गण्डव्यूहसूत्र · अध्याय 5
अथ खलु मञ्जुश्रीः कुमारभूत इमा गाथा भाषित्वा सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषितव्यां मन्यसे । दुर्लभास्ते कुलपुत्र सत्त्वा ये ऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयन्ति । अतस्ते दुर्लभतमाः सत्त्वा ये ऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषन्ते । तेन हि कुलपुत्र भूतकल्याणमित्रेषु निश्चयप्राप्तेन बोधिसत्त्वेन भवितव्यं सर्वज्ञज्ञानप्रतिलम्भाय । अपरिखिन्नमानसेन भवितव्यं कल्याणमित्रपर्येष्टिषु । अतृप्तेन भवितव्यं कल्याणमित्रदर्शनेषु । प्रदक्षिणग्राहिणा ते भवितव्यं कल्याणमित्रानुशासनीषु । अप्रतिहतेन भवितव्यं कल्याणमित्रोपायकौशल्यचरितेषु । अस्ति कुलपुत्र इहैव दक्षिणापथे रामावरान्तो नाम जनपदः । तत्र सुग्रीवो नाम पर्वतः । तत्र मेघश्रीर्नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् । कथं बोधिसत्त्वचर्या प्रारभ्या? कथं बोधिसत्त्वचर्यायां चरितव्यम्? कथं बोधिसत्त्वचर्या परिपूरयितव्या? कथं परिशोधयितव्या? कथमवतर्तव्या? कथमभिनिर्हर्तव्या? कथमनुसर्तव्या? कथमध्यालम्बितव्या? कथं विस्तारयितव्या? कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्? स ते कुलपुत्र कल्याणमित्रः समन्तभद्रचर्यामण्डलमुपदेक्ष्यति ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अनेकशतसहस्रकृत्वो ऽवलोक्य कल्याणमित्रप्रेमानुगतचित्तः कल्याणमित्रादर्शनमसहमानो ऽश्रुमुखो रुदन् मञ्जुश्रियः कुमारभूतस्यान्तिकात्प्रक्रान्तः
4 मेघश्रीः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन रामावरान्तो जनपदस्तेनोपजगाम । उपेत्य रामावरान्ते जनपदे विचरन् पूवकुशलमूलसंभवो दारकर्माधिष्ठानमनोभिरुचितान् भोगान् परिभुञ्जानो येन सुग्रीवः पर्वतस्तेनोपसंक्रम्य सुग्रीवं पर्वतमधिरुह्य मेघश्रियं भिक्षुमनुगवेषमाणः पूर्वां दिशं निर्ययौ । एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामपि दिशं निर्ययौ । मेघश्रियं भिक्षुमनुगवेषमाणः ऊर्ध्वतो ऽप्यवलोकयति स्म, अधस्तादपि । स सप्ताहस्यात्ययान्मेघश्रियं भिक्षुमपश्यदन्यतमस्मिन् पर्वतशिखरोत्सङ्गे चंक्रम्यमाणम् । स येन मेघश्रीर्भिक्षुस्तेनोपसंक्रम्य मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुं प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - यत्खलु आर्यो जानीयात् - मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जाने कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं बोधिसत्त्वचर्या प्रारब्धव्या, कथं बोधिसत्त्वचर्यायां चरितव्यम्, कथं बोधिसत्त्वचर्या परिपुरयितव्या, कथं परिशोधयितव्या, कथमवतर्तव्या, कथमभिनिर्हर्तव्या, कथमनुसर्तव्या, कथमध्यालम्बितव्या, कथं विस्तारयितव्या, कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः कथं बोधिसत्त्वा निर्यान्ति अनुत्तरायां सम्यक्संबोधौ । एवमुक्ते मेघश्रीर्भिक्षुः सुधनं श्रिष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिपृच्छसि । दुष्करं हि एतत् कुलपुत्र परमदुष्करं यदुत बोधिसत्त्वचर्यापरिमार्गणं बोधिसत्त्वोगोचरपरिमार्गणं बोधिसत्त्वनिर्याणविशुद्धिपरिमार्गणं बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं बोधिसत्त्वचर्यावैपुल्यविशुद्धिपरिमार्गणं बोधिसत्त्वाभिज्ञानिर्हारविशुद्धिपरिमार्गणं बोधिसत्त्वविमोक्षसंदर्शनं बोधिसत्त्वलोककृपाप्रचारसंदर्शनं बोधिसत्त्वयथाशयजगदनुवर्तनं बोधिसत्त्वसंसारनिर्वाणमुखसंदर्शनं बोधिसत्त्वानां संस्कृतासंस्कृतदोषभयानुपलेपविचारपरिमार्गणम् । अहं कुलपुत्र अधिमुक्तिबलाधिपतेयतया चक्षुर्मतिश्रद्धानयनविशुद्धया
अपराङ्मुखज्ञानालोकावभासेन समन्ताभिमुखावलोकनया समन्तविषयाप्रतिहतेन दर्शनेन सर्वावरणविगतेन विपश्यिना कौशल्येन समन्तचक्षुर्विषयपरिशुद्धया शरीरविशुद्ध्या सर्वदिक्स्रोतःप्रसराभिमुखप्रणतेन कयप्रणामकौशल्येन सर्वबुद्धधर्ममेघसंधारनेन च धारणीबलेन सर्वदिक्क्षेत्राभिमुखांस्तथागतान् पश्यामि । यदुत पूर्वस्यां दिशि एकं तथागतं पश्यामि । द्वावपि, दशापि, बुद्धशतमपि, बुद्धसहस्रमपि, बुद्धशतसहस्रमपि, बुद्धकोटीमपि, बुद्धकोटीशतमपि, बुद्धकोटीसहस्रमपि, बुद्धकोटिशतसहस्रमपि, बुद्धकोटीनियुतशतसहस्रमपि, यावदपरिमाणानप्रमेयानसंख्येयानचिन्त्यानतुल्यानसमन्तानसीमाप्राप्तानमाप्याननभिलाप्यानपि ( ग्व् 49 ) तथगतान् पश्यामि । जम्बुद्वीपपरमाणुरजःसमानपि तथागतान् पश्यामि । चातुर्द्वीपकलोकधातुपरमाणुरजःसमानपि, साहस्रद्विसाहस्रत्रिसाहस्रमहासाहस्रबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । दशबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । शतबुद्धक्षेत्रपरमाणुरजःसमानपि, बुद्धक्षेत्रसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतपरमाणुरजःसमानपि, बुद्धाक्षेत्रकोटीसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमानपि, यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । यथ पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वं दिशि एकमपि तथागतं पश्यामि । यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । एकैकस्यां दिशि अनुविलोकयन् नानावर्णांस्तथागतान् पश्यामि नानासंस्थानान् नानाविकुर्वितान् नानावृषभिताविक्रीडितान् विचित्रपर्षन्मण्डलव्यूहान् अनेकवर्णाननेकवर्णरश्मिजालावभासमुक्तान् विविधबुद्धक्षेत्रविशुद्धिभवनव्यूहान् नानविधायुःप्रमाणविशुद्धान् यथाशयजगद्विज्ञापनान् विविधाभिसंबोधिविशुद्धिमुखविकुर्वितान् बुद्धर्षभसिंहनादविनर्दितांस्तथागतान् पश्यामि । अस्या अहं कुलपुत्र समन्तमुखसर्वारम्बणविज्ञप्तिसमवसरणालोकाया
बुद्धानुस्मृतेर्लाभी । किं मया शक्यं बोधिसत्त्वानामनन्तज्ञानमण्डलविशुद्धानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, ये ते समन्तावभासमण्डलबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वतथागतमण्डलसर्वबुद्धक्षेत्रभवनविशुद्धिव्यूहाभिमुखपश्यनतया । ये ते सर्वजगत्समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा यथाशयजगद्विज्ञप्तितथागतदर्शनविशुद्ध्या । ये ते दशबलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा दशतथागतबलाप्रमाणानुसरणतया । ये ते धर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा धर्मश्रवणाकारसर्वतथागतकायमेघावलोकनतया । ये ते दिग्विरोचनगर्भबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वदिक्समुद्रेष्वसंभिन्नबुद्धसमुद्रावतरणतया । ये ते दसदिक्प्रवेशबुद्धानुस्मृतिमुखप्रतिलब्धाः सूक्ष्मावलम्बनसर्वतथागतविकुर्वितवृषभितावतरणतया । ये ते कल्पसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अवरहितसर्वकल्पतथागतदर्शनविज्ञप्त्या । ये ते कालसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वकालतथागतकालदर्शनसंवासाविजहनतया । ये ते क्षेत्रसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धक्षेत्राभ्युद्गतानभिभूतबुद्धकायदर्शनविज्ञप्त्या । ये ते त्र्यध्वसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्त्र्यध्वतथागतमण्डलस्वचित्ताशयसमवसरणतया । ये ते आरम्बणसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वारम्बणतथागतपरंपरासमुदागमदर्शनविज्ञप्त्या । ये ते शान्तसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणसर्वलोकधातुषु सर्वतथागतपरिनिर्वाणविज्ञप्त्या । ये ते विगमसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकदिवसे सर्वावासेषु सर्वतथागतप्रक्रमणविज्ञप्त्या । ( ग्व् 50 ) ये ते विपुलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकैकतथागतधर्मधातुपर्यङ्कपरिस्फुटबुद्धशरीरविज्ञप्त्या । ये ते सूक्ष्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकवालपथेन अनभिलाप्यबुद्धोत्पादारागणावतरणतया । ये ते व्यूहसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणे सर्वलोकधातुषु अभिसंबोधिविकुर्वितसंदर्शनविज्ञप्त्या । ये ते कार्य समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धोत्पादधर्मचक्रविकुर्वितज्ञानावभासप्रतिलाभतया । ये ते समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः स्वचित्ताशयदर्शनसर्वतथागतप्रतिभासप्राप्त्या । ये ते
कर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वजगद्यथोपचितकर्मप्रतिबिम्बसंदर्शनतया । ये ते विकुर्वितसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अशेषसर्वधर्मधातुनलिनीपद्मपरिस्फुटविपुलबुद्धविकुर्वितदर्शनसमन्तदिगभिमुखविज्ञप्त्या । ये ते गगनसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्तथागतबिम्बमेघरचितधर्मधातुगगनालोकनतया ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे सागरमुखो नाम दिक्प्रत्युद्देशः । तत्र सागरमेघो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ, कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । स ते कुलपुत्र कल्याणमित्रं परिदीपयिष्यति । कुशलमूलसंभारहेतुं समवतारयिष्यति । विपुलां संभारभूमिं संजनयिष्यति । विपुलं कुशलमूलवेगबलं संवर्णयिष्यति । विपुलं बोधिचित्तसंभारहेतुं जनयिष्यति । विपुलं महायानावभासहेतुमुपस्तम्भयिष्यति । विपुलं पारमितासंभारबलं प्रभावयिष्यति । विपुलं चर्यासागरावतारनयं परिशोधयिष्यति । विपुलं प्रणिधानमण्डलं विशोधयिष्यति । विपुलं समन्तमुखनिर्याणव्यूहं संवर्धयिष्यति । विपुलं महाकरुणाबलं प्रवर्धयिष्यति ॥
अथ खलु सुधनः श्रेष्ठिदारको मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य् अवलोक्य च मेघश्रियो भिक्षोरन्तिकात् प्रक्रान्तः
5 सागरमेघः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रानुशासनीमनुविचिन्तयन्, तं लोकमनुस्मरन्, तं बोधिसत्त्वविमोक्षं विचारयन्, तं बोधिसत्त्वसमाधिनयमनुमार्जन्, तं बोधिसत्त्वसागरनयमवलोकयन्, तं बुद्धमण्डलमभिमुखमधिमुच्यमानः, तं बुद्धदर्शनदिशमभिलषन्, तं बुद्धसमुद्रमनुविचिन्तयन्, तां बुद्धपरंपरामनुस्मरन्, तं बुद्धनयानुगममनुगच्छन्, तं बुद्धगगनमनुविलोकयन्, अनुपूर्वेण येन सागरमुखं दिक्प्रत्युद्देशो येन च सागरमेघो भिक्षुस्तेनोपसंक्रम्य सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सागरमेघस्य भिक्षोः पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - अहमार्य अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितो ऽनुत्तरं ज्ञानसागरमवतर्तुकामः । न च जाने कथं बोधिसत्त्वा विवर्तन्ते लोकवंशात् । आवर्तन्ते तथागतवंशे । उत्तरन्ति संसारसागरात् । अवतरन्ति सर्वज्ञज्ञानसागरम् । उच्चलन्ति बालपृथग्जनभूमीः । संपद्यन्ते तथागतकुले । विवर्तन्ते संसारस्रोतसः । प्रवर्तन्ते बोधिसत्त्वचर्यास्रोतसि, निवर्तन्ते संसारसागरगतिचक्रात् । आवर्तन्ते बोधिसत्त्वचर्याप्रणिधानचक्रम् । प्रमर्दयन्ति सर्वमारमण्डलम् । द्योतयन्ति सर्वबुद्धमण्डलप्रभवम् । शोषयन्ति तृष्णासागरम् । विवर्धयन्ति महाकरुणातोयम् । पिथन्ति सर्वाक्षणापायदुर्गतिविनिपातद्वाराणि । विवृश्चन्ति स्वर्गनिर्वाणद्वारम्, विनिर्भिन्दन्ति त्रैधातुकनगरकपाटम् । विवृण्वन्ति सर्वज्ञतापुरद्वारकपाटम् । विजहन्ति सर्वोपकरणतृष्णाम् । उत्पादयन्ति सर्वजगत्संग्रहप्रणिधिम् ॥
एवमुक्ते सागरमेघो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यत्त्वया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न हि कुलपुत्र अनवरोपितकुशलमूलानां सत्त्वानां बोधाय चित्तमुत्पद्यते । समन्तमुखकुशलावभासप्रतिलब्धानामुपायगर्भमार्गसमाधिज्ञानालोकावभासितानां विपुलपुण्यसागरसंभृतसंभाराणां सर्वशुक्लोपचयाप्रतिप्रस्रब्धानां सर्वकल्याणमित्रोपस्तब्धोपायापरिखिन्नानां कायजीवितनपेक्षाणां सर्ववस्तूद्ग्रहविगतानामनिम्नोन्नतपृथिवीसमचित्तानामा प्रकृतिकृपास्नेहानुगतानां सर्वभवगतिसंवासाभिमुखानां तथागतविषयाभिलाषिणां सत्त्वानां बोधाय चित्तमुत्पद्यते । यदुत महाकरुणाचित्तं सर्वसत्त्वपरित्राणाय, महामैत्रीचित्तम् सर्वजगत्समयोगतायै, सुखचित्तं सर्वजगद्दुःखस्कन्धव्युपशमनाय, हितचित्तं सर्वाकुशलधर्मविनिवर्तनतायै, दयाचित्तं सर्वभयारक्षायै, असङ्गचित्तं सर्वावरणविनिवर्तनतायै, विपुलचित्तं सर्वधर्मधातुस्फरणतायै, अनन्तचित्तमाकाशधातुसमवसरणसमतानुगमाय, विमलचित्तं सर्वतथागतदर्शनविज्ञप्त्यै, विशुद्धचित्तं त्र्यध्वावशेषज्ञानस्फरणतायै, ज्ञानचित्तं सर्वावरणज्ञानविनिवर्तनतायै सर्वज्ञज्ञासागरावतरणतायै ॥
अहं कुलपुत्र पूर्णानि द्वादश वर्षाणि इह सागरमुखे दिक्प्रत्युद्देशे विहरामि इमं महासागरमारम्बणीकृत्य आमुखीकृत्य, यदुत महासागरस्य विपुलाप्रमाणतामनुविचिन्तयन् विमलप्रसन्नतां च गम्भीरदुरवगाहतां च अनुपूर्वनिम्नसुस्थितां च अनेकरत्नाकरविचित्रतां च वारिस्कन्धाप्रमाणतां च अचिन्त्योदारवर्णविमात्रतां च अनन्तभूतां च विचित्रोदारप्रणाधिवासनतां ( ग्व् 52 ) च महामेघप्रतिच्छन्नतां च अन्तरापुर्णतां च अनुविचिन्तयन् । तस्य मम कुलपुत्र एवं भवति - अस्ति न पुनरन्यः कश्चिदिह लोके यो ऽस्मान्मनासागराद्विपुलतरश्च विस्तीर्णतरश्च अप्रमाणतरश्च गम्भीरतरश्च विचित्रतरश्च । तस्य मम कुलपुत्र एवं योनिशश्चिन्तामनसिकारप्रयुक्तस्य महासागरस्याधस्तान्महापद्मं प्रादुरभूत् । अपराजितमणिरत्नेन्द्रनीलमणिवज्रदण्डं महावैडूर्यमणिईरत्नावतंसकं जाम्बूनदसुवर्णविमलविपुलपत्रं कालानुसारिचन्दनकलिकाव्यूहम् अश्मगर्भरत्नकेसरोपेतं सागरविपुलविस्तीर्णप्रमाणं दशासुरेन्द्रशतसहस्रसंधारितदण्डगर्भं दशमणिरत्नशतसहस्रविचित्ररत्नजालसंछन्नं दशनागेन्द्रशतसहस्रगन्धोदकमेघाभिप्रवर्षितं दशगरुडेन्द्रशतसहस्रमुखप्रलम्बितपट्टमणिदामहारं दशकिन्नरेन्द्रशतसहस्रहितचित्तसंप्रेक्षितं दशमहोरगेन्द्रशतसहस्रमुखप्रणतोपचारं दशराक्षसेन्द्रशतसहस्रप्रणतकायाभिपूजितं दशगन्धर्वेन्द्रशतसहस्रविचित्रतूर्यसंगीतिस्तुतोपचितं दशदेवेन्द्रशतसहस्रदिव्यपुष्पगन्धमाल्यधूपविलेपनचूर्णचीवरच्छत्रध्वजपताकामेघाभिप्रवर्षितं दशब्रह्मेन्द्रशतसहस्रमूर्धप्रणतोपचारं दशशुद्धावासकायिकादेवताशतसहस्रकृताञ्जलिपुटनमस्कृतं दशचक्रपरिवर्तमनुजेन्द्रशतसहस्रसप्तरत्नप्रत्युद्गताभिपूजितं दशसागरदेवताशतसहस्राभ्युद्गतनमस्कृतं दशज्योतीरसमणिरत्नशतसहस्ररश्मिव्यूहावभासितं दशपुण्यशुद्धमणिरत्नशतसहस्रसुनिश्चितविन्यस्तोपशोभितं दशवैरोचनमणिरत्नशतसहस्रविमलगर्भं दशश्रीमणिरत्नशतसहस्रमहाश्रीप्रतापनं दशविचित्रकोशमणिरत्नशतसहस्रानन्तावभासितं दशजम्बूध्वजमणिरत्नशतसहस्रसुपरिगृहितस्थितप्राप्तोपशोभितं दशवज्रसिंहमणिरत्नशतसहस्रापराजितव्यूहं दशसूर्यगर्भमणिरत्नशतसहस्रोदारोत्तप्तोपचितं दशरुचिरमणिरत्नशतसहस्रविविधवर्णोपचारं दशचिन्ताराजमणिरत्नशतसहस्राक्षयव्यूहप्रभोज्ज्वलितम् । तच्च महापद्मं तथागतलोकोत्तरकुशलमूलनिर्जातं बोधिसत्त्वाशयंसंप्रस्थितं सर्वदिगभिमुखविज्ञपनं
मयागतधर्मनिर्यातं निरामगन्धकर्मसंभुतम् अरणाधर्मतानयव्यूहं स्वप्नसमधर्मतासमुदाचारम् अनभिसंस्कारधर्मनयमुद्रितम् असङ्गधर्मनयानुगतं समन्ताद्दशदिक्कुलधर्मधातुस्फरणं बुद्धविषयप्रभावभासनाकुलम्, यस्य न शक्यमसंख्येयैउरपि कल्पशतसहस्रैराकारगुणसंस्थानवर्णव्यूहपर्यन्तो ऽधिगन्तुम् । तच्च महापद्मं तथागतकायपर्यङ्कपरिष्फुटं परिपूर्णं पश्यामि । तं च तथागतकायमित उपादाय यावद्भवाग्रपरमं पश्यामि । तस्य च तथागतस्य अचिन्त्यमासनव्यूहं पश्यामि । अचिन्त्यपर्षन्मण्डलव्यूहान् । अचिन्तियान् प्रभामण्डलव्यूहान् । अचिन्त्यां लक्षणसंपदमचिन्त्यामनुव्यञ्जनचित्रतामचिन्त्यां बुद्धवृषभिताम् । अचिन्त्यं बुद्धविकुर्वितम् । अचिन्त्यां तथागतवर्णविशुद्धिम् । अचिन्त्यामवलोकितमूर्धिताम् । अचिन्त्यां प्रभूतजिह्वतां पश्यामि । अचिन्त्यान् बुद्धसरस्वतीव्यूहान् शृणोमि । अचिन्त्यां बलाप्रमाणताम्, अचिन्त्यां वैशरद्यव्यूहविशुद्धिम्, अचिन्त्यं प्रतिसंविद्बलाभिनिर्हारमनुगच्छामि । अचिन्त्यं पूर्वबोधिसत्त्वचर्यासमुदागममनुस्मरामि । अचिन्त्यमभिसंबोधिविकुर्वितं पश्यामि । अचिन्त्यं धर्ममेघाभिनिगर्जितम्, अचिन्त्यं समन्तदर्शनविज्ञप्त्याश्रयव्यूहं ( ग्व् 53 ) शृणोमि । अचिन्त्याप्रमाणां वामदक्षिणेन शरीरविभक्तिम्, अचिन्त्यं सत्त्वार्थकायपरिप्राप्तिं पश्यामि ॥
स च मे तथागतो दक्षिणं पाणिं प्रसार्य शिरसं परिमार्ज्य समन्तनेत्रं नाम धर्मपर्यायं सर्वतथागतविषयं बोधिसत्त्वचर्याप्रभावनं सर्वधर्मधातुतलप्रभेदावभासनं सर्वधर्ममण्डलसमवसरणावभासनं सर्वक्षेत्रमण्डलाकारविशुद्ध्यालोकं सर्वपरप्रवादिमण्डलविकिरणं सर्वमारकलिप्रमर्दनं सर्वसत्त्वधातुसंतोषणं सर्वसत्त्वचित्तगहनावभासनं सर्वसत्त्वयथाशयविज्ञापनं सर्वसत्त्वेन्द्रियचक्रपरिवर्तप्रभासनं प्रकाशयति । तं चाहं समन्तनेत्रं धर्मपर्यायमुद्गृह्णामि संधारयामि प्रवर्तयामि पुअनिध्यायामि एवंरूपेणोद्गहेण, यस्य लिख्यमानस्य महासमुद्राप्स्कन्धप्रमाणा च मषिः, सुमेरुपर्वतराजमात्रकलमसंचयः क्षयं व्रजेत् । न च तस्य धर्मपर्यायस्य एकैकस्मात्परिवर्तादेकैकस्माद्धर्मद्वाराकैकस्माद्धर्मनयादेकैकस्माद्धर्मयोनेः एकैकस्माद्धर्मपदप्रभेदात् क्षय उपलभ्यते, न ऊनत्वं वा पर्यादानं वा पर्यवस्थानं वा पर्यन्तनिष्ठा वा ॥
इति हि कुलपुत्र पूर्णानि द्वादश वर्षाण्यहमिमं समन्तनेत्रं धर्मपर्यायमुद्गृहीतवान् । एवंरूपेणोद्गहेण यदेकदिवसेन असंख्येयन् परिवर्तान् पर्यवाप्नोमि श्रुतोद्गहणधारण्यालोकावभासेन । असंख्येयान् परिवर्तानवतरामि शान्तमुखधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् अवतरामि शान्तमुखधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् समवसरामि अनन्तावर्तधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् विभावयामि प्रतिचिनोमि भूम्यवचारणानुगमधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् पर्याददामि तेजोवतीधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् अभिनिर्हरामि पद्मव्यूहधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् संप्रकाशयामि स्वरविविक्तधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् प्रतिभजामि गगनगर्भधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् प्रविस्तरामि ज्योतिषकूटधारण्यालोकावभासेन । असंख्येयान् परिवर्तान् परिसंस्थापयामि सागरगर्भधारण्यालोकावभासेन । ये च मे केचित् सत्त्वा उपसंक्रामन्ति पूर्वस्यां दिशि देवा वा देवेन्द्रा वा नागा वा नागेन्द्रा वा यक्षा वा यक्षेन्द्रा वा असुरा वा असुरेन्द्रा वा गरुडा वा गरुडेन्द्रा वा महोरगा वा महोरगेन्द्रा वा मनुष्या वा मनुष्येन्द्रा वा ब्रह्माणो वा ब्रह्मेन्द्रा वा, तान् सर्वानत्रैव समन्तनेत्रे तथागतबोधिसत्त्वचर्यावभासे धर्मपर्याये प्रतिष्ठापयामि निवेशयामि । सर्वेषां च तेषामेव समन्तनेत्रं धर्मपर्यायं रोचयामि निरूपयामि परिदीपयामि संवर्णयामि संदर्शयामि विभजामि विस्तारयामि उत्तानीकरोमि विवरामि प्रमुञ्चामि अवभासयामि । यथा पुर्वस्यां दिशि, एवं दक्षिणायाः पश्चिमाया उत्तराया उत्तरपूर्वायाः पुर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध उर्ध्वायाश्च दिशः ये केचित् सत्त्वा उपसंक्रामन्ति - पूर्ववत् ॥
एतमहं कुलपुत्र, एकं धर्मपर्यायं जानामि । किं मया शक्यं बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुं सर्वबोधिसत्त्वचर्यासमुद्रावतीर्णानां परिशुद्धप्रणिध्यनुगमेन, सर्वप्रणिधानसागरावतीर्णानां सर्वकल्पसंवासव्यवच्छेदाय, सर्वसत्त्वसंसारावतीर्णानां यथाशयचर्यानुवर्तनतायैः सर्वजगच्चित्तसागरावतीर्णानामज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानामसङ्गदशबलज्ञानावलोकसंजननतायै, सर्वसत्त्वेन्द्रियसागरावतीर्णानां परिपाचनविनयकालानतिक्रमणतायै, सर्वक्षेत्रसागरावतीर्णानां सर्वक्षेत्रविशुद्धिप्रणिध्यभिनिर्हारेण, सर्वबुद्धसागरावतीर्णानां तथागतपूजोपस्थानप्रणिधिबलेन, सर्वधर्मसागरावतीर्णानां ज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानां प्रतिपत्यनुगमेन, सर्वजगन्मन्त्रसागरावतीर्णानां सर्वमन्त्रेसु धर्मचक्रप्रवर्तनाभिनिर्हरणतायै ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे इतः षष्टियोजनैः सागरतीरं नाम लङ्कापथम् । तत्र सुप्रतिस्थितो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या ॥
अथ खलु सुधनः श्रेष्ठिदारकः सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अवलोक्य सागरमेघस्य भिक्षोरन्तिकात् प्रक्रान्तः
6 सुप्रतिष्ठितः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रानुशासनी तं च समन्तनेत्रं धर्मपर्यायमनुस्मरन्, तच्च तथागतविकुर्वितमनुविचिन्तयन्, तांश्च धर्मपदव्यञ्जनमेघान् धारयन्, तांश्च धर्ममुखसागरानवतरन्, तं च धर्मविधिमनुविलोकयन्, तांश्च धर्मावर्तनयानवगाह्यमानः, तच्च धर्मगगनं समवसरन्, तच्च धर्ममण्डलं परिशोधयन्, तं च धर्मरत्नद्वीपमनुविचारयन्, अनुपूर्वेण येन सागरतीरं लङ्कापथस्तेनोपसंक्रम्य पूर्वां दिशमवलोकयामास सुप्रतिष्ठितस्य भिक्षोर्दर्शनकामतया । एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामध ऊर्ध्वां दिशमवलोकयामास सुप्रतिष्ठितस्य भिक्षोर्दर्शनकामतया । सो ऽपश्यत्सुप्रतिष्ठितं भिक्षुं गगनतले चंक्रम्यमाणमसंख्येयदेवताशतसहस्रपरिवृतम्, तच्च गगनतलं दिव्यपुष्पमेघाभिकीर्णमद्राक्षीदसंख्येयदिव्यतूर्यमेघनिर्घोषम्, असंख्येयपट्टपताकालंकारं देवेन्द्रैः सुप्रतिष्ठितस्य भिक्षोः पूजकर्मणि । अचिन्त्यकालागुरुमेघोन्नतनिगर्जनं च गगनतलमपश्यत् नागेन्द्रैः । असंख्येयदिव्यमनोज्ञवचनोपचारस्तुतिसर्ववाद्यतूर्यसंगीतिनिर्घोषांश्च किन्नरेन्द्रैः संप्रयोजितान् गगनतलादश्रौषीत् । अचिन्त्यांश्च सूक्ष्मस्फुटवस्त्रमेघान् गगनतले प्रीतिमनोभिर्महोरगेन्द्रैः प्रहितान् प्रसृतानपश्यत् सुप्रतिष्ठितस्य भिक्षोः स्पृहमाणरूपैः । अचिन्त्यांश्च मणिरत्नमेघान् असुरेन्द्रगगनतलमधिष्ठितान् अचिन्त्यगुणव्यूहावभासमपश्यत् । अचिन्त्यांश्च गरुडेन्द्रगणानुदारमानवरूपबलसंस्थानान् गरुडेन्द्रकन्यापरिवारान् अविहिंसापरमान् प्राञ्जलीभूतान् गगनतले ऽपश्यत् । अचिन्त्यानि च यक्षेन्द्रशतसहस्राणि सपरिवाराणि विकृतशरीराणि गगनतलगतानपश्यत् सुप्रतिष्ठितस्य भिक्षोर्मैत्र्याधिपतेयतया । अचिन्त्यानि च राक्षसेन्द्रशतसहस्राणि सपरिवाराणि गगनतले अनुपरिवर्तमानानि सुप्रतिष्ठितस्य भिक्षोरारक्षाप्रतिपन्नान्यपश्यत् । अचिन्त्यानि च ब्रह्मेन्द्रशतसहस्राणि गगनतले कृताञ्जलिपूटानि अभिप्रेतमनोज्ञवचनोपचारस्तुतिप्रत्युदाहारप्रयुक्तान्यपश्यत् । अचिन्त्यानि च शुद्धावासकायिकदेवताशतसहस्राणि गगनतले विमानगतान्यपश्यत् सुप्रतिष्ठितस्य भिक्षोः
पूजाकर्मणि ॥
अथ खलु सुधनः श्रेष्ठिदारकः सुप्रतिष्ठितं भिक्षुं गगनतले चंक्रम्यमाणं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्राञ्जलिः सुप्रतिष्ठितं भिक्षुं नमस्कृत्य एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बुद्धधर्मा अन्वेष्टव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः समुदानयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः संहर्तव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः सेवितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा भावयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा अनुवर्तितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः परिपिण्डयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्माः परिभावयितव्याः? कथं बोधिसत्त्वेन बुद्धधर्मा विशोधयितव्याः सर्वबोधिसत्त्वकार्यपरिप्रापणाय? कथं बोधिसत्त्वेन बुद्धधर्मा अनुगन्तव्याः? श्रुतं ( ग्व् 56 ) च म आर्यो बोधिसत्त्वानामवादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बुद्धधर्मेषु प्रयोक्तव्यम्, यथा प्रयुज्यमानो ऽविरहितो भवति बुद्धदर्शनेन, यथाभूतविप्रवासाय अविरहितो भवति बोधिसत्त्वदर्शनेन । सर्वबोधिसत्त्वकुशलमूलैकध्यातायै अविरहितो भवति बुद्धधर्मैः । ज्ञानानुगमायाविरहितो भवति सर्वबोधिसत्त्वप्रणिधानैः । सर्वबोधिसत्त्वकार्यपरिप्रापणाय अविरहितो भवति बोधिसत्त्वचर्यया । सर्वकल्पसंवासापरिखेदतायै अविरहितो भवति सर्वबुद्धक्षेत्रस्फरणेन । सर्वलोकधातुपरिशुद्धये अविरहितो भवति बुद्धविकुर्वितदर्शनेन । सर्वतथागतविकुर्वितविज्ञप्त्यै अविरहितो भवति संस्कृतावासेन । निर्मितोपमबोधिसत्त्वचर्यायाः सर्वभवगतिच्युत्युपपत्त्यायतनस्वशरीरानुगमनतायै अविरहितो भवति धर्मश्रवणेन । सर्वतथागतधर्ममेघसंप्रतीच्छनतायै अविरहितो भवति ज्ञानालोकेन त्र्यध्वज्ञानानुगमानुसरणतायै ॥
एवमुक्ते सुप्रतिष्ठितो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बुद्धधर्मान् सर्वज्ञताधर्मान् स्वयंभूधर्मान् परिपृच्छसि । अहं कुलपुत्र असङ्गमुखस्य बोधिसत्त्वविमोक्षस्य लाभी । एतं मे कुलपुत्र असङ्गमुखं बोधिसत्त्वविमोक्षमायूहता निर्यूहता अनुसरता विभजता विचिन्वता प्रविचिन्वता प्रतिभासयता प्रभासयता असङ्गकोटिर्नाम ज्ञानालोकः प्रतिलब्धः, यस्य प्रतिलम्भान्नास्ति मे सर्वसत्त्वचित्तचरितावभासेषु सङ्गः । नास्ति सर्वसत्त्वच्युत्युपपत्तिपरिज्ञासु सङ्गः । नास्ति पूर्वनिवासानुस्मृतिमुखावतारेषु सङ्गः । नास्त्यपरान्तकल्पसर्वजगत्संवासेषु सङ्गः । नास्ति प्रत्युत्पन्नाध्वसर्वजगद्विज्ञप्तिषु सङ्गः । नास्ति सर्वसत्त्वरुतमन्त्रसंवृतिपरिज्ञानेषु सङ्गः । नास्ति सर्वसत्त्वसंशयच्छेदेषु सङ्गः । नास्ति रात्रिंदिवक्षणमुहूर्तकालसंज्ञागतावतारेषु सङ्गः । नास्ति दशदिग्बुद्धक्षेत्रेसु अशरीरस्फरणतासु सङ्गः, यदुत अभावप्रतिष्ठितानभिसंस्कारविप्रतिलम्भेन । अस्याहं कुलपुत्र अनभिसंस्कारिकाया ऋद्धेरनुभावेन इह गगनतले चंक्रमामि, तिष्ठामि, निषीदामि, निषद्यामि, विविधानीर्यापथान् कल्पयामि, अन्तदर्धामि प्रादुर्भवामि, धूमायामि प्रज्वलामि । एको भूत्वा बहुधा भवामि, बहुधा भूत्वैको भवामि । आविर्भावं तिरोभावं प्रत्यनुभवामि । तिरःकुड्यं तिरःप्राकारमसज्जन् गच्छामि तद्यथापि नाम आकाशे । आकाशे ऽपि पर्यङ्केन क्रमामि तद्यथापि नाम पक्षी शकुनिः । पृथिव्यामपि उन्मज्जननिमज्जनं करोमि तद्यथोदके । उदके ऽप्यसज्जमानो गच्छामि तद्यथा पृथिव्याम् । धूमायामि प्रज्वलामि तद्यथापि नाम महानग्निस्कन्धः । पृथिवीमपि कम्पयामि । इमावपि चन्द्रसूर्यौ एवं महर्द्धिकौ एवं महानुभावौ एवं महौजस्विनौ पाणिना संपरिमार्जयामि । यावद्ब्रह्मलोकं काये च संवर्तयामि । गन्धधूपपटलमेघसंछन्नं लोकं कृत्वा प्रज्वलामि । सर्वरत्नार्चिमेघसंछन्नं लोकं कृत्वा सर्वजगत्सदृशनिर्मितमेघान् प्रमुञ्चामि । अनन्तवर्णप्रभाजालमेघान् प्रमुञ्चन् समन्ताद्दिशो निर्यामि - यदुत पूर्वां दिशं निर्यामि,
( ग्व् 57 ) दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामध उर्ध्वामपि दिशं निर्यामि । एकैकेन चित्तक्षेणेन पूर्वस्यां दिशि एकं लोकधातुमतिक्रमामि । द्वावपि दशापि लोकधातुशतमपि लोकधातुसहस्रमपि लोकधातुशतसहस्रमपि लोकधातुकोटीमपि लोकधातुकोटीशतमपि लोकधातुकोटीसहस्रमपि लोकधतुकोटीशतसहस्रमपि लोकधातुकोटीनियुतशतसहस्रमपि, अपरिमाणानपि लोकधातूनप्रमेयान्, असंख्येयानपि अचिन्त्यानपि अतुल्यानपि अमाप्यानपि असमन्तानपि अपर्यन्तानपि असीमाप्राप्तानपि अनभिलाप्यानभिलाप्यानपि लोकधातूनतिक्रमामि । ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु, तेषु तेषु लोकधातुप्रसरेषु, तासु तासु लोकधातुदिक्षु, तेषु तेषु लोकधातुपरिवर्तेषु, तेषु तेषु लोकधातुसमवसरणेषु, तेषु तेषु लोकधातुसंभवेषु, तेषु तेषु लोकधातुनिर्देशेषु, तेषु तेषु लोकधातुद्वारेषु, तेषु तेषु लोकधातुकल्पनिर्देशेषु, तेषु तेषु लोकधात्ववतारेषु, तेषु तेषु लोकधातुबोधिमण्डव्यूहेषु, तेषु तेषु लोकधातुपर्षन्मण्डलेषु ये बुद्धाभगवन्तो धर्मंदेशयन्ति, तेषां तथागतानामेकैकं तथागतमनन्तबुद्धक्षेत्रपरमाणुरजःसमैः कायनानात्वैरेकैकेन कायेन अनन्तबुद्धक्षेत्रपरमाणुरजःसमैः पूजामेघैः प्रवर्षन्नुपसंक्रमामि । उपसंक्रम्य पूजां करोम्यप्रतिप्रस्रब्धः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सर्वविलेपनैः सर्ववस्त्रैः सर्वध्वजैः सर्वपताकाभिः सर्ववितानैः सर्वजालैः सर्वविग्रहैः । यच्च ते बुद्ध भगवन्तो भाषन्ते देशयन्ति उदीरयन्ति संप्रकाशयन्ति संवर्णयन्ति परिदीपयन्ति उपदिशन्ति निर्दिशन्ति प्रभावयन्ति, तत्सर्वमाजानामि, उद्गृह्णामि । या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि । यथा पुर्वस्यां दिशि,
एवमेव दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि एकमपि लोकधातुमतिक्रमामि । द्वावपि दशापि लोकधातुशतमपि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि लोकधातूनतिक्रमामि । ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु तासु तासु लोकधातुविशुद्धिषु, यावत् तेषु तेषु लोकधातुषु पर्षन्मण्डलेषु धर्मं देशयन्ति, तान् सर्वान् पश्यामि । तेषां च तथागतानां पूजां करोमि सर्वपुष्पैर्यावत्सर्वपरिग्रहैः । यच्च ते बुद्धा भगवन्तो भाषन्ते यावत्प्रभावयन्ति तत्सर्वमाजानामि उद्गृह्णामि । या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि । येषां च सत्त्वानामाभासमागच्छामि, यैः समागच्छामि, ते सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ । ये च सत्त्वा ममाभासमागच्छन्ति, सूक्ष्मा वा उदारा वा हीना वा प्रणीता वा सुखिता वा दुःखिता वा, तेषां सर्वेषां तत्प्रमाणां कायमधितिष्ठामि परिपाकविनयकालानतिक्रमणतायै । ये च सत्त्वा मामुपसंक्रामन्ति तान् सर्वानत्रैव समन्तजवे ऽमोघविक्रमपर्यवसाने बोधिसत्त्वविमोक्षे प्रतिष्ठापयामि । एतमहं कुलपुत्र समन्तजवं तथागतपूजोपस्थानप्रयोगं ( ग्व् 58 ) सर्वसत्त्वपरिपाकानुकूलमसङ्गमुखं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं बोधिसत्त्वानां महासत्त्वानां महाकरुणाशीलानां महायानप्रतिपत्तिशीलानां बोधिसत्त्वमार्गाविप्रवासशीलानासङ्गशीलानां बोधिसत्त्वाशयगर्भाविपातनशीलानां बोधिचित्तापरित्यागशीलानां बुद्धधर्माध्यालम्बनशीलानां सर्वज्ञतामनसिकाराविप्रवसितशीलानां गगनसमशीलानां सर्वलोकानिश्रितशीलानामविनष्टशीलामनुपहतशीलानामखण्डशीलानामच्छिद्रशीलानामशबलशीलानामकल्माषशीलानां विशुद्धशीलानां विरजोनिर्मलशीलानां बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे वज्रपुरं नाम द्रमिडपट्टनम् । तत्र मेघो नाम द्रमिडः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथम् प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेइष्ठिदारकः सुप्रतिष्ठितस्य भिक्षोः पादौ शिरसाभिवन्द्य सुप्रतिष्ठितं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सुप्रतिष्ठितस्य भिक्षोरन्तिकात् प्रक्रान्तः
7 मेघः ।
अथ खलु सुधनः श्रेइष्ठिदारकस्तं धर्मालोकमनुस्मरन् धर्मप्रसादवेगाविष्टो बुद्धानुगतसंज्ञामनसिकारः त्रिरत्नवंशानुपच्छेदप्रयुक्तः कल्याणमित्राण्यनुस्मरन् त्र्यध्वलोकावभासितचित्तो महाप्रणिधानानुगतमनस्कारः सर्वसत्त्वधातुपरित्राणयोगप्रसृतः सर्वसंस्कृतरत्यनिश्रितचित्तो विरागवंशमुदीरयन् सर्वधर्मस्वभावनिध्यप्तिपरमः सर्वलोकधातुपरिशुद्धिप्रणिध्यनुच्चलितः सर्वबुद्धपर्षन्मण्डलानिश्रितविहारी अनुपूर्वेण वज्रपुरं नाम द्रमिडपट्टनमुपसंक्रम्य मेघं द्रमिडं पर्येषन् अद्राक्षीत् मध्येनगरं शृङ्गाटके धर्मसांकथ्याय सिंहासने निषण्णं दशानां प्राणिसहस्राणां चक्राक्षरपरिवर्तव्यूहं नाम धर्मपर्यायं संप्रकाशयमानम् ॥
अथ खलु सुधनः श्रेष्ठिदारको मेघस्य द्रमिडस्य पादौ शिरसाभिवन्द्य मेघं द्रमिडमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां संयक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथं प्रतिपत्तव्यम्? कथं बोधिसत्त्वस्य बोधिसत्त्वबोधिचित्तोत्पादो न प्रणश्यति? सर्वभवगतिषु कथमाशयो दृढीभवत्यपरिखेदतया? कथमध्याशयः परिशुद्ध्यत्यनवमर्द्यतया? कथं महाकरुणाबलं संजायते अपरिखेदतया? कथं धारणीबलमाक्रामति समन्तमुखविशुद्धतया? कथं प्रज्ञालोकः संजायते सर्वधर्मवितिमिरालोकः सर्वाज्ञानतिमिरपटविकिरणतया? कथं प्रतिसंविद्बलमाक्रामति अर्थधर्मनिरुक्तिप्रतिभानकौशलस्वरमण्डलपरिपूरये? कथं स्मृतिबलमाक्रामति सर्वबुद्धधर्मचक्रासंभिन्नसंधारणतया? कथं गतिबलं विशुध्यति सर्वधर्मदिग्गत्यालोकानुगमनुगमनतया? कथं बोधिसत्त्वस्य समाधिबलं निष्पद्यते सर्वधर्मार्थनिश्चयप्रभेदपरमतया?
अथ खलु मेघो द्रमिडो बोधिसत्त्वगौरवेण ततः सिंहासनादुत्थाय अवतीर्य सुधनस्य श्रेष्ठिदारकस्य सर्वशरीरेण प्रणिपत्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पराशिना अभ्यवकिरत् । अनर्घैश्च मणिरत्नैरुदारचन्दनचूर्णैश्चाभिप्राकिरत् । नानाचित्ररङ्गरक्तैश्च अनेकैर्वस्त्रशतसहस्रैरभिच्छादयामास । अनेकैश्च नानावर्णै रुचिरैर्मनोरमैर्गन्धपुष्पैरभ्यवकीर्य अभिप्रकीर्य अन्यैश्च विविधैः पूजाप्रकारैः पूजयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । येन कुलपुत्र अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्, स सर्वबुद्धवंशस्यानुपच्छेदाय प्रतिपन्नो भवति विरागवंशस्य यथावद्विज्ञाप्तये ऽभियुक्तः, सर्वक्षेत्रवंशस्य परिशुद्धये प्रतिपन्नः, सर्वसत्त्ववंशस्य परिपाकविनयाय प्रत्युपस्थितः, सर्वधर्मवंशस्य यथावन्निस्तीरणाय प्रयुक्तः, सर्वकर्मवंशस्याविरोधाय स्थितः सर्वबोधिसत्त्वचर्यावंशस्य परिपूरये प्रयुक्तः, सर्वप्रणिधानवंशस्याव्यवच्छेदाय संप्रस्थितः, सर्वत्र्यध्ववंशस्य ज्ञानानुगमाय प्रतिपन्नः, अधिमुक्तिवंशस्य दृढीकरणायोद्युक्तः, साधिष्ठितो भवति सर्वतथागतमण्डलेन समन्वाहृतः, सर्वबुद्धैः ( ग्व् 60 ) समतानुगतः, सर्वबोधिसत्त्वैरनुमोदितः, सर्वार्यैरभिनन्दितः, सर्वब्रह्मेन्द्रैः पूजितः, सर्वदेवेन्द्रैरारक्षितः, सर्वयक्षेन्द्रैरपचितः, सर्वराक्षसेन्द्रैः, प्रत्युद्गतः, सर्वनागेन्द्रैरभिष्टुतः, सर्वकिन्नरेन्द्रैः संवर्णितः, सर्वलोकेन्द्रैरन्वेषितः, सर्वलोकधातुत्रिविधापायगतिसमुच्छेदाय सर्वाक्षणदुर्गतिपथविनिवर्तनतायै सर्वदारिद्र्यपथसमतिक्रमाय देवमनुष्यसंपत्प्रतिलाभाय कल्याणमित्रसंदर्शनाविप्रवासाय उदारबुद्धधर्मश्रवाविकाराय बोधिचित्ताशयपरिशोधनाय बोधिचित्तहेतुसंभवसमुदयाय बोधिसत्त्वमार्गावभासप्रतिलाभाय बोधिसत्त्वज्ञानानुगमाय बोधिसत्त्वभूम्यवस्थानाय । तस्य मम कुलपुत्र एवं भवति - दुष्करकारका बोधिसत्त्वा
दुर्लभदर्शनप्रादुर्भावा आश्वासका लोकस्य । मातापितृभूता बोधिसत्त्वाः सर्वसत्त्वानाम् । अलंकारभूता बोधिसत्त्वाः सदेवकस्य लोकस्य । प्रतिशरणभूता बोधिसत्त्वा दुःखार्दितानाम् । लयनभूता बोधिसत्त्वाः सर्वजगदारक्षायै । प्राणभूता बोधिसत्त्वा विविधभयोपद्रवाणाम् । वातमण्डलीभूता बोधिसत्त्वाः सर्वजगत्त्र्यपायप्रपातसंधारणतया । धरणीभूता बोधिसत्त्वाः सर्वसत्त्वकुशलमूलविवर्धनतया । सागरभूता बोधिसत्त्वाः अक्षयपुण्यरत्नकोशगर्भतया । आदित्यभूता बोधिसत्त्वाः ज्ञानालोकावभासकरणतया । सुमेरुभूता बोधिसत्त्वाः कुशलमूलाभ्युद्गततया । चन्द्रभूता बोधिसत्त्वाः बोधिमण्डज्ञानचन्द्रोदागमनतया । शूरभूता बोधिसत्त्वाः सर्वमारसैन्यप्रमर्दनतया । वीरभूता बोधिसत्त्वाः स्वयंभूधर्मनगरानुप्राप्तये । तेजोभूता बोधिसत्त्वाः सर्वसत्त्वात्मस्नेहपर्यादानतया । मेघभूता बोधिसत्त्वाः विपुलधर्ममेघाभिसंप्रवर्षणतया । वृष्टिभूता बोधिसत्त्वाः श्रद्धादिसत्त्वेन्द्रियाङ्कुरविवर्धनतया । दाशभूता बोधिसत्त्वाः धर्मसागरतीर्थप्रदर्शनतया । सेतुभूता बोधिसत्त्वाः सर्वसत्त्वसंसारसमुद्रसंतारणतया । तीर्थभूता बोधिसत्त्वाः सर्वसत्त्वाभिगमनतया ॥
इति हि मेघो द्रमिडः सुधनस्य श्रेष्ठिदारकस्य पुरत एभिर्वचनपदैर्बोधिसत्त्वान् संवर्ण्य सुधनस्य श्रेष्ठिदारकस्य साधुकारमदात् । तस्येमां बोधिसत्त्वसंहर्षणीं वाचमुदीरयतो मुखद्वारात्तथारूपो ऽर्चिःस्कन्धो निश्चचार, येनार्चिःस्कन्धेन साहस्रो लोकधातुः स्फुटो ऽभूत् । ये च सत्त्वास्तमवभासं संजानन्ति स्म, देवमहर्द्धिका वा देवा वा, नागमहर्द्धिका वा नागा वा, यक्षमहर्द्धिका वा यक्षा वा, गन्धर्वमहर्द्धिका वा गन्धर्वा वा, असुरमहर्द्धिका वा असुरा वा, गरुडमहर्द्धिका वा गरुडा वा, किन्नरमहर्द्धिका वा किन्नरा वा, महोरगमहर्द्धिका वा महोरगा वा, मनुष्यमहर्द्धिका वा मनुष्या वा, अमनुष्यमहर्द्धिका वा अमनुष्या वा, ब्रह्ममहर्द्धिका वा ब्रह्माणो वा, ते तेनावभासेनावभासिताः सन्तो मेघस्य द्रमिडस्यान्तिकमुपसंक्रामन्तः एतेषां मेघेन द्रमिडेनाधिष्ठिताशयानां कृताञ्जलिपुटानां ह्लादितकायचित्तानाम् उदारप्रामोद्यजातानां महागौरवस्थितानां निहतमारध्वजानां मायाशाठ्यापगतानां विप्रसन्नेन्द्रियाणां मेघो द्रमिडस्तमेव चक्राक्षरपरिवर्तव्यूहं धर्मपर्यायं विस्तरेण संप्रकाशयति प्रवेदयति, प्रवेशयति, नयति, अनुगमयति, यं श्रुत्वा सर्वे ते ऽविनिवर्तनीया अभूवन् अनुत्तरायां सम्यक्संबोधौ । ( ग्व् 61 ) स पुनरपि धर्मासने निषद्य सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र सरस्वत्या धारण्यालोकस्य लाभी । सो ऽहमेकद्वित्रिसाहस्रमहासाहस्रे लोकधातौ देवानां देवमन्त्रान् प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्मन्त्रान् प्रजानामि । देवानां देवमन्त्रनानात्वम् प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रनानात्वं प्रजानामि । देवानां देवमन्त्रैकत्वम् प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रैकत्वं प्रजानामि । देवानां देवमन्त्रसंभेदं प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रसंभेदं प्रजानामि । तिर्यग्योनिगतानाम् सत्त्वानां सर्वव्यवहारमन्त्रसंज्ञाः प्रजानामि । नारकाणां सत्त्वानां मन्त्रसंज्ञाः प्रजानामि । यामलौकिकानां सत्त्वानाम् मन्त्रसंज्ञाः प्रजानामि । आर्यमन्त्रसंज्ञाः प्रजानामि । अनार्यमन्त्रसंज्ञाः प्रजानामि । बोधिसत्त्वमन्त्रसत्त्वाशयवाग्निरुक्तीः प्रजानामि । त्र्यध्वप्राप्ततथागतस्वराङ्गघोषसागरान् सर्वसत्त्वानां कथारुतमन्त्रसंप्रयुक्तानवतराम्यधिमुञ्चामि । चित्तक्षणे चित्तक्षणे यथा चेह त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वानां सर्वव्यवहारनिरुक्तिमन्त्रसंज्ञासागरमवतरामि, तथा पूर्वस्यां दिशि लोकधातुकोटीनियुतशतसहस्रेषु अप्रमाणेषु असंख्येयेषु अचिन्त्येषु अतुल्येषु असमन्तेषु असीमाप्राप्तेषु अनभिलाप्यनभिलाप्येषु,
तथा दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि लोकधातुकोटीनियुतशतसहस्रेष्वप्रमाणेषु यावदनभिलाप्यानभिलाप्येषु सत्त्वानां सर्वव्यवहारनिरुक्तिमन्त्रसंज्ञासागरमवतरामि - यदुत देवानां देवमन्त्रान् प्रजानामि । यावद्ब्रह्मणां ब्रह्ममन्त्रान् प्रजानामि । एतमहं कुलपुत्र, बोधिसत्त्वानां सरस्वतीधारण्यालोकं प्रजानामि । किं मया शक्यं बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम्, ये ते विविधसंज्ञागतसागरानुप्रविष्टाः । ये ते विविधसर्वजगत्संज्ञामन्त्रसागरानुप्रविष्टाः । ये ते विविधजगन्नामनिर्देशसागरानुप्रविष्टाः । ये ते विविधसर्वजगदभिलाप्यप्रज्ञाप्तिव्यवहारसागरानुप्रविष्टाः । ये ते सर्वपदानुसंधिसागरानुप्रविष्टाः । ये ते पदपरमसागरानुप्रविष्टाः । ये ते सर्वत्र्यध्वारम्बणैकारम्बणव्यवहारसमुद्रानुप्रविष्टाः । ये ते पदोत्तरनिर्देशसागरानुप्रविष्टाः । ये ते द्विपदोत्तरनिर्देशसागरानुप्रविष्टाः । ये ते पदप्रभेदनिर्देशसागरानुप्रविष्टाः । ये ते सर्वधर्मपदप्रभेदविनयनिर्देशसागरानुप्रविष्टाः । ये ते सर्वजगन्मन्त्रसागरानुप्रविष्टाः । ये ते सर्वस्वरमण्डलविशुद्धिव्यूहावक्रान्ताः । ये ते चक्राक्षरकोटीगतिप्रभेदनिर्याताः ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे वनवासी नाम जनपदः । तत्र मुक्तको नाम श्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायामभियोक्तव्यम्, कथम् निर्यातव्यम्, कथं चित्तं निध्यातव्यम् ।
अथ खलु सुधनः श्रेष्ठिदारको मेघस्य द्रमिडस्य पादौ शिरसाभिवन्द्य धर्मगौरवेण कृत्वा मूलं जातश्रद्धालक्षणं प्ररूपयमाणः कल्याणमित्रानुगतां सर्वज्ञतां संपश्यन् अश्रुमुखो रुदन् मेघं द्रमिडमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रणिपत्य मेघस्य द्रमिडस्यान्तिकात् प्रक्रान्तः
8 मुक्तकः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तमेव बोधिसत्त्वसरस्वतीधारण्यालोकव्यूहमनुविचिन्तयन्, तमेव बोधिसत्त्वमन्त्रनयसागरमवतरन्, तमेव बोधिसत्त्वचित्तव्यवदानविशुद्धिमनुस्मरन्, तमेव बोधिसत्त्वकुशलवासनोपसंहाराभिनिर्हारमभिनिर्हरन्, तदेव बोधिसत्त्वपरिपाकमुखं विशोधनयन्, तदेव बोधिसत्त्वानां सत्त्वसंग्रहज्ञानमुत्तापयन्, तामेव बोधिसत्त्वाशयबलविशुद्धिं दृढीकुर्वाणः तदेव बोधिसत्त्वाध्याशयबलमुपस्तम्भयन्, तमेव बोधिसत्त्वाधिमुक्तिवंशं परिशोधयन्, तामेव बोधिसत्त्वाशयचित्तकल्याणतां संभावयन्, तमेव बोधिसत्त्वव्यवसायमुत्तारयन्, सुधनः श्रेइष्ठिदारको दृढप्रतिज्ञाप्रणिधिचित्तापरिखिन्नसंतानव्यूहो ऽनिवर्त्यविक्रान्तवीर्यः प्रत्युदावर्त्यमनोव्यवसायः असंहार्यश्रद्धाबलोपेतः वज्रनारायणाभेद्यचित्तः सर्वकल्याणमित्रानुशासनीप्रदक्षिणग्राही अनुपहतप्रज्ञाविषयः समन्तमुखविशुद्धयभिमुखः अप्रतिहतज्ञानविशुद्धिगोचरः समन्तनेत्रज्ञाननयालोकः समन्तभूमिधारण्यवभासप्रतिलब्धः धर्मधातुतलभेदाभिमुखचित्तः समन्ततलाप्रतिष्ठानव्यूहविशुद्धिस्वभावविज्ञप्तः अनिकेतासमाद्वयगोचरपरमः सर्वसंज्ञाविक्रमणज्ञानमुखविशुद्धः सर्वदिक्कुलभेददिक्प्रत्यूहव्यूहः लोकतलदिग्भेदानिवर्त्यः धर्मतलदिग्भेदाप्रत्युदावर्त्यः बुद्धदिक्कुलभेददर्शनविज्ञप्तिपरमः अधदिक्कुलभेदानुगतज्ञानी रुचिरधर्मचक्रसंभृतबुद्धिः समन्तरुचिरज्ञानसमाध्याकारलोकावभासितचित्तः समन्तविषयभूम्यनुगतमनःशरीरः तथागतज्ञानविद्युदवभासितसंतानः सर्वज्ञतोर्मिप्रसादावेगसंजातः बुद्धधर्मप्रसादवेगाविरहितः तथागताधिष्ठानावेगाविष्टः सर्वबुद्धस्वचित्तानुगमालोकावभासितः सर्वलोकधातुजालस्वशरीरस्फरणप्रणिधिसमन्वागतः सर्वधर्मधातुस्वकायसमवसरणाभिनिर्हारपरमो ऽनुपूर्वेण द्वादशभिर्वर्षैस्तं वनवासिजनपदमनुप्राप्तः । स तं मुक्तकं श्रेष्ठिनं परिमार्गमाणो ऽद्राक्षीत् । दृष्ट्वा च पुनः सर्वशरीरेण प्रणिपत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - आर्य, लब्धा मे लाभाः, यस्य मेघकल्याणमित्रसमवधानम् । तत्कस्य हेतोः? दुर्लभदर्शनानि हि कल्याणमित्राणि
दुर्लभप्रादुर्भावानि दुःप्रत्यागतानि दुरुपसंक्रमणानि दुःपर्युपास्यानि । दुरासदानि दुःसंवासानि दुरभिसाध्यानि दुरनुबन्ध्यानि कल्यानमित्राणि । तच्च मेघकल्याणमित्रसमवधानं जातम् । मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । यदुत सर्वबुद्धारागणतायै सर्वबुद्धाभिराधनतायै सर्वबुद्धदर्शनतायै सर्वबुद्धविज्ञप्तये सर्वबुद्धसमतानुगमाय सर्वबुद्धप्रणिध्यनुगमाय सर्वबुद्धप्रणिधिपरिपूरये सर्वबुद्धसमुदागमज्ञानालोकनतायै सर्वबुद्धस्वशरीराभिनिर्हरणतायै सर्वबुद्धसमुदागमस्वचर्याभिनिर्हरणतायै सर्वबुद्धविकुर्वितप्रत्यक्षाभिज्ञतायै सर्वबुद्धबलवैशारद्यपरिशुद्धये सर्वधर्मदेशनाश्रवणावितृप्ततायै सर्वबुद्धधर्मदेशनाश्रवणोद्ग्रहणतायै सर्वबुद्धधर्मदेशनासंधारणतायै सर्वबुद्धधर्मदेशनाविभजनतायै सर्वबुद्धशासनसंधारणतायै सर्वबुद्धसत्त्वैकत्वतायै सर्वबोधिसत्त्वसभागतायै सर्वबोधिसत्त्वचर्यापरिशुद्ध्ये सर्वबोधिसत्त्वपारमितापरिपूरये ( ग्व् 64 ) सर्वबोधिसत्त्वप्रणिध्यभिनिर्हारविशुद्धये सर्वबोधिसत्त्वबुद्धाधिष्ठानकोशप्रतिलाभितायै सर्वबोधिसत्त्वधर्मनिधानकोशाक्षयज्ञानालोकतायै सर्वबोधिसत्त्वनिधानकोशानुगमाय सर्वबोधिसत्त्वाप्रमाणकोशाभिनिर्हरणतायै सर्वबोधिसत्त्वमहाकरुणानिधानकोशसत्त्वविनयनिष्ठापर्यन्तगमनतायै सर्वबोधिसत्त्वविकुर्वितनिधानकोशविज्ञप्तये सर्वबोधिसत्त्ववशितानिधानकोशस्वचित्तवशवर्तनतायै सर्वबोधिसत्त्वविशुद्धिनिधानकोशसर्वाकारव्यूहतायै । एवंचित्तो ऽहमार्य इहोपसंक्रान्तः, एवमभिप्रायः एवंमनोरथः एवमभिनन्द्यः एवमाशयः एवंनिध्यप्तिपरमः एवंगोचराभिमुखः एवनयानुगमाभिमुखः एवंविशुद्धिपरमः एवंव्यूहाभिप्रायः एवंप्रणतचित्तः एवंकल्याणप्रयोगः एवमभिमुखेन्द्रियः । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति, नयमुपदिशति, अनुगमनमवभासयति, मार्गमुपदिशति, तीर्थमवतारयति, धर्मद्वारं विवृणोति, संशयान् छिनत्ति, काङ्क्षां विनोदयति, कथंकथाशल्यमुद्धरति, विचिकित्सामलमपकर्षयति,
चित्तगहनमवभासयति, चित्तमलमपहरति, चित्तसंततिं प्रसादयति, चित्तकौटिल्यमपनयति, चित्ततापं प्रह्लादयति, व्यावर्तयति, संसारचित्तं विनिवर्तयति, अकुशलेभ्यो विवर्तयति, नरकेभ्यो विवेचयति, निकेतनेभ्य उच्चालयति, अनभिनिवेशात् परिमोचयति, सर्वसङ्गेभ्य आवर्जयति, सर्वज्ञतायामभिमुखीकरोति, धर्मनगरानुप्रवेशाय आवर्तयति, महाकरुणायां प्रतिष्ठापयति, महामैत्र्यां नियोजयति, बोधिसत्त्वचर्यायां प्रवेशयति, समाधिमुखभवनतायां निवेशयति, अनुगममुखेषु स्थापयति, स्वभावनिध्यप्तौ स्फरति, बलानुगमेन विभजति सर्वजगत्समतानुगमाय चित्तम् । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथमभियोक्तव्यम्? कथं प्रयोक्तव्यम्? कथं प्रयुक्तस्य क्षिप्रं विशुध्यति बोधिसत्त्वचर्यामण्डलम्?
अथ खलु मुक्तकः श्रेष्ठी तस्यां वेलायां सर्वबुद्धक्षेत्रसमवसरणं नाम अनन्तावर्तधारणीमुखपूर्वंगमं बोधिसत्त्वसमाधिमुखं समापद्यत पूर्वकुशलमूलबलाधानेन तथागताधिष्ठानेन, मञ्जुश्रियश्च कुमारभूतस्य समन्वाहरेण ज्ञानालोकोपसंहारेण च । समनन्तरसमापन्नस्य च मुक्तकस्य श्रेष्ठिनस्तथारूपा कायपरिशुद्धिः संस्थिता यया कायपरिशुद्धया दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः सह बुद्धक्षेत्रपरिशुद्धया सपर्षन्मण्डलाः सह प्रभाविशुद्धया सपूर्वचर्यासंवासाः सबुद्धविकुर्विताः सप्रणिधानसंभाराः सहचर्यानिर्याणव्यूहविशुद्धया साभिसंबोधिसंदर्शनाः सहधर्मचक्रोद्दयोतनाः ससत्त्वपरिपाकाः सधर्मनिष्ठापर्यन्ताः सर्वकाये ऽन्तर्गताः अनुप्रविष्टाः संदृश्यन्ते स्म । अन्योन्यासंभिन्ना अन्योन्यानावरणा अन्योन्यसुविभक्ता अन्योन्यसुव्यवस्थितनानाकल्पसंस्थाना यथावद्विज्ञप्ता नानाबुद्धक्षेत्रव्यूहाः नानाबोधिसत्त्वपर्षन्मण्डलालंकारा नानाबुद्धविकुर्वितं संदर्शयन्तः संदृश्यन्ते स्म । नानायाननयव्यवस्थाना नानाप्रणिधानमुखपरिदीपनाः क्वचिल्लोकधातौ तुषितभवनोपपन्नाः संदृश्यन्ते । सर्वबुद्धकार्यं कुर्वन्तः क्वचित्तुषितभवनाच्च्यवमानाः, क्वचिन्मातुः कुक्षिगताः विविधविकुर्वितानि ( ग्व् 65 ) संदर्शयन्तः, क्वचिज्जायमानाः बालक्रीडामुपदर्शयन्तः, क्वचिदन्तःपुरमध्यगताः, क्वचिदभिनिष्क्रामन्तः क्वचिद्बोधिमण्डवरगताः महाव्यूहविकुर्वितमारसैन्यपराजयं कुर्वन्तः संदृश्यन्ते । क्वचिद्देवनागयक्षगन्धर्वपरिवृता ब्रह्मेन्द्रैर्धर्मचक्रप्रवर्तनायाध्येष्यमाणाः, क्वचिद्धर्मचक्रं प्रवर्तयन्तः क्वचित्सर्वसत्त्वभवनगताः क्वचित्परिनिर्वायमाणाः संदृश्यन्ते । क्वचिल्लोकधातौ तथागतानां परिनिर्वृतानां धातुविभङ्गाः संदृश्यन्ते । क्वचिद्बुद्धक्षेत्रदेवमनुष्यास्तथागतचैत्यान्यलंकुर्वन्तः संदृश्यन्ते । यच्च ते बुद्धा भगवन्तो भाषन्ते नानासत्त्वनिकायेषु नानासत्त्वलोकेषु नानासत्त्वगतिषु नानासत्त्वोपपत्तिषु नानासत्त्वसंनिपातेषु नानासत्त्वकुशलमूलपरिवर्तेषु नानासत्त्वगतिपरिवर्तेषु नानासत्त्वाशयपरिवर्तेषु नानासत्त्वाधिमुक्तिपरिवर्तेषु नानासत्त्वेन्द्रियपरिवर्तेषु नानाकालपरिवर्तेषु नानासत्त्वकर्मसंभेदेषु नानासत्त्वकर्मविमात्रतासु नानासत्त्वलोकविभावनासु नानागतिचर्याविचरितेषु सत्त्वनयेषु नानाशयप्रयोगेषु सत्त्वसमुद्रेषु नानेन्द्रियविमात्रताविशुद्धेषु नानाक्लेशवासनानुशयितेषु सत्त्वप्रसरेषु विविधबुद्धिविकुर्वितसंदर्शनैर्नानानिरुक्तिभिर्नानास्वराङ्गरुतनिर्हारैर्नानासूत्रान्तनयोदाहारैर्नानाधारणीमुखपरिवर्तैर्नानाप्रतिसंविन्नयप्रभवैर्नानासत्यनामसमुद्रपरिवर्तैः
नानाबुद्धर्षभसिंहनादनैः नानासत्त्वकुशलमूलदेशनाप्रातिहार्यसंदर्शनैः नानामुखस्मृतिनिदर्शनविकुर्वितैः नानाबोधिसत्त्वव्याकरणसिंहनादैः नानातथागतधर्मचक्रविजृम्भितैः अनन्तमध्येषु पर्षन्मण्डलेषु अनन्तसंभेदेष्वन्योन्यारम्बणेषु नानाविशुद्धपर्षन्मण्डलेषु विपुलेषु सूक्ष्मपर्षन्मण्डलसमवसरणेषु योजनप्रमाणेषु दशयोजनप्रमाणेषु यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुप्रमाणेषु पर्षन्मण्डलेषु यत्ते बुद्धा भगवन्तो धर्मं भाषन्ते सर्वस्वराङ्गरुतघोषानुगामिन्या तथागतवाचा, तं सर्वं सुधनः श्रेष्ठिदारकः शृणोति उद्गृह्णाति संधारयति प्रवर्तयति उपनिध्यायति । तच्च विकुर्वितं पश्यति, तां च अचिन्त्यां बोधिसत्त्वसमाधिवृषभिताम् ॥
अथ खलु मुक्तकः श्रेष्ठी स्मृतः संप्रजानंस्तस्मात्समाधेर्व्यूत्थाय सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र असङ्गव्यूहं नाम तथागतविमोक्षमायूहामि निर्यूहामि । तस्य मे कुलपुत्र असङ्गव्यूहं तथागतविमोक्षमायूहतो निर्यूहतः पूर्वस्यां दिशि जाम्बूनदप्रभासवत्यां लोकधातौ तारेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं वैरोचनगर्भबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणायां दिशि सर्वबलवेगवत्यां लोकधातौ समन्तगन्धवितानो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं चिन्ताराजबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष ( ग्व् 66 ) आभासमागच्छति । पश्चिमायां दिशि सर्वगन्धप्रभासवत्यां लोकधातौ मेरुप्रदीपराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गचित्तबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । उत्तरायां दिशि काषायध्वजायां लोकधातौ वज्रप्रमर्दनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं वज्रपदविक्रामिबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुषआभासमागच्छति । उत्तरपूर्वायां दिशि सर्वरत्नरुचिरायां लोकधातौ अनिलम्भचक्षुर्वैरोचनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमनिलम्भसुनिर्मितबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पूर्वदक्षिणायां दिशि गन्धार्चिःप्रभास्वरायां लोकधातौ गन्धप्रदीपो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं सर्वधर्मधातुतलभेदकेतुराजबोधिसत्त्वपूर्वंगमेन बोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणपश्चिमायां दिशि सूर्यकेसरनिर्भासायां लोकधातौ समन्तमुखज्ञानविरोचनघोषो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं समन्तकुसुमार्चिःप्रलम्बचूडबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पश्चिमोत्तरायां दिशि गन्धालंकाररुचिरशुभगर्भायां लोकधातावप्रमाणगुणसागरप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गकायरश्मितेजोमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । अघोदिशि रत्नसिंहावभासज्वलनायां लोकधातौ धर्मधातुविद्योतितरश्मिर्नाम् तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं धर्मधात्वर्चिर्वैरोचनसंभवमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । ऊर्ध्वायां दिशि लक्षणरुचिरवैरोचनायां लोकधातावप्रतिहतगुणकीर्तिविमोक्षप्रभराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गबलवीर्यमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन
चक्षुष आभासमागच्छति ॥
इति हि कुलपुत्र, एतान् दश तथागतान् प्रमुखान् कृत्वा दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् पश्यामि । न च ते तथागता इहागच्छन्ति, न चाहं तत्र गच्छामि । यस्यां च वेलायामिच्छामि, तस्यां वेलायां सुखावत्यां लोकधातावमिताभं तथागतं पश्यामि । चन्दनवत्यां लोकधातौ वज्राभं तथागतं पश्यामि । गन्धवत्यां लोकधातौ रत्नाभं तथागतं पश्यामि । पद्मवत्यां लोकधातौ रत्नपद्माभं तथागतं पश्यामि । कनकवत्यां लोकधातौ शान्ताभं तथागतं पश्यामि । अभिरत्यां लोकधातौ अक्षोभ्यं तथागतं पश्यामि । सुप्रतिष्ठायां लोकधातौ सिंहं तथागतं पश्यामि । आदर्शमण्डलनिभासायां लोकधातौ चन्द्रबुद्धिं तथागतं पश्यामि । रत्नश्रीहंसचित्रायां लोकधातौ वैरोचनं तथागतं पश्यामि । इति हि कुलपुत्र यस्यां यस्यां दिशि यस्यां यस्यां लोकधातौ यं यमेव तथागतं द्रष्टुमाकाङ्क्षामि, तं तमेव तथागतं पश्यामि । यस्मिन् यस्मिन्नध्वनि यस्मिन् यस्मिन्नारम्बणे यस्यां यस्यां पूर्वचयायां तथागतं द्रष्टुमाकाङ्क्षामि, यस्मिन् यस्मिन् विकुर्वितकारणे यस्मिन् यस्मिन् सत्त्वविनयकारणे यं यं तथागतं द्रष्टुमाकाङ्क्षामि, तं तमेव तथागतं पश्यामि । न च ते तथागता इहागच्छन्ति, न चाहं तत्र गच्छामि । सो ऽहं कुलपुत्र न कुतश्चिदागमनतां तथागतानां प्रजानन्, न क्वचिद्गमनतां स्वकायस्य प्रजानन्, स्वप्नोपमविज्ञप्तिं च तथागतानां प्रजानन्, स्वप्नसमविचारविज्ञप्तिं स्वचित्तस्य प्रजानन्, प्रतिभाससमविज्ञप्तिं च तथागतानां प्रजानन्, अच्छोदकभाजनविज्ञप्तिं च स्वचित्तस्य प्रजानन्, मायाकृतरूपविज्ञप्तिं च तथागतानां प्रजानन्, मायोपमविज्ञप्तिं च स्वचित्तस्य प्रजानन्, प्रतिश्रुत्कागिरिघोषानुरवणतां च तथागतघोषस्य प्रजानन्, प्रतिश्रुत्कासमविज्ञप्तिं च स्वचित्तस्य प्रजानन्, एवमनुगच्छामि ( ग्व् 67 ) एवमनुस्मरामि स्वचित्ताधिष्ठानं बोधिसत्त्वानां सर्वबुद्धधर्म इति । स्वचित्ताधिष्ठानं सर्वबुद्धक्षेत्रपरिशुद्धिः, स्वचित्ताधिष्ठानं सर्वबुद्धबोधिसत्त्वचर्या, स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः, स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वप्रणिधानाभिनिर्हारः, स्वचित्ताधिष्ठानं
सर्वज्ञतानगरानुप्राप्तिः, स्वचित्ताधिष्ठानमचिन्त्यबोधिसत्त्वविमोक्षविक्रीडनता, स्वचित्ताधिष्ठानं बुद्धबोध्यभिसंबोधः, स्वचित्ताधिष्ठानं समन्तधर्मधातुसमवसरणवृषभिताविकुर्वितम्, स्वचित्ताधिष्ठानं सर्वकल्पसूक्ष्मसमवसरणज्ञानमिति ॥
तस्य मम कुलपुत्र एवं भवति - स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः । स्वचित्तमेव परिष्यन्दयितव्यं धर्ममेघैः । स्वचित्तमेव परिशोधयितव्यमारम्बणीयधर्मेभ्यः । स्वचितमेव दृढीकर्तव्यं वीर्येण । स्वचित्तमेव शमीकर्तव्यं क्षान्त्या । स्वचितमेव प्रणयितव्यं ज्ञानानुगमेषु । स्वचित्तमेवोत्तापयितव्यं प्रज्ञया । स्वचित्तमेवाभिनिर्हर्तव्यं वशिताशु । स्वचित्तमेवविपुलीकर्तव्यं बुद्धसमतायाम् । स्वचित्तमेवावभासयितव्यां दशतथागतबलैः । एतमहं कुलपुत्र असङ्गव्यूहतथागतविमोक्षं जानामि आयूहामि निर्यूहामि । किं मया शक्यं बोधिसत्त्वानामसङ्गचित्तानामसङ्गविहारगोचराणां प्रत्युत्पन्नसर्वबुद्धधर्मसंमुखावस्थितसमाधिप्रतिलब्धानामपरिओनिर्वाणकोटिगतसंबोधिमुखसमाधिप्रतिलब्धानां त्र्यध्वसमतानुप्राप्तानां समन्ततलसंभेदसमाधिगोचरविधिज्ञानां सर्वबुद्धक्षेत्रसुविभक्तशरीराणामसंभिन्नबुद्धविषयविहारिणां सर्वदिगभिमुखगोचराणामपराङ्भुखज्ञानमण्डलव्यवलोकनानां चर्या ज्ञातुं गुणान् वा वक्तुम्, येषामात्मभावसर्वलोकधातुसंवर्तविवर्ताः प्रज्ञायन्ते । न चैषामात्मनि लोकधातुषु वा द्वयसंज्ञा प्रवर्तते ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे मिलस्फरणं नाम जम्बूद्वीपशीर्षम् । तत्र सारध्वजो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको मुक्तकस्य श्रेष्ठिनः पादौ शिरसाभिवन्द्य मुक्तकं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मुक्तकस्य श्रेष्ठिनो ऽसंख्यान् गुणानुदानयन् उपविचारयन्, अभिलषन्, अविजहन् रुदन् परिदेवन् कल्याणमित्रस्नेहजातः कल्याणमित्रप्रतिशरणः कल्याणमित्रारागणाभिमुखः कल्याणमित्रज्ञानमविकोपयन् कल्याणमित्राधीनां सर्वज्ञतां समनुपश्यन् कल्याणमित्रानुगताशयः कल्याणमित्रोपायसाध्योपचारः कल्याणमित्रचेतनावशर्ती, मातृसंज्ञी कल्याणमित्रेषु सर्वाहितपरिवर्जनतया, पितृसंज्ञी कल्याणमित्रेषु सर्वकुशलधर्मसंजननतया, मुक्तकस्य श्रेष्ठिनो ऽन्तिकात्प्रक्रान्तः
9 सारध्वजः ।
अथ खलु सुधनः श्रेष्ठिदारकस्तामेव मुक्तकस्य श्रेष्ठिनो ऽनुशासनीमनुविचिन्तयन्, मुक्तकस्य श्रेष्ठिनो ऽववादे प्रतिपद्यमानो ऽचिन्त्यं बोधिसत्त्वविमोक्षमनुस्मरन्, अचिन्त्यं बोधिसत्त्वज्ञानालोकमनुस्मरन्, अचिन्त्यं धर्मधातुप्रवेशावतारमनुगच्छन्, अचिन्त्यं बोधिसत्त्वसमवसरणनयमवतरन्, अचिन्त्यं तथागतविकुर्वितमनुपश्यन्, अचिन्त्यं बुद्धक्षेत्रसमवसरणमधिमुच्यमानः, अचिन्त्यं बुद्धाधिष्ठानव्यूहमनुमार्जन्, अचिन्त्यं बोधिसत्त्वसमाधिविमोक्षव्यवस्थानवृषभितामवकल्पयन्, अचिन्त्यां लोकधातुसंभेदानावरणतामवगाहमानः, तस्यामचिन्त्यबोधिसत्त्वकर्मदृढाध्याशयतायां प्रतिपद्यमानः, तदचिन्त्यबोधिसत्त्वकर्मप्रणिधानस्रोतो ऽनुकुर्वन्, अनुपूर्वेण येन मिलस्फरणं जम्बूद्वीपशीर्षं तेनोपसंक्रम्य सारध्वजं भिक्षुं परिमार्गयन् अपश्यदन्यतरस्मिन्नाश्रमे चंक्रमकोट्यां निषण्णं समाधिसमापन्नमनुश्वसन्तमनुप्रश्वसन्तमनिञ्जमानममन्यमानमृजुकायं प्रतिमुखस्मृतिमचिन्त्येन समाधिविकुर्वितेन विकुर्वमाणं वामदक्षिणाभ्यामूर्ध्वं वा अचिन्त्याप्रमाणानन्तकायमवलोकितमूर्धानमनेकवर्णकायाप्रमेयवर्णविमात्रतां चित्तक्षणे चित्तक्षणे संदर्शयमानम् । तस्य तथा समापन्नस्य गम्भीरस्य शान्तस्य निरुन्मिञ्जितस्य निरालम्बस्य रोमाञ्चोर्ध्वकायस्य सर्वरोममुखेभ्यो ऽचिन्त्यं बोधिसत्त्वविमोक्षविकुर्वितं प्रवर्तयमानमपश्यत् । येन विमोक्षमुखविकुर्वितेन स चित्तक्षणे चित्तक्षणे सर्वधर्मधातुं स्फरति अनन्तनानाविकुर्वितविकल्पैः सर्वसत्त्वपरिपाकाय सर्वतथागतपूजाप्रयोगाय सर्वबुद्धक्षेत्रपरिशोधनाय सर्वसत्त्वदुःखस्कन्धनिवर्तनाय सर्वदुर्गतिमार्गसमुच्छेदाय सर्वसत्त्वसुगतिद्वारविवरणाय सर्वसत्त्वक्लेशसंतापप्रशमनाय सर्वसत्त्वाज्ञानावरणविकिरणाय सर्वसत्त्वसर्वज्ञताप्रतिष्ठापनाय ॥
तस्याधःक्रमतलाभ्यामसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् श्रेष्ठिगणान् नानोपस्थानप्रत्युपस्थानान् सर्वलोकधातुपर्यापन्नश्रेष्ठिसदृशरूपातिरेकविषयप्रावारान् नानाभूषणविभूषितशरीरान् विचित्रमौलिचूडामणिमकुटधरान् दारकबिम्बपरिवारान् निश्चरमाणानपश्यत् । ब्राह्मणगृहपतींश्च सर्वान्नपानविधिभिः सर्वसाङ्गोपचारैः सर्वाभरणैः सर्ववस्त्रैः सर्वपुष्पैः सर्वमाल्यैः सर्वगन्धैः सर्वविलेपनैः सर्वकामोपचारैः सर्वरत्नैः सर्वायतनैः सर्वभाजनविधिभिः सर्वोपकरणविधिभिः दरिद्रान् सत्त्वान् संगृह्यमाणान् दुःखितं जगदाश्वासयमानान् सत्वमनांसि परितोषयमानान् सत्त्वाशयान् विशोधयमानान् सत्त्वान् बोधौ परिपाचयमानान् दश दिशः स्फरित्वा गच्छतो ऽपश्यत् ॥
जानुमण्डलाभ्यां निश्चरित्वा क्षत्रियपण्डितरूपान् ब्राह्मणपण्डितरूपान् लोकपण्डितरूपान् विविधशिल्पपण्डितरूपान् मनुष्यगतिपण्डितरूपान् लौकिकलोकोत्तरक्रियाविधिज्ञानपटुपण्डितरूपान् लोकाचार्यसंमतपण्डितरूपान् अनेकाकारकल्पान् अनेकाकारसंस्थानव्यूहान् मनोज्ञानि वचांस्युदीरयतो दुर्मनसः सत्त्वान् प्रहर्षमाणान् धर्मधनपरिहीणान् सत्त्वाननुगृह्यमाणान् दुःखितान् सत्त्वान् सुखयमानान् विनिपतितान् सत्त्वानभ्युद्धरमाणान् ( ग्व् 69 ) विपन्नयानपात्रान् सत्त्वानाश्वासयमानान् भीतान् सत्त्वान् परित्रायमाणान् कुशलमूलशब्दमनुश्रावयमाणान् पापविनिवृत्तिशब्दमुदीरयमाणान् कुशलधर्मसमादापने सत्त्वान् विनियोजयमानान् अर्थचर्यायां सत्त्वान् प्रतिष्ठापयमानान् प्रीतिवेगं संजनयमानान् प्रियवादितासंग्रहवस्तून्युदीरयमाणान् समानार्थतां च लोकस्योपदर्शयमानान् दश दिशः स्फरित्वा गच्छतो ऽपश्यत् ॥
नाभिमण्डलात् सर्वसत्त्वान् सत्त्वजगच्छरीरसंस्थानान् अजिनचीवरवल्कलधरान् दण्डकाष्ठकुण्डिकागृहीतान् नानारूपान् कल्पसंस्थानान् प्रशान्तेर्यापथान् ऋषिगणान्निश्चरित्वा उपर्यन्तरीक्षे बुद्धवर्णानुदीरयमानान् धर्मशब्दं संश्रावयमाणान् बुद्धघोषं निश्चारयमाणान् बोधिसत्त्वसंघं संदर्शयमानान् ब्रह्मचर्यं संप्रवर्णयमानान् गुप्तेन्द्रियतायां सत्त्वान्नियोजयमानान् निःस्वभावार्थं प्ररूपयमाणान् ज्ञानार्थे लोकं प्रतिष्ठापयमानान् लौकिकशास्त्रविधिं प्रणयमानान् सर्वज्ञज्ञाननिर्याणमार्गविधिं प्रदर्शयमानान् अनुपूर्वक्रियायां सत्त्वान् प्रतिष्ठापयमानान् दश दिशः स्फरित्वा गच्छतो ऽपश्यत् ॥
द्वाभ्यां पार्श्वाभ्यां सर्वलोकप्रवृत्तिसंख्या अचिन्त्यानेकशरीरसंस्थाननागकन्या निश्चरित्वा अचिन्त्यं नागविकुर्वितं संदर्शयमानाः अचिन्त्यसुगन्धमेघालंकारगगनतलमधिष्ठमाना अचिन्त्यपुष्पमेघालंकारैः सर्वगगनतलमलंकुर्वतीः अचिन्त्यमाल्यमेघालंकारैः सर्वमाकाशधातुं व्यूहयमाना अचिन्त्यरत्नछत्रमेघालंकारैः सर्वधर्मधातुं संछादयमाना अचिन्त्यरत्नध्वजमेघालंकारम् अचिन्त्यरत्नपताकामेघालंकारम् अचिन्त्यरत्नपताकावित्तरत्नाभरणमेघवर्षांलंकारम् अचिन्त्यानन्तमहामणिरत्नमेघप्रवर्षणालंकारम् अचिन्त्यरत्नहारविचित्रकुसुममेघप्रवर्षणालंकारम् अचिन्त्यरत्नासनपर्यङ्कनिषण्णबोधिसत्त्वबुद्धधर्ममेघप्रवर्षणालंकारम् अचिन्त्यदिव्यरत्नाभरणमेघाप्सरोगणधर्मसंगीतिरुतघोषमेघप्रवर्षणालंकारम्, अचिन्त्यमुक्तजालालंकृतरत्नपद्मोर्ध्वकेसरसर्वरत्नराजचूर्णमेघवर्षविकिरणालंकारम्, अचिन्त्यरत्नमकुटमेघसर्वमणिरत्नविभूषितानन्तरश्मिमेघप्रवर्षणालंकारम्, अचिन्त्यदेवकायमेघपुष्पमाल्यच्छत्रध्वजपताकालंकारम्, अचिन्त्याप्सरोमेघोन्नतकायकृताञ्जलिपुटसुवर्णपुष्पविकिरणप्रमुक्तपुटकोशसर्वतथागतगुणवर्णस्तुतिमेघनिगर्जितप्रवर्षणालंकारं गगनतलमधितिष्ठमानाः सर्वरत्नवर्णैर्गन्धकूटमेघैरुदारधूपपटलमेघश्च सर्वतथागतपर्षन्मण्डलानि संछादयमानाः, सर्वलोकधातुप्रसरानलंकुर्वतीः सर्वसत्त्वानि प्रहर्षयमाणाः सर्वबुद्धान् पूजयमानाः क्षणे क्षणे सर्वधर्मधातुं स्फरमाणाः सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
उरस्तः श्रीवत्सादसंख्येयबुद्धक्षेत्रपरमाणुरजः समानसुरेन्द्रान्निश्चरित्वा अचिन्त्यासुरमायाविकुर्वितानि प्रदर्शयमानान् महाजलधरान् संक्षोभयमाणान् लोकधातुशतसहस्राणि संप्रकम्पयमानान् सर्वशैलेन्द्रराजान्ज् संघट्टयमानान् सर्वदेवभवनानि संप्रकम्पयमानान् ( ग्व् 70 ) सर्वमारमण्डलानि जिह्मीकुर्वाणान् सर्वमारसैन्यं प्रमर्दयमानान् सर्वलोकमदमानदर्पान् प्रभञ्जयमानान् प्रदुष्टचित्तान्निवार्य प्रसादयमानान् विहिंसाचित्तान् प्रतिनिवारयमाणान् सत्त्वानामकुशलान् धर्मानुपशमयमानान् क्लेशपर्वतान् विकिरयमाणान् रणसंग्रामानुपशमयमानान् विविधासुरमायाविकुर्वितविक्रीडितैः सत्त्वान् संवेजयमानान् पापादुद्वेजयमानान् संसारादुन्त्रासयमानान् सर्वभवगतिभ्य उच्चाल्य अनिकेते निवेशयमानान् बोधिचित्ते सत्त्वान् प्रतिष्ठापयमानान् बोधिसत्त्वानां बोधिसत्त्वचर्यां विशोधयमानान् बोधिसत्त्वान् पारमितासु प्रतिष्ठापयमानान् बोधिसत्त्वभूमिषु अवतारयमाणान् बोधिसत्त्वानां बुद्धधर्मनयावभासं जनयमानान् नानाधर्मनयव्यवस्थानैश्चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत् सुधनः श्रेष्ठिदारकः ॥
पृष्ठवंशादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् श्रावकप्रत्येकबुद्धकायान्निश्चरित्वा श्रावकप्रत्येकबुद्धवैनयिकानां सत्त्वानामात्माभिनिविष्टानां निरात्मतां निःसत्त्वतामुदीरयमाणान् शाश्वताभिनिविष्टानां सर्वसंस्कारानित्यतां परिदीपयमानान् रागचरितानामशुभां भावनां द्वेषचरितानां मैत्रीं मोहचरितानामिदंप्रत्ययताप्रतीत्यसमुत्पादमुदीरयमाणान् समभागचरितानां ज्ञानविषयसंप्रयुक्तं धर्मनयभिद्योतयमानान् विषयाभिरतानामनालयतां कथयमानान् शान्तौ निकेताशयतानां प्रणिधिविशेषमभिरोचयमानान् सर्वदिक्परिवर्तमुखेषु सर्वधर्मनयसागरपरिवर्तमुखेषु सर्वसत्त्वार्थक्रियामभिद्योतयतो धर्मधातुं स्फरयमाणानपश्यत् सुधनः श्रेष्ठिदारकः ॥
अंसकूटाभ्यामसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् यक्षराक्षसेन्द्रान्निश्चरित्वा नानासंस्थानविकृतशरीरान् नानावर्णारोहपरिणाहान् नानेर्यापथविकल्पान् नानायानाभिरूढान् नानापरिवारपरिवृतान् सत्त्वधातुपरिपालनप्रयुक्तान् नानाप्रभावभासप्रयुक्तान् नानाघोषनिर्घोषनिगर्जितान् नानोपायाभिनिर्हारैरसंभिन्नैः समन्तदिग्विदिग्गगनं स्फरमाणान् सर्वसत्त्वकुशलचर्यारक्षायै सर्वार्यमण्डलरक्षायै सर्वबोधिसत्त्वपरिग्रहाय सर्वसम्यग्नतसम्यक्प्रतिपन्नपरिपालनाय वज्रपाणिकर्मणा सर्वबुद्धोपस्थानपूजाविधानतायै, विनिपतितानां सत्त्वानां सर्वापायगतिविनिवर्तनतायै, सर्वलोकसर्वव्याध्याद्युपद्रवभयोपशमनाय प्रयुक्तान् सत्त्वार्थक्रियालोकपरिपालनोत्सुकान् पुण्यज्ञानसंभारचक्रं परिपूरयमाणान् धर्मचक्रमनुप्रवर्तयमानान् परवादिचक्रं निगृह्यमाणान् सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
उदरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् किन्नरेन्द्रान् असंख्येयकिन्नरेन्द्रकन्याशतसहस्रपरिवारान् असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च गन्धर्वेन्द्रान् असंख्येयगन्धर्वेन्द्रकन्याशतसहस्रपरिवारान् निश्चरित्वा असंख्येयदिव्यतूर्यशतसहस्रसंगीतिसंप्रभणितधर्मस्वभावोपसंहितानि बुद्धस्तोत्राण्युदीरयमाणान् बोधिचित्तं परिदीपयमानान् बोधिसत्त्वचर्यां संवर्णयमानान् सर्वाभिसंबोधिमुखान्यभिष्टवमानान् सर्वधर्मचक्रमुखान्यवगाहयमानान् सर्वविकुर्वितमुखान्यभिरोचयमानान् सर्वपरिनिर्वाणमुखानि परिदीपयमानान् सर्वबुद्धशासनमुखानि ( ग्व् 71 ) संपरिगृह्यमाणान् सर्वसत्त्वमुखानि संप्रहर्षयमाणान् सर्वबुद्धक्षेत्राणि परिशोधयमानान् सर्वधर्ममुखानि अभिद्योतयमानान् सर्वावरणमुखानि विनिवर्तयमानान् सर्वकुशलमूलमुखानि संजयमानान् धर्मधातुं स्फरयमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
मुखद्वारादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् सप्तरत्नचतुरङ्गबलकायपरिवारान् चक्रवर्तिनो निश्चरित्वा महात्यागरश्मिव्यूहान् प्रमुञ्चमानान् सर्वरत्नाकरानुत्सृज्यमानान् सर्वमणिरत्नाकरान् विश्राणयमानान् दरिद्रान् सधनीकुर्वाणान् प्राणिवधाल्लोकं विनिवर्तयमानान् मैत्रीचित्ते सत्त्वान् संनियोजयमानान् अदत्तादानाद्विवेचयमानान् स्वलंकृतासंख्येयकन्याकोटीनियुतशतसहस्राणि प्रतिपादयमानान् काममिथ्याचाराद्विच्छन्दयमानान् ब्रह्मचर्ये प्रतिष्ठापयमानान् मृषावादाद्विनिवर्तयमानान् असंविवादपरमतायां नियोजयमानान्, पिशुनवचनाद्विनिवर्तयमानान् परमसंग्रहप्रयुक्तं घोषमुदीरयमानान् परुषवचनाल्लोकं विनिवर्तयमानान्, मनोज्ञश्लक्ष्णां वाचमुदीरयमाणान्, अनर्थाधर्मोपसंहितादबद्धप्रलापात् सत्त्वान् विनिवर्तयमानान्, गम्भीरार्थपदप्रभेदविनिश्चये संनियोजयमानान्, सर्ववचनदोषेभ्यो लोकं विनिवर्तयमानान्, करुणाबद्धवाचमुदीरयमाणान्, हृदयमलं लोके ऽपहरणमाणान्, अल्पेच्छतासंतुष्टिपरमतायां सत्त्वान्नियोजयमानान्, व्यापादाल्लोकं विनिवर्तयमानान्, परसंततिप्रसादने संनियोजयमानान्, सर्वदृष्टिजालं लोके उद्धरमाणान्, सर्वविमतिप्रकारान् विकिरयमाणान्, सर्वसंदेहकूटान् प्रपातयमानान्, सर्वसंशयविचिकित्सातिमिरमपनयमानान्, धर्मप्रविचयं लोके प्रविभजमानान्, इदंप्रत्ययताप्रतीत्यसमुत्पादमुदीरयमाणान्, स्वभावसत्यनये सत्त्वान्नियोजयमानान्, सर्वावरणानि विनिवर्तयमानान्, अनावरणनये ऽवतारयमाणान्, बुद्धार्थनयमुद्योतयमानान्, दश दिशो धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
नयनाभ्यामसंख्येयबुद्धक्षेत्रपरमाणुरजःसमानि सूर्यमण्डलशतसहस्राणि निश्चरित्वा सर्वमहानिरयानवभासमानानि, महान्धकारं लोके विधमन्ति, मोहतिमिरं सत्त्वानामपनयमानानि, शीतनरकापायगतानां सत्त्वानां शीतदुःखं प्रशमयमानानि, मृण्मयेषु क्षेत्रेषु अवदातवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु वैडूर्यवर्णां प्रभां प्रमुञ्चमानानि, वैदूर्यमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, रूप्यमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु स्फटिकवर्णां प्रभां प्रमुञ्चमानानि, स्फटिकमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु मुसारगल्ववर्णां प्रभां प्रमुञ्चमानानि, मुसारगल्वमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, लोहितमुक्तामयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णंमयेषु क्षेत्रेषु लोहितमुक्तावर्णां प्रभां प्रमुञ्चमानानि, अश्मगर्भमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु अश्मगर्भवर्णां प्रभां प्रमुञ्चमानानि, इन्द्रनीलमयेषु क्षेत्रेषु सूर्यगर्भमणिराजवर्णां प्रभां प्रमुञ्चमानानि, सूर्यगर्भमणिराजशरीरेषु क्षेत्रेषु इन्द्रनीलमणिराजवर्णां प्रभां प्रमुञ्चमानानि, लोहितमुक्तामयेषु क्षेत्रेषु चन्द्रांशुजालमण्डलगर्भमणिराजवर्णां प्रभां प्रमुञ्चमानानि, चन्द्रांशुजालमण्डलगर्भमणिराजशरीरेषु ( ग्व् 72 ) क्षेत्रेषु लोहितमुक्तावर्णां प्रभां प्रमुञ्चमानानि, एकरत्नमयेषु क्षेत्रेषु नानारत्नवर्णां प्रभां प्रमुञ्चमानानि, नानारत्नमयेषु क्षेत्रेषु एकरत्नवर्णां प्रभां प्रमुञ्चमानानि, एवं सर्वबोधिसत्त्वपर्षन्मण्डलेषु अपरिमाणसत्त्वकार्यप्रयुक्तानि सर्वसत्त्वधर्मधातुं स्फरमाणान्यपश्यत् सुधनः श्रेष्ठिदारकः ॥
भ्रूविवरान्तरादूर्णाकोशादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् शशाङ्ककायान्निश्चरित्वा सर्वदेवेन्द्रानभिभवमानान्, कामरतिं सर्वलोके विनिवर्तयमानान्, बुद्धदर्शनरतिमनुवर्तयमानान्, अपरिमाणसत्त्वविनयप्रयुक्तान् दश दिशो धर्मधातुं स्फरमाणानपश्यत् ॥
ललाटादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् महाब्रह्मणो निश्चरित्वा प्रशान्तेर्यापथान् ब्रह्मघोषमुदीरयमाणान् सर्वबुद्धानध्येष्यमाणान् सर्वबुद्धानभिष्टवमानान् सर्वबोधिसत्त्वान् प्रहर्षयमाणान् अपरिमाणसत्त्वकार्यप्रयुक्तान् दश दिशः सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
शिरस्तो ऽसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वान्निश्चरित्वा नानावर्णसंस्थानविभूषितशरीरतां संदर्शयमानान् अनुव्यञ्जनविचित्रगात्रतां प्रभावयमानान् अनन्तमध्यप्रभामण्डलमेघान् प्रमुञ्चमानान् सर्वबुद्धानां पूर्वबोधिसत्त्वचर्यामारभ्य दायकप्रतिग्राहकवस्तुपरित्यागप्रकारमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान् नानापारमितासंप्रयुक्तान् पूर्वयोगसमुद्रान् संदर्शयमानान् दानचर्यां लोकस्य संवर्णयमानान् मात्सर्यमलं विनिवर्तयमानान् सर्वग्राहोत्सर्गे सत्त्वान्नियोजयमानान्, विचित्रसर्वरत्नालंकारालंकृतं लोकमधितिष्ठमानान्, दानपारमितायां सत्त्वान् प्रतिष्ठाप्य परिष्कारवशितायां प्रतिष्ठापयमानान्, सर्वलक्षणगुणान् संवर्णयमानान्, बुद्धलक्षणसंभवे हेतुमुपदिश्यमानानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा शीलपारमितां संवर्णयमानान्, सर्वबुद्धानां शीलपारमितासंप्रयुक्तान् पूर्वयोगसमुद्रान् सर्वरोमविवरेभ्यः संदर्शयमानान्, सर्वसत्त्वान् सर्वलोकगतिविषयेभ्यो विमुखीकृत्य तथागतविषयाभिमुखीकुर्वाणान्, कामलोकं विजुगुप्समानान्, विपर्यासपटलं लोके विकिरमाणान्, वितथपरिकल्पान् प्रशमयित्वा बोधिसत्त्वशीले संनियोजयमानान्, महाकरुणाशीलं संवर्णयित्वा तथागतशीलप्रतिलम्भाय बुद्धमार्गप्रतिपत्तिशीले सत्त्वान् प्रतिष्ठापयमानान्, स्वप्नोपमां भवगतिं सत्त्वानां प्रभावयित्वा स्वप्नविधिसमवसरणतायै विषयपरिग्रहक्लेशवशितायां सत्त्वान् प्रतिष्ठापयमानानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चर्य सुवर्णवर्णच्छवितां लोके ऽभिद्योतयमानान्, अक्रोधानुपायासतायामखिलदुष्टाविनष्टाप्रतिहतचित्तायां सत्त्वान् प्रतिष्ठापयमानान्, सर्वतिर्यग्योनिगतिसमुच्छेदाय सर्वरोममुखेभ्यः क्षान्तिपारमितासंप्रयुक्तान् तथागतपूर्वयोगमेघान्निश्चारयमाणान्, क्षान्तिबले सत्त्वान् प्रतिष्ठापयमानान्, धर्मवशितायां सत्त्वानवभासयमानानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चर्य अनन्तबोधिसत्त्ववीर्यबलं संदर्शयमानान्, सर्वज्ञतारम्भाविवर्त्यबलेन ( ग्व् 73 ) सर्वसत्त्वश्रुतसागरपर्येष्टिपरिखेदतां संवर्णयमानान्, सर्वतथागतपूजोपस्थाने सत्त्वान्नियोजयमानान्, सर्वदुःखस्कन्धविनिवर्तनमहावीर्यारम्भे सत्त्वान् प्रतिष्ठापयमानान्, वीर्यपारमिताप्रतिसंयुक्तान् पूर्वयोगमेघान् सर्वशरीरान्निश्चारयमाणान्,
बोधिसत्त्ववीर्यपारमिताचर्यां संदर्शयमानान्, कौसीद्यपर्वतान् सत्त्वानां विकिरमाणान्, वीर्यपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, कर्मवशितायां लोकं विनियोजयमानान् अधिष्ठानप्रयुक्तानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बोधिसत्त्वानुस्मृतिपथे सत्त्वान् प्रतिष्ठापयमानान्, सर्वावरणनिवरणतिमिरं विधममानान्, सर्वमदप्रमादात् सत्त्वान् विनिवर्तयमानान्, अप्रमादधर्मे प्रतिष्ठापयमानान्, स्तम्भसंरम्भमानध्वजान्प्रपातयमानान्, बुद्धध्यानाङ्गसागरमुदीरयमानान्, ध्यानपारमितां लोके संवर्णयमानान्, ध्यानपारमिताप्रतिसंयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, चित्तवशितायां सत्त्वान् प्रतिष्ठापयमानान्, क्षणे क्षणे धर्मधातुं स्फरमाणानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बुद्धधर्मपर्येष्टिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, सर्वस्वराङ्गसागररूतैः प्रज्ञापारमितामेघान्निगर्जमानान्, सम्यग्दृष्टिविद्युतं निश्चारयमाणान्, धर्मस्वभावरुतघोषान् रवमाणान्, आत्मदृष्टिपर्वतकूटानिसत्त्वानां प्रदार्यमाणान्, सर्वदृष्टिशल्यान्युद्धरमाणान्, काङ्क्षाविमतिमतिविचिकित्सातिमिरं विधममानान्, अधिमुक्तिवशितां संवर्णयमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा सर्वबुद्धोपायकौशल्यनयमण्डलं प्रभावयमानान्, उपायकौशल्यप्रतिसंयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, उपयकौशल्यचर्यां लोके प्रभावयमानान्, महायाननिर्याणमभिद्योतयमानान्, सर्वबुद्धमण्डलं संवर्णयमानान्, संसारनिर्वाणासंभिन्नां बोधिसत्त्वचर्यां संवर्णयमानान्, दर्शयमानान्, बोधिसत्त्वोपायकौशल्यपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, सर्वबोधिसत्त्वोपपत्तिवशितामण्डलं लोके निदर्शयमानान्, चित्तोत्पादे धर्मधातु स्फरमाणानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा सर्वतथागतनामसमुद्रमेघान् सर्वरोमविवरेभ्यो निगर्जमानान्, सर्वबोधिसत्त्वप्रणिधानपारमितापरिशुद्धिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोममुखमण्डलेभ्यः प्रमुञ्चमानान्, प्रणिधानपारमितां संवर्णयमानान्,
सर्वबोधिसत्त्ववशितासु सत्त्वान् प्रतिष्ठापयमानान्, अपरान्तकोट्याविद्धं महाप्रणिधानरथचक्रं सर्वधर्मानुसरणं सर्वक्लेशविनिवर्तनमज्ञानपर्वतविकिरणं लोके प्रभावयमानान्, नानाप्रणिधानविकुर्वितैः चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बोधिसत्त्वबलमवभासयमानान्, बोधिसत्त्वबलपरिनिष्पत्तिरुतं प्रमुञ्चमानान्, बलपारमितापरिनिष्पत्तिसंभवपूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, सर्वमारपरप्रवाद्यनवमृद्यबलं संदर्शयमानान्, सर्वचक्रवालवज्रपर्वतशरीरोपनिपातात्मभेद्यबलं प्रभावयमानान्, ( ग्व् 74 ) सर्वकल्पोद्दाहाग्निसागरसंवासशरीरानुद्दयोतबलं संदर्शयमानान्, गगनतले सर्वलोकधातुप्रसरपाणितलसंधारणबलतां संदर्शयमानान्, चित्तक्षणे चित्तक्षणे ऋद्धिवशितायां सत्त्वान् प्रतिष्ठापयमानान् धर्मधातुस्फरणाप्रतिप्रस्रब्धानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान् निश्चरित्वा सत्त्वानां ज्ञानमण्डलं द्योतयमानान्, ज्ञानपरिमितापरिशुद्धिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यः प्रमुञ्चमानान्, सर्वबुद्धगुणज्ञानाभिज्ञावतीं ज्ञानभूमिं लोके प्रभावयमाणान्, सर्वबुद्धसंज्ञाभिज्ञावतीं ज्ञानभूमिं संदर्शयमानान्, सर्वप्रणिध्यभिनिर्हाराभिज्ञानाभिज्ञावतीं ज्ञानभूमिं परिदीपयमानान्, सर्वसत्त्वसंग्रहप्रणिध्यभिनिर्हारज्ञानाभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वनैरात्म्यास्वभावावताराभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वचित्तसागरव्यवलोकनाभिज्ञावतीं ज्ञानभूमिं प्रकाशयमानान्, सर्वसत्त्वेन्द्रियविचयज्ञानाभिज्ञावतीं ज्ञानभूमिं प्रविभजमानान्, सर्वसत्त्वाशयाधिमुक्तिव्यवलोकनज्ञानाभिज्ञावतीं ज्ञानभूमिं संवर्णयमानान्, सर्वसत्त्वकर्मसागरावताराभिज्ञावतीं ज्ञानभूमिं विवरमाणान्, सर्वसत्त्वप्रणिधानसागरावतारज्ञानाभिज्ञावतीं ज्ञानभूमिं संदर्श्यं ज्ञानपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
मूर्धत उष्णीषविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतविग्रहान् वरलक्षणानुव्यञ्जनविशुद्धयलंकारान् प्रतप्तजाम्बूनदकनकपर्वतनिर्भासान् सर्वदशदिक्प्रतापनाप्रमाणदीप्तप्रभामण्डलधर्मधातुनयस्फरणघोषान् अनन्तमध्यबुद्धविकुर्वितसंदर्शनान् सर्वजगदसंभिन्नधर्ममेघानभिप्रवर्षमाणान्, यदुत बोधिमण्डवरगतानां बोधिसत्त्वानां समन्तधर्मधातुतलभेदाभिमुखज्ञानमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अभिषेकप्राप्तानां बोधिसत्त्वानां समन्ततलमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महाधर्मयौवराज्याभिषिक्तानां बोधिसत्त्वानां समन्तमुखप्रवेशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, कुमारभूतानां बोधिसत्त्वानां समन्तव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अविवर्त्यानां बोधिसत्त्वानां महाकरूणादृढकूटं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शुद्धाध्याशयानां बोधिसत्त्वानां सर्वधर्मस्वभावभेदज्ञानवज्रं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, पूर्वयोगसंपन्नानां बोधिसत्त्वानां समन्तजगत्संग्रहव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, जन्मजानां बोधिसत्त्वानां त्र्यध्वतथागतपर्षन्मण्डलाभिमुखविज्ञप्तिमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, योगाचाराणां बोधिसत्त्वानां सर्वधर्मस्वभावतलनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, आदिकर्मिकाणां बोधिसत्त्वानां महाकरुणानयोपायगर्भमेघसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां प्रग्रह कोशोपचयगर्भं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, उदाराधिमुक्तिकानां बोधिसत्त्वानामक्षयविमोक्षतथागतप्रणिधिप्रग्रहकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, रूपावचराणां सत्त्वानां समन्ततलाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, ब्रह्मकायिकानां देवानामप्रमाणनयसागरनिगर्जितघोषं ( ग्व् 75 ) नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, वशवर्तिनां देवानां बलसंभवधर्मोपकरणाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मारकायिकानां देवानां चित्रध्वजसर्वज्ञतासंभारसंमार्जनघोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, निर्माणरतीनां देवानां ज्ञानरत्नविचित्रधुरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तुषितानां देवानां बोधिसत्त्वप्रणिधिविचित्रध्वजं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामानां देवानां सर्वतथागतानुस्मृतिकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शक्रदेवेन्द्रभवनेषु तथागतदर्शनप्रीतिवेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यक्षेन्द्रभवनेषु धर्मधातुगगनतथागतविकुर्वितस्फरणमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गन्धर्वेन्द्रभवनेषु सर्वतथागतधर्मसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, असुरेन्द्रभवनेषु ज्ञाननयवज्रमण्डलं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गरुडेन्द्रभवनेषु सर्वतथागतसंभवोपायमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, किन्नरेन्द्रभवनेषु सर्वधर्ममेघसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नागेन्द्रभवनेषु
बोधिसत्त्वविकुर्वितनिर्घोषभवगत्युद्वेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महोरगेन्द्रभवनेषु प्रीतिसागरविवर्धनवेगं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मनुष्यलोकेषु सर्वजगद्विशेषज्ञानविषयं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नरकलोकेषु सर्वसंसारदुःखप्रशान्तनिर्घोषार्यमार्गवचनाधारालंकारं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तिर्यग्योनिषु अनवद्यकर्मपथप्रतिपत्तिनिर्घोषतथागतानुस्मृतिमेघमण्डलशरीरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामलौकिकेषु सर्वतथागतपारमितानिर्नादसर्वसत्त्वत्यागचित्तसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, विनिपतितेषु सत्त्वेषु सर्वदुःखोपशमप्रतिलाभसमाश्वासनस्वरनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
सर्वरोममुखेभ्यश्च एकैकस्माद्रोमविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमानि रश्मिजालमण्डलानि निश्चरित्वा असंख्येयबलरूपावर्तव्यूहान् असंख्येयविचित्रकार्यप्रत्युपस्थानानि दश दिशो धर्मधातुं स्फरमाणान्यपश्यत् । यदुत कुतश्चिद्रोममुखरश्मिजालमण्डलाद्विमलदानचर्यासर्वस्वपरित्यागविकुर्वितमपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वत्र्यध्वबोधिसत्त्वशीलव्रतसमादानाकल्पमण्डलविकुर्वितमपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वक्षान्तिचर्यारूपत्र्यध्वप्राप्तानां बोधिसत्त्वानां हस्तपादोत्तमाङ्गच्छेदाधिवासनविकुर्वितं पाणिदण्डशस्रशरीरोपनिपाताधिवासनविकुर्वितं सर्वशरीरभेदनहृदयनयनोद्धरणाधिवासनविकुर्वितपश्यत् । यैरप्यन्यैस्त्र्यध्वप्राप्तबोधिसत्त्वविकल्पितात्मभावैः सर्वज्ञताधर्मपर्येष्टिनिदानं सर्वकायिकचैतसिकप्रपीडितान्यङ्गप्रत्यङ्गच्छेदनानि महाकरूणाप्रपीडितैरधिवासितानि मर्षितानि अध्युपेक्षितानि, तान्यपि सर्वबोधिसत्त्वक्षान्तिचर्याविकुर्वितप्रतिबिम्बरूपाण्यपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्ववीर्यचर्याधिमात्रताविभक्तरूपाण्यतीतानागतप्रत्युत्पन्नानि बोधिसत्त्वविकुर्वितानि लोकसंकम्पनसागरसंक्षोभनसत्त्वसंवेजनसर्वतीर्थ्यसंत्रासनमारमण्डलविद्रावणधर्मदिग्द्योतनमहाबोधिसत्त्वविक्रमविकुर्वितान्यपश्यत् । ( ग्व् 76 ) कुतश्चिद्रोममुखरश्मिजालमण्डलाद् यानि सर्वबोधिसत्त्वचर्यानिरूपणानि यान्यात्मभावोपादानानि ये कुलोपपत्तिपरिग्रहाय रूपकाय परिनिष्पत्तये ये कल्याणमित्रानुशासनीपरिग्रहाः, यानि कल्याणमित्रोपदेशप्रतिपत्तिस्थानानि, यानि तथागतध्यानाङ्गपरिनिष्पत्त्यनुरूपविहारभवनविमानजनपदगिरिकन्दराणि,
यानि ऋषिशरीराणि, यैस्तानि ध्यानाङ्गानि निष्पादितानि, यानि नृपाधिपत्यानि, यानि नैष्क्रम्यमुखानि, ये व्रतसमादानाकल्पेर्यापथाः, तत्सर्वं सुधनः श्रेष्ठिदारको ऽपश्यत् ॥
कुतश्चिद्रोममुखरश्मिजालमण्डलात् प्रज्ञापारमिताचर्याविहारसर्वधर्मपर्येष्टिसंप्रयुक्तान् कायपरिग्रहानपश्यत् । यैः कायैरेकैकंधर्मपदं सर्वास्तिपरित्यागितया सर्वसत्त्वानामन्तिकात्पर्येषितं सर्वोपस्थानपरिचर्यासर्वकल्याणमित्रसकाशात्पर्येषितं श्रद्धागौरवनिर्जातेन च कायप्रमाणेन तथागतसकाशात्पर्येषितम्, यथा चैकत्वं धर्मपदं तथा सर्वधर्मपदानि प्रज्ञापारमिताप्रतिसंयुक्तानि यानि सर्वजगदुपपत्तिप्रतिभासैः कायैः पर्येषितानि, तत्सर्वं सुधनः श्रेष्ठिदारकः एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वपरिपाकोपायसत्त्वगतिसमुद्रप्रसरितान् सर्वसत्त्वसंग्रहप्रयोगानपश्यत् । एकैकं च सत्त्वं सर्वसत्त्वकायसदृशैरात्मभावोपचारमुखैः पूर्वात्मभावोपादानैरुपायकौशल्यचर्याप्रयुक्तैः संगृह्यमाणं तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात् या भगवतः पूर्वसर्वकल्पप्रणिध्यभिनिर्हारचर्या सर्वसत्त्वपरिपाकप्रणिध्यभिनिर्हारचर्या सर्वक्षेत्रपरिशुद्धिप्रणिध्यभिनिर्हारचर्या, यानि च सर्वप्रणिध्यभिनिर्हारमण्डलानि तेषु तेषु तथागतपादमूलेषु अभिनिर्हृतानि सर्वसंसारदोषाणां तस्य तस्य संसारदोषस्य प्रतिपक्षेण, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबलपारमिताचर्यासंप्रयुक्तान् पूर्वयोगसमुद्रानपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वज्ञानचर्याविचारसंप्रयुक्तानज्ञाननिद्राप्रसुप्तसत्त्वप्रबोधनशरीरान् पूर्वयोगसमुद्रानपश्यत् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सारध्वजं भिक्षुं तथा समाहितमुपनिध्यायन्तमुपपरीक्षमाणः, तत्समाधिविमोक्षमण्डलमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वसमाधिवृषभितामनुविचिन्तयन्, तमचिन्त्यं सत्त्वार्थनयसागरमवतरन्, तदचिन्त्यं समन्तस्रोताभिमुखव्यूहाभिसंस्कारमुखमनुसरन्, अधिमुच्यमानः, तद्धर्मधातुव्यूहविशुद्धिज्ञानमुखमवतरन्, तद्बुद्धाधिष्ठानं संप्रतीच्छन्, ज्ञानं निस्तीरयमाणः, तद्बोधिसत्त्ववशिताबलं संजनयन्, तद्बोधिसत्त्वप्रणिधिबलं दृढीकुर्वाणः, तद्बोधिसत्त्वचर्याबलं विस्तारयन्, सारध्वजस्य भिक्षोः पुरतः एकमपि रात्रिंदिवसमतिनामयति, द्वावपि, सप्तापि रात्रिंदिवानि पुरतो ऽतिनामयति, अर्धमासमपि, मासद्वयमपि, यावत् षडपि मासान् षड् वा रात्रिंदिवानि सारध्वजस्य भिक्षोः पुरतो ऽतिनामयति । ततः षण्णां मासानां षण्णां च रात्रिंदिवानामत्ययेन सारध्वजो भिक्षुस्तस्मात्समाधेर्व्युत्थितः । सुधन आह - आश्चर्यं बतेदम्, आर्य, यावद्गम्भीर एष ( ग्व् 77 ) समाधिः । यावद्विपुलो यावदप्रमाणविषयो यावदचिन्त्यविकुर्वितव्यूहः यावदतुल्यालोकः यावदसंख्येयव्यूहः यावदसंहार्यगोचरः यावदसंभिन्नविषयः यावत्समदिग्विरोचनः यावदप्रमाणसत्त्वार्थप्रयोग एष समाधिः, यत्र हि नाम एवं सर्वसत्त्वानामपरिमाणदुःखस्कन्धव्युपशमाय प्रत्युपस्थितः, यदुत दारिद्र्यदुः खस्कन्धव्युपशमार्थेन प्रत्युपस्थितः । नरकगतिव्युपच्छेदनार्थेन तिर्यग्योनिगतिपरित्राणार्थेन सर्वाक्षणगतिद्वारपिथनार्थेन स्वर्गगत्युपनयनार्थेन देवमनुष्यरतिसुखसंभवार्थेन ध्यानविषयरत्यनुभवार्थेन संस्कृतावचरसुखसंवर्धनार्थेन त्रैधातुकनिःसरणमुखसंदर्शनार्थेन प्रत्युपस्थितः । बोधिचित्तसंभवहेतुपरिदीपनार्थेन प्रत्युपस्थितः । पुण्यज्ञानसंभारसंभवहेतुसंवर्धनार्थेन विपुलमहाकरुणावेगविवर्धनार्थेन महाप्रणिधानबलसंजननार्थेन बोधिसत्त्वमार्गावभासप्रतिलम्भार्थेन महापारमितायानव्यूहार्थेन महायानविशेषावताराभिनिर्हारार्थेन समन्तभद्रचर्याज्ञानावलोकार्थेन बोधिसत्त्वभूमिज्ञानालोकप्रतिलाभार्थेन सर्वबोधिसत्त्वप्रणिधिचर्यानिर्याणव्यूहविशुद्धिसमुदागमार्थेन
सर्वज्ञविषयाक्रमणाधिष्ठानार्थेन प्रत्युपस्थितः । को नाम आर्य एष समाधिः? आह - अस्ति कुलपुत्र, समन्तचक्षुरुपेक्षाप्रतिलब्धा नाम प्रज्ञापारमिता । तदालोक एष समाधिः समन्तमुखविशुद्धिव्यूहो नाम । एतस्य कुलपुत्र समन्तचक्षुरुपेक्षाप्रतिलब्धप्रज्ञापारमितालोकनिर्जातस्य समन्तमुखविशुद्धिव्यूहस्य समाधेः सुभावितत्वात्समन्तमुखविशुद्धिव्यूहपूर्वंगमानि परिपूर्णानि दश समाध्यसंख्येयशतसहस्राण्याजायन्ते । आह - एतावत्परमः आर्य अस्य समाधेर्विषयः? आह - एतं कुलपुत्र समाधिं समापन्नस्य अधिष्ठानं लोकधातुविज्ञप्तिषु । अधिष्ठानं लोकधात्ववतारेषु । अधिष्ठानं लोकधातुविक्रमेषु । अधिष्ठानं लोकधातुप्रतिमण्डलेषु । अधिष्ठानं लोकधातुपरिकर्मसु । अधिष्ठानं लोकधातुपरिशोधनेषु । अधिष्ठानं बुद्धदर्शनविज्ञप्तिषु । अधिष्ठानं बुद्धमाहात्म्यप्रत्यवेक्षायाम् । अधिष्ठानं बुद्धविकुर्वितज्ञानतायाम् । अधिष्ठानं बुद्धबलावतारानुगमेषु । अधिष्ठानं बुद्धगुणसमुद्रावतरणतासु । अधिष्ठानं बुद्धधर्ममेघसंप्रतीच्छनतासु । अधिष्ठानं सर्वबुद्धधर्मचक्रप्रवर्तनासंभेदज्ञानानुगमेषु । अधिष्ठानं बुद्धपर्षण्डलसमुद्रावतरणावगाहनतासु । अधिष्ठानं दशदिक्प्रवेशानुसरणतासु । अधिष्ठानं बुद्धधर्मदेशनानुविलोकनेषु । अधिष्ठानं बुद्धदिगनुलोकनतासु । अधिष्ठानं महाकरुणादिगविजहनतासु । अधिष्ठानं मैत्रीदिक्स्फरणतासु । अधिष्ठानं बुद्धदर्शनदिगवतारातृप्तिषु । अधिष्ठानं सर्वसत्त्वसमुद्रावतारानुगमेषु । अधिष्ठानं सर्वसत्त्वेन्द्रियसमुद्रज्ञानानुगमेषु । अधिष्ठानं सर्वसत्त्वेन्द्रियसंभेदज्ञानेषु । एतमहं कुलपुत्र प्रज्ञापारमिताविहारं जानामि । किं मया शक्यं प्रज्ञापारमिताविहारसागरावतीर्णानां धर्मधातुविषयमतिविशुद्धानां सर्वधर्मगत्यनुसृतिज्ञानिनां विपुलबुद्ध्यप्रमाणविषयस्फरणानां महाधारण्यवभासवशवर्तिनां सर्वसमाधिमण्डलालोकसुपरिशुद्धानामभिज्ञाविकुर्वितवृषभितानिर्यातानामक्षयप्रतिसंवित्सागरावतीर्णानां भूमिगर्भमधुरनिर्घोषाणां सर्वजगत्प्रतिशरणभूतानां बोधिसत्त्वानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, गोचरो वा निदर्शयितुम्, ( ग्व् 78 ) विषयो वा प्रभावयितुम्, महाप्रणिधानबलं वा संवर्णयितुम्, निर्याणमुखं वा अवभासयितुम्, समुदागमो वा अभिद्योतयितुम्, मार्गं वा परिदीपयितुम्,
समाधिस्रोतो व अनुसर्तुम्, चित्तविषयो वा ज्ञातुम्, ज्ञानं वा समता वा अवगन्तुम् ॥
गच्छ कुलपुत्र इहैव दक्षिणापथे समुद्रवेताडी नाम प्रत्युद्देशः । तत्र समन्तव्यूहं नामोद्यानं महाप्रभस्य नगरस्य पूर्वेण । तत्र आशा नामोपासिका प्रतिवसति सुप्रभस्य मनुजेन्द्रस्य भार्या । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सारध्वजस्य भिक्षोरन्तिकादात्तसारः उपजीवितधर्मा अवतीर्णसमाधिविषयो लब्धालोकावभासितज्ञानः समाध्यवभासप्रतिलब्धः अधिमुक्तिविशुद्धयनुगतधर्मनयालोकानुगतचेतनः विशुद्धिमुखानुगतालोको दिगालोकप्रसृतज्ञानः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सारध्वजं भिक्षुमवलोक्य प्रणिपत्य पुनः पुनरवलोकयन् अभिविलोकयन् निपतन् प्रणिपतन् नमस्यन् अवनमन् मनसिकुर्वंश्चिन्तयन् भावयन् पारिभावयन् उदानमुदानयन् हाक्कारं कुर्वन् गुणानभिमुखीकुर्वन् अनुगमयन् अनुस्मरन् अनुस्मारयन् दृढीकुर्वन् अविजहन् मनसा आगमयन् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनमभिलषन् स्वरनिमित्तमुद्गृह्णन् धारयन् धारणानुगतचित्तो वर्णसंस्थानमनुस्मरन् ज्ञानविशेषमनुविचिन्तयन् समाधिविषयं समवतरन् प्रणिधिविषयमनुप्रबन्धन् गोचरविषयं विचारयन् ज्ञानावभासं संप्रतीच्छन् सारध्वजस्य भिक्षोरन्तिकात्प्रक्रान्तः
10 आशा ।
अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रगुणाराधितः कल्याणमित्रसंप्रेषितः कल्याणमित्रदर्शनावेशाविष्टः कल्याणमित्रानुशासनीं प्रतिपद्यमानः कल्याणवचनान्यनुस्मरन्, कल्याणमिउत्रानुगतप्रेमा कल्याणमित्राण्याकरं बुद्धदर्शनं संपश्यन्, कल्याणमित्राणि बुद्धधर्मसंदर्शकानि संपश्यन्, कल्याणमित्राण्याचार्याणि सर्वज्ञताधर्मेषु समनुपश्यन्, चक्षुर्भूतानि कल्याणमित्राणि बुद्धगगनालोकनतायै संपश्यन्, अनुपूर्वेण येन समुद्रवेतालीप्रदेशे समन्तव्यूहमुद्यानं तेनोपसंक्रान्तः । सो ऽपश्यत् समन्तव्यूहमुद्यानं सर्वरत्नप्राकारपरिक्षिप्तं सर्वरत्नद्रुमपङ्क्तिषु आविद्धसमलंकृतं सर्वरत्नपङ्क्तिरुचिरसूक्ष्मकुसुमरेणुप्रमुक्तं सर्वरत्नद्रुमसमलंकृतं सर्वरत्नद्रुमपुष्पविचित्रकुसुमाकीर्णं सर्वगन्धद्रुमपङ्क्तिसमन्तदिग्निश्चरितगन्धं सर्वरत्नमालाद्रुमकोशप्रमुक्तप्रलम्बनानारत्नमालावृष्टयभिप्रवर्षणं सर्वमणिराजद्रुममणिरत्नकृतविचित्रभक्तिसंस्तीर्णोपशोभिततलं सर्वकल्पपुष्पद्रुमनानारङ्गवस्त्रप्रलम्बप्रच्छन्नोपचारसुविभक्तदेशं सर्ववाद्यद्रुमदिव्यातिरेकतूर्यमारुतसमीरितनिर्नादितमधुरनिघोषमनिम्नोन्नतपृथिवीसमतलाविद्धं सर्वाभरणवृक्षकोशप्रमुक्ताभरणविकृतविचित्रधाराभिप्रलम्बितोपशोभितव्यूहम् । तस्मिन् खलु पुनः समन्तव्यूहे महोद्याने दश प्रासादकोटीशतसहस्राणि सर्वमहामणिरत्नप्रतिमण्डितनिर्यूहव्यूहानि, दश कूटागारशतसहस्राणि जाम्बूनदकूटकनकच्छदनोपेतानि, दश विमानशतसहस्राणि वैरोचनमणिरत्नोपशोभितगर्भाणि, दश पुष्करिणीशतसहस्राणि सर्वरत्नमयानि रत्नेष्टकानिचितानि सप्तरत्नविचित्रसोपानानि नानामणिरत्नवेदिकापरिवृतानि दिव्यचन्दनवारिनिष्यन्दगन्धानि सुवर्णवालुकासंस्तीर्णदशप्रासादकनकमणिरत्नाकीर्णतलानि चतुर्दिक्षु विभक्तसोपानानि अष्टाङ्गोपेतवारिपरिपूर्णानि हंसक्रौञ्चमयूरकोकिलकलविङ्ककुणालनिर्नादरुतमधुरनिर्घोषाणि रत्नतालपङ्क्तिपरिवृतानि सुवर्णघण्टाजालसंछन्नमारुतसमीरितमनोज्ञनिर्घोषशब्दानि
उपरिमहामणिरत्नवितानविततानि नानारत्नवृक्षवाटिकापरिवृतानि उच्छ्रितच्छत्रध्वजमणिरत्नजालोद्योतितानि दश च तडागशतसहस्राणि, कालानुसारिचन्दनकर्दमोपचितानि सर्वरत्नमयविचित्रवर्णपद्मसंछन्नानि महामणिरत्नपद्मावभासितविमलसलिलानि । तस्य चोद्यानस्य मध्य विचित्रध्वजं नाम महाविमानं सागरगर्भरत्नपृथिवीतलसंस्थानं वैदूर्यमणिरत्नस्तम्भोपशोभितं जाम्बूनदसुवर्णसमुद्गतकूटं जगद्विरोचनमणिरत्नगर्भव्यूहफलकबद्धमसंख्येयमणिरत्नजालोज्ज्वलिततलमजितवतिगन्धमणिराजनिर्धूपितोपचारमनुरचितगन्धमणिराजसमीरितगन्धं विबोधनगन्धमणिराजविधमनतीक्ष्णेन्द्रियवासनम् । तस्मिंश्च विचित्रध्वजे महाविमाने ऽपरिमितान्यासनानि प्रज्ञप्तानि - यदुत पद्मगर्भाणि दिग्रोचनमणिरत्नपद्मगर्भाणि वैरोचनमणिरत्नपद्मगर्भाणि जगद्रोचनमणिरत्नपद्मगर्भाणि चित्रकोशमणिरत्नपद्मगर्भाणि सिंहपञ्जरमणिरत्नपद्मगर्भाणि विमलमणिरत्नपद्मगर्भाणि मणिरत्नरचितपद्मगर्भाणि समन्तमुखमणिरत्नपद्मगर्भाणि प्रभाव्यूहमणिरत्नपद्मगर्भाणि सागरप्रतिष्ठानविशुद्धमणिरत्नव्यूहसमन्तरश्मिप्रभासमणिराजपद्मगर्भाणि ( ग्व् 80 ) वज्रसिंहाक्रान्तमणिरत्नपद्मगर्भाणि । तस्य च विचित्रध्वजस्य महाविमानस्य अनेके निर्यूहा अचिन्त्यरत्नमया विचित्ररत्नव्यूहा अचिन्त्यवर्णनिर्भासरुचिरसंस्थानाः । तच्च समन्तव्यूहमुद्यानमुपरिष्टाद्दशभिर्महावितानशतसहस्रैः संछन्नं यदुत वस्त्रवितानैर्द्रुमलतावितानैः पुष्पवितानैर्माल्यवितानैर्गन्धवितानैर्मणिरत्नवितानैः सुवर्नवितानैराभरणवितानैः वज्रप्रभासमणिवितानैरैरावणनागराजविकुर्विताप्सरोवितानैः शक्राभिलग्नमणिरत्नवितानैः
। एतत्प्रमुखैर्दशभिर्वितानशतसहस्रैः संछन्नम् । दशभिश्च महारत्नजालशतसहस्रैः संछन्नम् । यदुत रत्नगर्भकिङ्किणीजालैः रत्नच्छत्रजालैः रत्नबिम्बजालैः सागरगर्भमुक्ताजालैः नीलवैडूर्यमणिरत्नजालैः सिंहलताजालैः चन्द्रकान्तमणिरत्नजालैः गन्धविग्रहजालैः रन्तमकुटजालैः रन्तहारजालैः । एतत्प्रमुखैर्दशभिर्महामणिरत्नजालशतसहस्रैः संछन्नम् । दशभिश्च महावभासशतसहस्रैरवभासितम् - यदुत ज्योतिरश्मिमणिरत्नावभासेन आदित्यगर्भमणिरत्नावभासेन चन्द्रध्वजमणिरत्नावभासेन गन्धप्रधूपनार्चिमणिरत्नावभासेन श्रीगर्भमणिरत्नवभासेन पद्मगर्भमणिरत्नावभासेन ज्योतिर्ध्वजमणिरत्नावभासेन महाप्रदीपमणिरत्नावभासेन समन्तदिग्वैरोचनमणिरत्नावभासेन महागन्धमेघनिश्चरितविद्युन्मालामणिरत्नावभासेन । एतत्प्रमुखैर्दशभिर्महामणिरत्नावभासशतसहस्रैर्नित्यावभासितं तन्महोद्यानम् । दशमहाभरणमेघशतसहस्राभिवर्षितालंकारं च तन्महोद्यानं दशकालानुसारिचन्दनमेघशतसहस्राभिगर्जितं दशदिव्यसमतिक्रान्तमहामाल्यदाममेघशतसहस्राभिप्रलम्बितोपशोभितं दशदिव्यसमतिक्रान्तनानारङ्गविचित्रवस्त्रमेघशतसहस्राभिप्रवर्षितं दशदिव्यसमतिक्रान्ताभरणमेघशतसहस्रविभूषितं दशदेवपुत्रशतसहस्रदर्शनकामाधोमुखप्रणताभिप्रवर्षितं दशाप्सरोमेघशतसहस्रपूर्वसभागचरितस्वकस्वकात्मभावोत्सृजनाभिप्रवर्षितं दशबोधिसत्त्वमेघशतसहस्रधर्मश्रवणतर्षोपसंक्रान्ताभिप्रवर्षितं च तन्महोद्यानम् । यत्र आशोपासिका काञ्चनगर्भमहाभद्रासनोपविष्टा सागरगर्भमुक्ताजालालंकृता अवबद्धमकुटा दिव्यातिरेककनककेयूरवलयबाहुव्यूहा श्रीकायरश्मिमणिरत्नविराजितबाहुः अभिनीलविमलविलम्बमणिकुण्डला महारत्नजालसंछन्नोपशोभितशीर्षा सिंहमुखमणिरत्नकर्णचूडकधारणी चिन्ताराजमणिरत्नहारावसक्तकण्ठा सर्वरत्नजालसंछन्नप्रभोज्ज्वलितशरीरा प्राणिकोटिनियुतशतसहस्रप्रणतकाया । तत्र ये आशाया उपासिकायाः सकाशमपरिमाणाः सत्त्वाः पूर्वस्या दिश आगच्छन्ति,
महाब्रह्माणो वा ब्रह्मपुरोहिता वा ब्रह्मकायिका वा वशवर्तिनो वा परनिर्मितवशवर्तिकायिका वा सुनिर्मिता वा निर्माणरतिकायिका वा संतुषिता वा तुषितकायिका वा सुयामा वा सुयामकायिका वा देवेन्द्रा वा त्रायस्त्रिंशत्कायिका वा यक्षेन्द्रा वा यक्षा वा गन्धर्वेन्द्रा वा गन्धर्वा वा कुम्भाण्डेन्द्रा वा कुम्भाण्डा वा नागेन्द्रा वा नागा वा असुरेन्द्रा वा असुरा वा गरुडेन्द्रा वा गरुडा व किन्नरेन्द्रा वा किन्नरा वा महोरगेन्द्रा व महोरगा वा यमा वा यमकन्या वा, प्रेतमहर्द्धिका वा प्रेता वा मनुष्येन्द्रा वा मनुस्या वा । एवं ये दक्षिणाया वा पश्चिमाया उत्तराया उत्तरपूर्वाया पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध ( ग्व् 81 ) ऊर्ध्वाया दिश आगच्छति । महाब्रह्माणो व ब्रह्मपुरोहिता वा ब्रह्मकायिका वा वशवर्तिनो वा वशवर्तिकायिका वा यावन्मनुष्येन्द्रा वा मनुष्या वा आगच्छन्ति नानाव्याधिस्पृष्टा नानाक्लेशपर्यवस्थिता विविधदृष्टिगताभिनिविष्टाः कर्मावरणवृताः, ते सहदर्शनादाशाया उपासिकायाः सर्वव्याध्युपशान्ता भवति । विगतक्लेशमलचित्ता अपगतदृष्टिशल्याः सर्वावरणपर्वतविकीर्णा अनावरणविशुद्धिमण्डलमवतरन्ति । यत्र विशुद्धिमण्डले सर्वकुशलमूलान्युत्तपन्ते, सर्वेन्द्रियाङ्कुरा विवर्धन्ते, सर्वज्ञज्ञाननयसागराः समवसरन्ति । सर्वधारणीमुखनयसमुद्रा आवर्तन्ते । सर्वसमाधिमुखनयसमुद्रा अभिमुखीभवन्ति । सर्वप्रणिधानमुखानि संजायन्ते । सर्वचर्यामुखानि प्रवर्तन्ते । सर्वगुणाभिनिर्हारमुखानि विशुध्यन्ते । चित्तवैपुल्यतासर्वाभिज्ञावतिनयेन प्रवर्तन्ते । कायासङ्गता सर्वत्रानुगता भवन्ति ॥
अथ खलु सुधनः श्रेष्ठिदारकः समन्तव्यूहमुद्यानं प्रविश्य समन्तादनुविलोकयन् अद्राक्षीदाशामुपासिकां भद्रासने निषण्णाम् । स येन आशोपासिका तेनोपजगाम । उपेत्य आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशोपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एतदवोचत् - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सा आह - अहं कुलपुत्र, अशोकक्षेमध्वजस्य बोधिसत्त्वविमोक्षस्य लाभिनी । साहं कुलपुत्र अमोघदर्शना अमोघश्रवणा अमोघपर्युपासना अमोघैकवाससंवासना अमोघानुस्मरणा । नाहं कुलपुत्र, अनवरोपितकुशलमूलानां सत्त्वानां चक्षुष आभासमागच्छामि दर्शनविज्ञप्त्या, नापरिगृहीतकल्याणमित्राणां नासमन्वाहृतसम्यक्संबुद्धानाम् । मम कुलपुत्र सहदर्शनेन सत्त्वा अवैवर्तिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः । अपि तु खलु पुनर्मे कुलपुत्र, पूर्वस्यां दिशि तथागता आगत्य इह रत्नासने निषद्य धर्मं देशयन्ति । यथा पूर्वस्यां दिशि, एवं दशभ्यो दिग्भ्यः । साहं कुलपुत्र अविरहिता तथागतदर्शनेन, अविरहिता धर्मश्रवणेन, अविरहिता बोधिसत्त्वसमवधानेन । यान्यपीमानि कुलपुत्र चतुरशीतिः प्राणिकोटीनियुतशतसहस्राणि इह समन्तव्यूहे महोद्याने प्रतिवसन्ति, सर्वाण्येतान्यवैवर्तिकान्यनुत्तरायाः सम्यक्संबोधेः मम सभागचरितानि । ये ऽप्यन्ये कुलपुत्र केचिदिह सत्त्वाः प्रतिवसन्ति, ते ऽप्यविवर्त्याः सवे ऽनुत्तरायाः सम्यक्संबोधेः । अविवर्त्यसंघसमवसरणा मम सभागचरिता बोधिसत्त्वाः । आह - कियच्चिरोत्पादितं त्वया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तम्? आह - अहं कुलपुत्र पूर्वेनिवासमनुस्मरामि, दीपंकरं तथागतमर्हन्तं सम्यक्संबुद्धम् । तस्य मे तथागतस्यान्तिके ब्रह्मचर्यं चीर्णम् । स च मे तथागतः पूजितः, धर्मदेशना च मे तस्यान्तिकादुद्गृहीता । तस्य परेण विमलो नाम तथागतो ऽभुत् । ( ग्व् 82 ) तस्याहं शासने प्रव्रजिता, धर्मचक्रं च मे संधारितम् । तस्य परेण केतुर्नाम तथागतो ऽभूत् । स मया आरागितः । तस्य परेण मेरुश्रीर्नाम तथागतो ऽभूत् । तस्य परेण पद्मगर्भो नाम तथागतो ऽभूत् । तस्य परेण वैरोचनो नाम तथागतः । तस्य परेण समन्तचक्षुर्नाम् तथागतः । तस्य परेण ब्रह्मशुद्धो नाम तथागतः । तस्य परेण वज्रनाभिर्नाम तथागतः । तस्य परेण वरुणदेवो नाम तथागतो ऽभुत् । अनेन कुलपुत्र पर्यायेण जातिपरंपरया कल्पपरंपरया बुद्धपरंपरामवतरन्ती अनुस्मरमाणा तथागतानर्हतो ऽनन्तर्यतया षट्त्रिंशद्गङ्गानदीवालुकासमांस्तथागताननुस्मरामि, ये मया आरागिता उपस्थिताः पूजिता अर्चिताः येषां मया अन्तिकाद्धर्मदेशना श्रुता, येषां च मे शासने ब्रह्मचर्यं चीर्णम् । अत उत्तरि कुलपुत्र तथागताः प्रजानन्ति, यावन्तो मया तथागता आरागिताः । अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रथमचित्तोत्पादेनैव सर्वधर्मधातुस्फरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः महाकरूणानयेन सर्वजगदन्तर्गततया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महाप्रणिधानदशदिग्धर्मधातुतलनिष्ठानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महामैत्र्या सर्वजगत्स्फरणतया, अप्रमाणाः कुलपुत्र, बोधिसत्त्वा बोधिसत्त्वचर्यया सर्वक्षेत्रेषु सर्वकल्पसमवसरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः समाधिबलेन
बोधिसत्त्वमार्गाप्रत्युदावर्तनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा धरणीबलेन सर्वजगत्संधारणधारणीनयानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा ज्ञानालोकबलेन त्र्यध्वज्ञानयानुगमनसंधारणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा अभिज्ञाबलेन सर्वक्षेत्रेषु यथाशयसत्त्वाभिरुचितप्रभाजालचक्राभिनिर्हरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रतिसंविद्बलेन एकघोषोदाहारसर्वजगत्संतोषणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः कायविशुद्धया सर्वबुद्धक्षेत्रस्वशरीरस्फरणतया ॥
सुधन आह - कियच्चिरेण आर्ये त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे? आह - न खलु कुलपुत्र एकसत्त्वारम्बणतया बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय । न सत्त्वशतस्यार्थाय, न सत्त्वसहस्रस्य, न सत्त्वशतसहस्रस्य, न सत्त्वकोटेः, न सत्त्वकोटीशतस्य, न सत्त्वकोटीसहस्रस्य, न सत्त्वकोटीनियुतशतसहस्रस्य अर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । न सत्त्वकङ्करस्यार्थाय, न सत्त्वबिम्बरस्य, न सत्त्वप्रवरस्य, न सत्त्वपरमस्य, न सत्त्वावरस्य, न सत्त्वासीनस्य, न सत्त्वानौपम्यस्य, न सत्त्वनेमस्य, न सत्त्वविपासस्य, न सत्त्वमृगवस्य, न सत्त्वविनाहस्य, न सत्त्वविरागस्य, न सत्त्वावगमस्य, न सत्त्वविवगस्य, न सत्त्वसंक्रमस्य, न सत्त्वविसरस्य, न सत्त्वविजङ्गस्य, न सत्त्वविस्रोतसः, न सत्त्वविवाहस्य, न सत्त्वविभक्तेः, न सत्त्वविग्धन्तस्य, न सत्त्वतुलनस्य, न सत्त्वातुलस्य, न सत्त्ववरणस्य, न सत्त्वविवरणस्य, न सत्त्ववनस्य, न सत्त्वविवर्णस्य, न सत्त्वसाम्यस्य, न सत्त्ववरणस्य, न सत्त्वविचारस्य, न सत्त्वविसारस्य, न सत्त्वव्यत्यस्तस्य, न सत्त्वाभ्युद्गतस्य, न सत्त्वविसृष्टस्य, न सत्त्वदेवलस्य, न सत्त्वपरिभेदस्य, न सत्त्वविक्षोभस्य, न सत्त्वपलिगुञ्जस्य, न सत्त्वहरितस्य, ( ग्व् 83 ) न सत्त्वालोकस्य, न सत्त्वेन्द्रियस्य, न सत्त्वहेलुकस्य, न सत्त्वदुर्बुदस्य, न सत्त्वहरुणस्य, न सत्त्वमालुतस्य, न सत्त्वमैलुतस्य, न सत्त्वक्षयस्य, न सत्त्वाक्षयमुक्तस्य, न सत्त्वैलतायाः, न सत्त्वमालुतायाः, न सत्त्वमण्डुमायाः, न सत्त्वविषमतायाः, न सत्त्वसमतायाः, न सत्त्वप्रमन्तायाः, न सत्त्वप्रमर्तायाः, न सत्त्वामन्त्रायाः, न सत्त्वान्नमन्त्रायाः, न सत्त्वसङ्गमन्त्रायाः, न सत्त्वविमन्त्रायाः न सत्त्वहिमन्त्रायाः न सत्त्वपरमन्त्रायाः, न सत्त्वशिवमन्त्रायाः, न सत्त्वैलायाः, न सत्त्ववेलायाः, न सत्त्वतेलायाः, न सत्त्वशैलायाः, न सत्त्वकेलायाः, न सत्त्वशिलायाः, न सत्त्वश्वेलायाः, न सत्त्वनेलायाः, न सत्त्वभेलायाः, न सत्त्वसेलायाः, न सत्त्वपेलायाः, न सत्त्वहेलायाः,
न सत्त्वमेलायाः, न सत्त्वसरडस्य, न सत्त्वमारुतस्य, न सत्त्वमेरुतस्य, न सत्त्वखेलुतस्य, न सत्त्वमालुतस्य, न सत्त्वमुलुतस्य, न सत्त्वाजवस्य, न सत्त्वकमलस्य, न सत्त्वकमरस्य, न सत्त्वातरस्य, न सत्त्वहेलुवस्य, न सत्त्ववेलुवस्य, न सत्त्वजावकस्य, न सत्त्वहवस्य, न सत्त्वहवलस्य, न सत्त्वबिम्बरस्य, न सत्त्वबिम्बहुरस्य, न सत्त्वचरणस्य, न सत्त्वचरमस्य, न सत्त्वपरवस्य, न सत्त्वधवरस्य, न सत्त्वप्रमदस्य, न सत्त्वविगमस्य, न सत्त्वोद्वर्तनस्य, न सत्त्वनिर्देशस्य, न सत्त्वक्षयस्य, न सत्त्वसंभूतस्य, न सत्त्वममस्य, न सत्त्ववदस्य अर्थाय, न सत्त्वोत्पलस्य, न सत्त्वपद्मस्य, न सत्त्वसंख्यायाः, न सत्त्वोपागमस्य, न सत्त्वगत्याः न सत्त्वासंख्येयस्य, न सत्त्वासंख्येयपरिवर्तस्य, न सत्त्वापरिमाणस्य, न सत्त्वापरिमाणपरिवर्तस्य, न सत्त्वापर्यन्तस्य,न सत्त्वापर्यन्तओपरिवर्तस्य, न सत्त्वासमन्तस्य, न सत्त्वासमन्तपरिवर्तस्य, न सत्त्वागणेयस्य,न सत्त्वागणेयपरिवर्तस्य, न सत्त्वातुल्यस्य, न सत्त्वातुल्यपरिवर्तस्य, न सत्त्वाचिन्त्यस्य, न सत्त्वाचिन्त्यपरिवर्तस्य, न सत्त्वापर्यन्तस्य, न सत्त्वापर्यन्तपरिवर्तस्य, न सत्त्वामाप्यस्य, न सत्त्वामाप्यपरिवर्तस्य, न सत्त्वानभिलाप्यस्य, न सत्त्वानभिलाप्यपरिवर्तस्य, न सत्त्वानभिलाप्यानभिलाप्यस्य अर्थाय, न सत्त्वानभिलाप्यानभिलाप्यपरिवर्तस्यार्थाय । नैकलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न यावदनभिलाप्यानभिलाप्यलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न चातुर्द्वीपकलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न सहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न द्विसाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय, न यावदनभिलाप्यानभिलाप्यत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमलोकधातुपर्यापन्नानां सत्त्वानामर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय, अपि तु अशेषनिःशेषानवशेषसर्वलोकधातुपर्यापन्नानां सर्वसत्त्वानामर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय । नैकबुद्धारागणतायै
बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते यदुत आरागणाभिराधनपूजोपस्थानतायै । न दशबुद्धारागणाभिराधनपूजोपस्थानतायै, न यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमबुद्धारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकलोकधातुपर्यापन्नबुद्धवंशारागणाभिराधनपूजोपस्थानतायै, ( ग्व् 84 ) न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नतथागतवंशारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकबुद्धक्षेत्रपरिशोधनाय, न यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमबुद्धक्षेत्रपरिशोधनाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकतथागतशासनसंधारणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समतथागतशासनसंधारणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकबुद्धप्रस्थानप्रणिधानविमात्रतावतरणाय न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबुद्धप्रस्थानप्रणिधानविमात्रावरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकतथागतबुद्धक्षेत्रव्यूहावतरणतायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतबुद्धक्षेत्रव्यूहावतरणाय, बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकबुद्धपर्षन्मण्डलविभक्त्यवतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबुद्धपर्षन्मण्डलविभक्त्यवतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकतथागतधर्मचक्रसंधारणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतधर्मचक्रसंधारणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकसत्त्वचित्तसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वचित्तसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकसत्त्वेन्द्रियचक्रपरिज्ञायै, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वेन्द्रियपरिज्ञायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकसत्त्वेन्द्रियसागरावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमसत्त्वेन्द्रियसागरावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकलोकधातुकल्पपरंपरावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकलोकधातुपर्यापन्नसर्वसत्त्वचर्यावासनानुसंध्यवतरणाय,
न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वचर्यावासनानुसंध्यवतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकलोकधातुपर्यापन्नसर्वसत्त्वक्लेशसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वक्लेशसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकलोकधातुपर्यापन्नसर्वसत्त्वसर्वकर्मसमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणूरजसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वकर्मसमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । नैकलोकधातुपर्यापन्नसर्वसत्त्वसर्वचर्यासमुद्रावतरणाय, न यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुपर्यापन्नसर्वसत्त्वसर्वचर्यासमुद्रावतरणाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । अपि तु अशेषनिःशेषानवशेषसर्वसत्त्वधातुपरिपाकविनयाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । अनवशेषसर्वबुद्धारागणाभिराधनपूजोपस्थानतायै बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । अनवशेषसर्वलोकधातुपर्यापन्नसर्वबुद्धवंशारागणाभिराधनपूजोपस्थानतायै ( ग्व् 85 ) बोधिसत्त्वानां प्रणिध्यभिलाषो भवति । अनवशेषसर्वबुद्धक्षेत्रपरिशोधनाय बोधिसत्त्वानामाशयो दृढीभवति । अनवशेषसर्वबुद्धशासनसंधारणाय बोधिसत्त्वानां प्रयोगः संभवति । अनवशेषसर्वतथागतप्रस्थानप्रणिधिविमात्रतानुगमाय बोधिसत्त्वानां चित्तवेगाः प्रादुर्भवन्ति । अनवशेषसर्वतथागतसर्वबुद्धक्षेत्रगुणव्यूहावतरणाय बोधिसत्त्वानां व्यवसाय उत्पद्यते । अनवशेषसर्वतथागतपर्षन्मण्डलसमुद्रावतरणाय बोधिसत्त्वानामभिलाषः प्रभवति । अनवशेषसर्वजगच्चित्तसागरावगाहनतायै बोधिसत्त्वानां प्रार्थना संजायते । अनवशेषसर्वसत्त्वेन्द्रियचक्रपरिज्ञायै बोधिसत्त्वानामभिकाङ्क्षोत्पद्यते । अनवशेषसर्वसत्त्वेन्द्रियसागरावतरणतायै बोधिसत्त्वानामुत्सोढिराजायते । अनवशेषसर्वलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां छन्दः संभवति । अनवशेषसर्वसत्त्वक्लेशवासनानुसंधिसमुच्छेदाय बोधिसत्त्वानां पराक्रम आजायते । अनवशेषसर्वसत्त्वकर्मक्लेशसमुद्रोच्छोषणाय बोधिसत्त्वानां महाज्ञानसूर्य उदागच्छति । अनवशेषसर्वसत्त्वचर्यापरिज्ञायै बोधिसत्त्वानां प्रज्ञालोकः प्रादुर्भवति । अनवशेषसर्वसत्त्वदुःखाग्निस्कन्धप्रशमनाय बोधिसत्त्वानां महाकरूणामेघः समुदागच्छति । संक्षेपएण कुलपुत्र एतत्प्रमुखानि दश बोधिसत्त्वचर्यानयमुखासंख्येयशतसहस्राणि, यानि बोधिसत्त्वेन समुदानयितव्यानि । अपि तु खलु पुनः कुलपुत्र सर्वधर्मसमवसरणा बोधिसत्त्वानां चर्या यदुत ज्ञानानुगमाय । सर्वक्षेत्रसमवसरणा बोधिसत्त्वानां चर्या यदुत परिशोधनतायै । तस्या मम कुलपुत्र एवंप्रणिधेर्यन्निष्ठा काम धातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि
भवन्तु । यन्निष्ठा लोकधातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि भवन्तु । या निष्ठा सर्वसत्त्वक्लेशवासनानुसंध्यनुशयानाम्, तन्निष्ठानि मम प्रणिधानानि भवन्तु ॥
आह - को नाम आर्ये एष विमोक्षः? आह - अशोकक्षेमध्वजो नाम कुलपुत्र एष विमोक्षः । एतमहं कुलपुत्र, एकं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सागरसमचित्तानां बोधिसत्त्वानां सर्वबुद्धधर्मसंप्रतीच्छनतया, मेरुकल्पानां दृढाध्याशयतया, सुदर्शनभैषज्यराजोपमानां सर्वसत्त्वक्लेशव्याधिप्रमोक्षणतया, आदित्यकल्पानां सर्वसत्त्वाविद्यान्धकारविधमनतया, धरणीसमचित्तानां सर्वसत्त्वाश्रयप्रतिष्ठानभूततया, मारूतसदृशानां सर्वजगदर्थकरणतया, प्रदीपभूतानां सर्वसत्त्वज्ञानालोककरणतया, मेघोपमानां शान्तनिर्घोषयथावद्धर्मप्रवर्षणतया, चन्द्रोपमानां पुण्यरश्मिजालप्रमोचनतया, शक्रोपमानां सर्वजगदारक्षाप्रतिपन्नतया चर्या ज्ञातुं गुणान् वा वक्तुम्, अचिन्त्या वा बोधिसत्त्वशिक्षाः प्रभावयितुम्, अनन्तमध्या वा बोधिसत्त्वप्रणिधिविकल्पाः संदर्शयितुम् ॥
गच्छ कुलपुत्र अयमिहैव दक्षिणापथे समुद्रवेताल्यां नालयुर्नाम जनपदः । तत्र भीष्मोत्तरनिर्घोषो नाम ऋषिः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ । स ते कुलपुत्र बोधिसत्त्वचर्यामुपदेक्ष्यति ॥
अथ खलु सुधनः श्रेष्ठिदारक आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रणिपत्य अश्रुमुखो रुदन् बोधिपरमदुर्लभतामनुविचिन्तयन्, कल्याणमित्रदुरारागणतामनुविचिन्तयन्, सत्पुरुषसमवधानसुदुर्लभतामनुविचिन्तयन्, बोधिसत्त्वेन्द्रियप्रतिलाभदुरभिसंभवतामनुविचिन्तयन्, बोधिसत्त्वाशयविशुद्धिदुर्लभतामनुविचिन्तयन्, सभागमित्रसमवधानदुर्लभतामनुविचिन्तयन्, यथावद्बोध्यभिमुखचित्तनिध्यप्तिदुर्लभतामनुविचिन्तयन्, अविषमधर्मनयानुशासनीप्रयोगदुर्लभतामनुविचिन्तयन्, असंहार्यचित्तकल्याणतायोगसंजननदुर्लभतामनुविचिन्तयन्, सर्वज्ञतावेगविवर्धनधर्मालोकसुदुर्लभतामनुविचिन्तयन्, आशाया उपासिकाया अन्तिकात्प्रक्रान्तः
11 भीष्मोत्तरनिर्घोषः ।
अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वानुशासन्यनुगतचित्तो बोधिसत्त्वचर्यापरिशोधनानुगतचित्तो बोधिसत्त्वपुण्यबलविवर्धनचित्तो बुद्धदर्शनवेगावभासितचित्तो धर्मनिधानप्रतिलाभसंजातचित्तवेगो महाप्रणिधानाभिनिर्हारप्रवर्धितचित्तवेगः सर्वधर्मदिगभिमुखचित्तो धर्मस्वभावावभासितचित्तः सर्वावरणविकिरणचित्तो निरन्धकारधर्मधातुव्यवलोकनचित्तो नारायणवज्ररत्नाभेद्यविमलाशयचित्तः सर्वमारबलदुर्योधनदुर्धर्षणचित्तो ऽनुपूर्वेण येन नालयुर्जनपदः तेनोपसंक्रम्य भीष्मोत्तरनिर्घोषमृषिमन्वेषते स्म । तेन च समयेन भीष्मोत्तरनिर्घोषर्षिरन्यतमस्मिन्नाश्रमपदे विहरति स्म असंख्येयविचित्रद्रुमलतावनरमणीये विविधवृक्षपत्रसंछन्ने सदाप्रफुल्लितविचित्रपुष्पवृक्षे सदाफलोपचितफलवृक्षे नानारत्नवृक्षोदारमणिफलकसंस्कृततले सुविभक्तमहाचन्दनद्रुमे मनोज्ञागरुवृक्षसदाप्रमुक्तगन्धोपशोभिते चतुर्दिक्षुविभक्तगन्धोपशोभिते चतुर्दिक्षु विभक्तपाटलीवृक्षसमलंकृते न्यग्रोधवृक्षपादपरुचिरसंस्थाने सदापक्वफलजम्बूवृक्षप्रवर्षणे नवनलिनीपद्मोत्पलकुमुदोपशोभिते । अद्राक्षीत्सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषमृषिं दशऋषिसहस्रपरिवृतं चन्दनतलावबद्धायां कुट्यां जटामकुटधारिणमजिनदर्भचीवरवल्कलवसनं तृणसंस्तरोपविष्टम् । दृष्ट्वा च पुनर्येन भीष्मोत्तरनिर्घोष ऋषिस्तेनोपजगाम । उपेत्य भूतकल्याणमित्रप्रतिलम्बनाशयकल्याणमित्रायद्वारां सर्वज्ञतां संपश्यन्, भूतमार्गोपनयाय कल्याणमित्रानुशासन्यधीनां सर्वज्ञतां संपश्यन्, सर्वज्ञताभूम्युपनयेन कल्याणमित्रदासाधीनां सर्वज्ञतां संपश्यन्, दशबलज्ञानरत्नद्वीपोपनयेन कल्याणमित्रोल्कावभासितां सर्वज्ञतां संपश्यन्, दशबलज्ञानालोकसंजननतया कल्याणमित्रमार्गां सर्वज्ञतां संपश्यन्, अक्षुण्णसर्वज्ञतापुरप्रापणतया कल्याणमित्रप्रदीपां सर्वज्ञतां संपश्यन्, समविषमसंदर्शनतया कल्याणमित्रं सेतुं सर्वज्ञतायाः संपश्यन्, सर्वप्रपातभयविगमनतया कल्याणमित्रच्छत्रां सर्वज्ञतां संपश्यन्, महामैत्रीबलाह्लादसंजननतया कल्याणमित्रवेगां सर्वज्ञतां संपश्यन्, महाकरुणासंजननतया कल्याणमित्राधीनां सर्वज्ञतादर्शनपरिपुष्टिं संपश्यन्, धर्मस्वभावनयावभासनतया सर्वशरीरेण प्रणिपत्य उत्थाय भीष्मोत्तरनिर्घोषमृषिं
अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिभूतः पुरतः स्थित्वा मनोज्ञोपचारेण मनोज्ञां वाचमुदीरयन् एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु भीष्मोत्तरनिर्घोषऋषिस्तानि दश माणवकसहस्राण्यनुविलोक्य एवमाहअनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । सर्वसत्त्वाश्चाभयेनोपनिमन्त्रिताः । अयं स कुलपुत्राः सर्वसत्त्वहितसुखाय प्रत्युपस्थितो ज्ञानसागराभिमुखः ( ग्व् 88 ) सर्वतथागतानां धर्ममेघान् धातुकामः सर्वधर्मनयसागरानवगाहयितुकामः महाज्ञानालोके ऽवस्थातुकामो महाकरुणामेघमुपस्थापयितुकामो महाधर्मवर्षमभिप्रवर्षयितुकामो महाज्ञानालोके चन्द्रे उदागत्य सर्वक्लेशप्रतापं प्रशमयितुकामो सर्वसत्त्वकुशलमूलानि वर्धयितुकामः ॥
अथ खलु तानि दश माणवकसहस्राणि नानावर्णैः सुरुचिरैः सुगन्धैः पुष्पैः सुधनं श्रेष्ठिदारकमवकीर्य अभ्यवकीर्य अभिवन्द्य नमस्कृत्वा प्रणिपत्य प्रदक्षिणीकृत्य एवं वाचमुदीरयामासुः - एष त्राता भविष्यति, सर्वसत्त्वानां सर्वनिरयदुःखानि प्रशमयिष्यति । सर्वतिर्यग्योनिगतिं व्यवच्छेत्स्यति । सर्वयमलोकगतिं विनिवर्तयिष्यति । सर्वाक्षणद्वारकपाटानि पिथपयिष्यति । तृष्णासमुद्रमुच्छोषयिष्यति । तृष्णाबन्धनं छेत्स्यति । दुःखस्कन्धं विनिवर्तयिष्यति । अविद्यान्धकारं विधमयिष्यति । पुण्यचक्रवालं लोके परिसंस्थापयिष्यति । ज्ञानरत्नाकरमुपदर्शयिष्यति । ज्ञानसूर्यमुदागमिष्यति । धर्मचक्षुर्विशोधयिष्यति । समविषमं लोके संप्रकाशयिष्यति । अथ खलु भीष्मोत्तरनिर्घोष ऋषिः तान् माणवकानेवमाह - येन माणवका अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति, स बोधिसत्त्वचर्यां चरन् सर्वसत्त्वानां सुखमुत्पादयति, अनुपूर्वेण च सर्वज्ञतां प्रतिलभते । अनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । स एष सर्वबुद्धगुणभूमिं परिपूरयिष्यति । अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र अपराजितध्वजस्य बोधिसत्त्वस्य विमोक्षस्य लाभी । सुधन आह - क एतस्य आर्य अपराजितध्वजस्य बोधिसत्त्वविमोक्षस्य विषयः? ततो भीष्मात्तरनिर्घोषऋषिः दक्षिणं पाणिं प्रसार्य सुधनं श्रेष्ठिदारकं शिरसि परिमार्ज्य दक्षिणेन पाणिना पर्यगृह्णात् । समनन्तरपरिगृहीतश्च सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषेण ऋषिणा दक्षिणेन पाणिना, अथ तावदेव सुधनः श्रेष्ठिदारको ऽपश्यद्दशसु दिक्षु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि । तेषु च दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानां तथागतानां पादमूलगतमात्मानं संजानाति स्म । तानि च बुद्धक्षेत्राण्यपश्यदसंख्येयाकारविशुद्धव्यूहानि । तेषु च तथागतपर्षन्मण्डलसमुद्रान्नानावर्णविचित्रव्यूहानपश्यत् । तेषु च पर्षन्मण्डलसमुद्रेषु तथागतशरीराणि लक्षणानुव्यञ्जनोज्ज्वलितोपचितान्यपश्यत् । तेभ्यश्च धर्मदेशनां शृणोत्येकपदव्यञ्जनापराङ्भुखाम् । तानि च तथागतधर्मचक्राण्यन्योन्यासंभिन्नानि संधारयति । तांश्च धर्ममेघान्नानासत्त्वाशयेषु प्रवर्षणां संप्रतीच्छति । तेषां च तथागतानां नानाधिमुक्तिबलविशोधितं
पूर्वप्रणिधानसमुद्रानवतरति । तांश्च नानाप्रणिधानसागरविशुद्धान् बुद्धसमुदागमसमुद्रानवतरति । तांश्च यथाशयसर्वसत्त्वसहस्रसंतोषणविज्ञापनान् बुद्धवर्णानद्राक्षीत् । तानि च बुद्धरश्मिजालानि नानाविरागविशुद्धव्यूहमण्डलान्यपश्यत् । तानि च बुद्धबलान्यनावरणज्ञानालोकानुगमेनावतरति । स क्वचित्तथागतपादमूले रात्रिंदिवं संजानाति । क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्,क्वचित्संवत्सरं क्वचिद्वर्षशतं क्वचिद्वर्षसहस्रं क्वचिद्वर्षशतसहस्रं क्वचिद्वर्षकोटिं ( ग्व् 89 ) क्वचिद्वर्षकोटीशतं क्वचिद्वर्षकोटिसहस्रं क्वचिद्वर्षकोटीशतसहस्रं क्वचिद्वर्षकोट्ययुतं क्वचिद्वर्षकोटीनियुतं क्वचिदर्धकल्पं संजानाति । क्वचित्कल्पं क्वचित्कल्पशतं क्वचित्कल्पसहस्रं क्वचित्कल्पशतसहस्रं क्वचित्कल्पकोटीं क्वचित्कल्पकोटीशतं क्वचित्कल्पकोटीसहस्रं क्वचित्कल्पकोटीशतसहस्रं क्वचित्कल्पकोटीनियुतशतसहस्रं क्वचित्तथागतपादमूले यावदनभिलाप्यानभिलाप्यान् कल्पान् संजानाति । क्वचित्तथागतपादमूले जम्बूद्वीपपरमाणुरजःसमान् कल्पान् संजानाति । क्वचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् संजानाति अपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितो वैरोचनगर्भसमाध्यवभासप्रतिलब्धः अक्षयज्ञानविमोक्षसमाध्यनुगतः समन्तदिक्पञ्जरधारणीमुखावलोकप्रतिलब्धो वज्रमण्डलधारणीमुखावभासितचित्तः सुविभक्तज्ञानकूटविषयसमाधिविहारप्रतिलब्धः समन्ततलव्यूहमार्गप्रज्ञापारमिताविहारविषयो बुद्धगगनगर्भमण्डलसमाध्यालोकप्रसृतः सर्वबुद्धधर्मचक्रनेमिसमाध्यवभासितचित्तः त्र्यध्वज्ञानरत्नाक्षयमण्डलसमाध्यालोकप्राप्तः ॥
अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकं व्यमुञ्चत् । स पुनरपि भीष्मोत्तरनिर्घोषस्य ऋषेः पुरतः स्थितमात्मानं संजानाति । तं भीष्मोत्तरनिर्घोष ऋषिराह - स्मरसि कुलपुत्र? आह - स्मरामि आर्य कल्याणमित्राधिष्ठानेन । आह - एतमहं कुलपुत्र अपराजितध्वजं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वजगद्विशेषज्ञानाभिज्ञावतारसमाधिप्रतिलब्धानां बोधिसत्त्वानां सर्वकालचक्रवशवर्तिनां बुद्धलक्षणज्ञानाभिनिर्हारकुशलानां तथागतदिवसावक्रान्तिविज्ञप्तिव्यूहानां त्र्यध्वविषयैकलक्षणज्ञानसमवसरणानां सर्वलोकधातुसुविभक्तकायानां सर्वधर्मधात्ववभासितज्ञानशरीराणां सर्वसत्त्वयथाशयाभिमुखाभ्युत्थितानां यथाशयसत्त्वचर्याविचारानुकूलोपचाराणां समन्ताभिरुचितरोचनानाम् अमलविपुलरुचिरज्ञानमण्डलविशुद्धानां चर्या ज्ञातुं गुणा वा वक्तुं प्रणिधिविशेषो वा सूचयितुं क्षेत्राभिसंस्कारो वा ज्ञातुं ज्ञानविषयो अवगाहितुं समाधिगोचरो वा अनुसर्तुं ऋद्विविकुर्वितं वा अवतरितुं विमोक्षवृषभिताविक्रीडितं वा अनुगन्तुं शरीरविभक्तिनिमित्तं वा उद्ग्रहीतुं स्वरमण्डलविशुद्धिर्वा प्रभावयितुं ज्ञानावभासो वा निदर्शयितुम् ॥
गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे ईषाणो नाम जनपदः । तत्र जयोष्मायतनो नाम ब्राह्मणः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भीष्मोत्तरनिर्घोषस्य ऋषेः पादौ शिरसाभिवन्द्य भीष्मोत्तरनिर्घोषं ऋषिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भीष्मोत्तरनिर्घोषस्य ऋषेरन्तिकात्प्रक्रान्तः
मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0