भाषा

ENहिગુ
ग्रंथ पाठ

गण्डव्यूहसूत्र · अध्याय 8

8.1

29 वेष्ठिलः ।
अथ खलु सुधनः श्रेष्ठिदारको येन शुभपारंगमे नगरे वेष्ठिलस्य गृहपतेर्निवेशनं तेनोपजगाम । उपेत्य वेष्ठिलस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । सो ऽवोचत् - आहं कुलपुत्र अपर्यादत्तकोटीगतस्य बोधिसत्त्वविमोक्षस्य लाभी । न मम कुलपुत्र संतानात्तथागतः परिनिर्वृतो न परिनिर्वाति न परिनिर्वास्यति सर्वलोकधातुषु अत्यन्तपरिनिर्वाणेन अन्यत्र वैनयिकसत्त्ववशमुपादाय । सो ऽहं कुलपुत्र चन्दनपीठस्य तथागतचैत्यस्य द्वारमुद्धाटयामि । तच्च मे चैत्यद्वारमुद्धाटयतो ऽक्षयबुद्धवंशव्यूहो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः । एतं चाहं कुलपुत्र समाधिं चित्तक्षणे चित्तक्षणे समापद्ये । सर्वत्र चित्तक्षणे अनेकाकारविशेषतामधिगच्छामि ॥
आह - क एतस्य आर्य समाधेर्विषयः? आह - एतं मम कुलपुत्र समाधिं समापन्नस्य अस्मिन् लोकधातुवंशे बुद्धपरंपरया काश्यपप्रमुखाः सर्वतथागताः कनकमुनिक्रकुच्छन्दविश्वभुकशिखिविपश्यितिष्यपुष्ययशोत्तरपद्मोत्तरप्रमुखाः सर्वतथागता अभिमुखा भवन्ति । बुद्धदर्शनानुसंधौ बुद्धपरंपरानुपच्छेदेन चित्तक्षणे चित्तक्षणे बुद्धशतं पश्यामि । तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि । तदनन्तरेण चित्तेन बुद्धशतसहस्रमवतरामि । एवं बुद्धकोटीं बुद्धकोटीशतं बुद्धकोटीसहस्रं बुद्धकोटीशतसहस्रं बुद्धकोट्ययुतं बुद्धकोटीनियुतं बुद्धकोटीकङ्करं बुद्धकोटीबिम्बरम् । तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धोत्पादपरंपरामवतरामि । तदनन्तरेण चित्तेन जम्बुद्वीपपरमाणुरजःसमांस्तथागतानवतरामि । तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानवतरामि । तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि । ( ग्व् 158 ) प्रथमचित्तोत्पादप्रतिलम्भविकुर्वितमवतरामि । प्रणिधानविमात्रताभिनिर्हारविशुद्धिमवतरामि । चर्याविशुद्धिमवतरामि पारमितापरिपूरिमवतरामि । सर्वबोधिसत्त्वभूमिसमुदागममवतरामि । क्षान्तिप्रतिलम्भविशुद्धिमवतरामि । मारकलिविकिरणविनर्दितमवतरामि । अभिसंबोधिविकुर्वितव्यूहमवतरामि । बुद्धक्षेत्रविशुद्धिविमात्रतामवतरामि । सत्त्वपरिपाकविमात्रतामवतरामि । पर्षत्संनिपातविमात्रतामवतरामि । प्रभामण्डलविमात्रतामवतरामि । धर्मचक्रप्रवर्तनवृषभितामवतरामि । बुद्धविकुर्वितप्रातिहार्यमवतरामि । सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मृत्या चोद्गृह्णामि । गत्या प्रविचिनोमि । भक्त्या प्रविभजामि । बुद्ध्यानुगच्छामि । प्रज्ञया प्रकाशयामि । अनागतबुद्धपरंपरां च मैत्रेयप्रमुखानवतरामि । एकचित्तक्षणे बुद्धशतमवतरामि । तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि । तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समांस्तथागतानवतरामि । तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि । यावत्सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मृत्या चोद्गृह्णामि । गत्या प्रविचिनोमि
। मत्या प्रविभजामि । बुद्ध्या अनुगच्छामि । प्रज्ञया प्रकाशयामि । यथा चेह लोकधातुवंशे पूर्वान्तापरान्तपर्यापन्नानां बुद्धपरंपरां पश्यामि, अवतरामि, तथा दशसु दिक्षु अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु अतीतानागतेषु लोकधातुवंशेषु सर्वतथागतपरंपरामवतरामि । तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि । तां च बुद्धपरंपरावतारमव्यवच्छिन्नां निष्ठामवतरामि । अतुलं श्रद्धागमनीयं बोधिसत्त्ववीर्यव्यवसायगम्यं बोधिसत्त्ववीर्यवेगविवर्धनमसंहार्यं सर्वलोकेन सर्वश्रावकप्रत्येकबुद्धैस्तद्विषयानवक्रान्तैश्च बोधिसत्त्वैः प्रत्युत्पन्नानां च दशसु दिक्षु सर्वलोकधातुषु वैरोचनप्रमुखानां तथागतानां परंपरामवतरामि । एकचित्तक्षणे बुद्धशतं पश्यामि अवतरामि । तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि । तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानवतरामि । यं च यदा तथागतं द्रष्टुमाकाङ्क्षामि, तं तदा पश्यामि । यच्च तैबुद्धैर्भगवद्भिर्भाषितं भाषन्ते भाषिष्यन्ते, तत्सर्व शृणोमि । श्रुत्वा चोद्गृह्णामि । स्मृत्या संधारयामि । गत्या प्रविचिनोमि । मत्या प्रविभजामि । बुद्ध्या अनुगच्छामि । प्रज्ञया प्रकाशयामि । एतमहं कुलपुत्र अपरिनिर्वाणकोटीगतं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं त्र्यध्वैकक्षणज्ञानप्रतिलब्धानां बोधिसत्त्वानां क्षणकोटीसमाधिव्यूहविहारिणां तथागतदिवसावक्रान्तानां सर्वकल्पविकल्पसमतानुगतानां सर्वबुद्धसमतासमाध्यनुबद्धानामात्मसत्त्वबुद्धाद्वयविहारिणां प्रकृतिप्रभास्वरधर्मव्यूहमण्डलानां ज्ञानयन्त्रलोकजालस्फरणानां सर्वतथागतधर्ममुद्राविकोपितविहारिणां सर्वधर्मधातुविज्ञपनज्ञानविषयाणां सर्वतथागतधर्मदेशनाविज्ञप्तिज्ञानविषयाणां चर्यां ज्ञातुम्, गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे पोतलको नाम पर्वतः । तत्र अवलोकितेश्वरो नाम बोधिसत्त्वः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । तस्यां वेलायामिमे गाथे अभाषत -
गच्छो हि सूधन शिरीजलराजमध्ये गिरिराजपोतलकि शोभनि शूरभागे ।
रत्नामयं तरुवरं कुसुमाभिकीर्णमुद्यानपुष्किरिणिप्रस्रवणोपपेतम्

8.2

तस्मिंश्च पर्वतवरे विहराति धीरो अवलोकितेश्वरु विदू जगतो हिताय ।
तं गच्छ पृच्छ सुधना गुण नायकानां देशिष्यते विपुलशोभि नयप्रवेशम्

8.27

अथ खलु सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेः पादौ शिरसाभिवन्द्य वेष्ठिलं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः
पुनरवलोक्य वेष्ठिलस्य गृहपतेरन्तिकात् प्रक्रान्तः

मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc