भाषा

ENहिગુ
ग्रंथ पाठ

गण्डव्यूहसूत्र · अध्याय 7

7.1

22 अचला ।
अथ खलु सुधनः श्रेष्ठिदारकः सुप्रभान्महानगरान्निष्क्रम्य मुहूर्तं मार्गमनुसृत्य महाप्रभस्य राज्ञो ऽनुशासनीमनुविचिन्तयन्, तं महामैत्रीध्वजं बोधिसत्त्वचर्यानयमनुस्मरन्, तं लोकेन्द्रियावर्तमहासमाधिमुखालोकं परिभावयन्, तामचिन्त्यां बोधिसत्त्वकायविशुद्ध्यलंकारसिंहासनव्यूहविमात्रतामभिनिर्हरमाणः, तामचिन्त्यां बोधिसत्त्वप्रणिधिपुण्याधिपतेयबलतामनुबृंहयन्, तमचिन्त्यं बोधिसत्त्वानां सत्त्वपरिपाकज्ञाननयं दृढीकुर्वाणः, तामचिन्त्यामसाधारणां बोधिसत्त्वपरिभोगमाहात्म्यतामनुविचिन्तयन्, तामचिन्त्यां बोधिसत्त्वाधिमात्रतां निमित्तीकुर्वन्, तामचिन्त्यां बोधिसत्त्वानां सत्त्वपरिपाकविशुद्धिमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वपरिवारसंपत्परिशुद्धिमवकल्पयन्, तमचिन्त्यं बोधिसत्त्वानां सत्त्वकार्यनिध्यानालोकनयमधिमुच्यमानः प्रतिलेभे चित्तप्रीतिप्रसादवेगं चित्तप्रहर्षं चित्तोत्प्लवं चित्तनन्दीं चित्तानाविलतां चित्तप्रभास्वरतां चित्तदृढतां चित्तविपुलतां चित्तापर्यादनताम् । स एवं कल्याणमित्रानुस्मृतिमनसिकारप्रयुक्तो ऽश्रूणि प्रवर्तयन् अनुविचिन्तयामास - अहो बतेदं कल्याणमित्रदर्शनं सर्वगुणरत्नाकरभूतं सर्वबोधिसत्त्वचर्यापरिशोधनपरिपूरणं सर्वबोधिसत्त्वस्मृतिविशुद्धिकरं सर्वबोधिसत्त्वधारणीमण्डलपरिशोधनं सर्वबोधिसत्त्वसमाध्यालोकसंजननं सर्वबुद्धदर्शनप्रतिलाभसंभावनं सर्वबुद्धधर्ममेघसंप्रवर्षणं सर्वबोधिसत्त्वप्रणिधिनयसूचनमचिन्त्यप्रज्ञाज्ञानालोकसंजननं दृढबोधिसत्त्वेन्द्रियाङ्कुरविवर्धनम् । परित्रायका मम कल्याणमित्राः सर्वदुर्गतिप्रपातगतिभ्यः । प्रणेतारो मम कल्याणमित्रा धर्मसमतानयानुगमेन । दर्शयितारो मम कल्याणमित्रा मार्गसमविषतायाः । परिदीपकानि मम कल्याणमित्राणि महायानस्य । अववादकानि मम कल्याणमित्राणि समन्तभद्रबोधिसत्त्वचर्यायाम् । देशयितॄणि मम कल्याणमित्राणि सर्वज्ञतानगरमार्गस्य । प्रवेशयितॄणि
मम कल्याणमित्राणि सर्वज्ञतापुरम् । अवतारकाणि मम कल्याणमित्राणि धर्मधातुनयसागरे । आलोककराणि मम कल्याणमित्राणि त्र्यध्वज्ञेयसागरनयस्य । दर्शयितॄणि मम कल्याणमित्राणि सर्वार्थमण्डलगणस्य । विवर्धयितारो मम कल्याणमित्राः सर्वशुक्लधर्माणाम् ॥
तस्यैवं रुदतः क्रन्दतः परिदेवमानस्य गगतलगता देवगणाः सदानुबद्धाश्च संचोदका बुद्धदूता बोधिसत्त्वदेवता एवमाहु - कल्याणमित्रानुशासनीप्रतिपन्नस्य कुलपुत्र बोधिसत्त्वस्य बुद्धा भगवन्तो ऽभिराधितचित्ता भवन्ति । कल्याणमित्रवचनाविलोमस्थायिनो बोधिसत्त्वस्य सर्वज्ञता आसन्नीभवति । कल्याणमित्रवचनाविचिकित्सकस्य बोधिसत्त्वस्य आसन्नीभवन्ति कल्याणमित्राणि । कल्याणमित्रमनसिकाराविरहितस्य बोधिसत्त्वस्य सर्वार्था अभिमुखीभवन्ति । गच्छ कुलपुत्र, येन स्थिरायां राजधान्यामचलोपासिका । ततः श्रोष्यसि बोधिसत्त्वचर्याम् । अथ खलु सुधनः श्रेष्ठिदारकस्ततः समाधिज्ञानालोकाद् व्युत्थाय अनुपूर्वेण येन स्थिरा राजधानी तेनोपसंक्रम्य अचलामुपासिकां परिमार्गति परिगवेषते । तस्य ( ग्व् 132 ) महाजनकाय उपदर्शयति - एषा कुलपुत्र अचलोपासिका स्वनिवेशने मातापितृसभागिनी कुमारभूता स्वज्ञातिगणपरिवृता महतो जनकायस्य धर्मं देशयति ॥
अथ खलु सुधनः श्रेष्ठिदारको महाप्रीतिप्रसादप्रामोद्यपरिस्फुटचेता येन अचलाया उपासिकाया निवेशनं तेनोपजगाम । उपेत्य अचलाया उपासिकाया निवेशनद्वारे स्थितो ऽपश्यत् सर्वं तं निवेशनं सुवर्णवर्णया आभया स्फुटमवभासितं कायचित्तप्रह्लादिन्या । समनन्तरस्पृष्टस्य च सुधनस्य श्रेष्ठिदारकस्य तया प्रभया, सर्ववेदयितैश्वर्यध्वजसमाधिप्रमुखानि शान्तिप्रदेशसमाधिप्रमुखानि सर्वजगद्धितसमाधिप्रमुखानि समन्तचक्षुरुपेक्षावतीसमाधिप्रमुखानि तथागतकोशसमाधिप्रमुखानि पञ्चमात्राणि समाधिमुखशतान्यवक्रान्तानि संभूतानि सूक्ष्माणि मृदूनि । तद्यथापि नाम तद्दिवसार्धक्रान्तस्य गर्भस्य विज्ञानम्, एवं तानि समाधिमुखानि सूक्ष्माणि मृदून्याजातानि । तथारूपं च गन्धमजिघ्रत् यो न देवानां न देवकन्यानां न नागानां न नागकन्यानां न यक्षाणां न यक्षकन्यानां न गन्धर्वाणां न गन्धर्वकन्यानां नासुराणां नासुरकन्यानां न गरुडानां न गरूडकन्यानां न किन्नराणां न किन्नरकन्यानां न महोरगाणां न महोरगकन्यानां न मनुष्याणां न मनुष्यकन्यानाम् । न सा स्त्री दशदिशि लोके संविद्यते, या तस्या रूपेण समा, कुतः पुनरुत्तरि । न स वर्णावभासो ऽस्ति दशदिशि लोके स्थापयित्वा तथागतवर्णावभासम्, अभिषेकप्राप्तबोधिसत्त्ववर्णावभासं च, यस्तस्या वर्णावभासेन समः, कुतः पुनरुत्तरि । नास्ति तदात्मभावारोहपरिणाहसंस्थानं दशदिशि लोके स्थापयित्वा तथागतात्मभावारोहपरिणाहसंस्थानम्, अभिषेकप्राप्तबोधिसत्त्वात्मभावारोहपरिणाहसंस्थानं च, यत्तस्या आत्मभावारोहपरिणाहसंस्थानेन समम्, कुतः पुनरुत्तरि । नास्ति स प्रभाव्यूहो दशदिशि लोके स्थापयित्वा तथागतप्रभाव्यूहम्, अभिषेकप्राप्तबोधिसत्त्वचर्याप्रभाव्यूहं च, यस्तस्याः प्रभाव्यूहेन समः, कुतः पुनरुत्तरि । नास्ति स गन्धो दशदिशि लोके देवभवनेषु वा नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यभवनेषु वा यस्तस्या मुखकोशविसृतगन्धेन समः, कुतः पुनरुत्तरि । नास्ति स भवनव्यूहपरिभोगो दशदिशि लोके स्थापयित्वा तथागतपरिभोगम्, अभिषेकप्राप्तबोधिसत्त्वपरिभोगं च, यस्तस्या भवनव्यूहपरिभोगेन समः, कुतः पुनरुत्तरि । नास्ति सा परिवारसंपत् दशदिशि लोके स्थापयित्वा तथागतपरिवारसंपदम्, अभिषेकप्राप्तबोधिसत्त्वपरिवारसंपदं च, या तस्याः परिवारसंपदा समा, कुतः पुनरुत्तरि । न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि
लोके यः समर्थो ऽचलामुपासिकां रागचित्तेन प्रेक्षितुम् । न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यः अचलाया उपासिकायाः सहदर्शनेन क्लेशो न व्युपशमं गच्छेत् । तद्यथापि नाम दश शतसहस्रवशवर्तिनो महाब्रह्माणः कामावचराः क्लेशान्न समुदाचरन्ति, एवमेव सहदर्शनेन अचलाया उपासिकायाः सत्त्वानां क्लेशा न समुदाचरन्ति । ( ग्व् 133 ) न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यो अचलाया उपासिकायाः सहदर्शनेन तृप्तिमापद्येत स्थापयित्वा प्रज्ञातृप्तान् ॥

अथ खलु सुधनः श्रेष्ठिदारकः कृताञ्जलिपुटो ऽचलाया उपासिकाया अचिन्त्यां कायाधिपतेयताम्, अचिन्त्यं रूपवर्णसंस्थानारोहपरिणाहम्, अचिन्त्यं च सर्वक्षितितलनगरमहापर्वताप्रतिहतं रश्मिजालव्यूहं दृष्ट्वा अचिन्त्यं सत्त्वार्थकरणं च सर्वरोमकूपविसृतं गन्धमाघ्राय अपर्यन्तां च परिवारसंपदमवलोक्य असंहार्यं च भवनविमानव्यूहसंपदमुद्वीक्ष्य अपरिमाणांश्च गुणसमुद्रानवगाह्य अचलामुपासिकामनया गाथया अभ्यष्टौषीत् -
शीलं सदा यदमलं परिरक्षितं ते क्षान्तिर्यतः सुविपुला परिभाविता च ।
वीर्यं च वज्रमिव यद्दृढमास्थितं ते तेनोद्गता जगति भास्यचलेन्द्रकल्पा

7.20

अथ खलु सुधनः श्रेष्ठिदारको ऽचलामुपासिकामनया गाथया अभिष्टुत्य एवमाहमया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खल्वचलोपासिका स्निग्धया बोधिसत्त्ववाचा मनोज्ञया प्रेमणीयया सुधनं श्रेष्ठिदारकं प्रतिसंमोद्य एवमाह - साधु साधु कुलपुत्र, येन ते ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र दुर्योधनज्ञानगर्भस्य बोधिसत्त्वविमोक्षस्य लाभिनी, दृढसमादानबोधिसत्त्वचर्यामुखे च अनुशिक्षामि । सर्वधर्मसमताभूमिधारणीमुखस्य च लाभिनी, दृढसमादानबोधिसत्त्वचर्यामुखे च अनुशिक्षामि । सर्वधर्मसमताभूमिधारणीमुखस्य च लाभिनी, सर्वधर्मतत्त्वोद्योतनं च मे प्रतिभानज्ञानालोकमुखमवक्रान्तम्, धर्मपर्येष्टयपरिखेदव्यूहं च मे समाधिमुखं प्रतिलब्धम् । आह - क एतस्य आर्ये दुर्योधनज्ञानगर्भस्य बोधिसत्त्वविमोक्षमुखस्य विषयः, दृढसमादानबोधिसत्त्वचर्यामुखस्य च सर्वधर्मसमताभूमिधारणमुखस्य च सर्वधर्मतत्त्वोद्योतनप्रतिभानालोकमुखस्य च धर्मपर्येष्ट्यपरिखेदव्यूहसमाधिमुखस्य च विषयः? आह - दुरधिमोक्षं कुलपुत्र इदं स्थानम् । आह - वद आर्ये, बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च अधिमोक्ष्ये अवतरिष्यामि विज्ञास्यामि विचारयिष्यामि अनुसरिष्यामि निध्यास्यामि उपनिध्यास्यामि प्रत्यवेक्षिष्ये विभावयिष्यामि, न विरोधयिष्यामि, न विकल्पयिष्यामि, न समारोपयिष्यामि, समीकरिष्यामि ॥
अथ खलु अचलोपासिका सुधनं श्रेष्ठिदारकमेवमाहभूतपूर्वं कुलपुत्र, अतीते ऽध्वनि विमलप्रभे कल्पे प्रलम्बबाहुर्नाम तथागतो लोके उदपादि । अहं च राज्ञो विद्युद्दत्तस्यैका ( ग्व् 134 ) दुहिता अभूवम् । तया मे रात्र्यां प्रशान्तायां पिहितेषु राजपुरद्वारेषु, सुप्तयोर्मातापित्रोः, संप्रसुप्तेषु नरनारीगणेषु, व्युपशान्तेषु तूर्यतालावचरनिर्घोषेषु, शयितेषु सभागचरितेषु पञ्चसु कन्याशतेषु, शयनतलगतया गगनतलगतां ज्योतिर्गणवतीं रजनीं प्रेक्षन्त्या उपर्यन्तरिक्षे स भगवान् प्रलम्बबाहुस्तथागतो ऽर्हन् सम्यक्संबुद्धः सुमेरुरिव अचलेन्द्रानेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिवारो ऽचिन्त्यासंख्येयबोधिसत्त्वगणपरिवृतः सर्वदिगप्रतिहतरश्मिजालस्फरणकायो दृष्टः । तस्य च तथागतस्य सर्वरोमविवरेभ्यस्तथारूपो गन्धः प्रवाति, येनास्मि प्रह्लादितकायचित्ता प्रहर्षितमानसा । शयनतलादुत्थाय दशनखकृतकरपुटाञ्जलिर्धरणितलप्रतिष्ठिता तं भगवन्तं प्रलम्बबाहुं तथागतमर्हन्तं सम्यक्संबुद्धं नमस्कृत्वा मूर्ध्ना नमस्य अवलोकयमाना पर्यन्तं नाधिगच्छामि । वामदक्षिणतः प्रमाणं नोपैमि । लक्षणानुव्यञ्जनसंपदमनुविचिन्तयमाना तृप्तिं नाप्नोमि । तस्या मम कुलपुत्र एतदभवत् - कीदृशं कर्म कृत्वा इयमीदृशी कायसंपत् प्रतिलभ्यते? लक्षणानुव्यञ्जनसंपदा जायते? प्रभाव्यूहसंपत्संभवति? परिवारसंपदभिनिर्वर्तते? मनोमयभवनपरिभोगसंपत्प्रादुर्भवति? पुण्यसंपदुत्पद्यते? ज्ञानसंपद्विशुद्ध्यते? अचिन्त्यसमाधिविकुर्वितसंपत्समुदागच्छति? धारणीसंपत्परिनिष्पद्यते? प्रतिभानसंपद्वशीभवति?
अथ खलु कुलपुत्र स भगवान् प्रलम्बबाहुस्तथागतो ममाध्यांशयं विदित्वा एवमाह - दुर्योधनचित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय । अपराजितचित्तं सर्वाभिनिवेशनिर्वेदाय । असंकुचितचित्तं गम्भीरधर्मनयानुगमाय । अक्षोभ्यचित्तं विषयाशयसत्त्वसागरावर्तप्रपातेषु । असंमूढचित्तं सर्वभवगत्युपपत्त्यायतनेषु । अवितृप्तचित्तं सर्वबुद्धदर्शनाभिलाषाप्रतिप्रस्रब्धये । असंतुष्टिचित्तं सर्वतथागतधर्ममेघसंप्रत्येषणाय । निध्यप्तिचित्तं सर्वबुद्धधर्मनयालोकानुगमाय । संघारणाचित्तं सर्वतथागतधर्मचक्राणाम् । असंप्रमोहचित्तमन्तशः संकेतकृते, किमुत तथागतवदनविनिर्गतज्ञाने । विभाजनचित्तं च ते दारिके उत्पादयितव्यं यथाशयसर्वसत्त्वधर्मरत्नसंविभजनाय ।

साहं कुलपुत्र तस्य भगवतः प्रलम्बबाहोस्तथागस्यार्हतः सम्यक्संबुद्धस्यान्तिकादिमानि एवंरूपाणि धर्मनयानुशासनीमुखानि श्रुत्वा सर्वज्ञज्ञानमभिकाङ्क्षमाणा दशबलभावमभिप्रार्थयमाना बुद्धसरस्वतीमभिलषन्ती बुद्धप्रभाव्यूहं परिशोधयितुकामा बुद्धशरीरसंपदं परिनिष्पादयितुकामा बुद्धलक्षणानुव्यञ्जनविशुद्धिमभिकाङ्क्षमाणा बुद्धपर्षन्मण्डलसंपदमभिप्रार्थयमाना बुद्धक्षेत्रविशुद्धिमभिलषन्ती बुद्धेर्यापथसंपदमभिकाङ्क्षमाणा बुद्धायुःप्रमाणसंपदमभिनन्दन्ती सर्वक्लेशसर्वश्रावकप्रत्येकबुद्धाभेद्यचित्तमुत्पाददितवती दुर्योधनवज्रमिव सर्वपर्वतायुधबलैः । नाभिजानामि कुलपुत्र तत उपादाय एतेन चित्तोत्पादेन जम्बुद्वीपः परमाणुरजःसमैः कल्पैरपि कामान् परिभोक्तुम्, कः पुनर्वादो द्वयद्वयसमापत्त्या । नाभिजानामि कुलपुत्र तत उपादाय एकप्रतिघचित्तमुत्पादयितुं स्वबान्धवेषु, प्रागेवानपराधिषु तदन्येषु सत्त्वेषु । नाभिजानामि तत उपादाय एकचित्तोत्पादमध्यात्मदृष्टिसहगतमुत्पादयितुम्, ( ग्व् 135 ) प्रागेव तदन्येषूपकरणेषु ममकाराभिनिवेशम् । नाभिजानामि चित्तसंमोहं नान्यत्वसंज्ञामव्याकृतचित्ततां वा च्युत्युपपत्तिगर्भसंवासेष्वपि, प्रागेव समन्वाहरमाणा । नाभिजानामि तावद्भिः कल्पैरेकबुद्धदर्शनमपि विस्मर्तुम् । अन्तशः स्वप्नदर्शनविज्ञप्तिमपि, प्रागेव दशबोधिसत्त्वचक्षुःप्रतिभासप्राप्तेषु । नाभिजानामि तत उपादाय सर्वतथागतधर्ममेघान् संप्रतीच्छमाना एकधर्मपदव्यञ्जनमपि मनसा विस्मर्तुम्, अन्तशः संज्ञाकृतमपि, प्रागेव तथागतवदनकोशविनिःसृतम् । नाभिजानामि तत उपादाय तावतो धर्मसागरान् पिबन्ती एकपदमप्यनिध्यातमविलोकितम्, अन्तशो लौकिकेषु धर्मेषु । नाभिजानामि तत उपादाय तावतां धर्मनयसागराणामेकधर्मनयद्वारमपि यत्र मया न समाधिरभिनिर्हृतः, अन्तशो लौकिकशिल्पज्ञाननयेष्वपि । नाभिजानामि तत उपादाय तावतां तथागतानां धर्मचक्रं संधारयमाणा यथासंधारितादेकपदव्यञ्जनमप्यनुस्रष्टम्, अन्तशो ऽन्वयज्ञानानुगमनेनापि अन्यत्र सत्त्वविनयवशात् । नाभिजानामि तत उपादाय तावतां बुद्धदर्शनसमुद्राणामेकप्रणिधानमपि यन्मया न सर्वसत्त्वसागरविशुद्धये ऽभिनिर्हृतम्, अन्तशो निर्माणबुद्धप्रणिधिविचारेष्वपि । नाभिजानामि तत उपादाय तावतां बुद्धसमुद्राणां पूर्वबोधिसत्त्वचर्यासमुद्रादेकबोधिसत्त्वचर्यामपि, या मया न स्वचर्यापरिशुद्ध्ये
ऽभिनिर्हृता । नाभिजानामि तत उपादाय एकसत्त्वमपि चक्षुरवभासमागतं यो मयानुत्तरायां सम्यक्संबोधौ न समादापितः । नाभिजानामि तत उपादाय एकचित्तोत्पादमपि श्रावकप्रत्येकबुद्धमनसिकारप्रतिसंयुक्तमभिनिर्हर्तुम् । नाभिजानामि कुलपुत्र तत उपादाय जम्बुद्वीपपरमाणुरजःसमैः कल्पैरेकपदव्यञ्जने ऽपि संशयमुत्पादयितुं द्वयसंज्ञां वा विकल्पसंज्ञां वा नानात्वसंज्ञां वा अग्रहसंज्ञां वा हीनप्रणीतसंज्ञां वा अनुनयप्रतिघसंज्ञां वा उत्पादयितुम् ॥
साहं कुलपुत्र ततः पश्चादविरहिता अभूवं बुद्धोत्पादैः । अविरहिता बुद्धैर्भगवद्भिः । अविरहिता बोधिसत्त्वैः । अविरहिता भूतकल्याणमित्रैः । अविरहिता बुद्धप्रणिधानश्रवेण । अविरहिता बोधिसत्त्वचर्याश्रवेण । अविरहिता बोधिसत्त्वपारमितानयश्रवेण । अविरहिता बोधिसत्त्वभूमिज्ञानालोकनयश्रवेण । अविरहिता बोधिसत्त्वधारणीसमाध्यक्षयकोषनिधानश्रवणप्रतिलाभेन । अविरहिता अनन्तमध्यलोकधातुजालप्रवेशावतारनयश्रवेण । अविरहिता अनन्तमध्यसत्त्वधातुसंभवहेतुश्रवणप्रतिलाभेन । अविरहिता सर्वजगत्क्लेशजालमण्डलपर्यादानज्ञानालोकेन । अविरहिता सर्वसत्त्वकुशलमूलसंभवहेतुज्ञानप्रतिलाभेन । अविरहिता सर्वसत्त्वयथाशयकायसंदर्शनेन । अविरहिता सर्वसत्त्वाज्ञापनस्वरमण्डलविशुद्ध्या । एतं च मे कुलपुत्र दुर्योधनज्ञानगर्भं बोधिसत्त्वविमोक्षसुखम्, एतच्च सर्वधर्मपर्येष्ट्यपरिखेदव्यूहं समाधिमुखं समापन्नायाः, एतच्च दृढसमादानबोधिचर्यामुखं प्रविचिन्वन्त्याः । एतच्च सर्वधर्मसमताभूमिधारणीमुखम् । एतच्च सर्वधर्मतलोद्योतनप्रतिभावज्ञानालोकमुखं व्यवचारयन्त्या अचिन्त्यानि प्रातिहार्याणि भवन्ति । इच्छसि त्वं कुलपुत्र, प्रत्यक्षो भवितुम्? आह - इच्छाम्यार्ये ॥
अथ खलु अचलोपासिका यथानिषण्णैव दुर्योधनज्ञानगर्भबोधिसत्त्वविमोक्षमुखपूर्वंगमानि सर्वधर्मपर्येष्ट्यपरिखेदव्यूहसमाधिमुखपूर्वंगमानि अमोघमण्डलव्यूहसमाधिमुखपूर्वंगमानि दशबलज्ञानमण्डलाभिमुखसमाधिमुखपूर्वंगमानि बुद्धवंशाक्षयकोशसमाधिविमोक्षमुखपूर्वंगमानि च दश समाधिमुखशतसहस्राणि व्यवलोकयति अनुविचारयति अनुसरति निध्यपयति । समनन्तरसमापन्नायां च अचलायामुपासिकायाम्, अपश्यत् सुधनः श्रेइष्ठिदारको दशसु दिक्षु दशबुद्धक्षेत्रानभिलाप्यपरमाणुरजःसमान् लोकधातून् षड्विकारं प्रकम्पमानान्, परिशुद्धवैडूर्यमयान् संस्थितान् । एकैकस्मिंश्च लोकधातौ कोटीशते चातुर्महाद्वीपकानां लोकधातूनां कोटीशतं तथागतानामपश्यत् । कांश्चित्तुषितवरभवनगतान्, कांश्चिद् यावत्परिनिर्वायमाणानपश्यत् यदुत अनावरणत्वात्परिशुद्धवैडूर्यमयलोकधातूनाम् । एकैकं च तथागतं सर्वधर्मधातुस्फरणरश्मिजालप्रभामण्डलम्, एकैकं च तथागतं सुविभक्तपर्षन्मण्डलसमुद्रमपश्यत् । एकैस्य च तथागतस्य सर्वधर्मचक्रोद्योतनं सर्वसत्त्वश्रोत्रविज्ञपनं स्वरमण्डलमश्रौषीत् ॥

अथ खल्वचलोपासिका ततः समाधेर्व्युत्थाय सुधनं श्रेष्ठिदारकमेवमाह - दृष्टं ते कुलपुत्र, श्रुतं विज्ञातम्? आह - दृष्टमार्ये, श्रुतं विज्ञातम् । आह - एवमहं कुलपुत्र, दृढसमादानायां बोधिसत्त्वचर्यायामनुशिक्षमाणा सर्वधर्मपर्येष्ट्यपरिखेदव्यूहसमाधिसमापन्ना दुर्योधनज्ञानगर्भबोधिसत्त्वविमोक्षमुखप्रतिष्ठिता सर्वधर्मसमताभूमिधारण्यनुगमेन सर्वधर्मतलोद्योतनप्रतिभानज्ञानालोककौशल्येन सर्वसत्त्वान् सुभाषितेन संतोषयामि । किं मया शक्यमचिन्त्याप्रमेयगुणसमन्वागतानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्? ये ते द्विजर्षभा इव गगनतले ऽनिकेतचारिणः । ये ते महागरुडेन्द्रा इव सत्त्वसागरमवगाहन्ते परिपक्वबोधिसत्त्वोद्धरणतायै । ये ते वणिज इव सर्वज्ञतारत्नद्वीपे ऽनुविचरन्ति दशबलज्ञानरत्नाभिकाङ्क्षिणः । ये ते बलवत्कैवर्ता इव संसारसागरे ऽनुविचरन्ति रुचिरधर्मचक्रमण्डलजालहस्ताः तृष्णोद्भवसत्त्वपरिपाचनाभ्युद्धरणतायै । ये ते ऽसुरेन्द्रा इव त्रिभुवनपुरं स्फरित्वा विचरन्ति क्लेशासुरसंक्षोभोद्वृत्तसंशमनतायै । ये ते दिनकरमण्डलमिव धर्मधातुगगनतले समुदागच्छन्ति सत्त्वतृष्णासलिलक्लेशपङ्कोच्छोषणतायै । ये ते पूर्णचन्द्रमण्डलमिव ज्ञाननभस्युदागच्छन्ति विनेयमनःकुमुदविबोधनतायै । ये ते धरणितलमिवानुनयप्रतिघोन्नामावनामविषमे समा लोके संतिष्ठन्ते सर्वजगत्कुशलेन्द्रियाङ्कुरप्ररोहणविवर्धनतायै । ये ते मारुत इवासङ्गसर्वदिग्विचारिणः सर्वसत्त्वक्लेशदृष्टिद्रुमलतावनारामोन्मूलनतायै । ये ते चक्रवर्तिन इव लोके विचरन्ति चतुःसंग्रहवस्तुपरिष्कारोपकरणसर्वजगत्संग्रहणतायै । गच्छ कुलपुत्र, इहैव दक्षिणापथे ऽमिततोसले जनपदे तोसलं नाम नगरम् । तत्र सर्वगामी नाम परिव्राजकः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुघनः श्रेष्ठिदारको ऽचलाया उपासिकायाः पादौ शिरसाभिवन्द्य अचलामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अचलाया उपासिकाया अन्तिकात्प्रक्रान्तः

7.21

23 सर्वगामी ।
अथ खलु सुधनः श्रेष्ठिदारको ऽचलामुपासिकामामुखीकृत्य अचलाया उपासिकाया अनुशासनीमनुस्मरन्, यदचलयोपासिकया दर्शितं श्रावितं देशितं संवर्णितं योजितं विभक्तं प्रभावितं विसृतं तत्संभावयन्, अनुसरन्, अनुविचिन्तयन् अवतरन् भावयन् निगमयन् निध्यायन् अवभासयन् समीकुर्वन् अनुपूर्वेण देशेन देशं जनपदेन जनपदमनुचंक्रमन् अनुविचरन् येनामिततोसलो जनपदस्तेनोपजगाम । उपेत्य तोसलं नगरं परिमार्गन् परिगवेषमाणो ऽनुपूर्वेण तोसलं नगरमनुप्राप्तः । सूर्यास्तंगमनकाले स तोसलं नगरमनुप्रविश्य मध्ये नगरशृङ्गाटकस्य स्थित्वा वीथीमुखेन वीथीमुखं चत्वरेण चत्वरं रथ्यया रथ्यां सर्वगामिनं परिव्राजकं परिगवेषमाणो व्यवचारयन् अद्राक्षीद्रात्र्यां प्रशान्तायां तोसलस्य नगरस्योत्तरे दिग्भागे सुलभं नाम पर्वतम् । तस्य शिखरे विविधतृणगुल्मौषधिवनारामरचिते महावभासप्राप्तं भास्करमिवोदितम् । तस्य तमवभासं दृष्ट्वा उदारप्रीतिवेगसंजातस्य एतदभवत् - असंशयमहमत्र पर्वतशिखरे कल्याणमित्रं द्रक्ष्यामीति । स तस्मान्नगरादभिनिष्क्रम्य येन सुलभः पर्वतः, तेनोपेत्य सुलभं पर्वतमभिरुह्य येन तन्महावभासं पर्वतशिखरं तेनोपसंक्रामन्नद्राक्षीद्दूरत एव सर्वगामिनं परिव्राजकं महाब्रह्मातिरेकवर्णं श्रिया देदीप्यमानं दशभिर्ब्रह्मसहस्रैः परिवृतं चंक्रमे चंक्रम्यमाणम् । स तस्य पादौ शिरसाभिवन्द्य तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - साधु साधु कुलपुत्र, यस्त्वमनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितः । अहं कुलपुत्र सर्वगामी सर्वत्रानुगतायां बोधिसत्त्वचर्यायां स्थितः समन्तमुखव्यवचारणालोकेन समाधिमुखेन अभावप्रतिष्ठितया आर्यानभिसंस्कारिकया समन्तधर्मधातुतलभेदेन च प्रज्ञापारमिताज्ञानालोकमुखेन समन्वागतः । सो ऽहं कुलपुत्र सर्वसत्त्वभाजनलोकव्यवचारेषु सर्वसत्त्वगतिव्यवचारेषु सर्वसत्त्वच्युतिमुखेषु सर्वसत्त्वोपपत्तिमुखेषु सर्वभवगतिसंभेदेषु विविधोपपत्त्यायतनविचित्रे लोकसंनिवेशे विचित्रवर्णसंस्थानारोहपरिणाहानां सत्त्वानां नानाविधोपपत्तिसंयोजनानां नानाप्रयोगाणां विचित्राधिमुक्तानां यदुत देवगतिपर्यापन्नानां नागगतिपर्यापन्नानां यक्षगतिपर्यापन्नानां गन्धर्वगतिपर्यापन्नानामसुरगतिपर्यापन्नानां गरुडगतिपर्यापन्नानां किन्नरगतिपर्यापन्नानां
महोरगगतिपर्यापन्नानां नरकगतिपर्यापन्नानां तिर्यग्योनिगतिपर्यापन्नानां यमलोकगतिपर्यापन्नानां मनुष्यगतिपर्यापन्नानामनुष्यगतिपर्यापन्नानां विविधदृष्टिगतिनिश्रितानां श्रावकयानाधिमुक्तानां प्रत्येकबुद्धयानाधिमुक्तानां महायानाधिमुक्तानां सत्त्वानामर्थं करोमि विविधैरुपायैर्विविधैर्ज्ञाननयप्रयोगैः । यदुत केषांचित्सत्त्वानां विविधलौकिकशिल्पशिक्षणतया अर्थं करोमि सर्वशिल्पज्ञानभेदवतीधारण्यालोकेन । ( ग्व् 138 ) केषांचित् सत्त्वानां चतुःसंग्रहवस्तुप्रयोगेण अर्थं करोमि यदुत सर्वज्ञज्ञानोपनयनाय । केषांचित् सत्त्वानां पारमितासंवर्णनतया अर्थं करोमि यदुत सर्वज्ञतापरिणामज्ञाननयालोकसंजननतया । केषांचित् सत्त्वानां बोधिचित्तसंवर्णनतया अर्थं करोमि यदुत बोधिबीजाविप्रणाशोपस्तम्भसंजननतया । केषांचित् सत्त्वानां सर्वाकारबोधिसत्त्वचर्यासंवर्णनतया अर्थं करोमि यदुत सर्वबुद्धक्षेत्रपरिशोधनसर्वसत्त्वपरिपाकप्रणिधिसंजननतायै । केषांचित् सत्त्वानामुद्वेगसंजननतया अर्थं करोमि यदुत दुश्चरितविपाकनिष्यन्दनरकगतिदुःखवेदनानुभवसंदर्शनतया । केषांचित् सत्त्वानां महाप्रीतिसंजननतया अर्थं करोमि यदुत सर्वतथागतावरोपितदक्षिणानियतसर्वज्ञताफलपर्यवसाने ऽभ्युदीरणतया । केषांचित् सत्त्वानां सर्वतथागतगुणवर्णसंप्रकाशनतया अर्थं करोमि यदुत बुद्धगुणशरीराभिलाषसर्वज्ञताप्रणिधिसंजननतायै । केषांचित् सत्त्वानां बुद्धमाहात्म्यसूचनया अर्थं करोमि यदुत अविवर्त्यानाभोगाप्रतिप्रस्रब्धबुद्धकार्यानुष्ठानसक्तबुद्धकायप्रतिलम्भाभिलाषसंजननतायै । केषांचित् सत्त्वानां बुद्धाधिपतेयतासंदर्शनतया अर्थं करोमि यदुत अनभिभूतबुद्धात्मभावसंपत्प्रतिलाभाभिलाषसंजननतायै ।

अपि तु खलु पुनरहं कुलपुत्र, इह नगरे तोसले सर्वरथ्यासु सर्वचत्वरेषु सर्वशृङ्गाटकेषु सर्ववीथीमुखेषु सर्वगृहेषु सर्वश्रेणिषु सर्वकुलेषु सर्वकुलपरिवर्तेषु यथासंनिपतितानां स्त्रीपुरुषदारकदारिकाणां यथाशयानां यथाप्रयोगाणां यथाधिपतेयानां यथाव्यवचाराणां तत्सभागानि आत्मभावारोहपरिणाहसंस्थानानि अभिनिर्हृत्य धर्मं देशयामि । न च ते सत्त्वा अवबुध्यन्ते केनेदं देशितम्, कुतो वायमिति । अन्यत्र श्रुत्वा तथत्वाय प्रतिपद्यन्ते । ये ऽपीमे कुलपुत्र जम्बुद्वीपे षण्णवतियो पाषण्डा विविधदृष्टिगताभिनिविष्टाः, तत्राप्यहं सर्वत्रानुगच्छामि विविधदृष्टिगतसक्तानां सत्त्वानां परिपाचनतायै । यथा च कुलपुत्र अहमिह तोसले नगरे सत्त्वानामर्थं करोमि, एवं जम्बुद्वीपे सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानामर्थं करोमि । यथा जम्बुद्वीपे, तथा सर्वत्र चातुर्द्वीपके लोकधातौ, एवं साहस्रे द्विसाहस्रे त्रिसाहस्रे महासाहस्रे लोकधातौ, एवं दशसु दिक्षु, अपरिमाणेषु लोकधातुषु, सर्वसत्त्वपथेषु सर्वसत्त्वप्रतिष्ठानेषु सर्वसत्त्वनिकेतेषु सर्वसत्त्वनिलयसंज्ञागतेषु सर्वसत्त्वपरिवर्तेषु सर्वसत्त्वसमवसरणेषु सर्वसत्त्वसमुद्रेषु सर्वसत्त्ववंशेषु सर्वसत्त्वदिक्षु सर्वसत्त्वविदिक्षु सर्वसत्त्वविधिषु यथाशयाधिमुक्तानां सत्त्वानामर्थं करोमि । विविधैरुपायै र्विविधैर्नयैर्विविधैर्द्वारैर्विविधाभिर्युक्तिभिर्विविधैः संप्रयोगैः विविधैरुपायनयैर्विविधाभिः क्रियाभिर्विविधरूपवर्णसंदर्शनसंप्रसादनतया विविधवाक्पथोदीरणतया सत्त्वानामर्थं करोमि । एतामहं कुलपुत्र सर्वगामिनीं सर्वत्रानुगतां बोधिसत्त्वचर्यां प्रजानामि । किं मया शक्यं बोधिसत्त्वानां सर्वजगन्मयशरीराणां स्वकायसर्वकायासंभेदसमाधिप्रतिलब्धानां सर्वभवगत्यनुसृतविपुलनिर्माणचक्राणां सर्वलोकोपपत्तिस्वशरीरानुविचारिणां सर्वजगन्नयनरोचनरुचिरनिर्माणचक्रपरमाणां ( ग्व् 139 ) सर्वजगज्जातिकुलजन्मोपपत्तिप्रदर्शकानां सर्वकल्पसंवासाप्रतिहतप्रणिधिचक्राणामिन्द्रजालतलोपमचर्याव्यूहावभासप्रतिलब्धानां सर्वजगदर्थक्रियानुपलेसंवासपरमाणां त्र्यध्वजगत्तलसमतानुगतानां नैरात्म्यवतीज्ञानधातुप्रतिभासितापर्यन्तमहाकरुणागर्भाणां
सर्वजगत्कुशलाधानाभिमुखानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे पृथुराष्ट्रं नाम जनपदः । तत्रोत्पलभूतिर्नाम गान्धिकश्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वानां बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सर्वगामिनः परिव्राजकस्य पादौ शिरसाभिवन्द्य सर्वगामिनं परिव्राजकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सर्वगामिनः परिव्राजकस्यान्तिकात् प्रक्रान्तः

7.22

24 उत्पलभूतिः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनपेक्षः काये जीविते च, अनपेक्षः सर्वभवभोगपरिग्रहोपादानाभिनिवेशनापत्तिषु, अनपेक्षः सर्वसत्त्वदेशरतिषु, अनपेक्षः सर्वरूपशब्दगन्धरसस्प्रष्टव्येषु, अनपेक्षः सर्वपरिवारोपभोगपरिभोगेषु, अनपेक्षः सर्वराज्यैश्वर्याधिपत्यसुखेषु, सापेक्षः सर्वसत्त्वपरिपाचनविनयपरिशुद्धिषु अनुत्तरबुद्धक्षेत्रपरिशुद्ध्यभिनिर्हरणतया, सापेक्षः सर्वतथागतपूजोपस्थानपरिचर्यावितृप्ततया, सापेक्षः सर्वधर्मेषु स्वभावपरिज्ञानानुगमाय, सापेक्ष सर्वबोधिसत्त्वगुणेषु सर्वगुणसागरेषु प्रतिपत्त्यच्यवनतायै, सापेक्षः सर्वबोधिसत्त्वमहाप्रणिधानेषु सर्वकल्पानवशेषबोधिसत्त्वचर्यासंवासनतायै, सापेक्षः सर्वतथागतपर्षन्मण्डलसमुद्रावतारेषु, सापेक्षः सर्वबोधिसत्त्वसमाधिमुखेषु एकैकसमाधिमुखसर्वबोधिसत्त्वसमाध्यसंख्येयावतरणविकुर्वणतायै, सापेक्षः सर्वधर्मज्ञानालोकचक्रेषु सर्वतथागतधर्मचक्रसंप्रतीच्छनातृप्ततायै सर्वकल्याणमित्राकरान् सर्वकल्याणमित्रसंभवने, तांश्च अन्यांश्च सर्वबोधिसत्त्वगुणान् संपश्यन् अनुपूर्वेण येन पृथुराष्ट्रं जनपदस्तेनोपसंक्रम्य उत्पलभूतिं गान्धिकश्रेष्ठिनं परिमार्गन् परिगवेषमाणो ऽद्राक्षीत् । दृष्ट्वा च पुनर्येनोत्पलभूतिर्गान्धिकश्रेष्ठी तेनोपजगाम । उपेत्य उत्पलभूतेर्गान्धिकश्रेष्ठिनः पादौ सिरसाभिवन्द्य उत्पलभूतिं गान्धिकश्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य उत्पलभूतेर्गान्धिकश्रेष्ठिनः पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमार्य अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः सर्वबुद्धसमज्ञानमाकाङ्क्षमाणः सर्वबुद्धपूर्णप्रणिधानमण्डलं परिपूरयितुकामः सर्वबुद्धरूपकायं द्रष्टुकामः सर्वबुद्धधर्मकायं परिनिष्पादयितुकामः सर्वबुद्धधर्मज्ञानकायं परिज्ञातुकामः सर्वबोधिसत्त्वचर्यामण्डलं परिशोधयितुकामः सर्वबोधिसत्त्वसमाधिमण्डलमवभासयितुकामः सर्वबोधिसत्त्वधारणीमण्डलं संस्थापयितुकामः सर्वावरणमण्डलं विकरितुकामः सर्वक्षेत्रमण्डलमनुविचरितुकामः । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । कथं प्रतिपद्यमानो बोधिसत्त्वो निर्याति सर्वज्ञतायाम्? आह - साधु साधु कुलपुत्र, येन ते ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र सर्वगन्धान् प्रजानामि । सर्वगन्धयोगान् सर्वधूपान् सर्वधूपयोगान् प्रजानामि । सर्वानुलेपनानि सर्वानुलेपनयोगान्
सर्वचूर्णान् सर्वचूर्णयोगान् सर्वगन्धानुलेपनचूर्णाकरान् प्रजानामि । देवगन्धानपि प्रजानामि । नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगन्धानपि प्रजानामि । विविधानपि गन्धान् प्रजानामि । व्याधिप्रशमनगन्धानपि, दौर्मनस्यापहारगन्धानपि, लौकिकप्रीतिसंजननगन्धानपि, क्लेशोज्ज्वालनगन्धानपि, क्लेशप्रशमनगन्धानपि, विविधसंस्कृतरतिसुखसंजननगन्धानपि, सर्वसंस्कृतोद्वेगसंजननगन्धानपि, मदप्रमादापहारगन्धानपि, बुद्धमनसिकारसमुदाचारसंभवगन्धानपि, धर्मनयानुगमगन्धानपि, आर्योपभोग्यगन्धानपि, सर्वबोधिसत्त्वगन्धविमात्रतामपि, सर्वबोधिसत्त्वभूमिव्यवस्थानगन्धानपि ( ग्व् 141 ) प्रजानामि । सर्वांश्च तानहं गन्धानाकारतो ऽपि प्रजानामि । संभवतो ऽपि उत्पादतो ऽपि प्रादुर्भावतो ऽपि परिनिष्पत्तितो ऽपि परिशुद्धितो ऽपि परिहारतो ऽपि प्रयोगतो ऽपि परिभोगतो ऽपि विषयतो ऽपि प्रभावतो ऽपि धर्मतो ऽपि मूलतो ऽपि प्रजानामि ॥
अस्ति कुलपुत्र मनुष्यलोके नागसंक्षोभसंभवहस्तिगर्भो नाम गन्धः, यस्य तिलमात्रा गुलिका सकलं पृथुराष्ट्रं जनपदं महागन्धघनाभ्रजालसंछन्नं कृत्वा सप्ताहं सूक्ष्मगन्धोदकधारावर्षमभिप्रवर्षति । तत्र येषां सत्त्वानां शरीरे वा चीवरे वा गन्धोदकधारा निपतन्ति, ते सर्वे सुवर्णवर्णकुसुमविचित्रिता भवन्ति । येषु च भवनविमानकूटागारेषु निपतन्ति, ते सर्वे सुवर्णवर्णकुसुमविचित्रिता भवन्ति । ये ऽपि सत्त्वास्तेषां गन्धमेघजालानां मारुतसमीरितानामन्तर्भवनगता गन्धं जिघ्रन्ति, ते सर्वे सप्ताहमुदारप्रीतिप्रामोद्यपरिस्फुटा भवन्ति, अनेकविधानि च कायिकचैतसिकानि सुखसौमनस्यानि प्रत्यनुभवन्ति । न चैषां शरीरे व्याधिरुत्पद्यते धातुसंक्षोभजो वा अपरपरिक्रमिको वा । नापि चैतसिकं दुःखदौर्मनस्यमुत्पद्यते, न समुदाचरति भयं वा त्रासं वा च्छम्भितत्त्वं वा मनःसंक्षोभो वा व्यापादो वा । सर्वे च ते सत्त्वा अन्योन्यं मैत्रचित्ता भवन्ति हर्षप्रीतिसंजाताः । तेषामहं कुलपुत्र हर्षप्रीतिसंजातानामाशयविशुद्धिमारभ्य तथा धर्मं देशयामि, यथा नियता भवन्ति अनुत्तरायां सम्यक्संबोधौ ॥

अस्ति कुलपुत्र मलयपर्वतसंभवं गोशीर्षं नाम चन्दनम्, येनानुलिप्तगात्रो अग्निखदायामपि प्रपतितो न दह्यते । अस्ति कुलपुत्र सागरकच्छसंभवो अपराजितो नाम गन्धः, येनानुलिप्ताया भेर्याः शङ्खस्य वा निर्घोषेण सर्वपरचक्रं पराजयं गच्छति । अस्ति कुलपुत्र अनवतप्तहृदतीरसंभवं पद्मगर्भं नाम कालागरु, यस्य तिलमात्रा गुलिका सकलं जम्बुद्वीपं गन्धेन स्फरति । ये च सत्त्वास्तं गन्धं जिघ्रन्ति, ते सर्वे पापविजुगुप्सनसंवरचित्तं प्रतिलभन्ते । अस्ति कुलपुत्र हिमवत्पर्वतराजसंभवा अरुणवती नाम गन्धजातिः, यस्या गन्धमाघ्राय सत्त्वा विरक्तचित्ता भवन्ति । तेषामहं तथा धर्मं देशयामि, यद्विरजोमण्डलं नाम समाधिं प्रतिलभन्ते । अस्ति कुलपुत्र राक्षसलोकसंभवा सागरगर्भा नाम गन्धजातिः, या राज्ञश्चक्रवर्तिनः परिभोगायोत्पद्यते, यया धूपितमात्रया चतुरङ्गो बलकायो राज्ञश्चक्रवर्तिनो गगनतले प्रतिष्ठते । अस्ति कुलपुत्र, सुधर्मदेवसभासंभवा शोभनव्यूहा नाम गन्धजातिः, यया धूपितमात्रया देवा बुद्धगन्धस्मृतिं प्रतिलभन्ते । अस्ति कुलपुत्र सुयामदेवराजभवने शुद्धकोशानां गन्धजातिः, यया धूपितया सर्वे सुयामदेवपुत्राः सुयामदेवराजसकाशमुपसंक्रामन्ति । तेषामुपसंक्रान्तानां सुयामो देवराजो धार्मीं कथां कथयति । अस्ति कुलपुत्र तुषितभवने सिन्धुवारिता नाम गन्धजातिः, या धर्मासननिषण्णस्य एकजातिप्रतिबद्धस्य बोधिसत्त्वस्य पुरतो धूपिता महागन्धमेघेन सकलं धर्मधातुं स्फरित्वा सर्वतथागतपर्षन्मण्डलेष्वनेकाकारव्यूहं महाधर्ममेघवर्षं प्रवर्षति । अस्ति कुलपुत्र सुनिर्मितदेवराजभवने मनोहरा नाम गन्धजातिः, या सुनिर्मितदेवराजभवने प्रधूपिता सप्ताहमचिन्त्यधर्ममेघवर्षं प्रवर्षति । एतामहं ( ग्व् 142 ) कुलपुत्र गन्धयुक्तिं प्रजानामि । किं मया शक्यं निरामगन्धानां बोधिसत्त्वानां सर्वकामोच्चलितानां क्लेशमारपाशविप्रमुक्तानां सर्वभवगतिव्यतिवृत्तानां ज्ञानमायागतरूपविचारिणां सर्वलोकानुपलिप्तानामसङ्गशीलानामनावरणज्ञानमण्डलविशुद्धानामप्रतिहतज्ञानगोचरविषयाणां सर्वालयनिकेतानिश्रितानां सर्वभवालयनिकेतचारिणां चर्यां ज्ञातुं गुणान् वा वक्तुम्, शीलचर्याविशुद्धिमुखं
वा परिदीपयितुम्, अनवद्यचरणं वा प्रभावयितुम्, अव्यापादकायवाङ्भनःसमुदाचारो वा देशयितुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे कूटागारं नाम नगरम् । तत्र वैरो नाम दाशः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारक उत्पलभूतेर्गान्धिकश्रेष्ठिनः पादौ शिरसाभिवन्द्य उत्पलभूतिं गान्धिकश्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य उत्पलभूतेर्गान्धिकश्रेष्ठिनो ऽन्तिकात् प्रक्रान्तः

7.23

25 वैरः ।
अथ खलु सुधनः श्रेष्ठिदारकः कूटागारनगराभिमुखं मार्गं प्रतिपद्यमानो ऽनुविचरन्, मार्गनिम्नतां मार्गोन्नततां मार्गसमतां मार्गविषमतां मार्गसरजस्कतां मार्गविरजस्कतां मार्गक्षेमतां मार्गगहनतां मार्गानावरणतां मार्गकुटिलतां मार्गर्जुकतामनुविलोक्य एवं चित्तमुत्पादयामास - इदं खलु मे तस्य कल्याणमित्रस्योपसंक्रमणं बोधिसत्त्वमार्गप्रतिपत्तिहेतुभूतं सत्त्वानुग्रहzञानमार्गप्रतिपत्तिहेतुभूतं भविष्यति । पारमितामार्गप्रतिपत्तिहेतुभूतं सर्वसत्त्वानुग्रहज्ञानमार्गप्रतिपत्तिहेतुभूतं भविष्यति । सर्वसत्त्वानुनयप्रतिघोन्नामावनामप्रपातविनिवृत्तये सर्वसत्त्वविषममतिप्रतिनिवारणतायै सर्वसत्त्वक्लेशरजःप्रशमनाय, सर्वसत्त्वविविधाकुशलदृष्टिस्थाणुकण्टकशर्करकठल्लापनयनाय, अनावरणधर्मधातुपरमतायैः, अक्षुण्णसर्वज्ञतापुरोपनयनाय हेतुभूतं भविष्यति । तत्कस्य हेतोः? कल्याणमित्राकराः सर्वकुशलधर्माः । कल्याणमित्राधीना सर्वज्ञता । स एवं चिन्तामनसिकारप्रयुक्तो दुरासदसमुदाचारो ऽनुपूर्वेण येन कूटागारं नगरं तेनोपसंक्रम्य वैरं दाशं परिमार्गन् परिगवेषमाणो ऽद्राक्षीन्महानगरमुखे सागरावतारतीरे वैरं दाशं वणिकूशतसहस्रैरनेकैश्च प्राणिशतसहस्रैर्विचित्रां कथां श्रोतुकामैः परिवृतं समुद्रकथासंप्रकाशनतया बुद्धगुणसमुद्रान् सत्त्वानामारोचयमानम् । दृष्ट्वा च येन वैरो दाशः, तेनोपजगाम । उपेत्य वैरस्य दाशस्य पादौ शिरसाभिवन्द्य वैरं दाशमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य वैरस्य दाशस्य पुरतः प्राञ्जलिः स्थित्वा एवमाहमया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य महाज्ञानप्रतिलम्भसंभवहेतुं परिपृच्छसि । विविधसंसारदुःखसमुदाचारसंभवहेतुं सर्वज्ञताद्वीपाधिष्ठानगमनसंभवहेतुम् अभेद्यमहायानसंभवहेतुं श्रावकप्रत्येकबुद्धभूमिपातभयविगममार्गप्रतिपत्तिसंभवहेतुं विविधशान्तसमाधिमुखावर्तनयाधिगमज्ञानमार्गसंभवहेतुं सर्वत्रगामिनीबोधिसत्त्वचर्याविचारप्रणिधिरथचक्रापराहतमार्गसंभवहेतुं सर्वतेजऊर्मिव्यूहबोधिसत्त्वचर्यास्वभावनयमार्गसंभवविशुद्धिहेतुं सर्वधर्मदिङ्भुखापरान्तमार्गसंभवविशुद्धिहेतुं सर्वज्ञतासागरावतारमार्गसंभवविशुद्धिहेतुं परिपृच्छसि । अहं कुलपुत्र इह
महासागरतीरकूटागारे महानगरे प्रतिवसामि महाकरुणाध्वजां बोधिसत्त्वचर्यां परिशोधयन् । सो ऽहं कुलपुत्र जम्बुद्वीपे दरिद्रान् सत्त्वानवलोक्य एषामर्थाय तथा तपस्तप्यामि, यदुत अभिप्रायमेषां परिपूरयिष्यामि । लोकामिषसंग्रहं करिष्यामि । धर्मसंभोगेन चैनान् संतोषयिष्यामि पुण्यसंभारमार्गमेषामुपदेक्ष्यामि । ज्ञानसंभारं संजनयिष्यामि । कुशलमूलबलं संवर्धयिष्यामि । बोधिचित्तमुत्पादयिष्यामि । बोध्याशयं विशोद्ययिष्यामि । महाकरुणाबलमुपस्तम्भयिष्यामि । संसारदुःखं व्युपशमयिष्यामि । संसारचर्यापरिखेदबलमुपस्तम्भयिष्यामि । सत्त्वसागरसंग्रहणे चैनान्नियोजयिष्यामि । गुणसागरप्रतिपत्तिमुखे च प्रतिष्ठापयिष्यामि । ( ग्व् 144 ) धर्मसागरज्ञानालोकं चैषामुपसंहरिष्यामि । सर्वबुद्धसागरं चैषामभिमुखमावर्तययिष्यामि । सर्वज्ञतासागरे चैनानवतारयिष्यामि ॥
एवं चिन्तामनसिकारप्रयुक्तो ऽहं कुलपुत्र इह सागरतीरकूटागारनगरे प्रविचरामि । एवं जगद्धितसुखप्रयुक्तो ऽहं कुलपुत्र सर्वमहासागररत्नद्वीपान् प्रजानामि । सर्वरत्नाकरान् सर्वरत्नगोत्राणि सर्वरत्नमूलं प्रजानामि । सर्वनागभवनानि सर्वनागसंक्षोभान् सर्वयक्षभवनानि सर्वयक्षसंक्षोभान् सर्वराक्षसभवनानि सर्वराक्षसभयप्रशमनानि सर्वभूतभवनानि सर्वभूतान्तरायव्युपशमनानि प्रजानामि । सर्वावन्तं संभवावर्तपरिवर्जनं महोर्मिवेशपरिहारमुदकवर्णविमात्रतां प्रजानामि । चन्द्रादित्यज्योतिर्ग्रहगणपरिवर्तनं रात्रिंदिवक्षणलवमूहूर्तं प्रजानामि । गमनागमनविशेषतां क्षेमाक्षेमतां यानपात्रयन्त्रक्रियादृढतां यानपरिहारं यानवाहनं मारुतसंग्रहणं मारुतोत्पादनं यानावर्तनं यानपरिवर्तनं यानसंस्थापनं यानसंप्रेषणं प्रजानामि । सो ऽहं कुलपुत्र एवंज्ञानसमन्वागतः सततं सत्त्वार्थकार्यप्रयुक्तो वणिग्गणं दृढेन यानेन क्षेमेण शिवेनाभयेन यथाप्रहर्षं प्रमोदयन् धार्म्या कथया यथाभिप्रायेण रत्नद्वीपमुपनयामि । सर्वरत्नसमृद्धिं चैषां कृत्वा पुनर्जम्बूद्वीपमुपनयामि । न च मम कुलपुत्र कदाचित् किंचिद् यानपात्रं विपन्नपूर्वम् । येषां च सत्त्वानामहं कुलपुत्र चक्षुषामाभासमागच्छामि, ये च सत्त्वा मम धर्मदेशनां शृण्वन्ति, तेषां सर्वसंसारसागरसंसीदनभयानि विगच्छन्ति, सर्वज्ञतासागरावतारज्ञानं चामुखीभवति । तृष्णासागरोच्छोषणतायै च प्रतिपद्यन्ते, त्र्यध्वसागरज्ञानालोकं च प्रतिलभन्ते । सर्वसत्त्वदुःखसागरक्षयाय चाभ्युत्सहन्ते । सर्वसत्त्वचित्तसागरकालुष्यप्रसादनतायै च प्रयुज्यन्ते । सर्वक्षेत्रसागरविशुद्धये वीर्यमारभन्ते । सर्वदिक्सागरस्फरणतायै च न विनिवर्तन्ते । सर्वजगदिन्द्रियसागरसंभेदं च प्रतिविध्यन्ति । सर्वसत्त्वचर्यासागरं चानुवर्तन्ते । यथाशयजगत्सागरप्रतिभासप्राप्ताश्च भवन्ति ॥
एतस्य अहं कुलपुत्र महाकरूणाध्वजस्य अमोघदर्शनश्रवणं संवासानुस्मृतिर्नाम नदीनिर्घोषस्य बोधिसत्त्वविमोक्षस्य लाभी । किं मया शक्यं बोधिसत्त्वानां सर्वसंसारसागरविचारिणां सर्वक्लेशासागरानुपलिप्तानां सर्वदृष्टिगतसागरसंग्रहग्राहभयविगतानां सर्वधर्मसागरस्वभावजलविचारिणां सर्वजगत्सागरस्वभावतलविचारिणां सर्वजगत्सागरसंग्रहवस्तुसंग्रहणजालानां सर्वज्ञतासागरसंवासिनां सर्वसत्त्वाभिनिवेशसागरनिर्मथनानां सर्वकालसागरसंभिन्नविहारिणां सर्वजगत्सागरपरिपाकतत्त्वाभिज्ञानां सर्वजगत्सागरविनयकालानतिक्रान्तानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे नन्दिहारं नाम नगरम् । तत्र जयोत्तमो नाम श्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥

अथ खलु सुधनः श्रेष्ठिदारको वैरस्य दाशस्य पादौ शिरसाभिवन्द्य वैरं दाशमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अश्रुमुखो रुदन् कल्याणमित्रदर्शनाभिलाषावितृप्तो वैरस्य दाशस्यान्तिकात्प्रक्रान्तः

7.24

26 जयोत्तमः ।
अथ खलु सुधनः श्रेष्ठिदारको महामैत्र्यप्रमाणसत्त्वधातुस्फरणचित्तो महाकरुणास्नेहाभिष्यन्दितसंतानो विपुलपुण्यज्ञानसंभारव्यूहोपचितः सर्वक्लेशरजस्तमोमलपङ्कापगतो धर्मसमतानुगमो निम्नोन्नतसर्वज्ञतामार्गप्रसृतः अपरिमाणाकुशलधर्मावतारमुखोद्धृतः सर्वाकुशलाभेद्यदृढवीर्यबलपराक्रमः अचिन्त्यबोधिसत्त्वसमाधिविपुलप्रस्रब्धिमुखसमर्पितः प्रज्ञाभास्करतेजोवभासविधूतनिरवशेषाविद्यान्धकारः सुखशीतलोपायमारुतेरितज्ञानकुसुमावकीर्णो महाप्रणिधानसमुद्रनिर्याणज्ञाननयानुकूलः अप्रतिहतधर्मधातुस्फरणज्ञानः अक्षुण्णसर्वज्ञतापुरप्रवेशाभिमुखः बोधिसत्त्वमार्गमभिकाङ्क्षमाणो येन नन्दिहारं नगरं तेनोपसंक्रम्य जयोत्तमं श्रेष्ठिनं परिमार्गन् परिगवेषमाणो ऽद्राक्षीत् पूर्वेण नदिहारस्य नगरस्य पर्यन्ते विचित्रध्वजायामशोकवनिकायामनेकगृहपतिसहस्रपरिवृतं विविधानि नगरकार्याणि परिनिष्ठापयन्तं तदागम्य च धार्मीं कथां कथयन्तम्, सर्वाहंकारसमुद्योताय, सर्वममकारोत्सर्गाय, सर्वपरिग्रहपरित्यागाय, सर्ववस्तुग्रहणप्रतिनिसर्गाय, सर्वाभिनिवेशनिर्दारणाय, सर्वतृष्णाबन्धनच्छेदनाय, सर्वदृष्टिगतकपाटनिर्भेदनाय, सर्वसंशयविमतिविचिकित्सातिमिरविधमनाय, मायाशाठ्यकालुष्यापनयनाय, ईर्ष्यामात्सर्यमलसंशोधनाय, चित्तसरःप्रसादनाय, अनाविलचित्ततायां सत्त्वप्रतिष्ठापनतायै, अनाविलश्रद्धाबलोत्पादनतया बुद्धदर्शनाभिरोचनतायै, बोधिसत्त्वबलोद्भावनतया बुद्धधर्मसंप्रतीच्छनतायै, बोधिसत्त्वचर्यासूचनतया बोधिसत्त्वसमाधिबलजननतायै, बोधिसत्त्वप्रज्ञाबलसंदर्शनतया बोधिसत्त्वस्मृतिबलविशुद्ध्युत्तारणतायै धर्मं देशयमानं यदुत बोधिचित्तोत्पादाभिरोचनाय ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तत्कथापर्यवसानमागमयित्वा जयोत्तमस्य श्रेष्ठिनः पादयोः प्रणिपत्य सुचिरमभिनाम्य धर्मगौरवप्रतिलब्धेनाशयेन एवं वाचमुदीरयामाससुधनो ऽस्मि, सुधनो ऽस्मि आर्य, बोधिसत्त्वचर्यां परिमार्गामि । तद्वदतु मे आर्यो यथाहं बोधिसत्त्वचर्यायां शिक्षेयम् । यथा शिक्षमाणः सर्वसत्त्वपरिपाकविनयकायेष्वभिमुखो भवेयम् । सर्वबुद्धदर्शनं न विजह्याम् । सर्वबुद्धधर्मं शृणुयाम् । सर्वबुद्धधर्ममेघान् संधारयेयम् । सर्वबुद्धधर्मनयेषु प्रतिपद्येयम् । सर्वलोकधातुषु बोधिसत्त्वचर्यायां चरेयम् । सर्वकल्पसंवासेषु बोधिसत्त्वचर्यया न परिखिद्येयम् । सर्वतथागतविकुर्वितान्याजानीयाम् । सर्वबुद्धाधिष्ठानानि संप्रतीच्छेयम् । सर्वतथागतबलेषु च अवभासं प्रतिलब्धो भवेयम् ॥
अथ खलु जयोत्तमः श्रेष्ठी सुधनं श्रेष्ठिदारकमेवमाह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र सर्वगामिनीबोधिसत्त्वचर्यामुखं परिशोधयामि यदुत अभावप्रतिष्ठितानभिसंस्कारविप्रतिलाभबलेन । सो ऽहमिह सर्वगामिनीबोधिसत्त्वचर्यापरिशुद्धिमुखे स्थित्वा सर्वत्रिसाहस्रमहासाहस्रे लोकधातौ सर्वत्रिदशदेवलोकेषु सर्वयामभवनेषु सर्वतुषितदेवलोकेषु सर्वनिर्माणरतिदेवलोकेषु सर्वपरनिर्मितवशवर्तिदेवलोकेषु ( ग्व् 146 ) सर्वमारभवनेषु सर्वकामाधातुषु देवनिकायान्तर्गतेषु सर्वदेवभवनेषु सर्वनागलोकेषु सर्वनागभवनेषु, सर्वयक्षलोकेषु सर्वयक्षभवनेषु, सर्वराक्षसलोकेषु सर्वराक्षसभवनेषु, सर्वकुम्भाण्डलोकेषु सर्वकुम्भाण्डभवनेषु, सर्वप्रेतलोकेषु सर्वप्रेतभवनेषु, सर्वगन्धर्वलोकेषु सर्वगन्धर्वभवनेषु, सर्वासुरलोकेषु सर्वासुरभवनेषु, सर्वगरुडलोकेषु सर्वगरुडभवनेषु, सर्वकिन्नरलोकेषु सर्वकिन्नरभवनेषु, सर्वमहोरगलोकेषु सर्वमहोरगभवनेषु, सर्वमनुष्यलोकेषु सर्वमनुष्यभवनेषु, सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सर्वकामधात्वन्तर्गतासु सर्वसत्त्वगतिषु धर्मं देशयामि । अधर्मं प्रतिजहामि । विवादं प्रशमयामि । विग्रहं व्यावर्तयामि । कलहं व्युपशमयामि । युद्धं निवारयामि । रणमुपशमयामि । वैरमुपरमयामि । बन्धनानि च्छिनद्मि । चारकाणि भिनद्मि । भयानि विनिवर्तयामि । अकुशलकर्माभिसंस्कारान् समुच्छिनद्मि । प्राणिवधात् सत्त्वान् विनिवारयामि । अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशुन्यात् पारूष्यात् संभिन्नप्रलापादभिध्याया व्यापादात् मिथ्यादृष्टेः सत्त्वान्निवारयामि । सर्वकार्येभ्यः सत्त्वान् विनिवारयामि । सर्वधर्मकुशलधर्मक्रियास्वनुवर्तयामि । सर्वसत्त्वान् सर्वशिल्पानि शिक्षयामि । लोकहितावहानि सर्वशास्त्राणि द्योतयामि, प्रकल्पयामि, प्रकाशयामि, प्रभावयामि लोकप्रहर्षणतायै । सत्त्वपरिपाकाय सर्वपाषण्डाननुवर्तयामि । उत्तरिज्ञानविशेषसूचनतायै सर्वदृष्टिगतविनिवर्तनतायै

सर्वबुद्धधर्मारोचनतायै यावद्ब्रह्मलोके ऽपि सर्वरूपधातुकान् देवानभिभूय धर्मं देशयामि । यथा चेह त्रिसाहस्रमहासाहस्रे लोकधातौ, तथा दशसु दिक्षु दशानभिलाप्यबुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमेषु लोकधातुषु धर्मं देशयामि । बुद्धधर्मान् देशयामि । बोधिसत्त्वधर्मान् श्रावकधर्मान् प्रत्येकबुद्धधर्मान् देशयामि । नरकान् देशयामि । नरकगामिनीं प्रतिपदं देशयामि । नैरयिकसत्त्वकारणां देशयामि । तिर्यग्योनिं देशयामि । तिर्यग्योनिगतिसंभेदं तियग्योनिगतिगामिनीं प्रतिपदं तिर्यग्योन्युपपत्तिदुःखं देशयामि । यमलोकं देशयामि, यमलोकगामिनीं प्रतिपदं यमलोकदुःखं देशयामि । स्वर्गलोकं देशयामि, स्वर्गलोकगामिनीं प्रतिपदं स्वर्गलोकरत्युपचारपरिभोगं देशयामि । मनुष्यलोकं देशयामि, मनुष्यलोकगतिगामिनीं प्रतिपदं मनुष्यलोकसुखदुःखानुभववैचित्र्यं देशयामि । इति हि कुलपुत्र लोकधर्मं देशयामि । लोकसमुदयं लोकास्तंगमनं लोकादीनवं लोकनिःसरणमपि देशयामि, यदुत बोधिसत्त्वमार्गसंप्रकाशनतायै संसारदोषविनिवर्तनतायै सर्वज्ञतागुणसंदर्शनतायै भवगतिसंमोहदुःखसंप्रशमनतायै अनावरणधर्मतारोचनतायै लोकप्रवृत्तिक्रियापरिदीपनतायै सर्वलोकप्रवृत्तिसुखदुःखसूचनतायै सर्वजगत्प्रतिष्ठासंज्ञागतविभावनतायै अनालयतथागतधर्माभिद्योतनतायै सर्वकर्मक्लेशचक्रव्यावर्तनतायै तथागतधर्मचक्रप्रवर्तनसूचनतायै धर्मं देशयामि । एतमहं कुलपुत्र सर्वगामिनीबोधिसत्त्वचर्याविशुद्धिमुखमवभासप्रतिष्ठितानभिसंस्कारविमलव्यूहं प्रजानामि । किं मया शक्यं सर्वाभिज्ञानां बोधिसत्त्वानां सर्वक्षेत्रतलमायागतज्ञानशरीरस्फरणानां समन्तचक्षुर्ज्ञानभूमिप्रतिलब्धानां सर्ववाक्पथरुतविज्ञप्तिपरमश्रोत्राणां त्र्यध्वस्फरणधर्ममुखालोकवशिताप्राप्तानां सर्वधर्मसमवसरणज्ञानवशिताधिपतिवीरपुरुषाणामचिन्त्याप्रमाणयथाशयसत्त्वविज्ञपनासंभिन्नस्वरमण्डलप्रभूतरुचिरतनुजिह्वानां ( ग्व् 147 ) नानाभिप्रायसत्त्वसमुद्ररुचिरवर्णसंस्थानसर्वबोधिसत्त्वसममायोपमशरीराणां
सर्वतथागताद्वयाकल्पाचिन्त्यशरीरपरमाणां सर्वत्र्यध्वानुसृतज्ञानकायानां गगनतलविपुलाप्रमाणगोचरविषयाणां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे श्रोणापरान्तेषु जनपदेषु कलिङ्गवनं नाम नगरम् । तत्र सिंहविजृम्भिता नाम भिक्षुणी प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको जयोत्तमस्य श्रेष्ठिनः पादौ शिरसाभिवन्द्य जयोत्तमं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य जयोत्तमस्य श्रेष्ठिनो ऽन्तिकात् प्रक्रान्तः

7.25

27 सिंहविजृम्भिता ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन श्रोणापरान्ते जनपदे कलिङ्गवनं नाम नगरम्, तेनोपजगाम । उपेत्य सिंहविजृम्भितां नाम भिक्षुणीं पर्येषमाणः प्रतिसत्त्वं परिपृच्छन् यतो यतः पर्यटति, तेन तेनैव अनेकानि कुमारशतानि अनेकानि कुमारिकाशतानि रथ्याचत्वरशृङ्गाटकेभ्यः संभूय अनुबध्नन्ति स्म । अनेकानि च पुरुषशतानि अनेकानि च स्त्रीशतान्यरोचयामासुः - एषा कुलपुत्र सिंहविजृम्भिता भिक्षुणी इहैव कलिङ्गवने नगरे जयप्रभानुप्रदत्ते सूर्यप्रभे महोद्याने प्रतिवसति अपरिमाणानां सत्त्वानामर्थाय धर्मं प्रकाशयमाना ॥
अथ खलु सुधनः श्रेष्ठिदारको येन तत्सूर्यप्रभं महोद्यानं तेनोपसंक्रम्य समन्तादनुविचरन् अनुविलोकयन् अद्राक्षीत्तस्मिन् महोद्याने चन्द्रोद्गतान् नाम वृक्षान् कूटागारसंछन्नानर्चिर्वर्णार्चिर्निर्भासान् समन्ताद्योजनमाभया स्फरमाणान्, संप्रच्छदनामांश्च पत्रवृक्षान् छत्राकारान् संस्थानपर्णच्छदनान् नीलवैदूर्यवर्णपयोदावभासान्, कुसुमकोशनामांश्च पुष्पवृक्षान् हिमवत्पर्वतराजरमणीयविचित्रसंस्थानान् नानावर्णाक्षयकुसुमौघप्रवर्षणान् त्रिदशपुरोपशोभनपारिजातककोविदारसदृशान्, सदापक्वाननुपमस्वादुफलनिचितनामांश्च सुफलवृक्षान् सुवर्णमेरुशिखरसंस्थानान् सदाफलसंपन्नान्, वैरोचनकोशनाम्नश्च मणिराजवृक्षाननुपममणिरत्नराजसंस्थानान् दिव्यरत्नस्रग्मालाभरणचिन्ताराजमणिरत्नप्रमुक्तकोशसमृद्धिधरान् असंख्येयवर्णमणिरत्नाकारान्, प्रसादननामांश्च वस्त्रवृक्षान् नानावर्णदिव्यरत्नवस्त्रकोशप्रमुक्तप्रलम्बोपशोभितान्, प्रमोदननाम्नश्च वाद्यवृक्षान् दिव्यातिरेकतूर्यमनोज्ञमधुरनिर्घोषान्, समन्तशुभव्यूहनाम्नश्च गन्धवृक्षान् सर्वदिगप्रतिहतसर्वाकारमनोज्ञगन्धाभिप्रमोदनानद्राक्षीत् । उत्ससरस्तडागपुष्किरिणीश्च सप्तरत्नेष्टकानिचिताश्चतुर्दिक्षु विभक्तरत्नसोपानाः कालानुसारिचन्दनपरिदिग्धविविधरत्नवेदिकापरिवृताः, नीलवैदूर्यमणिराजकृततलसंस्थानाः, जाम्बूनदकनकवालिकास्तीर्णतलाः, मनोज्ञदिव्यगन्धाष्टाङ्गोपेतवारिपरिपूर्णाः, विचित्रवर्णदिव्यगन्धस्पर्शरत्नोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाः, दिव्यातिरेकमनोज्ञरूपनानाशकुनिगणमधुरनिर्घोषनिकूजिताः, विविधदिव्यरत्नसुरुचिरद्रुमपङ्किपरिक्षेपोपशोभिताः । सर्वेषु च तेषु नानारत्नवृक्षमूलेषु विचित्रमनोज्ञरूपाणि रत्नसिंहासनानि प्रज्ञप्तानि अचिन्त्यानेकविविधरत्नव्यूहानि, नानादिव्यरत्नवस्त्रप्रज्ञप्तोपचाराणि, सर्वाकारदिव्यगन्धधूपनिर्धूपितानि, दिव्यातिक्रान्तरत्नपट्टाभिप्रलम्बितविचित्ररत्नवितानविततानि, नानारत्नविचित्रजाम्बूनदकनकजालसंछन्नानि, रत्नकिङ्किणीजालमनोज्ञमधुरनिर्घोषाणि,
अनेकदिव्यरत्नासनशतसहस्रपरिवाराण्यपश्यत् । स क्वचिद्रत्नवृक्षमूले रत्नपद्मगर्भसिंहासनं प्रज्ञप्तमपश्यत् । क्वचिद्गन्धराजमणिरत्नपद्मगर्भसिंहासनम्, क्वचिन्नागव्यूहमणिराजपद्मगर्भसिंहासनम्, क्वचिद्रत्नसिंहस्कन्धमणिराजपद्मगर्भसिंहासनम्, क्वचिद्वैरोचनमणिराजपद्मगर्भसिंहासनम्, क्वचिद्दिग्विरोचनमणिराजपद्मगर्भसिंहासनम्, ( ग्व् 149 ) क्वचिदिन्द्रवज्रमणिराजपद्मगर्भसिंहासनम्, क्वचिज्जगद्रोचनमणिराजपद्मगर्भसिंहासनम्, क्वचिद्रत्नवृक्षमूले सिताभमणिराजपद्मगर्भसिंहासनं प्रज्ञप्तमपश्यत् । सर्वावच्च तन्महोद्यानं नानारत्नाकीर्णतलं महासागरमिव रत्नद्वीपाकीर्णमपश्यत् नीलवैडूर्यराजखचितसर्वरत्नप्रत्यर्पितकाचिलिन्दिकसुखसंस्पर्शभूमिभागं चरणनिक्षेपोत्क्षेपोन्नामावनामविगतं वज्ररत्नराजमयसुखसंस्पर्शमनोज्ञगन्धनलिनसंस्तीर्णतलं हंसक्रौञ्चमयूरकुणालकलविङ्ककोकिलजीवंजीवकरुतनिर्नादमधुरनिर्घोषं दिव्यरत्नचन्दनद्रुमवनसुरचितप्रविष्टव्यूहोपशोभितं विचित्ररत्नपुष्पमेघरत्नकुसुमाक्षयधाराभिप्रवर्षितं मिश्रकावनप्रतिविशिष्टं सुरचितनानारत्नकूटागारातुलगन्धराजसततप्रधूपितोपचारं सुधर्मदेवसभाप्रतिविशिष्टव्यूहं उपरिष्टाद्दिव्यातिरेकविचित्ररत्नजालसंछन्नं मुक्तामणिपुष्पहारकलापप्रलम्बितोपशोभितदेशं समन्ताद्रत्नकिङ्किणीविचित्रविन्यासोज्ज्वलितसुवर्णजालपरिष्कृतं विविधवाद्यवृक्षरत्नतालकिङ्किणीजालमारुतसमीरितमधुरमनोज्ञशब्दनिर्घोषं वशवर्तिदेवराजप्रमुखाप्सरःसंगीतिरुतपरमरमणीयनिर्घोषं विचित्रवर्णदिव्यकल्पदूष्यमेघाभिप्रवर्षणविराजितं महासागरमिवानन्तवर्णावभासमसेचनकदर्शनमचिन्त्यासंख्येयरत्नव्यूहकूटागारशतसहस्रप्रतिमण्डितं त्रिदशेन्द्रपुरमिव सुदर्शनं सर्वाकारनानारत्नभक्तिप्रतिमण्डितं सुपरिणतच्छत्रविन्याससमन्तशुभदर्शनं महेन्द्रलोकमिव चित्रकूटोपशोभितं सदाप्रमुक्तमनोज्ञमहाप्रभावभासं जगद्रोचनमणिरत्नराजप्रभाज्वलितमिव
महाब्रह्मविहारमसंख्येयलोकधात्वधिष्ठानाकाशकोशविपुलाप्रमाणावकाशं तत्सूर्यप्रभं महोद्यानमपश्यत् सिंहविजृम्भिताया भिक्षुण्या महता अचिन्त्यर्द्धिप्रभावबलाधानेन ॥
अथ खलु सुधनः श्रेष्ठिदारकः इमानेवमप्रमाणाचिन्त्यगुणसमुदितान् महोद्यानव्यूहान् बोधिसत्त्वकर्मविपाकपरिनिष्पन्नान् लोकोत्तरविपुलकुशलमूलनिर्जातानचिन्त्यबुद्धपूजोपस्थाननिष्यन्दसंभवान् सर्वलोकगतानवशेषकुशलमूलासंहार्यान् मायागतधर्मस्वभावनिर्वृत्तान् विमलविपुलशुभपुण्यविपाकसंभूतान् सिंहविजृम्भिताया भिक्षुण्याः पूर्वसुकृतसुचरितनिष्यन्दबलाधानसंभूतानसाधारणान् सश्रावकप्रत्येकबुद्धैरसंहार्यान् सर्वतीर्थ्यपरप्रवादिभिरनवमर्द्यान् सर्वमारपथसमुदाचारैरनवलोक्यान् सर्वबालपृथग्जनैः समन्तादनुविलोकयन्नद्राक्षीत् । सर्वेषु च तेषु नानारत्नवृक्षमूलगतेषु महासिंहासनेषु सिंहविजृम्भितां भिक्षुणीं संनिषण्णां महापरिवारपरिवृतां प्रासादिकेनात्मभावेन प्रशान्तेर्यापथां शान्तेन्द्रियां शान्तमनसं सुगुप्तां जितेन्द्रियां नागमिव सुदान्तां ह्रदमिव अच्छानाविलविप्रसन्नचित्तां चिन्तामणिराजमिव सर्वकामप्रदां पद्ममिव वारिणानुपलिप्तां लोकधर्मैः, सिंह इव विगतभयरोमहर्षां वैशारद्यविशुद्ध्या, महाचलेन्द्रराजमिवाप्रकम्पां शीलविशुद्ध्या, मनोहरगन्धराजमिव जगच्चित्तप्रह्लादनकरीं हिमचन्दनमिव क्लेशपरिदाहप्रशमनकरीं सुदर्शनभैषज्यराजमिव सर्वजगद्दुःखव्युपशमनकरीं वरुणपाशमिवामोघदर्शनां तथागतप्रभामिव कायचित्तप्रस्रब्धिसुखसंजननीं महाब्रह्माणमिव विगतरागदोषमोहपर्युत्थानाम् उदकप्रसादकमणिरत्नराजमिव क्लेशाविलसत्त्वचित्तप्रह्लादनकरीं सुक्षेत्रमिव कुशलमूलविवर्धनीम् । तेषु चासनपरिवारेषु विचित्रां पर्षदं संनिषण्णामद्राक्षीत् ॥

स क्वचिदासनपरिवारे महेश्वरदेवपुत्रप्रमुखानां शुद्धावासकायिकानां देवपुत्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयविमोक्षसंभेदं नाम धर्ममुखं प्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे रुचिरब्रह्मप्रमुखानां ब्रह्मकायिकानां देवपुत्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्ततलभेदं नाम स्वरमण्डलविशुद्धिं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे वशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बोधिसत्त्वाशयविशुद्धिवशिताव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सुनिर्मितदेवराजप्रमुखानां निर्माणरतीनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वधर्मशुभव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे संतुषितदेवराजप्रमुखानां तुषितकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं स्वचित्तकोशावर्तं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सुयामदेवराजप्रमुखानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनन्तव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे शक्रदेवराजप्रमुखानां त्रायस्त्रिंशकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुद्वेगमुखं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सागरनागराजप्रमुखानां शतरश्मिनन्दोपनन्दमनस्यैरावतानवतप्तप्रभृतीनां नागराज्ञां सनागकन्यानां नागकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धविषयप्रभाव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे वैश्रवणमहाराजप्रमुखानां यक्षेन्द्राणां सयक्षकन्यायक्षकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं जगत्परित्राणकोशं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे धृतराष्ट्रगन्धर्वराजप्रमुखानां गन्धर्वाणां सगन्धर्वकन्यागन्धर्वकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयप्रहर्षणं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे राह्वसुरेन्द्रप्रमुखानामसुरेन्द्राणां सासुरकन्यासुरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं धर्मधातुज्ञानयवेगव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे महावेगधारिगरुडेन्द्रप्रमुखानां गरुडेन्द्राणां सगरुडकन्यागरूडकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं भवसागरसंत्रासविषयं
नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे द्रुमकिन्नरराजप्रमुखानां किन्नरेन्द्राणां सकिन्नरकन्याकिन्नरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धचर्यावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे भृकुटीमुखमहोरगेन्द्रप्रमुखानां महोरगेन्द्राणां समहोरगकन्यामहोरगकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धप्रीतिसंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे ऽनेकेषां स्त्रीपुरुषदारकदारिकाशतसहस्राणां ( ग्व् 151 ) संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं ज्ञानविशेषगमनं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे नित्यौजोहरद्रुमराजराक्षसेन्द्रप्रमुखानां राक्षसेन्द्राणां सराक्षसकन्याराक्षसकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं कृपासंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे श्रावकयानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं ज्ञानविशेषप्रभावं नाम धर्ममुखं संप्रकाशयमानापश्यत् । क्वचिदासनपरिवारे प्रत्येकबुद्धयानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुदारबुद्धगुणावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे महायानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्तमुखं नाम समाधिज्ञानालोकमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वबुद्धप्रणिधिकूटं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे द्वितीयभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं विरजोमण्डलं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे तृतीयभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं प्रशान्तव्यूहं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे चतुर्थीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वज्ञतावेगविषयसंभवं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे पञ्चमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं चित्तलताकुसुमगर्भं नाम समाधिमुखं संप्रकाशयमानमपश्यत् । क्वचिदासनपरिवारे

षष्ठीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं वैरोचनगर्भं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सप्तमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्तभूम्यलंकारं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे अष्टमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं धर्मधातुपञ्जरसुविभक्तशरीरविषयं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे नवमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनिलम्भबलनिलयव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनावरणमण्डलं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे संनिषण्णस्य वज्रपाणिपर्षन्मण्डलस्य सिंहविजृम्भितां भिक्षुणीं ज्ञानवज्रनारायणव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । इति हि यावत्यः सर्वोपपत्त्यायतनसंभेदेषु सत्त्वप्रज्ञप्तयः सत्त्वगतयः, तासु ये सत्त्वाः परिपक्वा वैनयिका भाजनीभूताः, तेषां तस्मिन् महोद्याने समवसृत्य प्रत्येकमासनपरिवारसंनिषण्णानां नानाशयानां नानाधिमुक्तानां नियताशयानां घनरसश्रद्धानां सिंहविजृम्भितां भिक्षुणीं ( ग्व् 152 ) तथा तथा धर्मं देशयमानामपश्यत्, यत्सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? यथापि तत्सिंहविजृम्भिताया भिक्षुण्याः समन्तचक्षुरुपेक्षावतीप्रमुखानि सर्वबुद्धधर्मनिर्देशप्रमुखानि धर्मधातुतलप्रभेदप्रमुखानि सर्वावरणमण्डलविकिरणप्रमुखानि सर्वजगत्कुशलचित्तसंभवप्रमुखानि विशेषवतिव्यूहप्रमुखानि असङ्गनयगर्भप्रमुखानि धर्मधातुमण्डलप्रमुखानि चित्तकोशप्रमुखानि समन्तरुचिताभिनिर्हारगर्भप्रमुखानि दशप्रज्ञापारमितामुखासंख्येयशतसहस्राण्यवक्रान्तानि । ये च तत्सूर्यप्रभं महोद्यानं बोधिसत्त्वास्तदन्ये वा सत्त्वाः प्रविशन्ति सिंहविजृम्भिताया भिक्षुण्या दर्शनाय धर्मश्रवणाय, सर्वे ते सिंहविजृम्भिताया
भिक्षुण्याः प्रथमं कुशलमूलधर्मसमुदानेषु नियोजिता यावदनुत्तरायाः सम्यक्संबोधेरविवर्त्याः कृताः ॥
अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजृम्भिताया भिक्षुण्या इमामेवंरूपामुद्यानसंपदं विहारसंपदं चंक्रमसंपदं परिभोगसंपदं शय्यासनसंपदं पर्षन्मण्डलसंपदमाधिपतेयसंपदमृद्धिविकुर्वितसंपदं सरस्वतीव्यूहसंपदं दृष्ट्वा अचिन्त्यं च धर्मनयं श्रुत्वा विपुलधर्ममेघाभिष्यन्दितचित्तः सिंहविजृम्भिताया भिक्षुण्या अभिमुखमाशयविशुद्धिसंपदं संप्रणीतो ऽनेकशतसहस्रकृत्वः प्रदक्षिणीकरिष्यामीति । अथ सिंहविजृम्भिताया भिक्षुण्याः सर्वं तन्महोद्यानं सपर्षन्मण्डलव्यूहमुदारेणावभासेन स्फुटमवभासितम् । अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्वा एवं संजानाति - प्रदक्षिणीकुर्वंश्च समन्तादभिमुखं सिंहविजृम्भितां भिक्षुणीमद्राक्षीत् । स पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सा अवोचत् - अहं कुलपुत्र सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य लाभिनी । आह - क एतस्य आर्ये सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य विषयः? आह - एष कुलपुत्र त्र्यध्वगतव्यूहैकचित्तक्षणकोटिविज्ञप्तिस्वभावो ज्ञानालोकः । आह - क एतस्य आर्ये ज्ञानालोकस्य विषयः? आह - एतन्मम कुलपुत्र ज्ञानालोकमुखमायूहत्या निर्यूहत्याः सर्वधर्मोपपन्नो नाम समाधिराजायते, यस्य समाधेः सहप्रतिलाभेन मनोमयैः कायैः सर्वासु दशसु दिक्षु सर्वलोकधातुष्वेकजातिप्रतिबद्धानां तुषितभवनगतानां सर्वबोधिसत्त्वानामेकैकस्य बोधिसत्त्वस्य अनभिलाप्यबुद्धक्षेत्रपरमाणुरजः समैरात्मभावैरनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाभिः पूजाविमात्राभिः पूजाप्रयोगायोपसंक्रमामि, यदुत देवैन्द्रकायैर्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्येन्द्रकायैः पुष्पमेघपरिगृहीतैर्गन्धमेघपरिगृहीतैर्धूपमेघपरिगृहीतैर्माल्यमेघपरिगृहीतैर्विलेपनमेघपरिगृहीतैश्चूर्णमेघपरिगृहीतैर्वस्त्रमेघपरिगृहीतैश्छत्रमेघपरिगृहीतैर्ध्वजमेघपरिगृहीतैः पताकामेघपरिगृहीतै रत्नाभरणमेघपरिगृहीतै रत्नजालव्यूहमेघपरिगृहीतै रत्नवितानव्यूहमेघपरिगृहीतै रत्नप्रदीपव्यूहमेघपरिगृहीतै रत्नासनव्यूहमेघपरिगृहीतैः पूजाप्रयोगाय ( ग्व् 153 ) उपसंक्रमामि । यथा तुषितभवनगतानामेकजातिप्रतिबद्धानां बोधिसत्त्वानां पूजाप्रयोगायोपसंक्रमामि, एवं कुक्षिगतानां जायमानानामन्तःपुरमध्यगतानामभिनिष्क्रमतां बोधिमण्डमुपसंक्रमतां बोधिमण्डवरगतानामनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां सर्वतथागतानां सर्वधर्मचक्रंप्रवर्तयतामेवं देवभवनगतानां नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यभवनगतानां यावत्सर्वजगच्चित्ताशयान् संतोषयित्वा परिनिर्वायमाणामेवंरूपैर्मनोमयैरात्मभावैरेवंरूपां पूजां कुर्वाणानां सर्वतथागतानामुपसंक्रमामि । ये च सत्त्वा ममेदं बुद्धपूजोपस्थानकर्म प्रजानन्ति, ते सर्वे नियता भवन्ति अनुत्तरायां सम्यक्संबोधौ । ये च सत्त्वा मामुपसंक्रामन्ति, तेषामहं सर्वेषामेतामेव प्रज्ञापारमिताववादानुशासनीं ददामि । अहं कुलपुत्र ज्ञानचक्षुषा सर्वसत्त्वान् पश्यामि । न च सत्त्वसंज्ञामुत्पादयामि, न मन्ये । सर्वजगन्मन्त्रसंज्ञामुद्रां शृणोमि, न च मन्ये सर्ववाक्पथानभिनिविष्टत्वात् । सर्वतथागतान् पश्यामि, न च मन्ये धर्मशरीरपरिज्ञानत्वात् । सर्वतथागतधर्मचक्राणि च संघारयामि, न च मन्ये धर्मस्वभावानुबुद्धत्वात् । प्रतिचित्तक्षणं

सर्वधर्मधातुं स्फरामि, न च मन्ये मायागतधर्मतावबुद्धत्वात् । एतमहं कुलपुत्र सर्वमन्यनासमुद्धातितं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं बोधिसत्त्वानामनन्तमध्यधर्मधात्ववतीर्णानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, ये ते सर्वधर्ममन्यनाविहारिणश्च एकपर्यङ्केन च सर्वधर्मधातुं स्फरन्ति । ये ते स्वकायान्तर्गतानि सर्वबुद्धक्षेत्राणि संदर्शयन्ति, एकक्षणेन च सर्वतथागतानुपसंक्रामन्ति । येषामात्मभावे सर्वबुद्धविकुर्वितानि प्रवर्तन्ते । ये एकरोम्ना बह्वनभिलाप्यानभिलाप्यानि बुद्धक्षेत्राण्यभूत्क्षिपन्ति । ये ते स्वरोमविवरे ऽनभिलाप्यानभिलाप्यलोकधातुसंवर्तविवर्तकल्पानादर्शयन्ति । ये एकक्षणेनानभिलाप्यानभिलाप्यकल्पसंवाससमतां समवसरन्ति । ये एकक्षणेन अनभिलाप्यानभिलाप्यान् कल्पान् संसरन्ति ।
गच्छ कुलपुत्र, इहैव दक्षिणापथे दुर्गे जनपदे रत्नव्यूहं नाम नगरम् । तत्र वसुमित्रा नाम भागवती प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजृम्भिताया भिक्षुण्याः पादौ शिरसाभिवन्द्य सिंहविजृम्भितां भिक्षुणीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सिंहविजृम्भिताया भिक्षुण्या अन्तिकात् प्रक्रान्तः

7.26

28 वसुमित्रा ।
अथ खलु सुधनः श्रेष्ठिदारकस्तया महाप्रज्ञाविद्युतावभासितचित्तः, तं सर्वज्ञज्ञानालोकं निध्यायन्, तं धर्मतास्वभावबलावभासं समनुपश्यमानः, सर्वसत्त्वरुतविज्ञप्तिकोशं धारणीनयं दृढीकुर्वन्, तं सर्वतथागतधर्मचक्रसंधारणं धारणीनयं विपुलीकुर्वन्, तं सर्वजगच्छरणं महाकरुणाबलमुपस्तम्भयन्, तं सर्वधर्मनयालोकमुखसमुत्थानं सर्वज्ञतावेगं प्रत्यवेक्षमाणः, तां विपुलधर्मधातुमण्डलस्फरणप्रणिधिपरिशुद्धिमनुवर्तमानः, तं सर्वधर्मदिगवभासज्ञानालोकमुत्तापयमानः, तत्सर्वधर्मदशदिग्लोकधातुव्यूहस्फरणमभिज्ञानबलं निर्हरन्, तं सर्वबोधिसत्त्वकर्मस्मृत्युपादानारम्भनिस्तीरणप्रणिधिं परिपूरयन् अनुपूर्वेण येन दुर्गे जनपदे रत्नव्यूहं नगरं तेनोपसंक्रान्तो वसुमित्रां भागवतीं परिमार्गन् । तत्र ये पुरुषा वसुमित्राया भागवत्या गुणानभिज्ञा ज्ञानगोचराविधिज्ञाश्च, तेषामेतदभवत् - किमस्य एवं शान्तदान्तेन्द्रियस्य एवं संप्रजानस्य एवमभ्रान्तस्य एवमविक्षिप्तमानसस्य एवं युगमात्रप्रेक्षिणः एवं वेदनाभिरपर्यादत्तचित्तस्य एवमनिमित्तग्राहिणः सर्वरूपगतेषु उत्क्षिप्तचक्षुषः एवमव्यग्रमानसस्य गम्भीरचेष्टस्याभिरूपस्य सागरकल्पस्य अक्षोभ्यानबलीनचित्तस्य वसुमित्रया भागवत्या कार्यम्? न हीदृशा रागरता भवन्ति, न विपर्यस्तचित्ताः । नेदृशानामशुभसंज्ञा समुदाचरति । नेदृशाः कामदासा भवन्ति । नेदृशाः स्त्रीवशगा भवन्ति । नेदृशा मारगोचरे चरन्ति । नेदृशा मारविषयं निषेवन्ते । नेदृशाः कामपङ्के संसीदन्ति । नेदृशा मारपाशैर्बध्यन्ते । नाकार्यकारिणो भवन्ति । ये पुनर्वसुमित्राया भागवत्या गुणविशेषाभिज्ञा ज्ञानगोचरप्रत्यक्षा वा, ते एवमाहुः - साधु साधु कुलपुत्र, सुलब्धास्ते लाभाः, यस्त्वं वसुमित्रां भागवतीं परिप्रष्टव्यां मन्यसे । नियमेन त्वं बुद्धत्वं प्रार्थयसे । नियमेन त्वं सर्वसत्त्वप्रतिशरणमात्मानं कर्तुकामः । नियमेन त्वं सर्वसत्त्वानां रागशल्यमुद्धर्तुकामः । नियमेन त्वं शुभसंज्ञां विकरितुकामः । एषा कुलपुत्र वसुमित्रा भागवती नगरशृङ्गाटकस्योत्तरेण स्वगृहे तिष्ठति ॥
अथ खलु सुधनः श्रेष्ठिदारक इदं वचनमुपश्रुत्य तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन वसुमित्राया भागवत्या निवेशनम्, तेनोपसंक्रम्य तद्गृहमद्राक्षीद्विपुलं च विस्तीर्णं च दशरत्नप्राकारपरिक्षिप्तं दशरत्नतालपङ्क्तिपरिवृत्तम् । दशभिः परिखाभिर्गन्धोदकाभिर्दिव्यरत्नोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाभिः अष्टाङ्गोपेतवारिपरिपूर्णाभिः कनकवालिकासंस्तीर्णतलाभिः मनोहरगन्धलुलितसुगन्धीकृतोदकाभिः अनेकरत्नप्राकारोपशोभिताभिः समन्तादनुपरिक्षिप्तम्, सर्वरत्नमयभवनविमानकूटागारसुविभक्तोद्विद्धनिर्यूहतोरणगवाक्षजालार्धचन्द्रसिंहपञ्जरविचित्रज्योतिर्ध्वजमणिरत्नोज्ज्वलिततेजसम्, असंख्येयविविधरत्नप्राकारोपशोभितं वैडूर्यखचितरत्नहारसंस्कृततलं सर्वदिव्यसुभगन्धवासितोपचारं महाकालागरुधूपधूपितसुगन्धं सर्वानुलेपनविलिप्तोपचारं सर्वरत्नखोटकरचितप्राकारं विविधरत्नप्रत्यर्पितजाम्बूनदजालसंछादितकूटं ( ग्व् 155 ) कनकघण्टाजालशतसहस्रवातेरितप्रमुक्तमधुरमनोज्ञनिर्घोषं सर्वरत्नपुष्पमेघप्रसृतप्रकीर्णरत्नकुसुमालंकारं सर्वरत्नविचित्रध्वजोपशोभितद्वारं नानामणिरत्नप्रभाज्वालालोकापर्यन्तनिर्देशं प्रभूतमणिविचित्रद्रुमशाखावज्रशिलाप्रकटनिधिशतसहस्रनिचयाक्षयकोशं दशमहोद्यानप्रतिमण्डितम् । स तत्रापश्यद्वसुमित्रां भागवतीमभिरूपां प्रासादिकां दर्शनीयां परमया शुभवर्णपुष्कलतया समन्वागतां सुवर्णवर्णच्छविमभिनीलकेशीं सुविभक्तसमाङ्गप्रत्यङ्गशरीरां सर्वकामधातुकदेवमनुष्यातिक्रान्तवर्णरूपसंस्थानशोभां ब्रह्मातिरेकस्वरां सर्वसत्त्वरुतमन्त्रविधिज्ञां सर्वस्वरव्यूहोपेतकान्तस्वरां चक्राक्षरव्यूहविमोक्षकौशल्यानुगतां सर्वशिल्पशास्त्रकौशलनिर्यातां धर्मज्ञानमायाकौशलसुशिक्षितां सर्वाकारबोधिसत्त्वोपायनयप्रतिलब्धां विचित्ररत्नाभरणविभूषितां मनोज्ञकायां सर्वरत्नमयप्रभास्वरजालसंछादितशरीराम् असंख्येयदिव्यमणिरत्नाभरणव्यूहप्रतिमण्डितोज्ज्वलदेहां चिन्ताराजमहामणिरत्नाबद्धमकुटां
वज्ररत्नविचित्रसिंहकान्तमणिरत्नोपशोभितमध्यवैडूर्यमणिहारावसक्तकण्ठामभिन्नकुशलमूलचर्यासभागैकप्रणिधानमनापमहापरिवारामक्षयपुण्यज्ञानमहानिधानकोशाम् । तया च सर्वं तद्गृहं सर्वरत्नभवनविमानव्यूहं स्वशरीरनिर्यातया प्रेमणीयया कायप्रह्लादसुखसंजनन्या चित्तौद्बिल्यप्रीतिकरण्या उदारया प्रभया स्फुटभवभासितमपश्यत् ॥

अथ खलु सुधनः श्रेष्ठिदारको वसुमित्राया भागवत्याः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । सा अवोचत् - मया कुलपुत्र विराग कोटीगतो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः । साहं कुलपुत्र देवानामप्सरोरूपवर्णसंस्थानारोहपरिणाहातिरेकप्रभास्वरविशुद्ध्या यथाशयाधिमुक्तानामाभासमागच्छामि । एवं नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याणां कन्यारूपवर्णसंस्थानारोहपरिणाहातिरेकप्रभास्वरविशुद्धा यथाशयाधिमुक्तानामाभासमागच्छामि । ये च सत्त्वा मामुपसंक्रामन्ति रागपर्यवस्थितचेतसः, तेषामहं कुलपुत्र सर्वेषां रागविरागतायै धर्मं देशयामि । ते च तं धर्मं श्रुत्वा रागविरागतामनुप्राप्नुवन्ति, असङ्गविषयं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचिन्मम सहदर्शनेन रागविरागतामनुप्राप्नुवन्ति, प्रामोद्यरतिं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचिदालपनमात्रेण रागविरागतामनुप्राप्नुवन्ति, असङ्गस्वरकोशं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचित्पाणिग्रहमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वबुद्धक्षेत्रानुगमनप्रतिष्ठानं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचिदेकावासमात्रकेण रागविरागतामनुप्राप्नुवन्ति, विसंयोगालोकं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचित्प्रेक्षितमात्रेण रागविरागतामनुप्राप्नुवन्ति, प्रशान्ताकारव्यूहं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचिद्विजृम्भितमात्रेण रागविरागतामनुप्राप्नुवन्ति, परप्रवादिविक्षोभणं च नाम बोधिसत्त्वासमाधिं प्रतिलभन्ते । ( ग्व् 156 ) केचिन्निमीलनमत्रेण रागविरागतामनुप्राप्नुवन्ति, बुद्धविषयालोकं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । केचिदालिङ्गनमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वजगत्संग्रहापरित्यागगर्भं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते
। केचित्परिचुम्बनमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्वजगत्पुण्यकोशसंस्पर्शनं च नाम बोधिसत्त्वसमाधिं प्रतिलभन्ते । ये केचित्सत्त्वा ममान्तिकमुपसंक्रामन्ति, सर्वांस्तानहमत्रैव विरागकोटीगते असङ्गसर्वज्ञताभूम्यभिमुखे बोधिसत्त्वविमोक्षे प्रतिष्ठापयामि ॥
आह - कुत्र त्वया आर्ये कुशलमूलमवरोपितम्, कीदृशं च कर्मोपचितम्, यस्यास्तवेयमीदृशी संपत्? आह - स्मरामि कुलपुत्र, अतीते ऽध्वनि अत्युच्चगामी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । तस्य कुलपुत्र अत्युच्चगामिनस्तथागतस्य सत्त्वानामनुकम्पार्थं सुमुखां नाम राजधानीं प्रविशतः इन्द्रकीलमाक्रामतः सर्वं तन्नगरं प्राकम्पत । विपुलविस्तीर्णं च अनेकरत्नमयं संस्थितमभूत् अनेकरत्नप्रभाव्यूहं विविधरत्नपुष्पाभिकीर्णं नानादिव्यतूर्यप्रमुक्तनिर्घोषम् । उदाराप्रमेयदेवकायमेघप्रच्छन्नं च अन्तरीक्षं संस्थितमभूत् । अहं च कुलपुत्र तेन समयेन सुमतिर्नाम श्रेष्ठिभार्या अभूवम् । ततो मे बुद्धप्रातिहार्यसंचोदितया स्वामिना सार्धं प्रधावित्वा तस्य तथागतस्य वीथीमुखमुपसंक्रान्तस्य उदारप्रसादजातया एका रत्नकाकणिः प्रतिपादिता । तदा च मञ्जुश्रीः कुमारभूतस्तस्य भगवतो ऽत्युच्चगामिनस्तथागतस्योपस्थानको ऽभूत् । तेनाहमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता । एतमहं कुलपुत्र विरागकोटीगतं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यमनन्तोपायज्ञानकौशलप्रतिष्ठितानां बोधिसत्त्वानां विपुलाक्षयपुण्यकोशानामपराजितज्ञानविषयाणां चर्यां ज्ञातुम्, गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे शुभपारंगमं नाम नगरम् । तत्र वेष्ठिलो नाम गृहपतिश्चन्दनपीठं तथागतचैत्यं पूजयति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको वसुमित्राया भागवत्याः पादौ शिरसाभिवन्द्य वसुमित्रां भागवतीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य वसुमित्राया भागवत्या अन्तिकात् प्रक्रान्तः

मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc