भाषा

ENहिગુ
ग्रंथ पाठ

गण्डव्यूहसूत्र · अध्याय 6

6.1

12 जयोष्मायतनः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितः अचिन्त्यबुद्धविषयविकुर्वितप्रत्यक्षविहारी अचिन्त्यबोधिसत्त्वविमोक्षप्रत्यक्षज्ञानाभिज्ञः अचिन्त्यबोधिसत्त्वसमाधिज्ञानावभासितचित्तः सर्वकालसमवसरणसमाधिज्ञानावभासप्रतिलब्धः सर्वसंज्ञासंगतसमवसरणसमाधिविषयावभासितः सर्वजगद्विशेषवतिज्ञानालोकप्रतिलब्धः सर्वत्र्यध्वानुगतगोचरविहाराभिमुखः अद्वयविकल्पसमतानिर्देशज्ञानपरमः सर्वारम्बणप्रसरितज्ञानालोकः सत्त्वश्रद्धाभिमुखक्षान्तिविशुद्धयधिमुक्तिकोशकुशलः स्वभावधर्मक्षान्तिनिश्चयज्ञानालोकप्रतिलब्धः सर्वत्रानुगताभिज्ञबोधिसत्त्वचर्यास्वभावभावनाविरहितचित्तः सर्वज्ञतावेगाविवर्त्यचित्तो दशबलज्ञानविद्युदवभासप्रतिलब्धः धर्मधातुनिर्घोषाभिलाषावितृप्तचित्तः सर्वज्ञताविहारगोचरावतरणप्रतिपत्तिचित्तः अनन्तबोधिसत्त्वचर्याव्यूहाभिनिर्हारचित्तो ऽनन्तबोधिसत्त्वमहाप्रणिधानमण्डलपरिशोधनचित्तः अनन्तमध्यलोकधातुजालाक्षयानुगमज्ञानाभिमुखचित्तः अनन्तसत्त्वसागरपरिपाकविनयासंकुचितचित्तः अनन्तबोधिसत्त्वचर्याविषयं संपश्यन् अनन्तलोकधातुगतिविमात्रतां संपश्यन् अनन्तलोकधातुविभक्तिविचित्रतां संपश्यन् अनन्त लोकधातुसूक्ष्मोदारारम्बणान्तर्गतां संपश्यन् अनन्तलोकधातुप्रतिष्ठानसंज्ञाजालविचित्रितां संपश्यन् अनन्तलोकधातुव्यवहारप्रज्ञप्तिसंवृतिविमात्रतां संपश्यन् अनन्तसत्त्वाधिमुक्तिविमात्रतां संपश्यन् अनन्तसत्त्वविभक्तिविमात्रतां संपश्यन् अनन्तसत्त्वपरिपाकविनयानुगमं संपश्यन् अनन्तसत्त्वदिक्कालसंज्ञागतविचित्रतां संपश्यन् कल्याणमित्राण्यभिमुखीकुर्वाणो ऽनुपूर्वेण येन ईषाणे जनपदे जयोष्मायतनो ब्राह्मणः, तेनोपसंक्रान्तः । तेन च समयेन जयोष्मायतनो ब्राह्मण उग्रं तपः तप्यति सर्वज्ञतामारम्बणीकृत्य । तस्य चतुर्दिशं महानग्निस्कन्धः पर्वतमात्रोज्ज्वलितः । अभ्युद्गतमहापर्वतप्रपातः क्षुरधारामार्गः संदृश्यते ॥
अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । स आह - गच्छ कुलपुत्र, एतं क्षुरधारमार्गं पर्वतमभिरुह्य अत्र अग्निखदायां प्रपत । एवं ते बोधिसत्त्वचर्या परिशुद्धिं गमिष्यति ॥
अथ खलु सुधनस्य श्रेष्ठिदारकस्य एतदभवत् - दुर्लभा अष्टाक्षणविनिवृत्तिः । दुर्लभो मानुष्यप्रतिलाभः । दुर्लभा क्षणसंपद्विशुद्धिः । दुर्लभो बुद्धोत्पादः । दुर्लभा अविकलेन्द्रियता । दुर्लभो बुद्धधर्मश्रवः । दुर्लभं सत्पुरुषसमवधानम् । दुर्लभानि भूतकल्याणमित्राणि । दुर्लभो भूतनयानुशासनोपसंहारः । दुर्लभं सम्यग्जीवितं मनुष्यलोके । दुर्लभा धर्मानुधर्मप्रतिपत्तिः । मा हैवायं मारो भविष्यति माराधिष्ठितो वा मारकायिको वा कल्याणमित्रप्रतिरूपको वा बोधिसत्त्वखण्डको वा, यो मम कुशलमूलान्तरायाय प्रतिपन्नः, यो मम जीवितनिरोधाय ( ग्व् 91 ) अभ्युत्थितः । मा हैव ममान्तरायं कर्तुकामः सर्वज्ञतायाम् । मा खलु मां विषमेण पथा प्रणेतुकामः । मा खलु मे धर्ममुखान्तरायं कर्तुकामो बुद्धधर्माधिगमाय । तस्यैवं चिन्तामनसिकारप्रयुक्तस्य दश ब्रह्मसहस्राण्युपर्यन्तरिक्षे स्थित्वा एवमाहुः - मा कुलपुत्र एवं चेतनां दृढीकार्षीः । एष कुलपुत्र आर्यो वज्रार्चिःसमाध्यवभासलब्धः अविवर्त्यवीर्यो महारम्भोत्तारणप्रतिपन्नः, सर्वजगत्स्नेहपर्यादानायाभ्युत्थितः, सर्वदृष्टिगतजालदालनाय प्रयुक्तः, सर्वक्लेशकर्मकक्षनिर्दहनाय प्रत्युपस्थितः, सर्वाक्षणज्ञानकान्तारावभासनायोद्युक्तः, सर्वसत्त्वजरामरणप्रपातभयविनिवर्तनाय व्यवस्थितः, त्र्यध्वान्धकारविधमनतायै अभियुक्तः, सर्वधर्मरश्मिप्रमुञ्चनतायै प्रतिपन्नः । एतस्य हि कुलपुत्र, पञ्चतपस्तप्यमानस्य यावन्तः केचिद्ब्राह्मणाः कर्तृत्वमीश्वरत्वं सर्वलोकज्येष्ठत्वमात्मनि मन्यन्ते विविधदृष्टिगताभिनिविष्टाः तस्य असमोग्रतपोव्रतसमादानप्रभावेण सर्वे स्वभवनेषु न रमन्ते । ते ध्यानरतिमनास्वादयन्तो ऽस्य सकाशमुपसंक्रामन्ति । तानेष आगतानृद्धयनुभावेनाभिभूय उग्रव्रततपसा च तेभ्यः सर्वदृष्टिगतविनिवर्तनाय सर्वमानमदप्रहाणाय च धर्मं देशयति । सर्वजगन्महामैत्रीमहाकरूणास्फरणतायै बोध्याशयदृढीकरणतायै बोधिचित्तोत्पादविपुलकरणतायै सर्वबुद्धसंदर्शनाभिमुखतायै बुद्धस्वरमण्डलप्रतिलम्भपरिपूरणाय सर्वत्रानुरवणबुद्धघोषाप्रतिघातानावरणतायै च धर्मं देशयति ॥
दश च मारसहस्राण्युपर्यन्तरीक्षे स्थित्वा दिव्यैर्मणिरत्नैरभ्यवकीर्य एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यतो ऽस्मादर्चिःस्कन्धादाभा निश्चरित्वा अस्मद्भवनान्यात्मभावनाभवनाभरणपरिभोगांश्च जिह्मीकुर्वन्ति । ते वयं संवेगजाताः सपरिवाराः एतस्य सकाशमुपसंक्रमाम । उपसंक्रान्तानां चैषा ऽस्माकं तथा धर्मं देशयति, यथा स्वचित्तप्रतिलब्धा बोधाय चित्तमुत्पाद्य अविनिवर्तनीया भवामो ऽनुत्तरयां सम्यक्संबोधौ ॥
दश च वशवर्तिदेवराजसहस्राणि दिव्यैः पुष्पैरभ्यवकीर्य एवमाहुः - वयं कुलपुत्र, अस्य पञ्चतपस्तप्यतः स्वभवनेषु रतिं न विन्दामः । ते वयं स्वस्वजनपरिवारा एतस्य सकाशमुपसंक्रमामः । स एषो ऽस्माकमुपसंक्रान्तानां स्वचित्तवशवर्तिताप्रतिलाभाय धर्मं देशयति । सर्वक्लेशवशिताप्रतिलाभाय यथाभिप्रायोपपत्तिवशिताप्रतिलाभाय सर्वकर्मावरणविशुद्धिवशिताप्रतिलाभाय सर्वसमापत्तिवशवर्तिताप्रतिलाभाय परिष्कारवशिताव्यूहपरिशुद्धये यथाभिप्रायवशवर्तितायै च धर्मं देशयति ॥

दश च सुनिर्मितदेवराजसहस्राण्युपर्यन्तरिक्षे स्थित्वा दिव्यसंगीतप्रयोगनिर्नादमधुरनिर्घोषेण पूजां कृत्वा एवमाहुः - एतस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो ऽग्निकूटेभ्यस्तद्रूपा प्रभा निश्चरति, यया अस्माकमिमानि विमानान्युत्तप्यन्ते, विशुध्यन्ति, प्रभास्वरतराणि भवन्ति । इमानि चाभरणानि, इमाश्चाप्सरसः, वयमपीदानीं सदेवपुत्राप्सरोगणपरिवारा न कामेषु रतिं विन्दामः । न कामसुखमभिनन्दामः । ते वयं प्रह्लादितकायचित्ताः एतस्य सकाशमुपसंक्रमामः । स एषो ऽस्माकमुपसंक्रान्तानां चित्तविशुद्धये धर्मं देशयति । चित्तप्रभास्वरतायै चित्तकल्याणतायै चित्तकर्मण्यतायै चित्तप्रीतिसंजननतायै दशबलज्ञानप्रतिलाभविशुद्धये ( ग्व् 92 ) महाधर्मवेगविवर्धनतयै कायविशुद्धये अप्रमाणबुद्धकायाभिनिर्हरणतायै वाग्विशुद्धये तथागतघोषप्रतिलाभाय चित्तविशुद्धये सर्वज्ञताप्रतिलाभाय धर्मं देशयति ॥
दश च संतुषितदेवराजसहस्राणि सदेवपुत्राप्सरगणोपरिवाराणि उपर्यन्तरिक्षे स्थित्वा सर्वगन्धचूर्णमेघवर्षमभिप्रवृष्य पूजयित्वा नमस्कृत्य एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यमानस्य अस्माकं स्वभवनेषु रतिर्न भवति । ते वयमनभिरताः सन्तः एतस्य सकाशमुपसंक्रमामः । तत एषो ऽस्माकमुपसंक्रान्तानां सर्वविषयानवेक्षतायै धर्मं देशयति । संतुष्टिचित्ततायै चित्तपरितुष्टितायै कुशलमूलसंजननतायै बोधिचित्तोत्पादप्रतिलाभाय यावत्सर्वबुद्धधर्मपरिपूरणाय धर्मं देशयति ॥
दश च सुयामदेवराजसहस्राणि सदेवपुत्राप्सरोगणपरिवाराणि दिव्यानि मान्दारवकुसुमवर्षाण्यभिप्रवृष्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं दिव्यसंगीतिषु रतिर्न भवति । ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः । तत एषो ऽस्माकमुपसंक्रान्तानां सर्वकामरतिविनिवर्तनतायै यावत्सर्वबुद्धधर्मप्रतिलाभाय धर्मं देशयति ॥
दश च शक्रदेवेन्द्रशतसहस्राणि प्रत्येकं द्वात्रिंशद्भिरुपेन्द्रैः सदेवपुत्राप्सरोगणपरिवारैः सार्धं दिव्यवस्त्ररत्नाभरणकुसुममेघवर्षमभिप्रवृत्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं सर्वशक्रभवनोद्यानक्रीडावनदिव्यतूर्यतालोपचारसंगीतिपरिभोगेषु रतिर्न भवति । ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः । तत एषो ऽस्माकमुपसंक्रान्तानां सर्वकामरतिप्रहाणाय धर्मं देशयति । सर्वमिदमनित्यं चलं व्ययधर्ममिति वाचमुदीरयति । सर्वमदप्रमादसमुच्छेदनाय धर्मं देशयति अनुत्तरबोधिच्छन्दविवर्धनतायै । अपि तु खलु पुनः कुलपुत्र अस्य संप्रेक्षितेन इमानि मेरुशिखराणि संप्रकम्पितानि । ते वयं व्यथितसंविग्नचित्ताः सर्वज्ञताचित्तोत्पादनदृढतया सर्वज्ञताज्ञाने प्रणिधिमभिनिर्हरामः ॥
दश च नागसहस्राणि ऐरावतनन्दोपनन्दनागराजप्रमुखानि उपर्यन्तरिक्षे गतानि दिव्यकालानुसारिचन्दनमेघैर्नागकन्यासंगीतिनिर्नादमधुरनिर्घोषैर्दिव्यगन्धोदकधाराप्रसृतप्रमुक्तैरभिप्रवृष्य एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो महाग्निस्कन्धराशिभ्य आभाः प्रमुक्ताः सर्वनागभवनान्यवभास्य वालिकावर्षसुपर्णिभयान्यपनयन्ति । क्रोधप्रवृत्तिं चैषां प्रशमयित्वा आशयं प्रह्लाद्य मनः प्रसादयन्ति । तत एषो ऽस्माकं प्रसन्नचित्तानां धर्मं देशयति, यदुत हीननागगतिविजुगुप्सनतायै सर्वावरणीयकर्मप्रहाणाय । अत्ययं देशयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य सर्वज्ञतायां प्रतिष्ठापयति ॥
दश च यक्षेन्द्रसहस्राणि गगनतले स्थित्वा नानाविधया पूजया पूजयित्वा जयोष्मायतनं ब्राह्मणं सुधनं च श्रेष्ठिदारकमेवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्मत्पार्षदानां मनुष्येषु मैत्रं चित्तं संजायते । सर्वयक्षराक्षसकुम्भाण्डाश्च मैत्रचित्ता भवन्ति । ते मैत्रचित्ता ( ग्व् 93 ) अविहेठनप्रतिपन्ना अस्मत्सकाशमुपसंक्रामन्ति - वयमपीदानीं मैत्र्याधिपत्येनाभिभूताः स्वेषु स्वेषु भवनेषु रतिं न विन्दामः । ते वयं सस्वजनपरिवारा एतस्य सकाशमुपसंक्रमामः । तदस्माकमुपसंक्रान्तानामस्य शरीरनिर्याता प्रभा अवभास्य सर्वशरीरं सुखेन स्फरति । स एषो ऽस्माकं प्रीणितकायचित्तानां तथा धर्मं देशयति, यदनेकेषां यक्षराक्षसकुम्भाण्डकटपूतनानां बोधाय चित्तान्युत्पद्यन्ते ॥
दश च गन्धर्वेन्द्रसहस्राण्युपर्यन्तरिक्षे स्थित्वा एवमाहुः - अस्माकमपि कुलपुत्र स्वभवनेषु वसतामस्य पञ्चतपस्तप्यत एभ्यो ऽग्निकूटेभ्य आभा निश्चरित्वा अस्मद्भवनान्यवभासयति । ते वयं तया प्रभया स्पृष्टा अचिन्त्यसुखसमर्पिता एतस्यान्तिकमुपसंक्रमामः । उपसंक्रान्तानामेषो ऽस्माकं तथा धर्मं देशयति, यदविवर्त्या भवामो ऽनुत्तरायाः सम्यक्संबोधेः ॥
दश च असुरेन्द्रसहस्राणि महासमुद्रादभ्युद्गम्य आकाशे दक्षिणं जानुमण्डलमवनाम्यकृताञ्जलिपुटानि नमस्यमानानि एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यतो ऽस्माकं सर्वे ऽसुरलोकाः ससागराणि सशैलानि च महापृथिवीमण्डलानि प्रकम्पन्ते । ततो वयं सवे निहतमानमददर्पा व्रततपोभिभूता एतस्य सकाशमुपसंक्रमामः । उपसंक्रान्तानामेषो ऽस्माकं सर्वमायाशाठ्यप्रहाणाय गम्भीरधर्मक्षान्त्यवताराय अचलधर्मताप्रतिष्ठानाय दशबलज्ञानपरिनिष्पत्तये च धर्मं देशयति ॥
दश च गरुडेन्द्रसहस्राणि महावेगधारिगरुडेन्द्रप्रमुखानि उदारं माणवकरूपमभिनिर्माय एवमाहुः - अस्य कुलपुत्र, पञ्चतपस्तप्यत एभ्यो ऽग्निराशिभ्यः प्रभा निश्चरित्वा अस्मद्भवनान्यवभास्य संकम्पयति । ते वयं भीतास्त्रस्ताः संविग्नमनस एतस्यान्तिकमुपसंक्रमामः । स एष कुलपुत्र, अस्मान् धर्मदेशनया महामैत्र्यां संनियोजयति । महाकरुणायां समादापयति । संसारसागरावगाहनतायां संनियोजयति । कामपङ्कनिमग्नसत्त्वाभ्युद्धरणाय संनियोजयति । बोध्याशयमुखविशुद्धौ प्रयोजयति । प्रज्ञोपायतीक्ष्णतायां संनियोजयति । यथापरिपक्वसत्त्वविनयायोद्योजयति ॥

दश च किन्नरेन्द्रसहस्राणि उपर्यन्तरिक्षे स्थित्वा एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यतो वायुसमीरिताभ्यो ऽस्मद्भवनगततालपङ्क्तिभ्यः किङ्किणीजालरत्नसूत्रदामवाद्यवृक्षेभ्यो सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो बुद्धशब्दो निश्चरति । धर्मशब्दो ऽविवर्त्यबोधिसत्त्वसंघशब्दो बोधिसत्त्वप्रस्थानप्रणिधानशब्दो निश्चरति । अमुष्यां लोकधातुसंख्यायाममुको नाम बोधिसत्त्वो बोधाय प्रणिदधाति । अमुष्यां लोकधातुसंख्यायाममुको नाम बोधिसत्त्वो दुष्करपरित्यागं करोति । अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो सर्वज्ञताज्ञानमण्डलं परिशोधयति । अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो बोधिमण्डमुपसंक्रामति । अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो सवाहनं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अमुष्यां लोकधातुसंख्यायामेवंनामा तथागतो धर्मचक्रं प्रवर्तयति । अमुष्यां लोकधातुसंख्यायाममुको नाम तथागतो ऽनवशेषबुद्धकार्यं कृत्वा अनुपधिशेषनिर्वाणधातौ ( ग्व् 94 ) परिनिर्वातीति । अपर्यन्तः कुलपुत्र भवेज्जम्बुद्वीपे सर्वतृणकाष्ठशाखापत्रपलाशानां परमाणुभागशः परिच्छिन्नानाम्, न त्वेव तेषां तथागतनाम्नां बोधिसत्त्वप्रणिधीनां बोधिसत्त्वचर्याप्रस्थानविशेषाणाम्, ये ऽस्मद्भवनगततालपङ्किभ्यो यावत्सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो वायुसमीरितेभ्यो बुद्धधर्मबोधिशब्दा निश्चरन्ति अनुरवन्ति, श्रोत्रविज्ञप्तिमागच्छन्ति । ते वयं कुलपुत्र, बुद्धसंघबोधिसत्त्वप्रस्थानप्रणिधिचर्यानामनिर्घोषेण महाप्रीतिवेगहर्षसंजाता एतस्य सकाशमुपसंक्रमामः । स एषो ऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदस्मत्परिषदि अनेके सत्त्वा अविवर्त्या भवन्त्यनुत्तरायाः सम्यक्संबोधेः ॥
अपरिमाणानि च कामावचरदेवपुत्रसहस्राण्युदारोदारवर्णान्याकाशे स्थित्वा मनोमय्या पूजया पूजयित्वा एवमाहुः - अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो ऽग्निकूटेभ्यस्तथारूपा प्रभा निश्चरन्ति, यया प्रभया अवीचिपर्यन्तान् सर्वनिरयानवभास्य सर्वनैरयिकसत्त्वदुःखानि प्रतिप्रस्रब्धानि । तयैव प्रभया अयमस्माकं चक्षुषु आभासमागच्छति । ते वयमस्योपरि चित्तानि प्रसादयित्वा प्रणीतेषु कामावचरदेवनिकायेषूपपन्नाः । ये वयमस्य कृतज्ञतया दर्शनेनावितृप्ताः सर्वकामरतिमुत्सृज्य अस्य सकाशमुपसंक्रमामः । तत एषो ऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदपरिमाणाः, सत्त्वा बोधाय प्रणिदधति ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः इममेवं रूपं धर्मनयं श्रुत्वा जयोष्मायनते ब्राह्मणे भूतकल्याणमित्रासंज्ञामुत्पाद्य जयोष्मायतनस्य ब्राह्मणस्य पादयोः प्रणिपत्य एवमाह - अत्ययमत्ययतो देशयाम्यार्य यो ऽहं कल्याणमित्राज्ञां प्रतिवाहयामि । अथ खलु जयोष्मायतनो ब्राह्मणः सुधनं श्रेष्ठिदारकं गाथयाध्यभाषत -
प्रदक्षिणं य बोधिसत्त्व आनुशास्ति कुर्वती
न काङ्क्षये गुरुभ्य एकधा स्थपित्व मानसम् ।
ततो ऽस्य सर्व अर्थ भोन्ति ते ऽपि च प्रदक्षिणाः
प्रदक्षिणं च बुद्धज्ञानु बोधिमूलि बुध्यते

6.10

अथ खलु सुधनः श्रेष्ठिदारकस्तं क्षुरधाराचितं पर्वतप्रपातमार्गमभिरुह्य तत्र महाग्निस्कन्धे प्रापतत् । तेन प्रपतता सुप्रतिष्ठितो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः । तेन चाग्निस्पर्शनेन प्रशमसुखाभिज्ञो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः । स एवमाह - आश्चर्यमार्य यावत्सुखसंस्पर्शो ऽयं अग्निस्कन्धः, एष च क्षुरधाराचितः पर्वतप्रपातमार्गः । स आह - अहं कुलपुत्र, अपर्यादत्तमण्डलस्य बोधिसत्त्वविमोक्षस्य लाभी । एतमहं कुलपुत्र अपर्यादत्तमण्डलं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं तेजोरश्मिकल्पानां बोधिसत्त्वानां सर्वजगत्क्लेशदृष्टिपर्यादत्तप्रणिधानानामप्रत्युदावर्त्यकेतूनामपर्यादत्तहृदयानामदीनचित्तानामसंकुचितमानसानां वज्रगर्भनारायणकल्पानां महारम्भोत्तरणाविषण्णानामशिथिलप्रयोगानां ( ग्व् 95 ) वातमण्डलीकल्पानां सर्वजगदर्थप्रयुक्तानामविवर्त्यवीर्याणामप्रत्युदावर्त्यसंनाहानां चर्यां ज्ञातुं गुणान् वा वक्तुम्? गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे सिंहविजृम्भितं नाम नगरम् । तत्र मैत्रायणी नाम कन्या, राज्ञः सिंहकेतोर्दुहिता, पञ्चकन्याशतपरिवारा । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य जयोष्मायतनं ब्राह्मणमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य जयोष्मायतनस्य ब्राह्मणस्यान्तिकात्प्रकान्तः

6.11

13 मैत्रायणी ।
अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्राचिन्त्यगोचरनिर्यातः उदाराधिमुक्तिविशुद्धो महायानाभिमुखो बुद्धज्ञानाभिलाषी बुद्धधर्मसमवसरणः कल्याणमित्रानुबन्धनाभिकाङ्क्षी धर्मगोचरविचारी असङ्गज्ञानाभिमुखो भूतकोटीसुविनिश्चितः ज्ञानकोटीस्थितविषयः त्रध्वक्षणकोट्यनुगतः आकाशकोट्यद्वयाभिमुखः अद्वयकोटीविनिश्चयप्राप्तो धर्मधातुकोट्यविकल्पविहारी अनावरणकोटीविनयप्रतिषेधप्रविष्टः कर्मकोट्यविरोधपरमः तथागतकोट्यविकल्पविहारी सर्वसत्त्वसंज्ञाजालविकिरणज्ञानपरमः सर्वक्षेत्राभिनिवेशविगतः सर्वबुद्धपर्षन्मण्डलेष्वनुनीतचित्तः सर्वबुद्धपरिशुद्धिष्वनिकेतविहारी सर्वसत्त्वेषु निरात्मनिःसत्त्वसंज्ञी सर्वशब्देषु वाक्पथोपमावतीर्णः सर्वरूपेषु रूपप्रतिभाषविज्ञप्तिपरमो ऽनुपूर्वेण येन सिंहविजृम्भितं नगरं तेनोपसंक्रम्य मैत्रायणीं कन्यामन्वेषमाणः परिमार्गमाणो ऽश्रौषीत् - एषा मैत्रायणी कन्या राज्ञः सिंहकेतोर्दुहिता पञ्चकन्याशतपरिवारा वैरोचनगर्भप्रासादतलाभिरूढा उरगसारचन्दनपादे सुवर्णसूत्रजालश्च्योते दिव्यचीवरप्रज्ञप्ते भद्रासने उपविष्टा धर्मं देशयति । श्रुत्वा च पुनः सिंहविजृम्भितं नगरं प्रविश्य येन राज्ञः सिंहकेतोर्गृहं तेनोपसंक्रम्य राज्ञो बहिर्द्वारशालायां प्रत्यस्थात् मैत्रायण्याः कन्याया दर्शनकामः । स तत्राद्राक्षीदनेकानि प्राणिशतानि, अनेकानि प्राणिसहस्राणि, अनेकानि प्राणिशतसहस्राणि प्रविशमानानि । दृष्ट्वा च परिपृच्छति - क्व यूयं गच्छथ कुलपुत्राः, क्व वा आगच्छथ? ते ऽवोचन् - मैत्रायण्याः सकाशं धर्मश्रवणाय । तस्यैतदभवत् - नात्र कश्चित्प्रतिनिवार्यते ऽनुप्रविशन् । इति स प्राविशत् । प्रविष्टो ऽद्राक्षीत्तं वैरोचनगर्भं प्रासादं स्फटिकसंस्थिततलायां पृथिव्यां वैडूर्यमयैःस्तम्भैर्वज्रमयैर्भित्तिभिर्जाम्बूनदकनककूटनिर्यूहशतसहस्रालंकारमसंख्येयमणिरत्नविचित्रसहस्रगर्भरत्नादर्शमण्डलरचितं जगद्रोचनमणिरत्नव्यूहमसंख्येयरत्नजालपरिक्षिप्तं सुवर्णघण्टानां शतसहस्रसमीरितं मधुरनिर्घोषाचिन्त्यव्यूहालंकारम्, तां च मैत्रायणीकन्यामद्राक्षीत् अभिनीलनेत्रामभिनीलकेशीं सुवर्णवर्णच्छविम्
। स तस्याः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - प्रेक्षस्व कुलपुत्र मम भवनव्यूहानिति । स समन्तादनुविलोकयन्नद्राक्षीदेकैकस्या भित्तेरेकैकस्मात्स्तम्भादेकैकस्मादादर्शमण्डलादेकैकस्मादाकारादेकैकस्मात्संस्थानादेकैकस्मान्मणिरत्नात् एकैकस्याः सुवर्णघण्टायाः एकैकस्माद्रत्नवृक्षादेकैकस्माद्रोमविवरादेकैकस्माद्रत्नहारात् धर्मधातुगर्भांस्तथागतान् सप्रथमचित्तोत्पादान् सचर्याप्रणिधानविषयान् सनिर्याणव्यूहान् साभिसंबोधिविकुर्वितान् सधर्मचक्रप्रवर्तनान् सपरिनिर्वाणदर्शनान् प्रतिभासयोगेन । यथा च ( ग्व् 97 ) एकस्मादारम्बणात्, तथा सर्वारम्बणेभ्यः । तद्यथापि नाम उदकसरसि स्वच्छे ऽनाविले विप्रसन्ने गगनं चन्द्रादित्यं ज्योतिर्गणप्रतिमण्डितं संदृश्यते प्रतिभासयोगेन, एवमेव वैरोचनगर्भप्रासादस्य एकैकस्मादारम्बणाद्धर्मधातुगतास्तथागताः संदृश्यन्ते प्रतिभासयोगेन, यदुत मैत्रायण्याः कन्यायाः पूर्वकुशलमूलनिष्यन्देन । सो ऽनुविलोक्य तद्बुद्धदर्शनव्यूहनिमित्तं संधारयन् प्राञ्जलीभूतो मैत्र्यायण्याः कन्याया वचनं संप्रेक्षते स्म । सा प्रोवाच - अहं कुलपुत्र समन्तव्यूहस्य प्रज्ञापारमितामुखपरिवर्तस्य लाभिनी । एष च मे समन्तव्यूहः प्रज्ञापारमितामुखपरिवर्तः षट्त्रिंशद्गङ्गानदीवालिकासमानां तथागतनामन्तिकात्पर्यन्विष्टः । ते च मे तथागता नानामुखप्रवेशैरेतं समन्तव्यूहं प्रज्ञापारमितामुखपरिवर्तमवतारयामासुः । यच्चैकेन देशितम्, न तद् द्वितीयेन । आह - क एतस्य आर्ये समन्तव्यूहस्य प्रज्ञापारमितामुखपरिवर्तस्य विषयः? आह - एतन्मम कुलपुत्र समन्तव्यूहं प्रज्ञापारमितामुखपरिवर्तमभिमुखीकुर्वन्त्या उपनिध्यायन्त्या अनुसरन्त्या व्यवचारयन्त्या अनुविचिन्तयन्त्या आकारयन्त्या आधारयन्त्या व्यूहयन्त्या अभिनिर्हरन्त्याः समलंकुर्वन्त्याः प्रविचिन्वन्त्याः समन्तमुखा नाम धारणी आजायते, यत्र धारणीमण्डले दश धर्ममुखासंख्येयशतसहस्राण्यावर्तन्ते समवसरन्ति आमुखीभवन्ति अभिपतन्ति परिवर्तन्ते - यदुत बुद्धक्षेत्रमुखं बुद्धमुखं धर्ममुखं सर्वसत्त्वमुखमतीतमुखमनागतमुखं प्रत्युत्पन्नमुखं स्थितकोटीमुखं पुण्यमुखं पुण्यसंभारमुखं ज्ञानमुखं ज्ञानसंभारमुखं प्रणिधानमुखं प्रणिधानविकल्पमुखं चर्यामुखं चर्याविशुद्धिमुखं चर्यासमुदयमुखं चर्यापरिपूरिमुखं कर्ममुखं कर्मविरोचनमुखं कर्मस्रोतमुखं कर्माभिसंस्कारमुखं कर्मविषयमुखं विषमकर्मपरिवर्जनमुखं

सम्यक्कर्मप्रतिपत्तिमुखं कर्मवशितामुखं सुचरितमुखं सुचरितसमादापनमुखं समाधिमुखं समाध्यनुचारमुखं समाधिविचारमुखं समाधिगोचरमुखं समाधिव्युत्थानमुखमभिज्ञामुखं चित्तसागरमुखं चित्तपर्यायमुखं चित्तलतापरिशुद्धिमुखं चित्तगहनावभासमुखं चित्तसरःप्रसादनमुखं चित्तसंभवमुखं चित्तविचारमुखं सत्त्वसंक्लेशप्रचारमुखं क्लेशवासनामुखं क्लेशप्रयोगमुखमधिमुक्तिमुखं सत्त्वचर्यामुखं सत्त्वचर्याविमात्रतामुखं लोकसंभवमुखं सत्त्वाशयमुखं सत्त्वसंज्ञागतमुखं दिङ्मुखं धर्मदिङ्मुखं महाकरुणामुखं महामैत्रीमुखं शान्तिमुखं वाक्पथमुखं नयमुखमनुगममुखं विभक्तिमुखं समवसरणमुखमसङ्गकोटीमुखं समन्तमुखं बुद्धधर्ममुखं बोधिसत्त्वधर्ममुखं श्रावकधर्ममुखं प्रत्येकबुद्धधर्ममुखं लोकधर्ममुखं लोकसंभवधर्ममुखं लोकविभवधर्ममुखं लोकसंस्थानधर्ममुखं लोकधातुविशुद्धिमुखं लोकधातुसंक्लिष्टमुखं संक्लिष्टविशुद्धिलोकधातुमुखं विशुद्धिसंक्लिष्टलोकधातुमुखमेकान्तसंक्लिष्टलोकधातुमुखमेकान्तविशुद्धलोकधातुमुखं लोकधातुसमतलानुगममुखं व्यत्यस्तलोकधातुमुखमवमूर्धहारमुखमिन्द्रजालप्रवेशमुखं लोकधातुपरिवर्तमुखं प्रतिष्ठानसंज्ञागतमुखं सूक्ष्मोदारानुगममुखमुदारसूक्ष्मप्रवेशमुखं बुद्धदर्शनमुखं बुद्धकायवैमात्र्यमुखं बुद्धरश्मिजालवैचित्र्यमुखं बुद्धस्वरमण्डलविभक्तिमुखं बुद्धधर्मचक्राभिनिर्हारमुखं बुद्धधर्मचक्रासंभेदमुखं बुद्धधर्मचक्रनिरुक्तिमुखं बुद्धधर्मचक्रावर्तपरिवर्तमुखं बुद्धकायमुखं बुद्धपर्षन्मण्डलमुखं ( ग्व् 98 ) बुद्धपर्षन्मण्डलविभक्तिमुखं बुद्धपर्षन्मण्डलसागरावतरणमुखं बुद्धबलावभासमुखं बुद्धसमाधिमुखं बुद्धसमाधिविकुर्वणमुखं बुद्धविहारमुखं बुद्धाधिष्ठानमुखं बुद्धनिर्माणमुखं बुद्धपरसत्त्वचित्तविज्ञप्तिमुखं बुद्धविकुर्वितमुखं तुषितभवनसंवासमुखं यावत्परिनिर्वाणसंदर्शनमुखम् अप्रमाणसत्त्वार्थक्रियामुखं गम्भीरधर्मनयमुखं विचित्रधर्मनयमुखं बोधिसत्त्वधर्मरूपमुखं बोधिचित्तसंभवरूपधर्ममुखं बोधिचित्तसंभाररूपमुखं प्रणिधिरूपमुखं चर्यारूपमुखमभिज्ञारूपमुखं निर्याणरूपमुखं धारणीविशुद्धिरूपमुखं ज्ञानमण्डलविशुद्धिरूपमुखं प्रज्ञापरिशुद्धिरूपमुखं बोध्यप्रमाणरूपमुखं स्मृतिविशुद्धिरूपमुखम् । एतमहं कुलपुत्र समन्तस्मृतिव्यूहं प्रज्ञापारमितामुखपरिवर्तं जानामि । किं मया शक्यमाकाशधातुसमचित्तानां
बोधिसत्त्वानां धर्मधातुविपुलमतीनां पुण्यसंभारोपस्तब्धसंतानानां लोकोत्तरप्रतिपत्प्रतिपन्नानामसमुदाचारलोकधर्माणां वितिमिरज्ञानालोकचक्षुःप्रतिलब्धानामतमःसर्वधर्मधातुप्रतिविद्धानां गगनकल्पाप्रमाणबुद्धीनां सर्वारम्बणानुस्मृतचक्षुषां असङ्गभूम्यालोकगर्भाणां सर्वधर्मार्थपदप्रभेदकुशलानां सर्वलोकानाभिभूतानां लोकचारित्रविधिविचाराणां सर्वलोकगत्यनवद्यानां सर्वलोकार्थक्रियापरमाणां सर्वजगत्प्रतिशरणानां सर्वजगद्वागुपचारविधिज्ञानां सर्वजगन्निवासाशयानां यथाशयविज्ञप्तिनिदर्शनानां सर्वकालचक्रवशवर्तिनां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे त्रिनयनो नाम जनपदः । तत्र सुदर्शनो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको मैत्रायण्याः कन्यायाः पादौ शिरसाभिवन्द्य मैत्रायणीं कन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रायण्याः कन्यायाः सकाशात् प्रक्रान्तः

6.12

14 सुदर्शनः ।
अथ खलु सुधनः श्रेष्ठिदारको गम्भीरं बोधिसत्त्वज्ञानविचारमनुविचिन्तयन्, गम्भीरं धर्मधातुतलानुगमनमनुविचिन्तयन्, गम्भीरं सर्वसूक्ष्मज्ञानमनुविचिन्तयन्, लोकसंज्ञागतगम्भीरतामनुविचिन्तयन्, अनभिसंस्कारतलगम्भीरतामनुविचिन्तयन्, चित्तस्रोतस्तलगम्भीरतामनुविचिन्तयन्, प्रतीत्यसमुत्पादतलगम्भीरतामनुविचिन्तयन्, स्वभावसत्यतलगम्भीरतामनुविचिन्तयन्, सर्वजगद्वयवहारसत्यतलगम्भीरतामनुविचिन्तयन्, धर्मधातुप्रतिमण्डितव्यूहतलगम्भीरतामनुविचिन्तयन्, काययन्त्रापेक्षतलगम्भीरतामनुविचिन्तयन्, कर्मचित्तलोकतलगम्भीरतामनुविचिन्तयन्, अनुपूर्वेण येन त्रिनयनो जनपदस्तेनोपसंक्रम्य सुदर्शनं भिक्षुं मार्गयमाणो जनपदव्यवचारेषु नगरव्यवचारेषु पट्टनव्यवचारेषु निगमव्यवचारेषु ग्रामव्यवचारेषु घोषव्यवचारेषु ऋष्याश्रमव्यवचारेषु देशप्रदेशव्यवचारेषु जलपथव्यवचारेषु गिरिदरिव्यवचारेषु महावनषण्डव्यवचारेषु सो ऽद्राक्षीत् सुदर्शनं भिक्षुमन्यतमस्मिन् वनषण्डे चंक्रम्यमाणं दहरं तरुणमभिरूपं प्रासादिकं दर्शनीयमभिनीलप्रदक्षिणावर्तकेशं छत्राकारमूर्धानमुष्णीषशिरसं पृथुललाटमभिनीलविशालगोपक्ष्मनयनं मधुरोन्नतचारुतुङ्गनासिकावंशं हिङ्गुलुकसुवर्णसुश्लिष्टोष्ठं समसहितसुशुक्लपूर्णचत्वारिंशद्दन्तं सिंहहनुं परिपूर्णोपचितकपोलं सुरुचिरचापायतभ्रुवं शशाङ्कवर्णोर्णया कृततिलकमायतमुक्तप्रलम्बकर्णं पूर्वचन्द्रसौम्यवदनं कम्बुरुचिरवृत्तग्रीवं श्रीवत्सालंकृतहृदयं सिंहपूर्वार्धकायं चितान्तरांसं सुसंवृतस्कन्धं प्रलम्बबाहुं जालावनद्धाङ्गुलिं चक्राङ्कितहस्तपादं मृदुतरुणोपचितपाणिईपादं सप्तोत्सदं वज्रसदृशमध्यं बृहदृजुगात्रं सुवर्तितोरुं कोशगतबस्तिगुह्यं ऐणेयजङ्घं दीर्घाङ्गुलिमायतपादपार्ष्णिं व्यामप्रभं सुवर्णवर्णच्छविमेकैकप्रदक्षिणावर्तरोमं न्यग्रोधराजपरिमण्डलं लक्षणानुव्यञ्जनोपचितशरीरं अनिमिषाविभ्रान्तदृष्टिमुपस्थितस्मृतिं हिमवत्पर्वराजमिव नानातृणवनौषधिलतोपशोभितं विपुलबुद्धिमसंहार्यज्ञानगोचरविषयं जलधराकारस्वरमण्डलव्यूहं सर्वेञ्जनमन्यनस्पन्दनप्रपञ्चनापगतचित्तम् असंभिन्नज्ञानगोचरं
विपुलबुद्धज्ञानविषयावभासप्रतिलब्धं सर्वसत्त्वपरिपाकविनयाव्युच्छिन्नाशयं संजातविपुलमहाकरुणामण्डलं सर्वतथागतधर्मनेत्रीसंधारणार्थं सर्वसत्त्वज्ञानालोकसंजननार्थं तथागतगतिमनुस्मरन्तं सर्वजगदर्थचंक्रमाभिरूढमद्रुतमविलम्बितं निभृतं सुव्यवस्थितं चंक्रम्यमाणं शुद्धावासदेवकल्पवसनं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालमनुष्यामनुष्यैः परिवृतम् ॥
तस्य खलु पुनः सुदर्शनस्य भिक्षोश्चंक्रम्यमाणस्याभिमुखदिगावृता दिग्देवता दिङ्भण्डलमावर्तयन्ति । पदगामिन्यो देवता रत्नपद्मैः क्रमविक्षेपं संप्रतीच्छन्ति । अपर्यादत्तालोकमण्डलोपज्वलनदेवतास्तमोन्धकारं विधमन्ति । जम्बुध्वजवनदेवताः कुसुमौघवर्षमभिप्रवर्षन्ति । अचलगर्भभूमिदेवता रत्नाकराण्युपदर्शयन्ति । समन्तावभासश्रीगगनदेवता गगनतलमलंकुर्वन्ति । श्रीसंभवाः सागरदेवता महामणिरत्नैरभ्यवकिरन्ति । विमलगर्भाः सुमेरुदेवताः ( ग्व् 100 ) कृताञ्जलिपुटा नमस्यन्ति । असङ्गबला वायुदेवता गन्धधूपपुष्पाकुलं मारुतं प्रमुञ्चन्ति । वासन्तीरात्रिदेवताः स्वलंकृतशरीराः प्रणताङ्गा नमस्यन्ति । सदाविबोधनमण्डला दिवसदेवता दिग्रोचनमणिरत्नध्वजगृहीता गगनतले तिष्ठन्ति आलोकसंजननार्थाय ॥
अथ खलु सुधनः श्रेष्ठिदारको येन सुदर्शनो भिक्षुस्तेनोपसंक्रम्य सुदर्शनस्य भिक्षोः क्रमतलाभ्यां निपत्य सुदर्शनस्य भिक्षोः क्रमतलं परिचुम्ब्य परिलिख्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमार्य अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो बोधिसत्त्वचर्यां परिमार्गामि । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददाति, अनुशासनीमनुप्रयच्छति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । स आह - अहं कुलपुत्र दहरो जात्या, नवकस्तु प्रवज्यया । तेन मे कुलपुत्र एकजन्मना अष्टत्रिंशद्गङ्गानदीवालुकासमानां तथागतानामन्तिके ब्रह्मचर्यं चीर्णम् । क्वचिन्मे तथा रात्रिंदिवं ब्रह्मचर्यं चीर्णम्, क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्, क्वचिद्वर्षम्, क्वचिद्वर्षशतम्, क्वचिद्वर्षसहस्रम्, क्वचिद्वर्षशतसहस्रम्, क्वचिद्वर्षकोटीम्, क्वचिद्वर्षकोटीनियुतम्, क्वचिद् यावदनभिलाप्यानभिलाप्यानि वर्षाणि, क्वचिदन्तरकल्पम्, क्वचिदर्धकल्पम्, क्वचित्कल्पम्, क्वचिन्मे तथागते यावदनभिलाप्यानभिलाप्यान् कल्पान् ब्रह्मचर्यं चीर्णमनयैव कल्पसंख्यया । सर्वेषामेव तथागतानामन्तिकाद्धर्मदेशना श्रुता । अववादानुशासनी संप्रतीच्छिता । प्रणिधानव्यूहाः परिशोधिताः । समुदागमविषयावतीर्णचर्यामण्डलं परिशोधितम् । पारमितासागराः परिपूरिताः । अभिसंबोधिविकुर्वितानि आज्ञातानि । धर्मचक्रप्रवर्तनानि चैषामन्योन्यासंभिन्नानि संधारितानि । बलसमता चैषामवतीर्णा । शासनं चैषां संधारितं यावत्सद्धर्मनिष्ठापर्यन्तम् । सर्वेषां च मे तेषां तथागतानां पूर्वप्रणिधानानि स्वबुद्धक्षेत्रपरिशुद्धये ऽभिनिर्हृतानि प्रणिधिमण्डलसमाध्यभिनिर्हारबलेन । सर्वेषां च मे तेषां पूर्वबोधिसत्त्वचर्या स्वचर्यापरिशुद्धये ऽभिनिर्हृता सर्वचर्यावतारसमाधिप्रतिलम्भबलेन । सर्वेषां च मे तेषां तथागतानां पारमिताविशुद्धिरभिनिर्हृता समन्तभद्रचर्यानिर्याणबलेन

। अपि तु खलु पुनर्मे कुलपुत्र एवं चंक्रम्यमाणस्य सर्वदिक्स्रोतोमुखान्यावर्तन्ते सुविलोकितज्ञानमुखतया । सर्वलोकधातुस्रोतोमुखानि व्यावर्तन्ते एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यलोकधात्वतिक्रमणपरिशोधनतायै यदुत महाप्रणिधानाभिनिर्हारबलेन । एकचित्तक्षणेन अनभिलाप्यानभिलाप्यसत्त्वचर्यानयमुखान्यभिमुखमावर्तन्ते दशबलज्ञानपरिपूरये । समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रदर्शनविशुद्धयो ऽभिमुखीभवन्ति अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतपूजोपस्थानपरिचारणतायै । पूर्वोत्तरतथागतपूजाप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यतथागतधर्ममेघा आशये ऽभिपतन्ति । असंख्येयधर्मगतिविध्यनुगमधर्मचक्रसंधारणधारणीप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबोधिसत्त्वचर्यासमुद्रा ( ग्व् 101 ) अभिमुखा आवर्तन्ते सर्वचर्यामण्डलपरिशोधनतायै । इन्द्रबलोपमबोधिसत्त्वचर्यापरिपूरिप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसमाधिसागरा अभिमुखा आअवर्तन्ते सर्वसमाधिमण्डलपरिशोधनतायै । एकसमाधिमुखैः सर्वसमाधिमुखसमवसरणप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्येन्द्रियसमुद्रा अभिमुखमावर्तन्ते सर्वेन्द्रियचक्रकालचक्रानुवर्तनतायै । स्मृतिकोटीन्द्रियप्रतिलाभप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यकालचक्राण्यभिमुखमावर्तन्ते सर्वकालधर्मचक्रप्रवर्तनतायै । अनिष्ठसत्त्वनिष्ठाप्रणिध्यभिनिर्हारबलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसर्वत्र्यध्वसागरा अभिमुखमावर्तन्ते सर्वलोकधातुषु त्र्यध्वव्यवस्थानतया
अनुगमज्ञानालोकप्रणिध्यभिनिर्हारबलेन । एतमहं कुलपुत्र अनिशान्तज्ञानप्रदीपं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं वज्रकल्पाशयानां बोधिसत्त्वानां सर्वतथागतकुलकुलीनताभिजातानामनुपरुद्धजीवितेन्द्रियाणामनिशान्तज्ञानप्रदीपानामनाच्छेद्याभेद्यकायानां मायागतरूपानिर्वृत्तानां प्रत्ययधर्मसमाङ्गप्रत्यङ्गशरीराणां यथाशयजगद्विज्ञप्तिकायानां सर्वजगदुपमरूपकायवर्णसंस्थानारोहपरिणाहसंदर्शकायानामग्निज्वालाविषशस्त्रानुपघातशरीराणां वज्रदृढचक्रवालानवमृद्यात्मभावानां सर्वमारपरप्रवादिबलाबलकरणानां जाम्बूनदकनकपर्वतसंनिभानां सर्वजगदभ्युद्गतशरीराणां सर्वजगद्विज्ञप्त्याश्रयाणां समन्तमुखविज्ञप्तिश्रवणानां सर्वजगदुल्लोकितमुखानां सर्वधर्मजलधराकारभूतानां समन्तदिग्विरोचनानां सर्वावरणपर्वतविकिरणत्वादप्रतिकूलदर्शनानां सर्वाकुशलमूलात्यन्तसमुद्धाटितत्वात्परमशूरदर्शनानां विपुलकुशलमूलनिष्यन्दसंभूतत्वादभिलषितदर्शनानां परमदुर्लभप्रादुर्भावत्वादुदुम्बरपुष्पसदृशानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे श्रमणमण्डले जनपदे सुमुखं नाम नगरम् । तत्र इन्द्रियेश्वरो नाम दारकः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वविक्रमप्रतिपद्विशुद्धिपरमः बोधिसत्त्वबलालोकावभासितचित्तो ऽपराजितबोधिसत्त्ववैर्यपर्यादत्तहृदयः बोधिसत्त्वदृढप्रणिधिसंनाहासंकुचितचित्तो बोधिसत्त्वाशयदृढसंस्थानपरिणाहपरमो बोधिसत्त्वचर्यामेघसंधारणसंप्रस्थानाशयो बोधिसत्त्वधर्ममेघापरितृप्तसंतानः सर्वबोधिसत्त्वगुणावताराभिमुखप्रणिधानः सर्वजगत्सारथिसंग्राहकभूतमात्मानमुपनामयितुकामः सर्वजगन्महासंसाराटवीकान्तारादतिक्रामयितुकामः कल्याणमित्रदर्शनश्रवणपर्युपासनापरितृप्त एव अप्रमाणधर्मगौरवसंजातः सुदर्शनस्य भिक्षोः पादौ शिरसाभिवन्द्य सुदर्शनं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुदर्शनस्य भिक्षोरन्तिकात्प्रक्रान्तः

6.13

15 इन्द्रियेश्वरः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तां सुदर्शनस्य भिक्षोरनुशासनीमनुमन्त्रयन्, प्रवर्तयन्, अनुप्रयच्छन् प्रविचिन्वन्, प्रभाषमाणः प्रतिभावयन् उदीरयन् दर्शयन् अनुविचिन्तयन् अभ्यवचरन्, नयं विगमयन्, तद्धर्मनयमनुविचारयन् अवभारयन् समवसरन् आवर्तयन् संभिन्दन् प्रदर्शयन् अवभासयन् अनुविलोकयन् देवनागयक्षगन्धर्वपरिवारो ऽनुपूर्वेण येन श्रमणमण्डले जनपदे सुमुखं नगरं तेनोपसंक्रान्तः इन्द्रियेश्वरं दारकं परिमार्गमाणः । तस्योपर्यन्तरिक्षे गता देवनागयक्षगन्धर्वा आरोचयन्ति - एष कुलपुत्र इन्द्रियेश्वरो दारको नदीसंभेदाभ्याशे दशदारकसहस्रपरिवृतः पांशुक्रीडया क्रीडतीति ॥
अथ खलु सुधनः श्रेष्ठिदारको येन सुमुखं नगरं नदीसंभेदाभ्याशस्तेनोपसंक्रान्तः । सो ऽद्राक्षीत् इन्द्रियेश्वरं दारकं दशदारकसहस्रपरिवृतं पांशुक्रीडया क्रीडन्तम् । दृष्ट्वा च पुनर्येनेन्द्रियेश्वरो दारकस्तेनोपसंक्रम्य इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य इन्द्रियेश्वरस्य दारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरयां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायम् शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - अहं कुलपुत्र मञ्जुश्रिया कुमारभूतेन लिपिसंख्यामुद्रागणनानयं शिक्षयता सर्वशिल्पाभिज्ञावभासज्ञानमुखमवतारितः । सो ऽहं कुलपुत्र, यानि इमानि लोके लिपिसंज्ञागतानि संख्यागणनामुद्रानिक्षेपज्ञानविविधशिल्पज्ञानानिधातुतन्त्राणि विषयप्रयोगप्रतिभानकानि शोषापस्मारभूतप्रेतग्रहप्रतिषेधकानि ग्रामनगरनिगमपट्टनोद्यानतपोवनावसथनिवेशनज्ञानानि अभिप्रायप्रकारप्रासादगवाक्षकूटागारपरिणाहज्ञानानि विविधयन्त्ररथक्रियोपचारज्ञानानि क्षेमाक्षेमभयाभयनिमित्तज्ञानानि कृषिवाणिज्यव्यवहारक्रियाप्रयोगज्ञानानि सर्वाङ्गप्रत्यङ्गलक्षणचारोपचारविचारज्ञानानि सुगतिदुर्गतिकर्मपथविशुद्धयनुगमज्ञानानि कुशलाकुशलधर्मगणपूजाज्ञानानि सुगतिदुर्गतिसंभारज्ञानानि श्रावकप्रत्येकबुद्धयानसंभारज्ञानानि तथागतभूमिसंभारज्ञानानि हेतुक्रियाप्रयोगोपचारज्ञानानि, तानि सर्वाणि प्रजानामि । तेषु च सत्त्वानवतारयामि, निवेशयामि प्रतिष्ठापयामि शिक्षयामि शीलयामि दृढीकरोमि सारिकरोमि संतरामि संभावयामि संवर्तयामि उन्नामयामि विवर्धयामि निमित्तीकरोमि कोटीकरोमि विशोधयामि विमलीकरोमि उत्तापयामि प्रभास्वरीकरोमि विपुलीकरोमि
। सो ऽहं कुलपुत्र बोधिसत्त्वानां गणनानयं जानामि । स पुनः कतमः? शतं शतसहस्राणां कोटिः, कोटिः कोटीनामयुतम्, अयुतमयुतानां नियुतम्, नियुतं नियुतानां बिम्बरम्, बिम्बरं बिम्बराणां किंकरम्, किंकरं किंकराणामगरम्, अगरमगराणां प्रवरम्, प्रवरं प्रवराणां मपरम्, मपरं मपराणां तपरम्, तपरं तपराणां सीमम्, सीमं सीमानां यामम्, यामं यामानां नेमम्, नेमं नेमानामवगम्, अवगमवगानां मृगवम्, मृग वंमृगवानां विरागम्, ( ग्व् 103 ) विरागं विरागानां विगवम्, विगवं विगवानां संक्रमम्, संक्रमं संक्रमाणां विसरम्, विसरं विसराणां विभजम्, विभजं विभजानां विजङ्घम्, विजङ्घं विजङ्घानां विशोधम्, विशोधं विशोधानां विवाहम्, विवाहं विवाहानां विभक्तम्, विभक्तं विभक्तानां विखतम्, विखतं विखतानां डलनम्, डलनं डलनानां अवनम्, अवनं अवनानां थवनम्, थवनं थवनानां विपर्यम्, विपर्यं विपर्याणां समयम्, समयं समयानां वितूर्णम्, वितूर्णं वितूर्णानां हेतुरम्, हेतुरं हेतुराणां विचारम्, विचारं विचाराणां व्यत्यस्तम्, व्यत्यस्तं व्यत्यस्तानामभ्युद्गतम्, अभ्युद्गतमभ्युद्गतानां विशिष्टम्, विशिष्टं विशिष्टानां निलम्बम्, निलम्बं निलम्बानां हरितम्, हरितं हरितानां विक्षोभम्, विक्षोभं विक्षोभाणां हलितम्, हलितं हलितानां हरिः, हरिः हरीणामालोकः, आलोकः आलोकानां दृष्ट्वान्तः, दृष्ट्वान्तः दृष्ट्वान्तानां हेतुनम्, हेतुनं हेतुनानां एलम्, एलमेलानां दुमेलम्, दुमेलं दुमेलानां क्षेमुः, क्षेमुः क्षेमूनां एलुदम्, एलुदमेलुदनां भालुदम्, भालुदं भालुदानां
समता, समता समतानां विसदम्, विसदं विसदानां प्रमात्रम्, प्रमात्रं प्रमात्राणां अमन्त्रम्, अमन्त्रममन्त्राणां भ्रमन्त्रम्, भ्रमन्त्रं भ्रममन्त्राणां गमन्त्रम्, गमन्त्रं गमन्त्राणां नमन्त्रम्, नमन्त्रं नमन्त्राणां नहिमन्त्रम्, नहिमन्त्रं नहिमन्त्राणां विमन्त्रम्, विमन्त्रं विमन्त्राणां परमन्त्रम्, परमन्त्रं परमन्त्राणां शिवमन्त्रम्, शिवमन्त्रं शिवमन्त्राणां देलु, देलु देलूनां वेलु, वेलु वेलूनां गेलुः, गेलुः गेलूनां खेलुः, खेलुः खेलूनां नेलुः, नेलुः, नेलूनां भेलुः, भेलुः भेलूनां केलुः, केलुः केलूनां सेलुः, सेलुः सेलूनां पेलुः, पेलुः, पेलूनां मेलुः, मेलुः मेलूनां सरडः, सरडः सरडानां भेरुदुः, भेरुदुः भेरुदूनां खेलुदुः, खेलुदुः खेलुदूनां मालुदुः, मालुदुः मालूदूनां समुलः, समुलः समुलानामथवम्, अथवमथवानां कमलम्, कमलं कमलानामगवम्, अगवमगवानामतरुम्, अतरुमतरूणां हेलुवः, हेलुवः हेतुवानां मिरहुः, मिरहुः मिरहूणां चरणम्, चरणं चरणानां धमनम्, धमनं धमनानां प्रमदम्, प्रमदं प्रमदानां निगमम्, निगमं निगमानामुपवर्तम्, उपर्वतम्, पवर्तानां निर्देशम्, निर्देशं निर्देशानामक्षयम्, अक्षयमक्षयाणां संभूतम्, संभूतं संभूतानां मममम्, मममं मममानांमवदम्, अवदमवदानामुत्पलम्, उत्पलमुत्पलानां पद्म, पद्मं पद्मानां संख्या, संख्या संख्यानां गति, गतिः गतीनामुपगम्, उपगमुपगानामौपम्यम्, औपम्यमौपम्यानामसंख्येयम्, असंख्येयमसंख्येयानामसंख्येयपरिवर्तम्, असंख्येयपरिवर्तमसंख्येयपरिवर्तानामप्रमाणम्, अप्रमाणमप्रमाणानामपरिमाणम्, अपरिमाणमपरिमाणानामपरिमाणपरिवर्तम्, अपरिमाणपरिवर्तमपरिमाणपरिवर्तानामपर्यन्तम्, अपर्यन्तमपर्यन्तानामपर्यन्तपरिवर्तम्, अपर्यन्तपरिवर्तमपर्यन्तपरिवर्तानामसमन्तम्,

असमन्तमसमन्तानामसमन्तपरिवर्तम्, असमन्तपरिवर्तमसमन्तपरिवर्तानामगणनीयम्, अगणनीयमगणनीयानामगणनीयपरिवर्तम्, अगणनीयपरिवर्तमगणनीयपरिवर्तानामतुल्यम्, अतुल्यमतुल्यानामतुल्यपरिवर्तम्, अतुल्यपरिवर्तमतुल्यपरिवर्तानामचिन्त्यम्, अचिन्त्यमचिन्त्यानामचिअन्त्यपरिवर्तम्, अचिन्त्यपरिवर्तमचिन्त्यपरिवर्तानाममाप्यम्, अमाप्यममाप्यानाममाप्यपरिवर्तम्, अमाप्यपरिवर्तममाप्यपरिवर्तानामनभिलाप्यम्, ( ग्व् 104 ) अनभिलाप्यमनभिलाप्यानामनभिलाप्यपरिवर्तम्, अनभिलाप्यपरिवर्तमनभिलाप्यपरिवर्तानामनभिलाप्यानभिलाप्यम्, अनभिलाप्यानभिलाप्यमनभिलाप्यानभिलाप्यानामनभिलाप्यानभिलाप्यपरिवर्तम्, तस्य पुरतो महान् वालिकाराशिरभूदनेकयोजनप्रमाणः । स तं बालिकाराशिं गणयंस्तुलयन् प्रसिञ्चन् संख्यामकार्षीत् - इयन्तीमानि वालिकाफलकानि, यावदियन्त्येतानि वालिकाफलकान्यनभिलाप्यपरिवर्तानीति । स तं वालिकाराशिं गणनासंकेतनिर्देशेन निर्दिश्य एवमाह - एष कुलपुत्र गणनायोगो लोकधातुपरंपरया सुप्रवर्तते बोधिसत्त्वानाम् । अनेन गणनानयेन बोधिसत्त्वाः पूर्वस्यां दिशि लोकधातुप्रसरान् गणयन्ति । एवं दक्षिणायां पश्चिमायामुत्तरयामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि । अनेन गणनानयेन बोधिसत्त्वा लोकधातुप्रसरान् गणयन्ति । एष कुलपुत्र गणनानयो दशसु दिक्षु लोकधातुनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम् । अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु लोकधातुनामपरंपरां गणयन्ति । यथा लोकधातुनामपरंपरानिर्देशेषु, एवं दशसु दिक्षु कल्पनामपरंपरानिर्देशेषु बुद्धनामपरंपरानिर्देशेषु धर्मनामपरंपरानिर्देशेषु सत्त्वनामपरंपरानिर्देशेषु कर्मनामपरंपरानिर्देशेषु । एष एव गणनानयो यावद्दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम् । अनेन गणनानयेन बोधिसत्त्वा
दशसु दिक्षु सर्वनामपरंपरानिर्देशेषु प्रवर्तते बोधिसत्त्वानाम् । अनेन गणनानयेन बोधिसत्त्वा दशसु दिक्षु सर्वनामपरंपरां गणयन्ति । एतमहं कुलपुत्र, सर्वधर्मज्ञानशिल्पाभिज्ञावन्तं बोधिसत्त्वज्ञानालोकं जानामि । किं मया शक्यं सर्वजगत्संख्यानुप्रविष्टानां बोधिसत्त्वानां सर्वधर्मविधिसंख्यानुप्रविष्टानां त्र्यध्वसंख्यानुप्रविष्टानां सर्वसत्त्वसंख्यानुप्रविष्टानां सर्वधर्मस्कन्धसंख्यानुप्रविष्टानां सर्वबुद्धबोधिसंख्यानुप्रविष्टानां सर्वधर्मनामचक्रवशवर्तिनां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, गोचरो वा सूचयितुम्, विषयो वा प्रभावयितुम्, बलं वा संवर्णयितुम्, आशयो वा निदर्शयितुम्, संभारो वा परिदीपयितुम्, प्रणिधानं वा निर्देष्टुम्, चर्यां वा संदर्शयितुम्, पारमितापरिशुद्धिर्वा अभिद्योतयितुम्, समुदागमपरिशुद्धिर्वा संप्रकाशयितुम्, समाधिविषयो वा वक्तुम्, ज्ञानालोको वा अनुगन्तुम् ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे समुद्रप्रतिष्ठानं नाम नगरम् । तत्र प्रभूता नामोपासिका प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रवचनं श्रुत्वा संहर्षिततनुरुहो महाप्रीतिवेगसंजातः प्रमुदितमानसः सुदुर्लभाश्चर्याशयरत्नप्रतिलब्धो विपुलजगद्धितचित्तचेष्टानिर्यातो बुद्धोत्पादपरंपरावतारवशवर्ती धर्ममण्डलविशुद्धिमतिपरमः सर्वत्रानुगतविभक्तिनिर्याणनिदर्शनपरमः त्र्यध्वतलासंभिन्नबुद्धविषयः अक्षयपुण्यसागरसंभूतचेताः महाज्ञानावभासवशवर्ती त्रिभुवनपुरबन्धनकपाटनिर्भेदः इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य इन्द्रियेश्वरस्य दारकस्यान्तिकात्प्रक्रान्तः

6.14

16 प्रभूता ।
अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासनीमेघं संप्रतीच्छन्, अतृप्तो जलनिधिरिव महामेघवर्षैः, कल्याणमित्रभास्करज्ञानांशुपरिपाचनशुभधरणीतलेन्द्रियाङ्कुरप्ररोहसंजातः कल्याणमित्रपूर्णचन्द्रानुशासन्यंशुजालप्रह्लादितकायचित्तः, कल्याणमित्रानुशासनीसलिलपिपासुः ग्रीष्मदिनकरकिरणप्रतप्त इव मृगगणः हिमवत्प्रस्रवसलिलकल्याणमित्रानुशासनीप्रबोधितचित्तपौण्डरीको भ्रमरगणोद्विघाटनोन्मिषितकमल इव कमलाकरः, कल्याणमित्रानुशासनीरत्नचरितावभासितसंतानः, रत्नद्वीप इव विविधरत्नाकीर्णः, कल्याणमित्रानुशासनीपुण्यज्ञानोपचयसंपन्नः महाजम्बुवृक्ष इव पुष्पफलविनद्धः, कल्याणमित्रानुशासनीश्रुतसंभारप्रवृद्धः, महाभुजगेन्द्रप्रवरक्रीडासंभव इव गगनमहाघनः, कल्याणमित्रानुशासनीसमुद्गतामलविचित्रधर्मकूटः त्रिदशलोकोपशोभित इव चित्रकूटः कल्याणमित्रानुशासन्युद्भूतविमलगुणगणपरिवृतः, अभिभूः, अनभिभूतः, त्रिदशगणपरिवृतः शक्र इव असुरेन्द्रगणप्रमर्दनः अनुपूर्वेण येन समुद्रप्रतिष्ठानं नगरं तेनोपसंक्रान्तः प्रभूतामुपासिकां परिमार्गमाणः । तस्य महाजनकाय उपदर्शयति - एषा कुलपुत्र प्रभूतोपासिका मध्ये नगरस्य स्वगृहे तिष्ठतीति ॥
अथ खलु सुधनः श्रेष्ठिदारको येन प्रभूताया उपासिकाया निवेशनं तेनोपसंक्रम्य प्राञ्जलीभूतो द्वारशालायां प्रत्यस्थात् । स पश्यति प्रभूताया उपसिकायाः तद्गृहं विपुलविस्तीर्णं रत्नप्राकारपरिक्षिप्तं चतुर्दिक्षु विभक्तद्वारमसंख्येयापरिमाणरत्नव्यूहमचिन्त्यपुण्यविपाकाभिनिर्वृत्तम् । स तद्गृहं प्रविश्य समन्तादनुविलोकयन्नद्राक्षीत्प्रभूतामुपासिकां रत्नासनोपविष्टं नवां दहरां तरुणीं प्रथमयौवनसमुद्गतामभिरूपां प्रासादिकां दर्शनियां परमशुभवर्णपुष्कलतया समन्वागतां मुक्तकेशीं निराभरणगात्रामवदातवस्त्रनिवसनाम् । स्थापयित्वा बुद्धबोधिसत्त्वान्न स कश्चित्सत्त्वस्तद्गृहमुपसंक्रामति, यमसौ नाभिभूय तिष्ठति कायेन व, चित्ताधिपत्येन वा, तेजसा वा, वर्णेन वा, श्रिया वा । ये च सत्त्वाः प्रभूतामुपासिकां पश्यन्ति देवा वा मनुष्या वा, तेषां सर्वेषां प्रभूतायामुपासिकायां शास्तृसंज्ञाभवति । तस्मिंश्च गृहे दशासनकोटीसहस्राणि प्रज्ञप्तानि दिव्यमानुष्यसमतिक्रान्तानि बोधिसत्त्वकर्मविपाकपरिनिष्पन्नानि । न च तस्मिन् गृहे पश्यत्यन्नपाननिचयं वा वस्त्राभरणपरिभोगनिचयं वा अन्यत्रैकपिठरिकायाः पुरस्तान्निक्षिप्तायाः । दश चास्याः स्त्रीसहस्राणि पुरतः स्थितान्यपश्यदप्सरोवर्णानि अप्सरोरूपाणि अप्सरःकल्पानि अप्सरश्चेष्टानि अप्सरःपरिभोगानि अप्सरौपचाराणि दिव्यकल्पदूष्यधारीणि दिव्यभूषणचरिताङ्गानि अप्सरोरुतमनोज्ञघोषाणि अप्सरःसमारोहपरिणाहनि । ताः तस्याः स्त्रियः किंकरा वचनप्रतिकारिण्यः पुरत उपतिष्ठन्ति उपविचरन्ति संप्रेक्षन्ते उपनिध्यायन्ति अभिवन्दन्ते आलोकयन्ति अवनमन्ति प्रणमन्ति नमस्यन्ति । तासां च गात्रेभ्यो यो गन्धः प्रवाति, स तं सर्वं ( ग्व् 106 ) नगरमभिधूपयन्ति । ये च सत्त्वास्तं गन्धं जिघ्रन्ति, ते सर्वे ऽव्यापन्नचित्ता भवन्ति अवैरचित्ता अविहिंसाचित्ता ईर्ष्यामात्सर्यविगतचित्ता अमायाशाठ्यचित्ता अनुनीता अप्रतिहतचित्ता अनवलीनानुन्नतचित्ताः समचित्ता मैत्रचित्ता हितचित्ताः संवरस्थचित्ताः परपरिग्रहानभिलाषचित्ता भवन्ति । ये च तासां स्वरं शृण्वन्ति, ते सर्वे प्रहर्षितप्रमुदितप्रणतचित्ता
भवन्ति । ये च ताः पश्यन्ति, ते विगतरागमात्मानं संजानन्ति ॥
अथ खलु सुधनः श्रेष्ठिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्द्य प्रभूतामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलीस्थित्वा एवमाह - मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - अहं कुलपुत्र अक्षयव्यूहपुण्यकोषस्य बोधिसत्त्वविमोक्षस्य लाभिनी । इतो ऽहं कुलपुत्र, एकपिठरिकाया नानाधिमुक्तान् सत्त्वान् यथाभिप्रेतभोजनैः संतर्पयामि नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः । अतो ऽहं कुलपुत्र एकपिठरिकायाः सत्त्वशतमपि संतर्पयामि यथाभिप्रायैर्भोजनैः, सत्त्वसहस्रमपि, सत्त्वशतसहस्रमपि, सत्त्वकोटीमपि, सत्त्वकोटीशतमपि, सत्त्वकोटीशतसहस्रमपि, सत्त्वकोटीनियुतशतसहस्रमपि, यावदनभिलाप्यानभिलाप्यानपि सत्त्वान्नानानाधिमुक्तान् यथाभिप्रेतैर्भोजनैः संतर्पयामि, संप्रवारयामि, संतोषयामि, संप्रहर्षयामि, संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि । न चैषा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां गच्छति । अनेन कुलपुत्र पर्यायेण जम्बुद्वीपपरमाणुरजःसमानपि सत्त्वान्, एवं चातुर्द्वीपकलोकधातुपरमाणुरजः समानपि, साहस्रलोकधातुपरमाणुरजःसमानपि, द्विसाहस्रलोकधातुपरमाणुरजःसमानपि, त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमानपि, यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि सत्त्वानुपसंक्रान्तान् नानाधिमुक्तान् यथाभिप्रेतैर्भोजनैर्नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः संतर्पयामि, संप्रवारयामि, संतोषयामि, संप्रहर्षयामि,

संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि । न च एषा पिठरिका हीयते,न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां न पर्यन्तं न परिनिष्ठां गच्छति । सचेत् कुलपुत्र दशदिक्सर्वलोकधातुपर्यापन्नाः सर्वसत्त्वा मदन्तिकमुपसंक्रमेयुर्नानाधिमुक्ता नानाभिप्रायाः, तानपि सर्वान् यथाभिप्रेतैर्भोजनैः संतर्पेययम्, यावदात्तमनस्कान् कुर्याम् । यथा नानाभोजनैः एवं नानापानविधिभिः नानारसाग्रैः नानाशयनैर्नानावस्रैः नानापुष्पैर्नानामाल्यैर्नानागन्धैर्नानाधूपैर्नानाविलेपनैर्नानाचूर्णैर्नानारत्नैर्नानाभरणैर्नानारत्नरथैर्नानाछत्रैर्नानाध्वजैर्नानापताकाभिर्नानाविधोपकरणविशेषैः संतर्पयेयम्, यावदात्तमनस्कान् कुर्याम् । अपि तु खलु पुनः कुलपुत्र ये केचित् पूर्वस्यां दिशि ( ग्व् 107 ) एकस्मिन्, लोकधातौ श्रावकप्रत्येकबुद्धा अन्तिमदेहधारिणः श्रावकप्रत्येकबोधिफलमनुप्राप्नुवन्ति, सर्वे ते ममाहारं परिभुज्य । यथा पूर्वस्यां दिशि एकस्मिन् लोकधातौ, एवं ये लोकधातुशते, लोकधातुसहस्रे, लोकधातुशतसहस्रे, लोकधातुकोट्याम्, लोकधातुकोटीशते, लोकधातुकोटीसहस्रे, लोकधातुकोटीशतसहस्रे, लोकधातुकोटीनियुतशतसहस्रेषु, ये जम्बुद्वीपपरमाणुरजःसमेषु लोकधातुषु चातुर्द्वीपकलोकधातुपरमाणुरजःसमेषु साहस्रलोकधातुपरमाणुरजःसमेषु द्विसाहस्रलोकधातुपरमाणुरजःसमेषु त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमेषु ये केचित् कुलपुत्र, पूर्वस्यां दिशि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु श्रावकप्रत्येकबुद्धा अन्तिमदेहधारिणः श्रावकप्रत्येकबोधिफलमनुप्राप्नुवन्ति, सर्वे ते ममाहारं परिभुज्य । यथा पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वस्यां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायां अध ऊर्ध्वायां दिशि ॥
ये केचित्, कुलपुत्र, पूर्वस्यां दिशि एकस्मिन् लोकधातौ एकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । यथा पूर्वस्यां दिशि एकस्मिन् लोकधातौ, एवं ये लोकधातुशते, लोकधातुसहस्रे, लोकधातुशतसहस्रे लोकधातुकोट्यां लोकधातुकोटीशते लोकधातुकोटीसहस्रे लोकधातुकोटीशतसहस्रे लोकधातुकोटीनियुतशतसहस्रे, ये जम्बूद्वीपपरमाणुरजःसमेषु लोकधातुषु चातुर्द्वीपकलोकधातुपरमाणुरजःसमेषुइ साहस्रलोकधातुपरमाणुरजःसमेषु द्विसाहस्रलोकधातुपरमाणुरजःसमेषु त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमेषुः, ये केचित् कुलपुत्र पूर्वस्यां दिशि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुष्वेकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । यथा पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामधो दिशि, ये केचित् कुलपुत्र, ऊर्ध्वायां दिशि एकस्मिन् लोकधातावेकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । यथोर्ध्वायां दिशि एकस्मिन् लोकधातौ, एवं ये लोकधातुशते लोकधातुसहस्रे लोकधातुशतसहस्रे लोकधातुकोट्यां लोकधातुकोटीशते लोकधातुकोटीसहस्रे लोकधातुकोटीशतसहस्रे लोकधातुकोटीनियुतशतसहस्रे ये जम्बूद्वीपपरमाणुरजःसमेषु लोकधातुषु चातुर्द्वीपकलोकधातुपरमाणुरजःसमेषु साहस्रलोकधातुपरमाणुरजःसमेषु द्विसाहस्रलोकधातुपरमाणुरजःसमेषु त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमेषु ये केचित्कुलपुत्र ऊर्ध्वायां दिशि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाअणुरजःसमेषु लोकधातुषु एकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥
पश्यसि त्वं कुलपुत्र इमानि दशस्त्रीसहस्राणि मम परिवारम्? आह - पश्यामि ( ग्व् 108 ) आर्ये । आह - एतत्प्रमुखानि कुलपुत्र स्त्रीणां दशासंख्येयशतसहस्राणि मम सभागचरितानि एकप्रणिधानानि एककुशलमूलानि एकनिर्याणव्यूहानि एकाधिमुक्तिपथविशुद्धानि मम सभागस्मृतिविशुद्धानि सभागगतिविशुद्धानि सभागबुध्यप्रमाणानि सभागेन्द्रियप्रतिलब्धानि सभागचित्तस्फरणानि सभागगोचरविषयाणि सभागधर्मनयावतीर्णानि सभागार्थविनिश्चतानि सभागधर्मार्थोद्योतनानि सभागरूपविशुद्धानि सभागबलाप्रमाणानि, सभागवैर्यापराजितानि सभागधर्मरुतघोषाणि, सभागस्वरविशुद्धानि, सर्वव्यवहारेषु सभागगुणविशुद्धानि, अप्रमाणगुणवर्णतया सभागकर्मविशुद्धानि, अनवद्यकर्मविपाकविशुद्ध्या सभागमहामैत्रीस्फरणानि, सर्वजगत्परित्राणतया सभागमहाकरुणास्फरणानि, सर्वजगत्परिपाचनाखेदतया सभागकायकर्मविशुद्धानि, यथाशयसर्वसत्त्वसंतोषणकायसंदर्शनतया सभागवाक्कर्मविशुद्धानि धर्मधातुनिरुक्तिव्यवहारेषु, सभागोपसंक्रमणानि सर्वबुद्धपर्षन्मण्डलेषु, सभागनिर्जवनानि सर्वबुद्धक्षेत्रेषु, सर्वबुद्धपूजोपस्थानतायै सभागप्रत्यक्षज्ञानानि सर्वधर्मनयानुगमेषु, सभागचर्याविशुद्धानि सर्वबोधिसत्त्वभूमिप्रतिलाभेषु । एतानि कुलपुत्र दशस्त्रीसहस्राणि एकक्षणेन दश दिशः स्फरन्ति, यदुतैकजातिप्रतिबद्धान् बोधिसत्त्वान् भोजनेन प्रतिपादनतायै अस्या एव पिठरिकाया भोजनमादाय । दश दिशः स्फरन्ति अस्या एव पिठरिकाया भोजनमादाय । दश दिशः स्फरन्ति चरमभविकान् सर्वश्रावकप्रत्येकबुद्धयानिकान् पिण्डपातेन प्रतिपादनतायै । स्फरित्वा सर्वप्रेतगणान् भोजनेन संतर्पयन्ति । सा अहं कुलपुत्र अस्या एव पिठरिकाया देवान् देवभोजनेन संतर्पयामि । नागान्नागभोजनेन, यक्षान् यक्षभोजनेन, गन्धर्वान् गन्धर्वभोजनेन, असुरानसुरभोजनेन, गरुडान् गरुडभोजनेन, किन्नरान् किन्नरभोजनेन, महोरगान् महोरगभोजनेन, मनुष्यान् मनुष्यभोजनेन, अमनुष्यानमनुष्यभोजनेन संतर्पयामि । आगमयस्व कुलपुत्र मुहूर्तं यावत्प्रत्यक्षो भविष्यसि

। समन्तरभषिता चेयं वाक् प्रभूतयोपासिकया, अथ तावदेव अपरिमाणाः सत्त्वाः पूर्वेण गृहद्वारेण प्रविशन्ति स्म यदुत प्रभूतयोपासिकया पूर्वप्रणिधाननिमन्त्रिताः । एवं दक्षिणेन पश्चिमेणोत्तरेण गृहद्वारेण अपरिमाणाः सत्त्वाः प्रविशन्ति स्म यदुत प्रभूतयोपासिकया पूर्वप्रणिधाननिमन्त्रिताः । तान् प्रभूतोपासिका तेष्वासनेषु निषद्य यथाभिप्रेतैर्भोजनैर्नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः संतर्पयति, संप्रवारयति, संतोषयति, संप्रहर्षयति, संप्रमोदयति परिप्रीणयति, आत्तमनस्कान् करोति । यथा नानाभोजनैः, एवं नानापानविधिभिः, नानारसाग्रैः, नानासनैः, नानाशयनैः नानायानैर्नानावस्त्रैः नानापुष्पैर्नानामाल्यैः नानागन्धैर्नानाधूपैः नानाविलेपनैर्नानाचूर्णैः नानाभरणैः नानारत्नरथैः नानाछत्रैर्नानाध्वजैर्नानापताकाभिः नानाविधोपकरणविशेषैः संतर्पयति, यावदात्तमनस्कान् करोति । देवान् देवभोजनेन संतर्पयति । नागान् यक्षान् गन्धर्वानसुरान् गरुडान् किन्नरान् महोरगान् मनुष्यानमनुष्यान् तत्तदेव भोजनेन संतर्पयति यावदात्तमनस्कान् करोति । न च सा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां न पर्यन्तं न परिनिष्ठां गच्छति ॥
अथ खलु प्रभूतोपासिका सुधनं श्रेष्ठिदारकमेवमाह - एतमहं कुलपुत्र अक्षयव्यूहपुण्यकोशं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यमक्षयपुण्यानां बोधिसत्त्वानां महापुण्यसागराक्षयतया, गगनकल्पानां सुसंभूतविपुलपुण्योपचयतया, चिन्ताराजमणिरत्नकल्पानां सर्वजगत्प्रणिधिपूरणतया, महापुण्यचक्रवालानां सर्वजगत्कुशलमूलारक्षणतया, महापुण्यमेघानां सर्वजगद्रत्नपाण्यभिप्रवर्षणतया, महापुण्यकोशाध्यक्षाणां धर्मनगरद्वारविवरणतया, महापुण्यप्रदीपानां सर्वजगद्दारिद्र्यान्धकारविधमनतया चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे महासंभवं नाम नगरम् । तत्र विद्वान्नां गृहपतिः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्द्य प्रभूतामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रभूताया उपासिकाया दर्शनावितृप्तो ऽन्तिकात्प्रक्रान्तः

6.15

17 विद्वान् ।
अथ खलु सुधनः श्रेष्ठिदारको ऽक्षयव्यूहपुण्यकोशविमोक्षावभासप्रतिलब्धः तं पुण्यसागरमनुविचिन्तयन्, तत्पुण्यगगनमवलोकयन्, तं पुण्यराशिमाददन्, तं पुण्यपर्वतमभिरोहन्, तं पुण्यनिचयं संगृह्णन्, तं पुण्यौधमवगाहयमानः, तत्पुण्यतीर्थमवतरन्, तं पुण्यमण्डलं परिशोधयन्, तं पुण्यनिधिं संपश्यन्, तं पुण्यनयमनुस्मरन्, तां पुण्यनेत्रीं समन्वाहरन्, तं पुण्यवंशं परिशोधयन्, अनुपूर्वेण येन महासंभवं नगरं तेनोपसंक्रम्य विद्वांसं गृहपतिं परिमार्गति, परिगवेषति, व्यवलोकयति कल्याणमित्राण्यभिलषन् । कल्याणमित्रदर्शनवासितया सतंत्या, कल्याणमित्राधिष्ठानेन आशयेन, कल्याणमित्रानुगतेन प्रयोगेन, कल्याणमित्रोपचारापरिखिन्नेन वीर्येण, कल्याणमित्राधीनैः सर्वकुशलमूलैः, कल्याणमित्रनियतैः सर्वपुण्यसंभारैः, कल्याणमित्रविवर्धितैरुपायकौशल्यचरितैः, अपरप्रत्ययेन कल्याणमित्रोपचारकौशल्येन, विवर्धमानैः सर्वकुशलमूलैः, विशुद्धयता बोधिसत्त्वाध्याशयेन, संवर्धमानैर्बोधिसत्त्वेन्द्रियैः, परिपाच्यमानैः सर्वकुशलमूलैः, संवर्धमानैर्महाप्रणिधानाभिनिर्हारैः, विपुलीभवन्त्या महाकरुणया, सर्वज्ञताया आसन्नीभूतमात्मानं संपश्यन् समन्तभद्रबोधिसत्त्वचर्यायाः, सर्वबुद्धेभ्यो धर्मावभासं संप्रतीच्छन्, विवर्धमानेन दशतथागतबलावभासेन विद्वांसं गृहपतिं परिगवेषमाणो अद्राक्षीन्मध्ये नगरस्य शृङ्गाटके सप्तरत्नव्योमकोपर्यसंख्येयरत्नमये विविधवज्रेन्द्रनीलरचितमणिरत्नपादे काञ्चनसूत्रज्वालश्वेते विमलगर्भमणिरत्नगर्भे पञ्चरत्नशतसमलंकृतबिम्बे विचित्रदिव्यदूष्यप्रज्ञप्ते उच्छ्रितदिव्यपट्टध्वजपताके अनेकरत्नजालसंछन्ने महारत्नवितानवितते महासुवर्णरत्नपुष्पदामाभिप्रलम्बिते भद्रासने निषण्णम्,
विमलवैडूर्यदण्डेन जाम्बूनदकनकच्छत्रेण ध्रियता हंसराजनिर्मलचामरसंवीज्यमानम्, विविधगन्धोपचारप्रधूपितं वामदक्षिणेन पञ्चभिस्तूर्यशतैः प्रवाद्यद्भिः दिव्यातिरेकमधुरनिर्घोषैर्महासंभवं नगरं पर्यापन्नैः सत्त्वप्रीतिसंजनार्थं दिव्यकुसुममेघैः प्रवर्षद्भिर्दिव्यमानुष्यरूपसमतिक्रान्तैः परिनिष्पन्नबोधिसत्त्वाशयैः दिव्यातिरेकविभूषणसमलंकृतैः किंकरोपचरणप्रतिकारिभिः पूर्वकुशलमूलसभागचरितैर्दशभिः प्राणीसहस्रैः परिवृतम् । दृष्ट्वा च सुधनः श्रेष्ठिदारको येन विद्वान् गृहपतिस्तेनोपजगाम । उपेत्य विदुषो गृहपतेः पादौ शिरसाभिवन्द्य विद्वांसं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहं आर्य सर्वसत्त्वानामर्थाय अनुत्तरां सम्यक्संबोधिं संप्रस्थितो यदुत सर्वसत्त्वदुःखव्युपशमाय सर्वसत्त्वात्यन्तसुखप्रतिष्ठापनाय सर्वसत्त्वसंसारसागराभ्युद्धारणतायै सर्वसत्त्वधर्मरत्नद्वीपसंप्रापणतायै सर्वसत्त्वतृष्णास्नेहोच्छोषणतायै सर्वसत्त्वानां महाकरुणास्नेहसंजननतायै सर्वसत्त्वानां कामरतितृष्णाविनिवर्तनतायै सर्वसत्त्वानां बुद्धज्ञानतृष्णोत्पादनतायै सर्वसत्त्वानां संसाराटवीकान्तारसमतिक्रमणतायै सर्वसत्त्वानां बुद्धगुणधर्मारामरतिसंजननतायै सर्वसत्त्वानां त्रैधातुकपुरान्निष्क्रमणतायै सर्वसत्त्वानां सर्वज्ञतापुरोपनयतायै । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, ( ग्व् 111 ) कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं शिक्षमाणा बोधिसत्त्वाः प्रतिशरणभूता भवन्ति सर्वसत्त्वानाम् ॥
एवमुक्ते विद्वान् गृहपतिः सुधनं श्रेष्ठिदारकमेवमाह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । दुर्लभाः कुलपुत्र ते सत्त्वाः, ये ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यायां परिमार्गयमाणा न तृप्यन्ते कल्याणमित्रदर्शनेन । न खिद्यन्ते कल्याणमित्रोपसंक्रमणेषु । न परितप्यन्ते कल्याणमित्रोपचारेषु । न दौर्मनस्यमुत्पादयन्ति कल्याणमित्रदुरासदतया । न निवर्तन्ते कल्याणमित्रगवेषणतया । न व्यावर्तन्ते कल्याणमित्रतृष्णालालसहृदयत्वात् । न प्रत्युदावर्तन्ते कल्याणमित्रमुखावलोकेन । न संसीदन्ति कल्याणमित्रानुशासनीपथेषु । न खिद्यन्ते कल्याणमित्रोपस्थानपरिचर्यासु । पश्यसि त्वं कुलपुत्र, इमं मम परिवारम्? आह - पश्यामि आर्य । आह - सर्व एते कुलपुत्र मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिताः । मयैते जनितास्तथागतकुले । मयैते पोषिताः पारमितोपसंहारैः । मयैते संचरिताः सर्वशुक्लधर्मैः । मयैते विवर्धिता दशसु तथागतबलेषु । मयैते उच्चालिता लोकवंशात् । मयैते प्रतिष्ठापितास्तथागतवंशे । मयैते विवर्तिता लोके गतिचक्रात् । मयैते आवर्तिता धर्मचक्रप्रवर्तनतायाम् । मयैते सत्त्वाः तारितास्त्र्यध्वापायगतिप्रपातात् । मयैते प्रतिष्ठापिता धर्मसमतानुगमेन । एवं हि कुलपुत्र बोधिसत्त्वास्त्रातारो भवन्ति सर्वसत्त्वानाम् । अहं कुलपुत्र मनःकोशसंभवानां पुण्यानां लाभी । सो ऽहमन्नार्थिभ्यो ऽन्नं ददामि, पानार्थिभ्यः पानम्, रसाग्रार्थिभ्यो रसाग्रम्, खाद्यार्थिभ्यः खाद्यम्, भोज्यार्थिभ्यो भोज्यम्, लेह्यार्थिभ्यो लेह्यम्, चोष्यार्थिभ्यश्चोष्यम्, वस्त्रार्थिभ्यो वस्त्रम्, पुष्पार्थिभ्यः पुष्पम्, माल्यार्थिभ्यो माल्यम्, गन्धार्थिभ्यो गन्धम्, धूपार्थिकेभ्यो धूपम्, विलेपनार्थिभ्यो विलेपनम्, चूर्णार्थिभ्यश्चूर्णम्, आभरणविभूषणार्थिभ्य आभरणविभूषणानि, रत्नार्थिभ्यो रत्नानि, सुवर्णार्थिभ्यः सुवर्णम्, रूप्यार्थिभ्यो रूप्यम्, मुक्तार्थिभ्यो मुक्ताम्, प्रतिश्रयार्थिभ्यः

प्रतिश्रयम्, आसनार्थिभ्य आसनम्, शयनार्थिभ्यः शयनम्, ग्लानप्रत्ययभैषज्यपरिष्कारार्थिभ्यो ग्लानप्रत्ययभैषज्यपरिष्कारान्, यानार्थिभ्यो यानम्, वाहनार्थिभ्यो वाहनम्, हस्त्यश्वरथगोगर्दभमहिषैडकार्थिभ्यो हस्त्यश्वरथगोगर्दभमहिषैडकान्, छत्रध्वजपताकार्थिभ्यश्छत्रध्वजपताकाः, दासीदासार्थिभ्यो दासीदासान्, माणवपरिवारार्थिभ्यो माणवपरिवारम्, स्त्र्यर्थिभ्यः स्त्रियः, कुमार्यर्थिभ्यः, कुमारीम्, मकुटचूडामण्यर्थिभ्यो मकुटचूडामणीन्, सचर्मचूडामण्यर्थिभ्यो सचर्मचूडामणीन्, नीलविमलकेशमण्डलार्थिभ्यो नीलविमलकेशमण्डलम्, यावद्विविधसर्वोपकरणर्थिभ्यो विविधसर्वोपकरणानि प्रयच्छामि । आगमय कुलपुत्र मूहूर्तं यावत्प्रत्यक्षो भविष्यसि । समनन्तरभाषितायां चास्यां वाचि विदुषा गृहपतिना, अथ तावदेव अपरिमाणाः सत्त्वा विदुषा गृहपतिना पूर्वप्रणिधानाभिनिमन्त्रिताः संनिपतिताः । नानादिग्भ्यो नानाजनपदप्रदेशेभ्यो नानानगरेभ्यो नानानिगमेभ्यो नानापट्टनेभ्यो नानाकर्वटेभ्यो नानासत्त्वजातिभ्यो ( ग्व् 112 ) नानासत्त्वकुलेभ्यो नानासत्त्वकुलविमात्रताभ्यो नानागतिपरिवर्तेभ्यो नानाप्रतिष्ठानसंज्ञानगतिभ्यो नानायतनविशुद्धा नानाहारार्थिनो नानाहाराभिलाषिणो नानाशया शुच्यन्नपानकामा मांसार्थिनो विविधभोजनविमात्रताभिकाङ्क्षिणो विविधगतिविशेषोपपत्यायतनस्थिताः यदुत मनुष्येष्वोदनकुल्माषसूपमत्स्यमांसादिविविधकवलीकाहारार्थिनः । यथा मनुष्येषु, एवं सर्वगतिविचारेषु नानाभोजनपानार्थिन उपसंक्रान्ताः यदुत बोधिसत्त्वानुभावेन असङ्गत्यागदुन्दुभिनिर्घोषेण बोधिसत्त्वप्रणिधिनिमन्त्रिताः । तमुपसंक्रम्य विद्वांसं गृहपतिं याचन्ते ऽवलोकयन्ति निरीक्षन्ते विज्ञापयन्ति ॥
अथ खलु विद्वान् गृहपतिस्तान् याचनकान् संनिपतितान् विदित्वा मुहूर्तमनुविचिन्त्य गगनतलमवलोकयति स्म । तस्य ततो गगनतलाद्विविधा भोजनपानविधयो नानारसा नानावर्णा नानागन्धा अवलम्ब्य हस्ततले प्रत्यतिष्ठन् । स तान्यादाय तान् यथासंनिपतितान् याचनकान् नानाधिमुक्तान् यथाभिप्रेतैर्भोजनपानविधिभिः सर्वोपकरणविशैषैः संतर्पयति संप्रवारयति संतोषयति संप्रहर्षयति संप्रमोदयति परिप्रीणयति, आत्तमनस्कान् करोति । उत्तरे वै नानामिषेण संतर्प्य तेभ्यो धर्मं देशयेत् । यदुत विपुलज्ञानसंभारोपचयहेतुं परिदीपयन्, सर्वदारिद्र्यासंभवहेतुं परिदीपयन्, महाभोगतासमुदागमसंभवहेतुं परिदीपयन्, धर्मज्ञाननयप्रतिउलाभसंभवहेतुं परिदीपयन्, विपुलपुण्यसंभारोपचयहेतुं परिदीपयन्, प्रीतिभक्षभोजनप्रतिलाभसंभवहेतुं परिदीपयन्, लक्षणानुव्यञ्जनोपचितशरीरप्रतिलाभसंभवहेतुं परिदीपयन्, अनवमृद्यबलपरिशुद्धिप्रतिलाभसंभवहेतुं परिदीपयन्, अनन्तराहारप्रज्ञाप्रतिलाभसंभवहेतुं परिदीपयन्, सर्वमारबलप्रमर्दनापर्यादत्तपुण्यबलप्रतिलाभसंभवहेतुं परिदीपयन् धर्मं देशयेत् । सो ऽन्नार्थिन उपसंक्रान्तान् गगनतलान्नानान्नविधीन् गृहीत्वा संतर्प्य तेभ्य आयुर्वर्णबलमुखप्रतिभानं संपश्यन् प्रतिलाभाय धर्मं देशयेत् । स पानार्थिन उपसंक्रान्तान्नानाविधैः पानैरुदारैः कल्याणैरनवद्यैर्मनःसंप्रहर्षकैः संतर्प्य तेभ्यः संसारतृष्णारतिविनिवर्तनतायै बुद्धधर्मरतितृष्णासंजननतायै धर्मं देशयेत् । रसरसाग्रार्थिन उपसंक्रान्तान्नानाविधरसरसाग्रैर्मधुराम्ललवणकटुतिक्तकषायैः संतर्पयामास । उत्तरे चैषां रसरसाग्रतामहापुरुषलक्षणप्रतिलाभाय धर्मं देशयेत् । स यानार्थिनो नानादिक्स्रोतोभ्यागतान्नानाविधयानदानैः संगृह्य तेभ्यो महायानाधिरोहणतायै धर्मं देशयेत् । स नानादिगागतान् वस्त्रार्थिन उपसंक्रान्तान् विदित्वा मुहूर्तं विचिन्त्य गगनतलमुल्लोकयति स्म । तस्य ततो गगनतलान्नानारङ्गान्यनेकवर्णानि विशुद्धानि नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकवर्णानि
विविधानि वस्त्राण्यवलम्ब्य हस्ततले प्रत्यतिष्ठन् । स तैस्तान् याचनकान् प्रतिपाद्य तेभ्यो ऽनुत्तरतथागतह्रयपत्राप्यसुवर्णवर्णच्छविताप्रतिलाभविशुद्धये धर्मं देशयेत् । प्रत्येकमेव सर्वोपकरणविधिभिर्यथागतान् याचनकान् प्रतिपाद्य तेभ्यो यथार्हं धर्मं देशयेत् ॥
अथ खलु विद्वान् गृहपतिः सुधनस्य श्रेष्ठिदारकस्य तमचिन्त्यं बोधिसत्त्वविमोक्षविषयमुपदर्श्य एवमाह - एतमहं कुलपुत्र मनःकोशसंभवविमोक्षं जानामि । किं मया शक्यं परिष्कारवशिताप्राप्तानां बोधिसत्त्वानां रत्नपाणिना प्रतिलब्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, विकुर्वितं वा निदर्शयितुम्, ये ते सर्वलोकधातूननवशेषं पाणिना संछाद्य बुद्धपूजाविधानतायै सर्वतथागतपर्षन्मण्डलेषु नानावर्णरत्नमेघान् प्रवर्षन्ति । एवं नानावर्णा भरणमेघान् नानावर्णकूटागारमेघान् नानावर्णविचित्रवस्त्रमेघान् नानादिव्यतूर्यतालोपचारसंगीतिमनोज्ञामधुरनिर्घोषान् नानावर्णगन्धमेघान् नानावर्णधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकासर्वोपकरणमेघान् सर्वाकारसर्वबुद्धपूजामेघान् प्रवर्षन्ति । सर्वतथागतपर्षन्मण्डलेषु सर्वसत्त्वभवनेषु यदुत सर्वबुद्धपूजोपस्थानतायै सर्वसत्त्वधातुपरिपाकविनयाय च ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे सिंहपोतं नाम नगरम् । तत्र रत्नचूडो नाम धर्मश्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो विदुषि गृहपतौ धर्मगौरवाच्छिष्यभावमुपदर्श्य तदधिष्ठानात्सर्वबुद्धधर्मान् संपश्यन्, तदधीनां सर्वज्ञतां संपश्यन्, कल्याणमित्रानाच्छेद्यप्रेमतामुपदर्शयन्, कल्याणमित्रेष्वत्यन्ताज्ञाचिन्त्यतां संदर्शयन्, कल्याणमित्रवशवर्तितामनुवर्तयन्, कल्याणमित्रानुशासनीवचनं शुश्रूषमाणः, कल्याणमित्रप्रभवं श्रद्धेन्द्रियं निध्यायन्, कल्याणमित्रानुशासन्यनुप्रेषितः, कल्याणमित्राभिराधनानुवर्तनचित्तो विदुषो गृहपतेः पादौ शिरसाभिवन्द्य विद्वांसं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य विदुषो गृहपतेरन्तिकात्प्रक्रान्तः

6.16

18 रत्नचूडः ।
अथ खलु सुधनः श्रेष्ठिदारकः तत्पुण्यतोयं संभावयन्, तत्पुण्यक्षेत्रं संपश्यन्, तत्पुण्यसुमेरुं परिशोधयन्, तत्पुण्यतीर्थमवगाहयमानः, तत्पुण्यकोशं विवृण्वन्, तत्पुण्यनिधिमवलोकयन्, तत्पुण्यमण्डलं परिशोधयन्, तत्पुण्यस्कधं समाददत्, तत्पुण्यबलं संजनयन्, तत्पुण्यवेगं विवर्धयन्, अनुपूर्वेण येन सिंहपोतं नगरं तेनोपसंक्रम्य रत्नचूडं धर्मश्रेष्ठिनं परिमार्गमाणो ऽद्राक्षीदन्तरापणमध्यगतम् । तस्य पादौ शिरसाभिवन्द्य प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । तत्साधु मे आर्यो बोधिसत्त्वमार्गमुपदिशतु, येनाहं मार्गेण सर्वज्ञतायां निर्यायाम् ॥
अथ खलु रत्नचूडो धर्मश्रेष्ठी सुधनं श्रेष्ठिदारकं पाणौ गृहीत्वा येन स्वं निवेशनं तेनोपसंक्रम्य तद्गृहमुपदर्श्य एवमाह - प्रेक्षस्व कुलपुत्र मम निवेशनम् । सो ऽनुविलोकयन् अद्राक्षीत्तद्गृहं शुद्धं प्रभास्वरं जाम्बूनदसुवर्णमयं विपुलमुद्विद्धं रूप्यप्राकारपरिक्षिप्तं स्फटिकप्रासादसुकृतोपशोभितं वैडूर्यकूटशतसहस्रप्रतिमण्डितं मुसारगल्वसमुच्छ्रितस्तम्भं सुप्रज्ञप्तं लोहितमुक्तामयसिंहासनं ज्योतीरसमणिरत्नसिंहध्वजसमुछ्रितं वैरोचनमणिरत्नवितानविततं चिन्तामणिविचित्रहेमजालसंछन्नमसंख्येयमणिरत्नप्रतिमण्डितव्यूहं शीतजलाश्मगर्भमयपुष्करिणीसमुपेतं सर्वरत्नद्रुमपरिवृतं विपुलं विस्तीर्णं दशपुरमुद्विद्धमष्टद्वारम् । स तद्गृहं प्रविश्य समन्तादनुविलोकयति स्म । स प्रथमे पुरे ऽन्नपानविधिपरित्यागमद्राक्षीत् । द्वितीये पुरे सर्ववस्त्रविधिपरित्यागम् । तृतीये पुरे सर्वरत्नाभरणालंकारपरित्यागम् । चतुर्थे पुरे ऽन्तःपुरेपरिभोगरतिमहापृथिवीकल्याणकन्यारत्नपरित्यागमद्राक्षीत् । पञ्चमे पुरे पञ्चमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां धर्मसंगीतिरतिप्रयुक्तानां लोकहितसुखचित्तचेष्टानां सर्वशास्त्राण्यभिनिर्हारयतां धारणीनयं च समाधिसमुद्रं च समाधिव्युत्थानं च समाधिव्यवचारं च ज्ञानालोकं च अभिनिर्हारयतां संनिपातमद्राक्षीत् । षष्ठे पुरे प्रज्ञापारमिताविहारप्रतिलब्धानां गम्भीरप्रज्ञानां सर्वधर्मप्रशान्ताभिज्ञानां भूमिसमाधिधारणीमुखगर्भसमन्तमुखनिर्यातानाम् अनावरणगोचराणाम् अद्वयसमुदाचाराणां धर्मसंगीतिं कुर्वतां प्रज्ञापारमितापरिवर्तनमनुसरतां विभजतामुत्तानी कुर्वतां बोधिसत्त्वानां संनिपातमद्राक्षीत् इमानि प्रज्ञापारमितामुखानि संगायताम् - यदुत शान्तिगर्भं नाम प्रज्ञापारमितामुखम्, सर्वजगज्ज्ञानसुविभक्तं च नाम प्रज्ञापारमितामुखम्, अचलावर्तं च नाम प्रज्ञापारमितामुखम्, विरजःप्रभासं च नाम प्रज्ञापारमितामुखम्, दुर्योधनगर्भं च नाम प्रज्ञापारमितामुखम्, जगद्रोचनामण्डलं च नाम प्रज्ञापारमितामुखम्, अनुगमनयमण्डलं च नाम प्रज्ञापारमितामुखम्, सागरगर्भं च नाम प्रज्ञापारमितामुखम्, समन्तचक्षुरुपेक्षाप्रतिलब्धं च नाम प्रज्ञापारमितामुखम्, अक्षयकोशानुगमं च नाम प्रज्ञापारमितामुखम्, सर्वधर्मनयसागरं च नाम प्रज्ञापारमितामुखम्, सर्वजगत्सागरानुगमं च नाम प्रज्ञापारमितामुखम्, असङ्गप्रतिभानं च नाम प्रज्ञापारमितामुखम्,
धर्ममेघावलम्बानुपूर्वाभिलम्भनिलयं ( ग्व् 115 ) च नाम प्रज्ञापारमितामुखम् । इतीमानि प्रज्ञापारमितामुखानि प्रमुखं कृत्वा परिपूर्णानि दश प्रज्ञापारमितासंख्येयशतसहस्राणि, यानि तान् बोधिसत्त्वाननभिलाप्यव्यूहसुविभक्तपर्षन्मण्डलस्थितान् संगायतो ऽद्राक्षीत् । सप्तमे पुरे प्रतिश्रुत्कोपमक्षान्तिप्रतिलब्धानामुपायज्ञानविनिश्चयनिर्यातानां सर्वतथागतधर्ममेघसंप्रत्येषकाणां बोधिसत्त्वानां संनिपातमद्राक्षीत् । अष्टमे पुरे ऽच्युतगामिन्यभिज्ञाप्रतिलब्धानां सर्वलोकधात्वनुविचरणानां सर्वपर्षन्मण्डलप्रतिभासप्राप्तानां सर्वधर्मधातुसुविभक्तशरीराणां सर्वतथागतपादमूलासंभिन्नविषयाणां सर्वबुद्धकायसमवसरणानां सर्वतथागतपर्षन्मण्डलपूर्वगमकथापुरुषाणां बोधिसत्त्वानां संनिपातमद्राक्षीत् । नवमे पुरे एकजातिप्रतिबद्धानां बोधिसत्त्वानां संनिपातमद्राक्षीत् । दशमे पुरे सर्वतथागतानां सप्रथमोपचित्तोत्पादचर्यानिर्याणप्रणिधानसागरान् सर्वबुद्धधर्मविकुर्वितविषयान् सर्वबुद्धक्षेत्रपर्षन्मण्डलान् सर्वबुद्धधर्मचक्रनिर्घोषान् सर्वसत्त्वविनयाधिष्ठानव्यूहानद्राक्षीत् ॥

दृष्ट्वा च रत्नचूडं धर्मश्रेष्ठिनमेतदवोचत् - आर्य, कुतस्ते इयमेवंरूपा संपद्विशोधिता? कुत्र ते कुशलमूलान्यवरोपितानि यस्य तव इयमीदृशी विपाकसंपत्? स आह - स्मरामि कुलपुत्र अतीते ऽध्वनि बुद्धक्षेत्रपरमाणुरजःसमानां कल्पानां परेण परतरेण चक्रविचित्रे लोकधातावनन्तरश्मिधर्मधातुसमलंकृतधर्मराजो नाम तथागतो लोके उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स खलु पुनस्तथागतो ज्ञानवैरोचनप्रमुखेन श्रावककोटीशतेन ज्ञानसूर्यतेजःप्रमुखेन च बोधिसत्त्वकोटीशतसहस्रेण सार्धं मणिध्वजव्यूहराजमहोद्यानधरणिप्रविष्टो राज्ञा धर्मेश्वरराजेन अभिनिमन्त्रितः । तस्य मे तथागतस्य नगरप्रविष्टस्यान्तरापणमध्यगतस्य तूर्यनादनिर्नादितं कारितम् । एका च गन्धगुलिका निधूपिता तस्य भगवतः सबोधिसत्त्वश्रावकसंघस्य पूजाकर्मणे । तया च गन्धगुलिकया निधूपितया सप्ताहं सर्वजम्बुद्वीपो ऽनन्तवर्णैः सर्वसत्त्वकायसदृशैर्धूपपटलमेघैः संछन्नो ऽभूत् । तेभ्यश्च धूपपटलमेघेभ्य एवंरूपः शब्दो निश्चरति स्म - अचिअन्त्यस्तथागतत्र्यध्वविपुलेन स्कन्धेन समन्वागतः, सर्वज्ञः सर्वावरणविगतः सर्वक्लेशवासनाप्रहीणः, सर्वतथागतावरोपिता दक्षिणा, अप्रमाणसर्वज्ञाताफलदायिका सर्वज्ञतासमवसरणा इति - यदुत अस्मत्कुशलमूलपरिपाकार्थमचिन्त्यसत्त्वकुशलमूलवेगसंजननार्थं च । तेभ्यो धूपपटलमेघेभ्यो बुद्धाधिष्ठानेन अयमेवंरूपः शब्दो निश्चचार । तच्च मे कुलपुत्र तथागताधिष्ठानं संदर्शनप्रातिहार्यकुशलमूलं त्रिषु स्थानेषु परिणामितम् । कतमेषु त्रिषु? यदुत अत्यन्तसर्वदारिद्रयसमुच्छेदाय सद्धर्मश्रवणाविरहिततायै सर्वबुद्धबोधिसत्त्वकल्याणमित्रदर्शनपरिपूरये च । एतमहं कुलपुत्र, अप्रतिहतप्रणिधिमण्डलव्यूहबोधिसत्त्वविमोक्षं जानामि । किं मया शक्यमचिन्त्याप्रमाणगुणरत्नाकराणां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, ये ते असंभिन्नबुद्धशरीरसागरावतीर्णाः, ये ते असंभिन्नधर्ममेघसंप्रतीच्छकाः, ये ते असंभिन्नगुणसागरप्रतिपन्नाः, ये ते समन्तभद्रचर्याजालविसृताः, ये ते असंभिन्नसमाधिविषयावतीर्णाः ( ग्व् 116 ) ये ते असंभिन्नसर्वबोधिसत्त्वैकघनकुशलमूलाः ये ते असंभिन्नतथागताविकल्पविहारिणः, ये ते असंभिन्नत्र्यध्वसमतावतीर्णाः,ये ते असंभिन्नसर्वकल्पसंवासापरिखिन्नाः,
ये ते असंभिन्नसमन्तचक्षुर्विषयभूमिप्रतिष्ठिताः ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे वेत्रमूलको नाम जनपदः । तत्र समन्तमुखे नगरे समन्तनेत्रो नाम गान्धिकः श्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको रत्नचूडस्य धर्मश्रेष्ठिनः पादौ शिरसाभिवन्द्य रत्नचूडं धर्मश्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृउत्य पुनः पुनरवलोक्य रत्नचूडस्य धर्मश्रेष्ठिनो ऽन्तिकात्प्रक्रान्तः

6.17

19 समन्तनेत्रः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनन्तबुद्धदर्शनावतीर्णो ऽनन्तबोधिसत्त्वसमवधानप्राप्तो ऽनन्तबोधिसत्त्वमार्गनयावभासितो ऽनन्तबोधिसत्त्वधर्मनयाभिष्यन्दितनिश्चितचित्तो ऽनन्तबोधिसत्त्वाधिमुक्तिपथविशुद्धिरनन्तबोधिसत्त्वेन्द्रियावभासप्रतिलब्धो ऽनन्तबोधिसत्त्वाशयबलप्रतिष्ठितो ऽनन्तबोधिसत्त्वचर्यानुगतचेताः अनन्तबोधिसत्त्वप्रणिधानबलसंजातो ऽनन्तबोधिसत्त्वापराजितध्वजो ऽनन्तबोधिसत्त्वज्ञानालोकपरिवर्ती अनन्तबोधिसत्त्वाधर्मावभासप्रतिलब्धः अनुपूर्वेण येन वेत्रमूलको नाम जनपदस्तेनोपसंक्रम्य समन्तमुखं नगरं परिमार्गन् समन्तदिग्विदिक्षु देशप्रदेशोपचारेषु निम्नोन्नतसमविषमेषु अपरिखिन्नाशयो ऽविश्रमन् समानचित्तो ऽविवर्त्यवीर्यो ऽपर्यादत्तचेतनो ऽविस्मृतकल्याणमित्रानुशासनःसदाकल्याणमित्रसमुदाचारहृदयवासनः समन्तमुखविज्ञप्तीन्द्रियः सर्वप्रमादविगतो विस्फारितकर्णचक्षुः सर्वतः परिगवेषमाणो ऽद्राक्षीत्समन्तमुखं नगरम्, मध्ये वेत्रमूलस्य जनपदस्य दशानां पट्टनसहस्राणां निगमं सुपरिनिष्ठितं दृढप्राकारमुद्विद्धमष्टचत्वरोपशोभितम् । तस्य मध्ये समन्तनेत्रं गान्धिकमद्राक्षीत् गान्धिकवीथ्यामुपविष्टम् । दृष्ट्वा च येन समन्तनेत्रो गान्धिकस्तेनोपसंक्रम्य समन्तनेत्रस्य गान्धिकस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र सर्वसत्त्वानां व्याधीन् प्रजानामि वातसमुत्थानपि, पित्तसमुत्थानपि, श्लेष्मसमुत्थानपि, सभागक्षुभितानपि, परोपक्रमितानपि, अमनुष्यवैकारिकानपि, विषमपरोपक्रमिकानपि, विविधमन्त्रशस्त्रवेतालप्रयोगाग्निसमुत्थानपि, उदकसंक्षोभसमुत्थानपि, विविधभयंसंत्राससंभवानपि । तेषां च सर्वव्याधीनां प्रशमं प्रजानामियदुत स्नेहनं प्रजानामि, वमनं विरेचनमास्थापनं रक्तावसेचनं नासाकर्म कर्षुपरिणाहं परिष्वेदनमनुलेपनं विषप्रतिघातं भूतग्रहप्रतिषेधं बृंहणं स्नपनं संवासनं संवर्धनं वर्णपरिशोधनं बलसंजननं प्रजानामि । ये कुलपुत्र
सत्त्वा ममान्तिकमुपसंक्रामन्ति दशभ्यो दिग्भ्यः, तेषामहं सर्वेषां व्याधीन् प्रशमयामि । व्याधिप्रशान्तांश्च सुस्नातानुलिप्तगात्रान् कृत्वा यथार्हाभरणविभूषिताङ्गान् यथार्हवस्त्रसंछादितशरीरान् विविधभोजनरसाग्रैः संतर्प्य अपरिमितधनसमृद्धान् करोमि । उत्तरे चैषां रागप्रहाणाय धर्मं देशयामि अशुभोपसंहारेण । दोषप्रहाणाय धर्मं देशयामि महामैत्रीसंवर्णनतया । मोहप्रहाणाय धर्मं देशयामि धर्मप्रविचयप्रभेदप्रदर्शनतया । समभागचर्याक्लेशप्रहाणाय धर्मं देशयामि । विशेषपरिज्ञानयमुखसंप्रकाशनतया बोधिचित्तसंभवहेतुं परिदीपयामि । सर्वबुद्धगुणधर्मसंप्रयुक्तकथासंप्रकाशनतया महाकरुणासंभवहेतुं परिदीपयामि । अपरिमाणसंसारदुःखसंप्रकाशनतया अपरिमितगुणप्रतिलाभसंभवहेतुं परिदीपयामि । विपुलपुण्यज्ञानसंभारोपचयसंवर्णनतया महायानप्रणिधानसंभवहेतुं परिदीपयामि । सर्वसत्त्वपरिपाकविनयसंदर्शनतया समन्तभद्रबोधिसत्त्वचर्याप्रतिलाभसंभवहेतुं परिदीपयामि । सर्वक्षेत्रसर्वकल्पसंवासचर्याजालप्रविस्तरणतया ( ग्व् 118 ) लक्षणानुव्यञ्जनोपचितबुद्धशरीरप्रतिलाभसंभवहेतुं परिदीपयामि । दानपारमितासंवर्णनतया सर्वत्रगामिनीतथागतपरिशुद्धिप्रतिलाभसंभवहेतुं परिदीपयामि । शीलपारमितासंप्रकाशनतया अचिन्त्यतथागतरूपवर्णविशुद्धिसंभवहेतुं परिदीपयामि । क्षान्तिपारमितासंप्रकाशनतया दुर्योधनतथागतशरीरसंभवहेतुं परिदीपयामि । वीर्यपारमितासंप्रकाशनतया अभिभूतानभिभूततथागतात्मभावविशुद्धिं परिदीपयामि । ध्यानपारमितासंप्रकाशनतया धर्मशरीरविशुद्धिं परिदीपयामि । प्रज्ञापारमितासंप्रकाशनतया सर्वजगदभिमुखबुद्धात्मभावविशुद्धिं परिदीपयामि । उपायकौशल्यपारमितासंप्रकाशनतया सर्वकल्पकालजगच्चित्तसंवेशनशरीरविशुद्धिं परिदीपयामि । प्रणिधानपारमितासंप्रकाशनतया सर्वबुद्धक्षेत्राभ्युद्गतात्मभावविशुद्धिं परिदीपयामि । बलपारमितासंप्रकाशनतया सर्वजगद्यथाशयसंतोषणकायपरिशुद्धिं परिदीपयामि । ज्ञानपारमितासंप्रकाशनतया परमशुभदर्शनकायपरिशुद्धिं परिदीपयामि, यदुत सर्वाकुशलधर्मविनिवर्तनसंप्रकाशनतया । एवं चैतान् धर्मदानेन संगृह्य अनन्तधनरत्नोपचयोपस्तब्धान् कृत्वा विसर्जयामि । अपि तु खलु पुनरहं कुलपुत्र सर्वगन्धधूपवासनानुलेपनयुक्तीः प्रजानामि यदुत अतुलगन्धराजप्रमुखाः । सिन्धुवारितगन्धराजप्रमुखा
अजितावतिगन्धराजप्रमुखा विबोधनगन्धराजप्रमुखा अरुणवतिगन्धराजप्रमुखाः कालानुसारिगन्धराजप्रमुखा उरगसारचन्दनगन्धराजप्रमुखा मेघागरुगन्धराजप्रमुखा अक्षोभ्येन्द्रियगन्धराजप्रमुखाः सर्वगन्धयुक्तीः प्रजानामि । अपि तु खलु पुनरहं कुलपुत्र सर्वसत्त्वसंतोषणसमन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बं प्रजानामि ॥

इतश्च मे कुलपुत्र, सर्वसत्त्वसंतोषणात्समन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बात्सर्वाभिप्रायाः परिपूर्यन्ते, येन सर्वसत्त्वपरित्राणालंकारमेघानधितिष्ठामि । यदुत गन्धविमानालं कारमेघान् यावत्सर्वाकारतथागतपूजोपस्थानालंकारमेघानधितिष्ठामि । यदाहं कुलपुत्र तथागतान् पूजयितुकामो भवामि, तदाहमितः सर्वसत्त्वसंतोषणात् समन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बादपरिमाणान् गन्धकोशकूटागारमेघान्निश्चार्य दशदिक्सर्वधर्मधातुगतेषु सर्वतथागतपर्षन्मण्डलेषु सर्वगन्धकोशकूटागारमेघालंकारं सर्वधर्मधातुमधितिष्ठामि । सर्वबुद्धक्षेत्रपरिशोधनमेघालंकारं गन्धभवनमेघालंकारं गन्धप्राकारमेघालंकारं गन्धनिर्यूहव्यूहमेघालंकारं गन्धतोरणमेघालंकारं गन्धगवाक्षमेघालंकारं गन्धहर्मिकमेघालंकारं गन्धार्धचन्द्रमेघालंकारं गन्धच्छत्रमेघालंकारं समुच्छ्रितगन्धध्वजमेघालंकारं गन्धपताकामेघालंकारं गन्धवितानमेघालंकारं गन्धविग्रहजालमेघालंकारं गन्धप्रभामेघालंकारं गन्धावभासविमलव्यूहमेघालंकारं सर्वगन्धमेघप्रवर्षणालंकारं सर्वधर्मधातुमधितिष्ठामि । एतमहं कुलपुत्र सर्वसत्त्वसंतोषणं समन्तमुखबुद्धदर्शनपूजोपस्थानगन्धबिम्बं धर्ममुखं जानामि । किं मया शक्यं भैषज्यराजकल्पानां बोधिसत्त्वानाममोघदर्शनानाममोघश्रवणानाममोघसंवासानाममोघानुस्मृतीनाममोघानुव्रतानाममोघनुव्रतानाममोघनामधेयग्रहणानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, येषां सहदर्शनेन च सर्वसत्त्वानां सर्वक्लेशाः प्रशमन्ति, येषां सहदर्शनेन सत्त्वा विनिवर्तन्ते सर्वापायगतिभ्यः, ( ग्व् 119 ) येषां सहदर्शनेन सत्त्वा अवकाशं लभन्ते बुद्धधर्मेषु, येषां सहदर्शनेन सत्त्वानामुपशमन्ति सर्वदुःखस्कन्धाः, येषां सहदर्शनेन सत्त्वा विगतभया भवन्ति सर्वसंसारगतिभ्यः, येषां सहदर्शनेन सत्त्वा अभयप्राप्ता भवन्ति सर्वज्ञतादिगुपनयतया, येषां सहदर्शनेन सत्त्वा न प्रतिपतन्ति जरामरणश्वभ्रप्रपातेषु, येषां सहदर्शनेन सत्त्वा निर्वृतिसुखं प्रतिलभन्ते धर्मधातुसमतास्थानेन ॥
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे तालध्वजं नाम नगरम् । तत्र अनलो नाम राजा प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः समन्तनेत्रस्य गान्धिकश्रेष्ठिनः पादौ शिरसाभिवन्द्य समन्तनेत्रं गान्धिकं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य समन्तनेत्रस्य गान्धिकश्रेष्ठिनो ऽन्तिकात् प्रक्रान्तः

6.18

20 अनलः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रपरंपरामनुस्मरन्, तानि कल्याणमित्रानुशासनीमुखानि मनसिकुर्वन्, परिगृहीतो ऽस्मि कल्याणमित्रैरिति स्वचित्तं संतोषयन्, कल्याणमित्रारक्षितो ऽस्मि न भूयो विनिवर्तिष्यामि अनुत्तरायाः सम्यक्संबोधेरित्यनुविचिन्तयन् प्रत्यलभत चित्तप्रीतिम् । चित्तप्रसादं चित्तप्रामोद्यं चित्ततुष्टिं चित्तप्रहर्षः चित्तनन्दीं चित्तव्युपशमं चित्तविपुलतां चित्तालंकारतां चित्तासङ्गतां चित्तानावरणतां चित्तविविक्ततां चित्तसमवसरणतां चित्तवशितां चित्तैश्वर्यं चित्तधर्मानुगमं चित्तक्षेत्रस्फरणतां बुद्धदर्शनालंकारचित्ततां दशबलमनसिकाराविप्रवासचित्ततां प्रत्यलभत । सो ऽनुपूर्वेण जनपदेन जनपदं ग्रामेण ग्रामं देशेन देशं परिमार्गन् येन तालध्वजं नगरं तेनोपसंक्रम्य परिपृच्छति स्म - कुत्रानलो राजेति । तमन्यो जनकाय एतदवोचत् - एष कुलपुत्र अनलो राजा अर्थकरणे सिंहासनोपविष्टो राजकार्यं करोति । जनपदान् प्रशास्ति । निग्रहीतव्यान्निगृह्णाति, प्रग्रहीतव्यान् प्रगृह्णाति, अपराधितान् दण्डं प्रणयति । विवदतां विवादं छिनत्ति । दीनानाश्वासयति । दृप्तान् दमयति । प्राणिवधाद्विनिवर्तयति । अदत्तादानाद्विच्छन्दयति । परिपरिगृहीताभिलाषाद् व्युपशमयति । मृषावादाद्विनिवारयति । पिशुनयवचनाद्विवेचयति । परुषवचनाद्विरमयति । संभिन्नप्रलापाद् व्यावर्तयति । अभिध्याया विश्लेषयति । व्यापादाद्दूरीकरोति मिथादृष्टेर्वियोजयति ॥
अथ खलु सुधनः श्रेष्ठिदारको येन अनलो राजा तेनोपजगाम । सो ऽद्राक्षीदनलं राजानं नारायणवज्रमणिविचित्रे असंख्येयनानाविधप्रभास्वरत्नपादे अनेकरत्नसुरचितालंकाररुचिरबिम्बे, काञ्चनसूत्रजालश्वेतसुपरिनिष्ठिते, अनेकमणिरत्नदीपप्रद्योतिते, वशिराजमणिरत्नमयपद्मगर्भे अनेकदिव्यरत्नवस्त्रसुप्रज्ञप्ते, विविधदिव्यगन्धधूपितोपचारे उच्छ्रितरत्नध्वजछत्रशतसहस्रविराजिते रत्नपताकाशतसहस्रोद्विद्धोपशोभिते विचित्ररत्नपुष्पदामकलापाभिप्रलम्बितोज्ज्वलिते विविधदिव्यरत्नवितानवितते महारत्नसिंहासने निषण्णं नवं दहरं तरुणमभिरूपं प्रासादिकं दर्शनीयमभिनीलप्रदक्षिणावर्तकेशं छत्राकारमूर्धानमुष्णीषशिरसं पृथुललाटमभिनीलविशालगोपक्ष्मनयनं मधुरोन्नतचारुतुङ्गनासावंशं हिङ्गुलुकसुवर्णसुश्लिष्टौष्ठं समवहितसुशुक्लपूर्णचत्वारिंशद्दन्तं सिंहहनुं परिपूर्णोपचितकपोलं सुरुचिरचापायतभ्रुवं शशाङ्कवर्णोर्णया कृततिलकमायतप्रमुक्तप्रलम्बकर्णं पूर्णचन्द्रसौम्यवदनं कम्बुरुचिरवृत्तग्रीवं श्रीवत्सालंकृतहृदयं सिंहपूर्वार्धकायं चितान्तरांसं सुसंवृत्तोरुस्कन्धं प्रलम्बबाहुं जालावनद्धाङ्गुलिचक्राङ्कितहस्तपादं मृदुतरूणोपचितपाणिपादं सप्तोत्सदं वज्रसदृशमध्यं बृहदृजुगात्रं सुवर्तितोरुं कोशगतबस्तिगुह्यम् एणेयजङ्घं दिर्घाङ्गुलिमायतपादपार्ष्णि व्यामप्रभं सुवर्णच्छविमेकैकप्रदक्षिणोर्ध्वाङ्गरोमं न्यग्रोधराजपरिमण्डलं लक्षणानुव्यञ्जनोपचितशरीरं चिन्ताराजमणिरत्नमुकुटावबद्धशिरसं जाम्बूनदकनकार्धचन्द्ररचितललाटालंकारमिन्द्रनीलमणिविमलनीलकुण्डलप्रलम्बितकर्णमनर्ध्यमणिरत्नहारप्रभावभासितविमलविपुलोपचितवक्षसं ( ग्व् 121 ) दिव्योत्तममणिकेयूरबलयविदष्टविक्रीडितबाहुं दशरत्नशलाकाशतसुविभक्तेन जाम्बूनदकनकच्छदनेन ज्योतीरसमहामणिरत्नसुविशुद्धगर्भेण रत्नघण्टामालानिश्चरितमनोज्ञमधुरघोषेण समन्तदिङ्महामणिरत्नावभासप्राप्तेन
विमलवैडूर्यमणिरत्नदण्डेन महता रत्नच्छत्रेण धार्यता महाराजाधिपत्यप्राप्तमप्रतिहतपरचक्रशासनं विगतपरचक्रभयैश्वर्यम् । तस्य समन्ताद्दशामात्यसहस्राणि संनिपतितानि संनिषण्णानि राजकार्यप्रयुक्तान्यपश्यत् ॥
दश चास्य कारणापुरूषसहस्राणि संनिपतितानि पुरत उपस्थापितानि नरकपालसदृशानि यमपुरुषकल्पानि विकृतपदधारीणि रौद्रविकृतभयसंजननानि रक्तनयनानि संदष्टौष्ठत्रिवलीभृकुटीकृतवदनानि असिपरशुशक्तितोमरभुशुण्डिशूलप्रहरणगृहीतानि विषमविकृतदुःसंस्थितवदनशरीराणि मेघवर्णानि भीमरूपचण्डस्वरनिर्घोषाणि दुर्निरीक्ष्यतेजांसि महाभयकराणि प्राणिशतसहस्रहृदयसंत्राससंजननानि निगृहीतव्यसत्त्वनिग्रहप्रयुक्तानि अपश्यत् । तत्र बहूनि प्राणिशतसहस्राणि चोराणां परस्वापहारिणा परसत्त्वभोगविप्रलोपिनां पन्थमोषकाणां ग्रामनगरनिगमघोषदाहकानां कुलघातकानां संधिच्छेदकानां किल्बिषकारिणां गरदायकानां डामरिकानां मनुष्यघातकानां परदारसेविनां मिथ्याप्रतिपन्नानां दुष्टचेतसामभिध्यालूनां विविधपापक्रूरकर्मकारिणां गाढपञ्चबन्धनबद्धानि अनलस्य राज्ञो ऽन्तिकमुपनीयमानान्यपश्यत् । तेभ्यो ऽनलं राजानं यथार्हदण्डं प्रणयन्तमद्राक्षीत् । स तत्र राज्ञो ऽनलस्याज्ञया केषांचिद्धस्तपादच्छेदं केषांचित् कर्णनासाच्छेदं केषांचिच्चक्षुरुत्पाटनं केषांचिदङ्गप्रत्यङ्गशीर्षच्छेदनं केषांचित् सर्वशरीरमग्निना प्रदीप्यमानां कांश्चिच्छिन्नविकृततप्तक्षारोदकपरिषिच्यमानशरीरान्, एवमनेकविधास्तीव्राः खराः कटुका अमनापाः प्राणहारिणीः कारणाः कार्यमाणा अपश्यत् । तस्मिंश्च आघातने पर्वतप्रमाणान् करचरणनयनकर्णनासाशिरोङ्गप्रत्यङ्गराशीनपश्यत् । त्रियोजनगम्भीरं च अनेकयोजनायामविस्तीर्णं शोणितसरो ऽद्राक्षीत् । तत्र च अङ्गप्रत्यङ्गशिरोविकलानि मृतकलेवरशतसहस्राणि वृकशृगालाश्वकाकगृध्रश्येनकुररभैरवाकीर्णानि भक्ष्यमाणानि अपश्यत् । कानिचिन्नीलानि च नीलवर्णानि विपूयकानि व्याध्मातकानि विपटुमकानि परमविकृतबीभत्सान्यपश्यत् । तेषां च वध्यानां हन्यमानानां विविधाः कारणाः कार्यमाणानां घोरमार्तस्वरं क्रन्दतां महान्तं निर्नादनिर्घोषमश्रौषीत् महासंवेगोद्वेगसंजननं तद्यथा संघाते महानरके ॥

तस्य तदतिदारूणभैरवकरं परमवैशसं दृष्ट्वैवमेतदभवत् - अहं च सर्वसत्त्वहितसुखहेतोरनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितो बोधिसत्त्वचर्यापरिमार्गणतत्परः कल्याणमित्राणि परिपृच्छामि - किं बोधिसत्त्वेन कुशलं कर्तव्यम्, किमकुशलं परिवर्जयितव्यमिति । अयं च अनलो राजा कुशलधर्मपरिहीणो महासावद्यकर्मकारी प्रदुष्टमनःसंकल्पः परसत्त्वजीवितोपरोधाय प्रतिपन्नः परसत्त्वोत्पीडनतत्परः परलोकनिरपेक्षो दुर्गतिप्रपाताभिमुखः । तत्कृतो ऽस्माद्बोधिसत्त्वचर्याश्रवो भविष्यतीति? तस्यैवं चिन्तामनसिकारप्रयुक्तस्य सर्वसत्त्वधातुपरित्राणाभिमुखस्य ( ग्व् 122 ) विपुलकरूणासंभूतचेतस उपरि गगनतले देवता इत्येवमारोचयामासुः न स्मरसि कुलपुत्र जयोष्मायतनस्यर्षेः कल्याणमित्रानुशासनीमिति? स ऊर्ध्वमुखो गगनतलमवलोक्य एवमाह - स्मरामीति । देवताः प्राहुः - मा त्वं कुलपुत्र, कल्याणमित्रानुशासनीषु विचिकित्सामुत्पादय । सम्यक् समेन कल्याणमित्राणि प्रणयन्ति न विषमेण । अचिन्त्यं हि कुलपुत्र बोधिसत्त्वानामुपायकौशल्यचर्याज्ञानम् । अचिन्त्यं सर्वसत्त्वसंग्रहज्ञानम् । अचिन्त्यं सत्त्वानुग्रहज्ञानम् । अचिन्त्यं सत्त्वनिग्रहज्ञानम् । अचिन्त्यं सत्त्वप्रग्रहज्ञानम् । अचिन्त्यं सत्त्वसंग्रहज्ञानम् । अचिन्त्यं सत्त्वपरिशोधनज्ञानम् । अचिन्त्यं सत्त्वपरिपालनज्ञानम् । अचिन्त्यं सत्त्वावतरणज्ञानम् । अचिन्त्यं सत्त्वपरिपाचनज्ञानम् । अचिन्त्यं सत्त्वविनयज्ञानम् । गच्छ कुलपुत्र, परिपृच्छ एनं बोधिसत्त्वचर्यामिति ॥
अथ सुधनः श्रेष्ठिदारको देवतावचनमुपश्रुत्य येन अनलो राजा तेनोपजगाम । उपेत्य अनलस्य राज्ञः पादौ शिरसाभिवन्द्य अनलं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खल्वनलो राजा राजकार्याणि कृत्वा उत्थाय सिंहासनात् सुधनं श्रेष्ठिदारकं दक्षिणेन पाणिना गृहीत्वा तालध्वजं राजधानीं प्राविशत् । सो ऽनुपूर्वेण स्वं गृहमनुप्रविश्य सुधनं श्रेष्ठिदारकमन्तःपुरं प्रवेश्य भद्रासने निषद्य एवमाह - व्यवलोकयस्व कुलपुत्र इमं मम गृहपरिभोगमिति । स व्यवलोकयन्नद्राक्षीत्तद्गृहं विपुलं विस्तीर्णं सप्तरत्नप्राकारपरिक्षिप्तं विविधमणिरत्नप्रासादोपशोभितमनेकरत्नकूटागारशतसहस्रालंकृतमचिन्त्यमणिरत्नप्रभाज्वालोज्ज्वलिततेजसं नानामणिरत्नविविधविभक्तिचित्रविराजितलोहितमुक्तामयसमुच्छ्रितस्तम्भं सुप्रज्ञप्तमुसारगल्वमयानेकरत्नशतसहस्रविचित्रोपशोभितसिंहासनं ज्योतीरसमणिरत्नसिंहध्वजसमुच्छ्रितं वैरोचनं मणिरत्नवितानविततं चिन्तामणिविचित्रमहाजालसंछन्नमसंख्येयविचित्रमणिरत्नप्रतिमण्डितनिर्यूहव्यूहं शीतजलाश्मगर्भमयपुष्किरिणीसमुपेतं सर्वरत्नदुमयपङ्क्तिपरिवृतम् । दश चास्य स्त्रीकोटीपरिवारमद्राक्षीत् अभिरूपाणां प्रासादिकानां दर्शनीयानां परमशुभवर्णपुष्कलतया समन्वागतानां सर्वकलाविधिज्ञानां पूर्वोत्थायिनीनां पश्चान्निपातिनीनां मैत्रचित्तानां किंकरोपचावरवचनप्रतिकारिणीनाम् ॥
अथ खल्वनलो राजा सुधनं श्रेष्ठिदारकमेवमाह - तत्किं मन्यसे कुलपुत्र, अपि तु पापकारिणामेवंरूपः कर्मविपाको ऽभिनिर्वर्तते? एवंरूपा आत्मभावसंपत्, एवंरूपा परिवारसंपत्, एवंरूपा महाभोगसंपत्, एवंरूपा महैश्वर्याधिपत्यसंपत्? आह - नो हीदमार्य । सो ऽवोचत् - अहं कुलपुत्र मायागतस्य बोधिसत्त्वविमोक्षस्य लाभी । इमे च कुलपुत्र ( ग्व् 123 ) मद्विषयवासिनः सत्त्वा यद्भूयसा प्राणातिपातिनो ऽदत्तादायिनः काममिथ्याचारिणो मृषावादिनः पैशुनिकाः पारूषिकाः संभिन्नप्रलापिनो ऽभिध्यालम्बा व्यापन्नाचित्ता मिथ्यादृष्टयः पापकर्माणो रौद्राश्चण्डाः साहसिका विविधाकुशलकर्मक्रियापरिगताः । ते न शक्यन्ते ऽन्यथा पापचर्याया निवारयितुं विनिवर्तयितुमनुशासितुम् । सो ऽहं कुलपुत्र एषां सत्त्वानां दमनाय परिपाचनाय विनयेन हिते संनियोजनार्थं महाकरुणां पुरस्कृत्य निर्मितैर्वध्यघातकैर्निर्मितान् वध्यपुरुषान् घातयामि । निर्मितैः कारणापुरुषैर्निमितानकुशलकर्मपथकारिणो विविधाः कारणाः कारयामि । हस्तपादकर्णनासाङ्गप्रत्यङ्गशीर्षच्छेदाधिकारिकाश्च दुःखास्तीव्रा वेदनाः प्रत्यनुभवमानान् संदर्शयामि । तच्च दृष्ट्वा एते मद्विजितवासिनः सत्त्वा लभन्ते संवेगम्, जायते भयम्, जायते संत्रासः, भवति चैषां छम्भितत्वम्, यदुत पापकर्मव्यापत्तिविनिवृत्तये । सो ऽहं कुलपुत्र इमान् सत्त्वाननेनोपायेनोद्विग्नोत्त्रस्तचित्तात्मविविग्नमनसो विदित्वा दशभ्यो ऽकुशलेभ्यः कर्मपथेभ्यो विनिवर्त्य दशकुशलकर्मपथसमन्वागतान् कृत्वा अत्यन्तनिष्ठे योगक्षेमे सर्वदुःखोपच्छेदे सर्वज्ञतासुखे प्रतिष्ठापयामि । नाहं कुलपुत्र कस्यचित् सत्त्वस्य विहेठं करोमि कायेन वाचा मनसा व । आपरान्तिकावीचिकदुखे संभ्रामयेयम् । अहं कुलपुत्र तिर्यग्योनिगतस्य संमूढस्य अन्तशः कुन्तपिपीलिकस्य एकचित्तोत्पादेनापि दुःखोपरोधं नेच्छेयम्, प्रागेव क्षेत्रभूतस्य कुशलकर्मपथविरोहणसमर्थस्य मनुष्यभूतस्य । स्वप्नान्तरगतस्यापि मे कुलपुत्र अकुशलधर्मसमुदाचारो नोत्पद्यते, कः पुनर्वादः समन्वागतः । एतस्याहं कुलपुत्र, मायागतस्य बोधिसत्त्वविमोक्षस्य लाभी । किं मया शक्यं अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां
बोधिसत्त्वानां मायागतधर्मसर्वभवगत्यनुबद्धानां निर्मितोपमबोधिसत्त्वचर्यानिर्यातानां प्रतिभासोपमसर्वलोकविज्ञप्तानां स्वप्नोपमधर्मताप्रतिविद्धानाम् असङ्गमुखधर्मधातुनयानुसृतानामिन्द्रजालोपमचर्याजालानुगतानामनावरणज्ञानगोचरविषयाणां समन्तसमवसरणसमाधिपथनिर्यातानाम् अनन्तावर्तधारणीवशवर्तिनां बुद्धगोचरविषयानुबद्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे सुप्रभं नाम नगरम् । तत्र महाप्रभो नाम राजा प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः अनलस्य राज्ञः पादौ शिरसाभिवन्द्य अनलं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अनलस्य राज्ञो ऽन्तिकात् प्रक्रान्तः

6.19

21 महाप्रभः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तां ज्ञानमायामनुस्मरन्, तं मायागतं बोधिसत्त्वविमोक्षमुपनिध्यायन्, तां मायागतधर्मतां प्रत्यवेक्षमाणः, तां कर्ममायासमतां प्रतिविध्यन्, तां धर्ममायासमतामनुविचिन्तयन्, तां धर्मपरिपाकनिर्माणसमतामनुगच्छन्, तमचिन्त्यं ज्ञानसंभवालोकमनुसरन्, तमनन्तप्रणिधिमायागतनिर्हारमभिनिर्हरन्, तामसङ्गचर्यानिर्माणधर्मतां विशोधयन्, तं त्र्यध्वमायागतलक्षणं प्रविचिन्वन्, अनुपूर्वेण जनपदेन जनपदं परिपृच्छन् परिगवेषमाणो ऽनुविलोकयन्, सर्वदिग्विदिक्पथनिम्नस्थलसमविषमजलाजलपथपर्वतगिरिकन्दरग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वपरिखिन्नचित्तो ऽविश्रान्तशरीरो निखिलगवेषी येन सुप्रभस्य महानगरस्योपविचारस्तेनोपसंक्रम्य पर्यपृच्छत् - क्व स महाप्रभो राजेति । तस्य महाजनकाय उपदर्शयति - एतत्कुलपुत्र सुप्रभं महानगरं यत्र महाप्रभो राजा प्रतिवसति ॥
अथ खलु सुधनः श्रेष्ठिदारको येन सुप्रभं महानगरं तेनोपसंक्रम्याद्राक्षीत् सुप्रभं महानगरम् । दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात एवमनुचिन्तयामास - कुत्र कल्याणमित्रः प्रतिवसति? अद्य तं द्रक्ष्यामि कल्याणमित्रम् । ततं श्रोष्यामि बोधिसत्त्वचर्यां बोधिसत्त्वनिर्याणमुखमचिन्त्यां बोधिसत्त्वधर्मताम् अचिन्त्यान् बोधिसत्त्वगुणगोचरान् अचिन्त्यां बोधिसत्त्ववृषभिताम् अचिन्त्यां बोधिसत्त्वसमाधिविहारिताम् अचिन्त्यं बोधिसत्त्वविमोक्षविक्रीडितम् अचिन्त्यां बोधिसत्त्वमहारम्भनिस्तारणविशुद्धिम् । एवं चिन्तामनसिकारप्रयुक्तो येन सुप्रभं महानगरं तेनोपजगाम । उपेत्य सुप्रभं महानगरमवलोकयामास विचित्रदर्शनीयं सप्तानां रत्नानां सुवर्णस्य रूपस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य च, सप्तभी रत्नपरिखाभिः समन्तादनुपरिक्षिप्तं गम्भीराभिजातोदकाभिः सुवर्णवालिकासंस्तीर्णतलाभिर्दिव्योत्पलपद्मकुमुदपुण्डरीकसंछन्नाभिः कालानुसारिचन्दनकर्दमकलुषोदकाभिः, सप्तरत्नमयतालपङ्क्तिभिः समन्तादनुपरिक्षिप्तम्, सप्तभिर्वज्ररत्नप्राकारैः समन्ततो ऽनुपरिक्षिप्तम्, यदुत सिंहकान्तवज्रप्राकारेण अपराजितवज्रप्राकारेण निर्वेधवीर्यवज्रप्राकारेण दुर्योधनवीर्यवज्रप्राकारेण असङ्गवज्रदृढप्राकारेण वज्रांशुजालगर्भप्राकारेण विरजोवर्णव्यूहप्राकारेण अनुपरिक्षिप्तम् । सर्वे च वज्ररत्नमहाप्राकारा असंख्येयमणिरत्नप्रत्यर्पिता जाम्बूनदकनकक्षोडकरुचिरदन्तमालारचिता रजतमणिरुचिरदन्तमालारचिता वैडूर्यमणिरुचिरदन्तमालारचिताः स्फटिकमणिरुचिरदन्तमालारचिता विद्रुममणिरुचिरदन्तमालारचिता लोहितमुक्तारुचिरदन्तमालारचिताः सागरगर्भमुक्तामणिरुचिरदन्तमालारचिताः । तस्य च महानगरस्य दशयोजनान्तराण्यष्टौ द्वाराणि विचित्राणि दर्शनीयानि सप्तानां रत्नानाम् । तच्च महानगरं विपुलं विस्तीर्णं नानाष्टाङ्गसुविभक्तं नीलवैडूर्यमय्यां पृथिव्यां प्रतिष्ठापितम् । तस्मिंश्च महानगरे दश रथ्याकोट्यः । एकैकस्याश्च रथ्याया उभयपार्श्वसंनिविष्टानि
नानारत्नमयानि अनेकविविधरत्नव्यूहप्रतिमण्डितानि उच्छ्रितरत्नच्छत्रध्वजपताकावैजयन्तीनि सर्वोपकरणसमृद्धानि अनेकसत्त्वनियुताध्युषितानि महागृहशतसहस्राणि ॥
तच्च महानगरमसंख्येयसुवर्णमणिरत्नप्रासादोपशोभितं वैडूर्यमणिजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयजाम्बूनदकनककूटागारं लोहितमुक्ताजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयरूप्यकूटागारं विचित्ररत्नकोशमणिजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयवैडूर्यकूटागारं विपुलगर्भमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयस्फटिककूटागारम् आदित्यगर्भमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयजगद्रोचनामणिरत्नकूटागारं श्रीरश्मिमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयेन्द्रनीलरत्नकूटागारं ज्योतीरश्मिमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयजगत्सागरमणिराजकूटागारं अपराजितध्वजमणिराजजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयवज्रकूटागारं दिव्यमान्दारवकुसुमजालसंछादिताचिन्त्यव्यूहासंख्येयकालानुसारिचन्दनकूटागारं विविधदिव्यकुसुमजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयातुलगन्धराजकूटागारमनेकरत्नखोटकप्रतिमण्डितं सप्तरत्नवेदिकापरिवृतं रत्नतालपङ्क्तिपरिक्षिप्तम् । सर्वे च ते रत्नखोटका रत्नजालाश्चान्योन्यरत्नसूत्रविनिबद्धाः । सर्वाणि तानि रत्नसूत्राणि सुवर्णघण्टामालोपशोभितानि । सर्वाश्च ताः सुवर्णघण्टामाला विचित्ररत्नदामकलापोपनिबद्धाः । सर्वे च ते रत्नसूत्रदामकलापा रत्नकिङ्किणीजालाभिप्रलम्बिताः । सर्वं च तं महानगरमसंख्येयमणिरत्नजालसंछन्नमसंख्येयरत्नकिङ्किणीजालसंछन्नमसंख्येयदिव्यगन्धजालसंछन्नमसंख्येयदिव्यविचित्रपुष्पजालसंच्छन्नमसंख्येयरत्नबिम्बजालसंछन्नमसंख्येयवज्रवितानसंछन्नमसंख्येयरत्नवितानसंछन्नमसंख्येयरत्नच्छत्रवितानसंच्छन्नम् असंख्येयरत्नकूटागारवितानसंछन्नम् असंख्येयरत्नवस्त्रवितानसंच्छन्नम् असंख्येयरत्नपुष्पमालावितानसंच्छन्नमुत्सृजननानारत्नध्वजपताकम् ॥
तस्य च सुप्रभस्य महानगरस्य मध्ये राज्ञो महाप्रभस्य गृहं मापितमभूत् । समन्ताच्चतुर्योजनं परिक्षेपेण सप्तरत्नमयं सप्तभिर्नानारत्नमयीभिर्वेदिकाभिः परिवृतं सप्तभी रत्नकिङ्किणीजालैः मनोज्ञमधुरनिर्घोषैः समन्तादनुरचितं सप्तरत्नमयीभिः सप्ततालपङ्क्तिभिरनुपरिक्षिप्तमचिन्त्यनानारत्नमयकूटागारव्यूहशतसहस्रसमलंकृतं दिव्योत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाभिरष्टाङ्गोपेतवारिपरिपूर्णाभिः सुवर्णवालिकासंस्तीर्णतलाभिः सर्वरत्नपुष्पफलवृक्षप्रतिमण्डिताभिः चतुर्दिक्षु सुविभक्तरत्नेष्टकानिचितसोपानाभिरनेकरत्नमयीभिः पुष्करिणीभिरुपशोभितं दिव्यमधुरमनोज्ञनानाशकुनिगणकूजितममरपतिभवनप्रतिस्पर्धि । मध्ये चास्य जगद्रोचनमणिरत्नकूटागारः संस्थितः, चित्रो दर्शनीयो ऽसंख्येयमणिरत्नाचिन्त्यव्यूहविराजितो राज्ञा महाप्रभेण सद्धर्मगञ्जः स्थापितः ॥

अथ खलु सुधनः श्रेष्ठिदारको रत्नपरिखास्वननुनीतचित्तो रत्नप्राकारेष्वविस्मयमानो रत्नतालपङ्क्तिष्वरज्यमानो रत्नघण्टाकिङ्किणीजालघोषमनास्वादयन् दिव्यवाद्यरुतसंगीतिमधुरनिर्घोषेष्वसक्तचित्तः नानाविचित्ररत्नविमानकूटागारपरिभोगानमनसिकुर्वन् प्रमुदितेषु नरनारीगणेषु धर्मारामरतिरतो रूपशब्दगन्धरसस्पर्शरतिविविक्तचेता धर्मनिध्यप्तिपरमो यथाभिगतसत्त्वकल्याणमित्रनिरन्तरपरिपृच्छनतया अनुपूर्वेण येन नगरशृङ्गाटकं तेनोपजगाम । उपेत्य समन्तादनुविलोकयन् अद्राक्षीन्महाप्रभं राजानं मध्ये नगरशृङ्गाटकस्य चैत्यगृहस्य नातिदूरे ( ग्व् 126 ) महाव्यूहे भद्रासने नीलवैडूर्यमणिरत्नपादे श्वेतवैडूर्यमये सिंहप्रतिष्ठिते जाम्बूनदसुवर्णसूत्रश्वेतजाले दिव्यातिरेकविचित्ररत्नवस्त्रसुप्रज्ञप्तोपचारे असंख्येयरत्नबिम्बरचितालंकारे अचिन्त्यमणिरत्नव्यूहजालसंछादिते दिव्यरत्ननानाभक्तिविचित्रजाम्बूनदकनकपट्टवितानवितते चिन्ताराजमणिरत्नपद्मगर्भे महाधर्मासने पर्यङ्केन निषण्णम् । द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरम् । विचित्राशीत्यनुव्यञ्जनोपशोभितगात्रम् । कनकपर्वतमिव नानारत्नविन्यासविराजितम् । आदित्यमण्डलमिव दीप्ततेजसम् । पूर्णचन्द्रमण्डलमिव सौम्यदर्शनम् । ब्रह्माणमिव ब्रह्मपर्षदिविरोचमानम् । सागरमिव गम्भीरधर्मानन्तगुणरत्ननिचयम् । महामेघमिव वर्षस्वभावनिर्घोषम् । गगनमिव धर्मनयज्योतिर्गणप्रतिमण्डितम् । सुमेरुमिव चातुर्वर्णसत्त्वसागरचित्तप्रतिभासप्राप्तम् । रत्नद्वीपमिव विविधज्ञानरत्नाकीर्णतलम् । पुरतश्चास्य अनेकान् सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतरत्नराशीन्, नानारत्नदिव्यवस्त्ररत्नराशीन्, विविधदिव्यरत्नाभरणराशीन्, नानाभक्ष्यभोज्यराशीन्, विविधरसाग्रविशेषनिचयान्, नानाव्यूहविषयस्थापितानपश्यत् । अनेकानि च दिव्यरथरत्नकोटीशतसहस्राणि, अनेकानि दिव्यतूर्यकोटीशतसहस्राणि, अनेकानि दिव्यगन्धप्राकारकोटीशतसहस्राणि, अनेकान् ग्लानप्रत्ययभैषज्यपरिष्कारान्, अनेकान् सर्वोपकरणविशेषराशीन्, कल्पिकाननवद्यान्
यथाभिप्रायसत्त्वपरिभोगाय । अनेकानि च गोशतसहस्राणि सुवर्णशृङ्गखुराणि कंसदोहानि दरिद्राणां सत्त्वानां संग्रहाय स्थापितान्यपश्यत् । अनेकानि च कन्याकोटीनियुतशतसहस्राणि अभिरूपाणि प्रासादिकानि दर्शनीयानि सर्वाभरणविभूषितानि दिव्याम्बरधराणि दिव्योरगसारचन्दनानुलिप्तगात्राणि चतुःषष्टिकलाविधिज्ञानि सर्वकामचर्योपचारकुशलानि स्थापितान्यपश्यत् । यथा चास्य पुरतस्तथा सर्वरथ्याचत्वरशृङ्गाटकद्वारवीथिमुखेषु एकैकस्यां रथ्यायामुभयोरन्तर्योर्विंशतिव्योमककोटीः सर्वोपकरणपरिपूर्णैः स्थापिता यदुत सत्त्वसंग्रहाय सत्त्वपरिग्रहाय सत्त्वप्रीतिसंजननाय सत्त्वप्रामोद्योत्पादनाय सत्त्वमनःसंप्रसादनाय सत्त्वचित्तप्रह्लादनाय सत्त्वक्लेशव्युपशमाय सर्वधर्मस्वभावार्थसंनियोजनाय सत्त्वसर्वज्ञतासमानार्थोकरणाय सत्त्वपरद्रोहचित्तविनिवर्तनाय सर्वकायवाग्दुश्चरितविनिवर्तनाय सत्त्वदृष्टिशल्यसमुद्धरणाय सत्त्वकर्मपथपरिशुद्धये ॥
अथ खलु सुधनः श्रेष्ठिदारको महाप्रभस्य राज्ञः सर्वशरीरेण प्रणिपत्य महाप्रभं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - अहं कुलपुत्र महामैत्रीध्वजां बोधिसत्त्वचर्यां परिशोधयामि, परिपूरयामि । एषा च मे कुलपुत्र महामैत्रीध्वजा बोधिसत्त्वचर्या अनेकेषां बुद्धशतानामनेकेषां बुद्धसहस्राणामनेकेषां बुद्धकोटीनियुतशतसहस्राणां यावदनभिलाप्यानभिलाप्यानां ( ग्व् 127 ) बुद्धानां भगवतामन्तिकात् परिपृष्टा परिप्रश्नीकृता विशोधिता व्यूहिता विलोकिता विचारिता अनुगवेषिता पर्यन्विष्टा विचित्रिता विपुलीकृता । सो ऽहं कुलपुत्र अस्यां महामैत्रीध्वजायां बोधिसत्त्वचर्यायां स्थित्वा धर्मेण राज्यमनुशासामि । धर्मेण लोकमनुगृह्णामि । धर्मेण लोकमनुविचरामि । धर्मेण सत्त्वान् प्रणयामि । धर्मेण सत्त्वेषु प्रतिपद्ये । धर्ममण्डले सत्त्वानावर्तयामि । धर्मनयं सत्त्वानामुपसंहरामि । धर्मेण सत्त्वान् परिभावयामि । धर्मप्रतिपत्तौ सत्त्वान् नियोजयामि । धर्मस्वभावनिध्यप्तौ सत्त्वान् प्रतिष्ठापयामि । मैत्रचित्ततायां महामैत्र्याधिपत्ये मैत्रीबले हितचित्ततायां सुखचित्ततायां दयाचित्ततायामनुग्रहचित्ततायां सत्त्वानुग्रहचित्ततायां सत्त्वपरिग्रहानुत्सर्गचित्ततायां सर्वदुःखविनिवर्तनप्रणिध्यनुपच्छेदचित्ततायामत्यन्तसुखप्रतिष्ठापनसमुदाचारान् प्रतिप्रस्रब्धये सत्त्वान् प्रतिष्ठापयामि । आश्रयं चैषां प्रह्लादयामि । प्रस्रब्धिसुखसंजननतया चित्तलतां चैषां व्यावर्तयामि । संसाररतिप्रसङ्गाच्चित्तसंततिं चैषां परिणामयामि । धर्मारामरत्यां विशोधयामि । सर्वाकुशलधर्मेभ्यः परिशोधयामि । सर्वाकुशलधर्मेभ्यो विनिवर्तयामि । संसारस्रोतस आवर्तयामि । धर्मधातुनयसमुद्रेषु चित्ताविद्यां चैषां निर्दहामि सर्वभवगत्युपपत्तिव्यवच्छेदाय । चित्तार्चिषाशयं चैषां संजनयामि सर्वज्ञताफलप्रतिलाभाय

। चित्तसागरं चैषां प्रसादयामि असंहार्यश्रद्धाबलसंजननाय । एवमाहं कुलपुत्र मैत्रीध्वजायां बोधिसत्त्वचर्यायां स्थित्वा धर्मेण लोकमनुशासामि । न खलु कुलपुत्र मद्विजितवासिनः सत्त्वा ममान्तिकाद्भयं त्रासं छम्भितत्वं रोमहर्षणं वा निर्गच्छन्ति । ये च कुलपुत्र दरिद्राः सत्त्वा विविधोपकरणविकला मामुपसंक्रामन्ति अन्नार्थिनो वा पानार्थिनो वा वस्त्रार्थिनो वा यावत् सर्वार्थिनो वा, तानहं पूर्वपरिचितानेव विवृतान् राजकोशान् गृह्णीध्वमित्यप्यनुजानामि यस्यार्थे यूयं पापकं कर्म आरभेथ प्राणिवधं वा अदत्तादानं वा काममिथ्याचारं वा मृषावादं वा पैशुन्यं वा पारुष्यं वा संभिन्नप्रलापं वा अभिध्यां वा व्यापादं वा मिथ्यादृष्टिं वा तदन्यानि वा विविधानि दृष्टिकृतान्यभिनिविशेथ । अतः तस्मात् सुप्रभान्महानगरान्नगरद्वारेभ्यो वीथिरथ्यामुखचत्वरशृङ्गाटकेभ्यो यो येनार्थी स तं गृह्णातु, पूर्वदत्तमेव यत्तन्मयेति । ये खलु पुनः कुलपुत्र सुप्रभमहानगराभ्यन्तरनिवासिनः सत्त्वाः, सर्वे ते बोधिसत्त्वा महायानसंप्रस्थिताः । तेषां यथाशयपरिशुद्ध्या इदं सुप्रभं महानगरमाभासमागच्छति, यदुत केषांचित् परीत्तं केषांचिद्विपुलं केषाचिन्मृत्तिकातलं केषाचिद्वैडूर्यमणिरत्नसंस्तृततलं केषाचिन्मृत्तिकाप्राकारं केषांचिदपराजितवस्त्रध्वजवस्त्ररत्नमहाप्राकारपरिक्षिप्तं केषांचिदाकीर्णशर्करकठल्लमुत्कूलनिकूलं श्वभ्रप्रपातबहुलम्, केषांचिदनेकमहामणिरत्नसंस्तृततलं कृतोपचारं समपाणितलजातम्, केषांचिदसंख्येयरत्नभवनविमानप्रासादकूटागारहर्म्यतलनिर्यूहगवाक्षजालार्धचन्द्रसिंहपञ्जरमणिविचित्रदर्शनीयमाभासमागच्छति । बहिर्नगरनिवासिनामपि शुद्धाशयानां कृतकुशलमूलानां पर्युपासितबहुबुद्धोत्पादानां सर्वज्ञताभिमुखानां सर्वज्ञताप्रतिशरणानां रत्नमयमाभासमागच्छति । ये मया पूर्वं बोधिसत्त्वचर्यायां चरता चतुर्भिः संग्रहवस्तुभिः संगृहीताः, मदन्येषां मृण्मयाभासमागच्छति । ( ग्व् 128 ) यदा च कुलपुत्र मद्विजतवासिनः सत्त्वा देशप्रदेशेषु ग्रामनगरनिगमराष्ट्रराजधानीषु पञ्चकषाये लोके कालस्वभावसंक्षोभितान् दशाकुशलानां कर्मपथानप्याचरितुमिच्छन्ति, तदाहं तेषामनुग्रहाय महामैत्रीपूर्वंगमं लोकेन्द्रियावर्तं नाम बोधिसत्त्वसमाधिं
समापद्ये । समनन्तरसमापन्नस्य च मे कुलपुत्र इमं समाधिम्, अथ तेषां सत्त्वानां तानि भयानि ते उपसर्गाः तानि वैराणि ते विग्रहविवादाः ते चित्तसंक्षोभाः तानि विहिंसाचित्तानि प्रशमन्ति व्युपशमन्ति निवर्तन्ते निरुध्यन्ते तद्यथापि तदस्यैव महामैत्रीपूर्वंगमस्य लोकेन्द्रियावर्तस्य बोधिसत्त्वसमाधिधर्मताप्रतिलाभेन । अपि तु कुलपुत्र, आगमय मुहूर्तं यावत् प्रत्यक्षीभविष्यसि ॥
अथ खलु महाप्रभो राजा तस्यां वेलायां महामैत्रीपूर्वंगमं लोकेन्द्रियावर्तं बोधिसत्त्वसमाधिं समापन्नः । समनन्तरसमापन्नस्य च राज्ञो महाप्रभस्य इमं महामैत्रीपूर्वङ्गमं लोकेन्द्रियावर्तं बोधिसत्त्वसमाधिम्, अथ तावदेव सुप्रभं महानगरं सदेशप्रदेशं सग्रामनगरनिगमजनपदराष्ट्रराजधानीपरिवारं षड्विकारं प्रकम्पितम् । तस्य प्रचलतस्ते ऽपि रत्नप्राकारा रत्नप्रासादा रत्नगर्भाणि रत्नगृहाणि, रत्नभवनानि रत्नविमानानि रत्नकूटागाराणि रत्ननिर्यूहा रत्नहर्म्याणि रत्नगवाक्षाः रत्नवेदिकाः रत्नतोरणानि रत्नार्धचन्द्रा रत्नसिंहपञ्चराणि रत्नखोटकानि रत्नबिम्बानि रत्नवितानानि रत्नसूत्रकिङ्किणीजालानि रत्नघण्टाः रत्नध्वजाः रत्नपताकाः रत्नतालाः संप्रचलिताः संप्रगर्जिताः संघट्टिताः । ते च संघदृमाना वल्गु मनोज्ञं श्रवणीयं शब्दमनुरवन्तो येन राजा महाप्रभः, तेनावनमन्ति स्म, प्रणमन्ति स्म । ये च ते सुप्रभस्य महानगराभ्यन्तरवासिनः, सर्वे ते प्रीतिप्रामोद्यपरिस्फुटचेतसो येन महाप्रभो राजा तेनाभिमुखाः सर्वशरीरेण प्रणमन्ति स्म । ये चास्य विजितवासिनः सत्त्वाः सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु, ते ऽपि सर्वे प्रह्लादितकायचित्ताः प्रीतिप्रामोद्यजाताः येन राजा महाप्रभस्तेनाभिमुखाः प्रणेमुः । ये च तिर्यग्योनिगताः सत्त्वाः, ते ऽपि सर्वे अन्योन्यमैत्रचित्ता हितचित्ता येन राजा महाप्रभस्तेनाभिप्रणताः । यानि च पर्वतशिखराणि तदन्ये चाप्युन्नताः पृथिवीप्रदेशाः, ते ऽपि सर्वे येन राजा महाप्रभस्तेनाभिनताः । ये च पुष्पवृक्षाः फलवृक्षाः पत्रवृक्षा बीजग्रामभूतग्रामशस्यतृणगुल्मौषधिवनस्पतयो वा, ते ऽपि सर्वे येन महाप्रभो राजा तेनाभिनताः । यानि चास्य विजिते सर्वोत्ससरोह्रदतडागप्रस्रवणनदीपुष्करिण्युदपानानि, तान्यपि सर्वाणि येन राजा महाप्रभस्तेनाभिमुखं वेगं प्रामुञ्चन् ॥
दश च नागराजसहस्राणि महाकालागरुधूपपटलगन्धोदकमेघैर्विचित्रविद्युल्लताज्वालावभासितैरभिगर्जद्भिः सूक्ष्माभिर्गन्धोदकधाराभिश्चतुर्दिशमभिप्रावर्षन् । दश च देवपुत्रसहस्राणि शक्रसुयामसंतुषितसुनिर्मितवशवर्तिदेवराजप्रमुखानि अन्तरिक्षे गतानि, दिव्यतूर्यमेघकोटीनियुतशतसहस्रसंप्रवादितोदारप्रमुक्तनिर्घोषालंकारम्, असंख्येयाप्सरोगणदिव्यसंगीतिमेघनिर्नादमनोज्ञमधुरनिर्घोषालंकारम्, असंख्येयदिव्यविचित्ररत्नपुष्पमेघप्रवर्षणालंकारम्, ( ग्व् 129 ) असंख्येयनानावर्णदिव्यगन्धप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नविचित्रमाल्यमेघप्रवर्षणालंकारम्, असंख्येयनानावर्णदिव्यचूर्णमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नविचित्राभरणमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नवस्त्रविचित्रविमलसूक्ष्मनानावर्णमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्ननानाविचित्रच्छत्रमेघप्रवर्षणालंकारम्, असंख्येयदिव्यसिंहकान्तरत्नध्वजमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नप्रभाज्वालोज्ज्वलितरत्नपताकामेघप्रवर्षणालंकारं गगनतलमध्यतिष्ठन् महाप्रभस्य राज्ञः पूजाकर्मणे । ऐरावणश्च महानागराजा सर्वं गगनतलमसंख्येयदिव्यनानारत्नपद्ममेघसंछन्नमध्यतिष्ठदसंख्येयदिव्यमणिरत्नहाराभिप्रलम्बितम्, असंख्येयदिव्यरत्नपट्टदामकलापाभिप्रलम्बितम्, असंख्येयदिव्यरत्नविचित्रमालागुणाभिप्रलम्बितालंकारम्, असंख्येयदिव्यरत्नविचित्राभरणमालाभिप्रलम्बितालंकारम्, असंख्येयदिव्यविचित्ररत्नकुसुमदामाभिप्रलम्बितालंकारम्, असंख्येयनानावर्णदिव्यगन्धराजसर्वदिक्स्फरणगन्धमेघसंछादितालंकारम्, असंख्येयदिव्यरत्नवस्त्रनानावर्णमेघप्रवर्षणालंकारम्, असंख्येयदिव्यधूपबिम्बपटलमेघप्रवर्षणालंकारम्, असंख्येयदिव्यनानावर्णचूर्णमेघसूक्ष्मप्रवर्षणालंकारम्,

असंख्येयाप्सरोगणदिव्यतूर्यसंगीतिमधुरमनोज्ञनिर्घोषसंप्रयुक्तस्तुतिमेघसंछादिताभिप्रवर्षणालंकारं सर्वगगनतलमध्यतिष्ठत् अचिन्त्यनागेन्द्रवृषभिताविकुर्वितप्रभावेन । असंख्येयानि च राक्षसेन्द्रशतसहस्राणि जलधरनिवासीनि चातुर्द्वीपिकलोकधात्वधिष्ठानधरणितलनिवासीनि च मांसरुधिरभक्षाणि जलचरमृगपशुपक्षिगवाश्वगजगर्दभनरनारीगणोजोहारीणि प्रदुष्टमनःसंकल्पानि नित्यं जगद्विहेठाविहिंसाप्रतिपन्नानि सर्वाणि परममैत्रहितचित्तानि सुप्रसन्नमुखवर्णानि सर्वजगदविहिंसाविहेठापरमाणि परलोकसापेक्षाणि कृताञ्जलिपुटानि परमप्रीतिचित्तानि येन राजा महाप्रभस्तेनाभिप्रणतान्यभूवन्, अतुल्यं च कायिकचैतसिकमुदारं सुखं प्रत्यनुभवन्ति स्म । अनेकानि च यक्षकुम्भाण्डपिशाचभूताधिपतिशतसहस्राणि परममैत्रहितचित्तानि सुप्रसन्नमुखवर्णानि सर्वजगदविहिंसाविहेठापरमाणि परलोकसापेक्षाणि कृताञ्जलिपुटानि परमप्रीतिचित्तानि येन राजा महाप्रभः, तेनाभिप्रणतान्यभूवन्, अतुल्यं च कायिकचैतसिकमुदारं सुखं प्रत्यनुभवन्ति स्म । एवं सर्वावत्यां चातुर्द्वीपिकायां लोकधातौ सर्वसत्त्वानां सर्वभयोपद्रवोपसर्गवैरविग्रहविवादाश्चित्तसंक्षोभाविहिंसाचित्तानि प्रशाम्यन्ति व्युपशाम्यन्ति विनिवर्तन्ते निरुध्यन्ते प्रत्युदावर्तन्ते । यथा चातुर्द्वीपिकायां लोकधातौ, एवं सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावद्दशसु दिक्षु दशलोकधातुकोटीनियुतशतसहस्रेषु सर्वसत्त्वानां सर्वभयोपद्रवोपसर्गवैरविग्रहविवादाश्चित्तसंक्षोभाः पापविहिंसाचित्तानि प्रशान्तान्यभूवन् । व्युपशान्तानि विनिवृत्तानि निरुद्धानि प्रत्युदावर्तान्यभूवन्, यदुत महामैत्रीपूर्वंगमस्य लोकेन्द्रियावर्तस्य बोधिसत्त्वसमाधेर्धर्मताप्रतिलम्भेन ॥
अथ खलु महाप्रभो राजा तस्मात्समाधेर्व्यूत्थाय सुधनं श्रेष्ठिदारकमेतदवोचत् - एतमहं कुलपुत्र, महामैत्रीध्वजं बोधिसत्त्वचर्याज्ञानालोकमुखं प्रजानामि । किं मया शक्यं बोधिसत्त्वानां महामैत्र्यप्रमाणच्छत्राणां सर्वलोकधातुसुखाशयस्फरणतया, सर्वजगत्परिवाराणामभिन्नपरिवारतया, ( ग्व् 130 ) सर्वजगत्परित्राणप्रसृतानां हिनोत्कृष्टमध्यमसमप्रयोगतया, धरणिसममैत्रचित्तानां सर्वजगत्संधारणप्रतिपन्नतया, पूर्णचन्द्रमण्डलसमानानां सर्वजगत्समप्रसृतपुण्यज्ञानरश्मीनामादित्यमण्डलसमानानां सर्वज्ञेयज्ञानालोकावभासनतया, महाप्रदीपकल्पानां सर्वसत्त्वचित्तगहनान्धकारविधमनतया, उदकप्रसादकमणिरत्नसदृशानां सर्वसत्त्वचित्तसरोमायाशाट्यकालुष्यापनयनतया, चिन्ताराजमणिरत्नसदृशानां सर्वजगदभिप्रायप्रणिधिपरिपूरणतया, महामारुतसदृशानां सर्वजगत्समाधिसमापत्तिभवनसर्वज्ञतामहापुरपरिसंस्थापनतया चर्यां ज्ञातुं गुणान् वा वक्तुम्, पुण्यपर्वतो वा तुलयितुम्, गुणज्योतिर्गणगगनं वा अवलोकयितुम्, महाप्रणिधिवायुमण्डलं वा परिच्छेत्तुम्, धर्मसमताबलं वा प्रमातुम्, महायानव्यूहवर्णान् वा परिदीपयितुम्, समन्तभद्रचर्यानयविशेषान् वा वक्तुम्, महाबोधिसत्त्वसमाधिभावनाद्वारं वा विवरितुम्, महाकरुणामेघान् वा संवर्णयितुम् ॥
गच्छ कुलपुत्र, इयमिहैव दक्षिणापथे स्थिरा नाम राजधानी । तत्र अचला नामोपासिका प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको महाप्रभस्य राज्ञः पादौ शिरसाभिवन्द्य महाप्रभं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महाप्रभस्य राज्ञो ऽन्तिकात् प्रक्रान्तः

मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc