब्धानि । सर्वं चेदं बुद्धक्षेत्रं सर्वरत्नमेघैरभिप्रवर्षन् सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाव्यूहसर्वपूजामेघैरभिप्रवर्षन् भगवन्तमुपसंक्रान्तः । स चास्याश्रयः सर्वसत्त्वभवनप्रतिभासप्राप्तो यथाशयसत्त्वसंतोषणाभिमुखः । तस्मिंश्च पोतलके पर्वते ऽवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकमुपसंक्रान्तः संदृश्यते स्म ॥
अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत् - पश्यसि त्वं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमिह पर्षन्मण्डले संप्राप्तम्? आह - पश्यामि आर्य । आह - एतं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको ऽवलोकितेश्वरस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकात्प्रक्रान्तः

9.29

31 अनन्यगामी ।
अथ खलु सुधनः श्रेष्ठिदारको ऽवलोकितेश्वरस्य बोधिसत्त्वस्य ज्ञानगाथालब्धचित्तो ऽवलोकितेश्वरस्य बोधिसत्त्वस्यावितृप्तो दर्शनेन वाणीमप्रतिवहन् येन अनन्यगामी बोधिसत्त्वस्तेनोपसंक्रम्य अनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सो ऽवोचत् - अहं कुलपुत्र समन्तमुखनिर्जवनस्य बोधिसत्त्वविमोक्षस्य लाभी । आह - कतमस्य त्वया आर्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः? कियद्दूरे वा स इतो लोकधातुः? कियच्चिरोच्चलितो वासि ततो लोकधातोः? आह - दुर्विज्ञेयमेतत्कुलपुत्र स्थानं सदेवमानुषासुरेण लोकेन सश्रमणब्राह्मणिकया प्रजया - यदुत बोधिसत्त्वपराक्रमी बोधिसत्त्ववीर्यानिवर्त्यता बोधिसत्त्ववीर्यसंहार्यता । नेदं कुलपुत्र शक्यं कल्याणमित्रापरिगृहीतैर्बुद्धासमन्वाहृतैरनुपचितकुशलमूलैरपरिशुद्धाशयैरप्रतिलब्धबोधिसत्त्वेन्द्रियैः प्रज्ञाचक्षुविरहितैः श्रोतुं वा संधारयितुं वा अधिमोक्तुं वा अवतरितुं वा । आह - वदतु मे आर्यः । अधिमोक्ष्यामि श्रद्धास्यामि बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च । सो ऽवोचत् - अहं कुलपुत्र पूर्वस्यां दिशि श्रीगर्भवत्या लोकधातोरागच्छामि समन्तश्रीसंभवस्य तथागतस्य बुद्धक्षेत्रात् । तस्य मे कुलपुत्र समन्तश्रीसंभवस्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः । ततश्च मे कुलपुत्र श्रीगर्भवत्या लोकधातोरुच्चलितस्य अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पाः क्षीणाः । एकैकेन च चित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् पदव्यवहारान् व्यतिक्रमामि । एकैकेन च पदव्यवहारेण अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रमामि । सर्वाणि च तानि बुद्धक्षेत्राणि अविरहितानि तथागतैः । अवतरामि सर्वांश्च तान् बुद्धान् भगवतः । अनुत्तरया मनोमय्या अनभिसंस्कारधर्मधातुमुद्रामुद्रितया तथागतानुज्ञातया सर्वबोधिसत्त्वप्रहर्षसंजनन्या तथागतं पूजयामि । यावतश्च तासु लोकधातुषु सत्त्वसमुद्रान् पश्यामि, सर्वेषां च तेषां चित्तसागरानवतरामि, सर्वेषां च तेषामिन्द्रियचक्रं परिज्ञाय यथाशयाधिमुक्तितो रूपकायं संदर्शयामि । धर्मघोषमुदीरयामि । प्रभामण्डलमुत्सृजामि । विविधोपकरणसंपदमुपसंहरामि । स्वकायं चैषामधितिष्ठामि, यदुत परिपाकविनयप्रयोगाप्रतिप्रस्रब्धये । यथा च पूर्वस्या दिशो निर्यामि, एवं दक्षिणायाः पश्चिमायाः उत्तराया उत्तरपूर्वायाः पूर्वदक्षिणाया दक्षिणपश्चिमायाः
पश्चिमोत्तराया अध ( ग्व् 166 ) ऊर्ध्वाया दिशो निर्यामि । एतमहं कुलपुत्र समन्तमुखनिर्जवनं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वत्रानुगतानां बोधिसत्त्वानां समतादिगभिमुखानामसंभिन्नज्ञानविषयाणां सर्वधर्मधातुसुविभक्तशरीराणां यथाशयाधिमुक्तसर्वसत्त्वानुविचारिणां सर्वक्षेत्रस्फरणकायानां सर्वधर्मयथानुगतानां त्र्यध्वपथसमतानुप्राप्तानां सर्वदिक्पथसमतानुसरणानां सर्वजगत्पथविरोचनानां तथागतपथाविकल्पानामसङ्गसर्वपथानुगतानामनालयपथप्रतिष्ठितानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे द्वारवती नाम नगरी । तत्र महादेवो देवः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ कथं - बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको ऽनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अनन्यगामिनं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अनन्यगामिनो बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः

9.30

32 महादेवः ।
अथ खलु सुधनः श्रेष्ठिदारको विपुलबोधिसत्त्वचर्यानुगतचित्तो ऽनन्यगामिनो बोधिसत्त्वस्य ज्ञानगोचरं स्पृहयमाणरूपो महाभिज्ञाभिनिर्हारविषयगुणविशेषदर्शी दृढवीर्यसंनाहप्रहर्षप्राप्तो ऽचिन्त्यविमोक्षविक्रीडितानुगताशयः बोधिसत्त्वगुणभूमौ प्रतिपद्यमानः समाधिभूमिं विचारयमाणो धारणीभूमौ प्रतिष्ठमानः प्रणिधानभूमिमवतरन् प्रतिसंविद्भूमावनुशिक्षमाणोबलभूमिं निष्पादयमानो ऽनुपूर्वेण येन द्वारवती नगरी तेनोपसंक्रम्य महादेवं पर्यपृच्छत् । तस्य महाजनकाय आरोचयामास - एष कुलपुत्र महादेवो नगरशृङ्गाटके देवागारे औदारिकेणात्मभावेन सत्त्वानां धर्मं देशयति । अथ खलु सुधनः श्रेष्ठिदारको येन महादेवस्तेनोपसंक्रम्य महादेवस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु महादेवो देवश्चतुर्दिशं चतुरः पाणीन् प्रसार्य चतुर्भ्यो महासमुद्रेभ्यः परमशीघ्रजवेन वार्यानीय स्वमुखं प्रक्षाल्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पैरभ्यवकीर्य एवमाह - सुदुर्लभदर्शना हि कुलपुत्र बोधिसत्त्वाः, परमदुर्लभश्रवणा आश्चर्यप्रादुर्भावा लोके ऽग्रत्वात् परमपुरुषपुण्डरीका जगत्र्त्रातारः, प्रतिशरणभूता लोकस्य, प्रतिष्ठानभूता जगतः, महावभासकराः सत्त्वानाम्, क्षेमपथदर्शकाः संमूढमार्गाणाम्, नायकभूता धर्मनयावतरणतायै, परिणायकभूताः सर्वज्ञतापुरोपनयनतायै । तस्य मम कुलपुत्र एवं भवति - दुर्दृष्टिघातनं नामधेयं बोधिसत्त्वानां येन निर्मलचित्तानां स्वकायप्रतिभासं दर्शयति । विशुद्धकायकर्मणामभिमुखा भवन्ति । वचनदोषविवर्जितानां सरस्वत्यालोकमवक्रामयन्ति । विशुद्धाशयानां सर्वकालमभिमुखास्तिष्ठन्ति । अहं कुलपुत्र मेघजालस्य बोधिसत्त्वविमोक्षस्य लाभी । आह - क एतस्य आर्य मेघजालस्य बोधिसत्त्वविमोक्षस्य विषयः?
अथ खलु महादेवोः देवः सुधनस्य श्रेष्ठिदारकस्य पुरतो महापर्वतमात्रं सुवर्णराशिमुपदर्श्य रूप्यराशिं वैडूर्यराशिं स्फटिकराशिं मुसारगल्वराशिं अश्मगर्भराशिं ज्योतिरसमणिरत्नराशिं विमलगर्भमणिरत्नराशिं वैरोचनमणिरत्नराशिं समन्तदिगभिमुखमणिरत्नराशिं चूडामणिरत्नमकुटराशिं विचित्रमणिरत्नराशिं केयूरराशिं कुण्डलविभूषणराशिं वलयराशिं मेखलराशिं नूपूरराशिं विविधमणिरत्नराशिं सर्वाङ्गप्रत्यङ्गविभूषणराशिं चिन्ताराजमणिरत्नराशिं सर्वपुष्पाणि सर्वगन्धान् सर्वधूपान् सर्वमाल्यानि सर्वविलेपनानि सर्वचूर्णानि सर्ववस्त्राणि सर्वच्छत्राणि सर्वध्वजान् सर्वपताकाः सर्वतूर्याणि सर्वतालावचरान् सर्वकामविषयान् । ( ग्व् 168 ) असंख्येयानि च कन्याकोटीशतसहस्राण्युपदर्श्य सुधनं श्रेष्ठिदारकमेतदवोचत् - इतं कुलपुत्र गृहीत्वा दानानि देहि, पुण्यानि कुरु, तथागतान् पूजय, सत्त्वान् दानेन संग्रहवस्तुना संगृह्य त्यागपारमितायां नियोजय, दानेन लोकं शिक्षय । दुष्करपरित्यागतां प्रदर्शय । यथैवाहं कुलपुत्र तवोपकरणविधिमुपसंहरामि, एवमपरिमाणानां सत्त्वानां दानचेतनानिरुद्धानां त्यागवासितां संततिं करोमि । बुद्धधर्मसंघेषु बोधिसत्त्वकल्याणमित्रेषु च कुशलमूलान्यवरोपयित्वा अनुत्तरायां सम्यक्संबोधौ समादापयामि । अपि तु खलु पुनरहं कुलपुत्र कामरतिप्रमत्तानां सत्त्वानां विषयपरिभोगपरिगृद्धानां तान् विषयानशुभानधितिष्ठामि । क्रोधाविष्टानां मानमददर्पगर्वितानां विग्रहवैनयिकानां रौद्रराक्षसविकृतभयानन्तशरीरान् मांसरुधिरभक्षानात्मभावानुपदर्श्य तं सर्वं स्तम्भसंरम्भमुपदर्शयामि । कुसीदन्यस्तप्रयोगान् सत्त्वानग्न्युदकराजचौरोपसर्गभयसंदर्शनेनोद्वेज्य वीर्यारम्भे नियोजयामि । एवं तैस्तैरुपायैः सर्वाकुशलचर्याभ्यो विनिवर्त्य सर्वकुशलधर्मप्रतिपत्तौ संनियोजयामि । सर्वपारमिताविपक्षनिर्घाताय सर्वपारमितासंभारोपचयाय सर्वावरणपर्वतप्रपातपथसमतिक्रमणाय अनावरणधर्मावताराय च । एतमहं कुलपुत्र मेघजालं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यमिन्द्रकल्पानां
बोधिसत्त्वानां क्लेशासुरप्रमर्दकानां वारिकल्पानां सर्वजगद्दुःखाग्निस्कन्धनिर्वापयितॄणां तेजःस्कन्धकल्पानां सर्वजगत्तृष्णासलिलसंशोषणकराणां वायुकल्पानां सर्वग्राहाभिनिवेशपर्वतविकिरणानां वज्रकल्पानां दृढात्मसंज्ञाशैलनिर्दारणानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे मगधविषये बोधिमण्डे स्थावरा नाम पृथ्वीदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको महादेवस्य पादौ शिरसाभिवन्द्य महादेवं देवमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महादेवस्य देवस्यान्तिकात्प्रक्रान्तः

9.31

33 स्थावरा ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन मगधविषये बोधिमण्डे स्थावरा पृथ्वीदेवता तेनोपसंक्रान्तः । दशपृथिवीदेवताशतसहस्राणि अन्योन्यमेवं वाचमुदीरयामासुः - अयं स आगच्छति, यः सर्वसत्त्वानां प्रतिशरणभूतो भविष्यति । अयं स तथागतगर्भ आगच्छति, यः सर्वसत्त्वानामविद्याण्डकोशं निर्भेत्स्यति । अयं स धर्मराजकुलोदित आगच्छति, यो ऽसङ्गवरविमलधर्मराजपट्टमाबन्धिष्यति । अयं स ज्ञाननारायणवज्रप्रहरणशूर आगच्छति, यः सर्वपरप्रवादिचक्रं प्रमर्दिष्यति । अथ तानि स्थावराप्रमुखानि दशपृथिवीदेवताशतसहस्राणि महापृथिवीचालं कृत्वा गम्भीरजलधरनिर्नादं जनयित्वा सर्वं त्रिसाहस्रं लोकधातुमुदारेणावभासेनावभास्य सर्वरत्नाभरणालंकारप्रतिमण्डितशरीराणि विद्युल्लताकलापा इव गगनतले लम्बमानाः, प्ररोहद्भिः सर्ववृक्षाङ्कुरैः, प्रफुल्लद्भिः सर्वपुष्पवृक्षैः, प्रवर्षद्भिः सर्वनदीस्रोतोभिः, उन्नमद्भिः सर्वोत्ससरोह्रदतडागैः, प्रवर्षद्भिर्महागन्धोदकवर्षैः, प्रवायद्भिः कुसुमौघोत्करप्रवाहिभिर्महावातैः, प्रवादयद्भिः तूर्यकोटीनियुतशतसहस्रैः, प्रसरद्भिः दिव्यविमानाभरणमकुटैः, प्रणदद्भिः गोवृषगजव्याघ्रमृगेन्द्रैः, प्रगर्जद्भिः देवासुरोरगभूताधिपतिभिः, संघट्टमानैर्महाशैलेन्द्रैः उत्प्लवद्भिः, निधिचयकोटीशतसहस्रैः उन्नमद्भिः, धरणीतलादभ्युद्गतानि ॥
अथ स्थावरा पृथिवीदेवता सुधनं श्रेष्ठिदारकमेवमाह - स्वागतं ते कुलपुत्र । अयं स पृथिवीप्रदेशो यत्र ते स्थित्वा कुशलमूलान्यवरोपितानि यत्राहं प्रत्यक्षा । किमिच्छसि तद्विपाकफलैकदेशं द्रष्टुम्? अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्द्य स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य स्थावरायाः पृथिवीदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - इच्छाम्यार्ये ॥
अथ खलु स्थावरा पृथिवीदेवता पादतलाभ्यां महापृथिवीं पराहत्य असंख्येयमणिरत्ननिधानकोटीशतसहस्रप्रतिमण्डितामुपदर्श्य एवमाह - इमानि कुलपुत्र मणिरत्ननिधानकोटीनियुतशतसहस्राणि तवानुगामीनि, तव पुरोजवानि, तव यथेच्छोपभोग्यानि, तव पुण्यविपाकनिर्जातानि, तव पुण्यबलरक्षितानि । तेभ्यस्त्वं गृहीत्वा यत्कार्थं तत्कुरुष्व । अपि त्वहं कुलपुत्र ज्ञानदुर्योधनगर्भस्य बोधिसत्त्वविमोक्षस्य लाभिनी । सा अहमेतेन बोधिसत्त्वविमोक्षेण समन्वागता दीपंकरतथागतमुपादाय बोधिसत्त्वस्य नित्यानुबद्धा सततमारक्षाप्रतिपन्ना । ततः प्रभृति अहं कुलपुत्र बोधिसत्त्वस्य चित्तचरितं व्यवचारयामि, ज्ञानविषयमवगाहयामि, सर्वप्रणिधानमण्डलमवतरामि, बोधिसत्त्वचर्याविशुद्धिमनुगच्छामि, सर्वसमाधिनयमनुसरामि, सर्वबोधिसत्त्वाभिज्ञाचित्तविपुलतां स्फरामि । सर्वबोधिसत्त्वबलाधिपतेयतां सर्वबोधिसत्त्वासंहार्यतां सर्वक्षेत्रजालस्फरणतां सर्वतथागतव्याकरणसंप्रतीच्छनतां सर्वकालाभिसंबोधिसंदर्शनतां सर्वधर्मचक्रप्रवर्तननयं सर्वसूत्रान्तसंप्रभाषणधर्ममेघनयं महाधर्मावलोकावभासनयं ( ग्व् 170 ) सर्वसत्त्वपरिपाचनविनयज्ञाननयं सर्वबुद्धविकुर्वितसंदर्शननयं च अनुगच्छामि संधारयामि संप्रतीच्छामि ॥
एष च मे कुलपुत्र ज्ञानदुर्योधनगर्भो बोधिसत्त्वविमोक्षः सुमेरुपरमाणुरजःसमानां कल्पानां परेण परतरेण चन्द्रध्वजायां लोकधातौ सुनेत्रस्य तथागतस्यान्तिकात्प्रतिलब्धः अवभासव्यूहे कल्पे । सा अहं कुलपुत्र इमं ज्ञानदुर्योधनगर्भं बोधिसत्त्वविमोक्षमायूहन्ती निर्यूहन्ती संवर्धयन्ती विपुलीकुर्वाणा अविरहिताभूवं तथागतदर्शनेन यावद् भद्रकल्पात् । अत्र च मया अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिताः । सर्वेषा च मे तेषां तथागतानां बोधिमण्डोपसंक्रमणविकुर्वितं दृष्टम् । सर्वेषां च अहं तेषां तथागतानां कुशलमूलेषु साक्षीभूता । एतमहं कुलपुत्र ज्ञानदुर्योधनगर्भं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वतथागतानुबद्धानां बोधिसत्त्वानां सर्वबुद्धकथानुधारिणां सर्वतथागतज्ञानगहनप्रविष्टानां चित्तक्षणधर्मधातुस्फरणानुजवानां तथागतसमताशरीराणां सर्वबुद्धाशयविमलगर्भाणां सदाभिनिर्हृतसर्वबुद्धोत्पादानामसंभिन्नसर्वबुद्धकायदूतानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इदमिहैव जम्बुद्वीपे मगधविषये कपिलवस्तु नाम नगरम् । तत्र वासन्ती नाम रात्रिदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्द्य स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य स्थावरायाः पृथिवीदेवताया अन्तिकात्प्रक्रान्तः

मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc