गण्डव्यूहसूत्र · अध्याय 21
अथ खलु गोपा शाक्यकन्या इमा गाथा भाषित्वा सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं खलु कुलपुत्र सर्वबोधिसत्त्वसमाधिसागरनयव्यवलोकनविषयस्य बोधिसत्त्वविमोक्षस्य लाभिनी । सुधन आह - क एतस्य आर्ये सर्वबोधिसत्त्वसमाधिसागरनयव्यवलोकनविषयस्य बोधिसत्त्वविमोक्षस्य विषयः? आह - एतमहं कुलपुत्र बोधिसत्त्वविमोक्षं समापन्ना इह लोकधातावनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पानवतरामि । तेषु ये सत्त्वाः सर्वगतिपर्यापन्नाः, तान् प्रजानामि । यावन्ति च तेषां सत्त्वानां च्युत्युपपत्तिमुखानि, तानि प्रजानामि । यावन्त्यभिनिर्वृत्तिमुखानि, यावत्यः कर्माभिसंस्कारसमापत्तयः, यावत्यः कर्मविपाकविचित्रताः, ता अपि प्रजानामि । कुशलमप्येषां कर्मसमादानं प्रजानामि । अकुशलमपि नैर्याणिकमपि अनैर्याणिकमपि नियतमपि अनियतमपि मिथ्यात्वनियतमपि सानुशयमपि निरनुशयमपि कुशलमूलसंपन्नमपि कुशलमूलविपन्नमपि कुशलमूलपरिगृहीतमपि ( ग्व् 306 ) अकुशलमूलपरिगृहीतमपि कुशलाकुशलपरिगृहीतमपि समुदानीतकुशलमूलमपि असमुदानीतपापधर्ममपि एषां कर्मसमादानं प्रजानामि ॥
तेषु च अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु ये बुद्धा भगवन्तं उत्पन्नाः, तेषां नामसमुद्रानवतरामि । तेषां च बुद्धानां भगवतां प्रथमचित्तोत्पादसमुद्रानपि प्रजानामि । सर्वज्ञताप्रस्थाननयसमुद्रानपि प्रजानामि । सर्वप्रणिधिसागराभिनिर्हारानपि प्रजानामि । पूर्वबुद्धोत्पादप्रस्थानसमुद्रानपि प्रजानामि । पूर्वबुद्धपूजोपस्थानप्रयोगसमुद्रानपि प्रजानामि । पूर्वबोधिसत्त्वचर्यापरिपूरिसमुद्रानपि प्रजानामि । निर्याणव्यूहसमुद्रानपि प्रजानामि । तेषां च बुद्धानां भगवतां सत्त्वपरिपाकविनयसमुद्रानपि प्रजानामि । अभिसंबोधिसमुद्रानपि प्रजानामि । धर्मचक्रप्रवर्तनवृषभिताविकुर्वितान्यपि प्रजानामि । सर्वबुद्धविकुर्वितसमुद्रानपि प्रजानामि । तेषां च बुद्धानां भगवतां पर्षन्मण्डलविभक्तीरपि प्रजानामि । तेषु च पर्षन्मण्डलेषु ये श्रावकास्तेषां निर्याणनयमपि प्रजानामि । पूर्वकुशलमूलान्यपि प्रजानामि । मार्गभावनानानात्वमपि प्रजानामि । ज्ञानप्रतिलाभसंपद्विशुद्धप्रभेदमपि प्रजानामि । ये च तैस्तथागतैः सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापितास्तानपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानां पूर्वकुशलमूलानि तान्यपि प्रजानामि । ये च तेषां प्रत्येकबुद्धानां प्रत्येकबोध्यधिगमास्तानपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानां शान्तविहारविकुर्वितविमोक्षमुखानि तान्यपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानां विविधविकुर्वितानि तान्यपि प्रजानामि । यश्च तेषां प्रत्येकबुद्धानां सत्त्वपरिपाकस्तमपि प्रजानामि । या च तेषां प्रत्येकबुद्धानां धर्मदेशना, तामपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानामनन्तसमाधिविहारविविधविमोक्षक्रीडितानि तान्यपि प्रजानामि । यच्च तेषां बुद्धानां भगवतां परिनिर्वाणं तदपि प्रजानामि । ये च बुद्धानां भगवतां बोधिसत्त्वपर्षन्मण्डलसमुद्रास्तानपि प्रजानामि । तेषां च बोधिसत्त्वानां प्रथमकुशलमूलावरोपणान्यपि प्रजानामि । प्रथमचित्तोत्पादप्रणिधानान्यपि प्रजानामि । प्रणिधानविमात्रतामपि सर्वबोधिसत्त्वचर्यानिर्याणव्यूहाभिनिर्हारविमात्रतामपि प्रजानामि
। पारमितामार्गाङ्गसंभारविशुद्धिविमात्रतामपि प्रजानामि । बोधिसत्त्वमार्गप्रतिपत्तिव्यूहविमात्रतामपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणसंभारविमात्रतामपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणवेगविमात्रतामपि प्रजानामि । बोधिसत्त्वभूमिसंक्रमसमाधिमण्डलविमात्रतामपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणविकुर्वितान्यपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणविहारानपि प्रजानामि । बोधिसत्त्वभूमिप्रतिष्ठानान्यपि प्रजानामि । बोधिसत्त्वभूमिभावनाविचारानपि प्रजानामि । बोधिसत्त्वभूमिपरिशोधननयानपि प्रजानामि । बोधिसत्त्वभूमिसंवासानपि प्रजानामि । बोधिसत्त्वभूमिनिमित्तान्यपि प्रजानामि । बोधिसत्त्वभूमिवशितामपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणज्ञानमपि प्रजानामि । बोधिसत्त्वसंग्रहज्ञानमपि प्रजानामि । बोधिसत्त्वपरिपाकज्ञानमपि प्रजानामि । बोधिसत्त्वव्यवस्थानसंवासमपि प्रजानामि । बोधिसत्त्वचर्यामण्डलविस्तारानपि प्रजानामि । बोधिसत्त्वचर्याविकुर्वितान्यपि ( ग्व् 307 ) प्रजानामि । बोधिसत्त्वसमाधिसागरानपि प्रजानामि । बोधिसत्त्वविमोक्षनयसमुद्रानपि प्रजानामि । तेषां च बोधिसत्त्वानां प्रतिचित्तक्षणं नानासमाधिसमुद्रप्रतिलाभानपि प्रजानामि । सर्वज्ञतावभासनप्रतिलाभानपि प्रजानामि । सर्वज्ञताविद्युदालोकमेघानपि प्रजानामि । बोधिसत्त्वक्षान्तिप्रतिलाभनयानपि प्रजानामि । सर्वज्ञतावगाहनविक्रमानपि प्रजानामि । तेषां बोधिसत्त्वानां क्षेत्रसमुद्रानुगमानपि प्रजानामि । धर्मसमुद्रनयावतारानपि प्रजानामि । सर्वसमुद्रलक्षणनानात्वमपि प्रजानामि । सर्वबोधिसत्त्वविहारनयविकुर्वितान्यपि प्रजानामि । नानाप्रणिधाननयसमुद्रानपि प्रजानामि । विविधविकुर्वितसमुद्रविमात्रतामपि
प्रजानामि ॥
यथा च अहं कुलपुत्र अस्यां लोकधातौ अतीतवर्तमानान् कल्पसमुद्रान् नानाविधानवतरामि, एवमपरान्तपरंपराव्यवच्छिन्नाननागतान् कल्पसमुद्रान् प्रजानामि । यथा च सहायां लोकधातौ प्रजानामि, तथा सहालोकधातुसमवसरणासु सर्वलोकधातुपरंपरासु प्रजानामि । यथा च सहालोकधातुसमवसरणासु सर्वलोकधातुपरंपरासु प्रजानामि, एवं सहालोकधातुपरमाणुरजोन्तर्गतास्वपि सर्वलोकधातुपरंपरासु प्रजानामि । यथा च सहालोकधातुपरमाणुरजोन्तर्गतासु सर्वलोकधातुपरंपरासु प्रजानामि, एवं सहालोकधातुदशदिगानन्तर्यस्थितास्वपि लोकधातुषु प्रजानामि । यथा च सहालोकधातुदशदिगानन्तर्यस्थितासु सर्वलोकधातुषु प्रजानामि, एवं सहालोकधातुदशदिगानन्तर्यपरंपरास्थितास्वपि सर्वलोकधातुषु प्रजानामि । यथा च सहालोकधातुदशदिगानन्तर्यपरंपरास्थितासु सर्वलोकधातुषु प्रजानामि, एवं समन्तदिक्प्रभासवैरोचनलोकधातुवंशपर्यापन्नास्वपि सर्वलोकधातुषु प्रजानामि । यथा समन्तदिक्प्रभासवैरोचनलोकधातुवंशपर्यापन्नास्वपि लोकधातुषु प्रजानामि, एवं समन्तदिक्प्रभासवैरोचनलोकधातुवंशदिगानन्तर्यपरंपरास्थितासु सर्वलोकधातुषु प्रजानामि । यथा चास्य समन्तदिक्प्रभासवैरोचनस्य लोकधातुवंशस्य दशदिगानन्तर्यपरंपरावस्थितासु सर्वलोकधातुषु प्रजानामि, एवमिह सर्वावति कुसुमतलगर्भव्यूहालंकारेषु लोकधातुसुमेरुषु लोकधातुसमुद्रान्तर्गतेषु लोकधातुप्रसरेषु प्रजानामि । एवं लोकधातुनयेषु लोकधातुचक्रेषु लोकधातुमण्डलेषु लोकधातुविभागेषु लोकधातुनदीषु लोकधात्वावर्तेषु लोकधातुपरिवर्तेषु लोकधातुसुमेरुषु लोकधातुसमुद्गतेषु लोकधातुपद्मेषु लोकधातुवृक्षेषु लोकधातुखारकेषु लोकधातुसंज्ञागतेष्वपि प्रजानामि ॥
यथा च अस्मिन् कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे प्रजानामि, एवं दशसु दिक्षु अनन्तपर्यन्तेषु धर्मधातुपरमेषु आकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेषु वैरोचनस्य पूर्वप्रणिधानसागरान् प्रजानामि अवतरामि अनुस्मरामि । पूर्वयोगसमुद्रानप्यवतरामि । पूर्वसमुद्रागमनसागरानप्यवतरामि । अनन्तमध्यकल्पबोधिसत्त्वचर्यासंवासमप्यवतरामि । क्षेत्रपरिशुद्धिनयानप्यवतरामि । सत्त्वपरिपाकोपायनयानप्यवतरामि । पूर्वतथागतारागणोपसंक्रमणविकुर्वितानप्यवतरामि । पूर्वतथागतपूजोपस्थानप्रयोगनयानप्यवतरामि । पूर्वतथागतधर्मदेशनासंप्रतीच्छननयानप्यवतरामि । ( ग्व् 308 ) पूर्वबोधिसत्त्वसमाधिप्रतिलाभनयानप्यवतरामि । परिष्कारवशिताप्रतिलाभनयानप्यवतरामि । पूर्वतथागतगुणसमुद्रप्रतिपत्तिनयानप्यवतरामि । दानपारमितानयसमुद्रानप्यवतरामि । बोधिसत्त्वशीलव्रतमण्डलपरिशुद्ध्यभिनिर्हरणनयानप्यवतरामि । बोधिसत्त्वक्षान्तिप्रतिलाभनयानप्यवतरामि । बोधिसत्त्ववीर्यवेगसमुद्रानप्यवतरामि । सर्वध्यानाङ्गपरिनिष्पत्तिनयसागरानप्यवतरामि । प्रज्ञामण्डलपरिशुद्धिनयसमुद्रानप्यवतरामि । सर्वलोकोपपत्तिकायप्रतिभाससंदर्शनोपायनयानप्यवतरामि । समन्तभद्रचर्याप्रणिधानमण्डलपरिशुद्धिनयानप्यवतरामि । सर्वक्षेत्रसागरस्फरणतामप्यवतरामि । सर्वक्षेत्रपरिशुद्धिनयसमुद्रानप्यवतरामि । सर्वतथागतज्ञानावभाससमुद्रानप्यवतरामि । सर्वबुद्धबोध्याक्रमणविकुर्वितसागरानप्यवतरामि । सर्वतथागतज्ञानावभासप्रतिलाभनयानप्यवतरामि । सर्वज्ञाताधिगमावतारनयसमुद्रानप्यवतरामि । अभिसंबोधिविकुर्वितसमुद्रानप्यवतरामि । धर्मचक्रप्रवर्तनवृषभिताविक्रीडितनयसमुद्रानप्यवतरामि । नानापर्षन्मण्डलसमुद्रानप्यवतरामि । तेषु च सर्वपर्षन्मण्डलेषु सर्वबोधिसत्त्वानां पूर्वकुशलसमुद्रानप्यवतरामि । प्रथमप्रणिधाननयसमुद्रानप्यवतरामि । सत्त्वपरिपाकविनयोपायनयसमुद्रानप्यवतरामि । ये च भगवता पुर्वं बोधिसत्त्वचर्यां चरता सत्त्वसमुद्राः परिपाचितास्तानप्यवतरामि । तेषां च बोधिसत्त्वानां प्रतिचित्तक्षणं कुशलमूलविवर्धनोपायनयसमुद्रानप्यवतरामि । समाधिप्रतिलाभनयसमुद्रानप्यवतरामि । धारणीमुखसमुद्रप्रतिलाभनयसागरानप्यवतरामि । प्रतिभानज्ञानमण्डलविशुद्धिनयसमुद्रानप्यवतरामि । सर्वबोधिसत्त्वभूम्याक्रमणविकुर्वितनयसमुद्रानप्यवतरामि
। चर्याजालाभिनिर्हारनयसमुद्रानप्यवतरामि । अनुपूर्वसमुद्रानप्यवतरामि । अनुपूर्वसमुदागमदिक्प्रवेशज्ञाननयसमुद्रानप्यवतरामि । तेषां च सर्वेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिविकुर्वितसमुद्रानप्यवतरामि ॥
यथा च भगवतो वैरोचनस्य सर्वस्मिन् धर्मधातौ बोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि, एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि । एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितप्रवेशमनन्तमायाजालप्रवेशमनन्तधर्मधातुस्फरणमनन्तमुखनिर्देशमपर्यन्तकल्पाधिष्ठानप्रवेशनिर्देशमवतरामि प्रजानामि अभिनिर्हरामि । तत्कस्य हेतो? एष हि कुलपुत्र अस्य सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयस्य बोधिसत्त्वविमोक्षस्य विषयः, यदेतं समापन्ना सर्वसत्त्वचित्तचरितनयान् प्रजानामि । सर्वसत्त्वकुशलसंचयान् प्रजानामि । सर्वसत्त्वसंक्लेशव्यवदाननयान् प्रजानामि । सर्वसत्त्वकर्मनानात्वं प्रजानामि । सर्वश्रावकसमाधिद्वाराणि प्रजानामि । सर्वश्रावकसमाधिभूमिं प्रजानामि । सर्वप्रत्येकबुद्धशान्तविमोक्षविकुर्वितमवतरामि । सर्वबोधिसत्त्वसमाधिसमुद्रनयान् प्रजानामि । सर्वबोधिसत्त्वविमोक्षनयसागरावतारं प्रजानामि । सर्वतथागतविमोक्षनयसागरावतारमपि प्रजानामि ॥
अथ खलु सुधनः श्रेष्ठिदारको गोपां शाक्यकन्यामेतदवोचत् - कियच्चिरप्रतिलब्धस्त्वयायमार्ये बोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः? आह - भूतपूर्वं कुलपुत्र अतीते ऽध्वनि बुद्धक्षेत्रशतपरमाणुरजःसमानां कल्पानां परेण अभयंकरा नाम लोकधातुरभूत् । तस्यां खलु लोकधातौ गतिप्रवरो नाम कल्पो ऽभूत् । तस्याः खलु पुनर्लोकधातोर्मध्ये क्षेमावती नाम चातुर्द्वीपिका अभूत् । तस्यां खलु चातुर्द्वीपिकायां मध्ये जम्बुद्वीपस्य द्रुममेरुश्रीर्नाम राजधान्यभूच्चतुरशीतेर्नगरकोटीसहस्राणां प्रमुखा । सा खलु पुनर्द्रुममेरुश्री राजधानी । तानि चतुरशीतिनगरकोटीसहस्राणि प्रत्येकं नीलवैडूर्यभूमिभागसंस्थापितानि सप्तरत्नमयप्राकारपरिक्षिप्तानि विचित्रवर्णप्रभाजालशुभगन्धशकटचक्रप्रमाणोत्पलपद्मकुमुदपुण्डरीकसंछन्नकनकवालिकासंस्तृततलगन्धोदकपरिपूर्णसप्तपरिखापरिक्षिप्तानि रत्नमयसप्तवेदिकाजालसप्ततालपङ्क्तिपरिवृतानि सप्तरत्नमयवृक्षमालापरिक्षिप्तानि उपरि मेघजालसंछादितानि रत्नाष्टापदसुविभक्तविचित्ररत्नभक्तिविराजितभूमिभागानि सिद्धगणविचरितानि अभिजातपक्षिसंघमनोज्ञरुतरवितनिर्घोषनिकूजितानि उद्यानकोटीशतसहस्रोपशोभितानि ऋद्धिस्फीतानि प्रमुदितनरनारीगणशतसहस्राकीर्णानि शुभाभिलषणीयमारुतेरितानुपरतपुष्पवृष्टिसहस्राभिप्रवृष्टानि पार्थिवेन्द्रशतसहस्राध्युषितानि । तेषां खलु पुनर्महानगराणां सर्वरत्नवृक्षहेमजालालंकारादिभ्यो वातसंघट्टितेभ्यो बहुतूर्यनिर्घोषसमरुतनिश्चरितेभ्यो ऽयमेवंरूप आनन्दशब्दो निश्चरति स्म - स्नात, पिबत, खादत, धर्मं चरत, बोधिचित्तमुत्पादयत, अविनिवर्तनीयभूमिवशितामधिगच्छत । भद्रमस्तु वः । इति ॥
तस्यां खलु द्रुममेरुश्रियां राजधान्यां धनपतिर्नाम राजा अभूत् मण्डलिकः । तस्य चतुरशीतिस्त्रीसहस्राण्यन्तःपुरमभूत् । पञ्च च अमात्यशतान्यभूवन् । राज्ञः खलु पुनर्धनपतेः पञ्च पुत्रशतान्यभूवन् सर्वेषां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां प्रासादिकानां दर्शनीयानां परमशुभवर्णपुष्कलतया समन्वागतानां । राज्ञः खलु पुनर्धनपतेः पद्मश्रीगर्भसंभवा नाम अग्रमहिषी अभूत् तेषां चतुरशीतेः स्त्रीसहस्राणां प्रमुखा । तस्यां तेजोधिपतिर्नाम पुत्रो ऽभूदभिरूपः प्रासादिको दर्शनीयः द्वात्रिंशन्महापुरुषलक्षणसमलंकृतकायः । तस्येमानि द्वात्रिंशन्महापुरुषलक्षणान्यभूवन् । यदुत - सुप्रतिष्ठितपाणिपादः तेजोधिपतिराजकुमारो ऽभूत् । समं महापृथिव्यां पादतलावुत्क्षिपति, समं निक्षिपति, निक्षिपंश्च सर्वावत्पादतलाभ्यां समं महापृथिवीं संस्पृशति । पादतलयोश्चास्य चक्राणि जातानि सहस्राराणि सनाभीनि सनेमिकानि सर्वाकारपरिपूर्णानि सुरुचिराणि दर्शनीयानि । उच्छङ्खपादता चास्य अभिनिर्वृत्ताभूत्, सुव्यक्तपरमोपशोभिता उपरि पादच्छविकुसुमगर्भातिरेकप्रभास्वरा । उभे चास्य हस्तपादतले जालिनी अभूतां विचित्रसुविभक्ताच्छिद्रापरिस्राविणी, तद्यथा धृतराष्ट्रस्य हंसराजस्य । आयतपादपार्ष्णिता अस्याभिनिर्वृत्ताभूत्परिशुद्धा प्रभास्वरा सर्वरत्नवर्णावभासप्रमुक्ता । दीर्घा अस्याङ्गुलयो ऽभूवन् वृत्ताः समायतसंधयः । स ताः समं पृथिव्यां प्रतिष्ठापयामास, समुद्धरति स्म । मृदूनि चास्य ( ग्व् 310 ) हस्तपादतलान्यभूवन् काचिलिन्दिकातिरेकसुखसंस्पर्शानि । स तैर्यान् स्पृशति स्त्रियं वा पुरुषं वा दारकं वा दारिकां वा, सर्वे ते प्रीतिमनसो ऽभूवन् परमसुखसौमनस्यसमर्पिताः । एणेयजङ्घता चास्य अभिनिर्वृत्ताभूत् । तस्य जङ्घे अनुपुर्वसमुद्गते अभूतां रचिते वृत्ते सुजाते एणेयस्येव मृगरज्ञः । नैनं कश्चित्समर्थो ऽनुजवितुमनप्राप्तुं वा, न च व्रजन् क्लममापद्यते स्म । सप्तोत्सदः खलु पुनः स तेजोधिपतिराजकुमारो ऽभूत् । तस्य द्वयोः पादयोर्द्वावुत्सदौ जातावभूतां वृत्तौ सुजातौ सुपरिपूर्णावदृश्यसंधी सुरचितौ दर्शनीयौ, द्वौ हस्तयोर्द्वावंसकूटयोः पृष्ठतो ग्रीवायामेकः । कोशगतबस्तिगुह्यता चास्य महापुरुषलक्षणमभिनिर्वृत्तमभूत् । सुगुप्तमस्य कोशबस्तिगुह्यमभून्निमग्नं संछादितम्, तद्यथा हस्त्याजानेयस्य वा अश्वाजानेयस्य वा । नास्य कश्चित्स्त्री वा पुरुषो वा दारको वा दारिका वा वृद्धो वा मध्यो वा दहरो वा गुरुर्वा गुरुस्थानीयो वा निर्वसनस्याप्यपश्यदन्यत्र स्वपरिभोगेन नैमित्तिकेन वा कामोपचितेन । सिंहपूर्वार्धकायः खलु पुनः स तेजोधिपतिराजकुमारो ऽभूत् । अनुपूर्वोद्गतशरीर उपविस्तीर्णवृतोरस्को ऽभिजातमृगराजातिरेकसुसंस्थितसमुच्छ्रयः । चितान्तरांसः
खलु पुनरभवत् सूपचितशरीरः सुविभक्तसमुच्छ्रयः सर्वकायसमभागप्रतिष्ठितः अनूनगात्रः अनुन्नतगात्रो ऽपरिणतगात्रो मणिफलकविसृष्टातिरेकद्युतिगात्रः । संवृत्तस्कन्धः खलु पुनरभवत् । वृत्तावस्य स्कन्धावभूतां पीनौ शुभौ सुपरिपुष्टौ । प्रलम्बबाहुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् । सो ऽनवनमनेनोभाभ्यां पाणिभ्यां जानुमण्डले परिमार्जति, परामृशति समभागस्थितेन शरीरेण । वृहदृजुगात्रमहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् सर्वावरोपेतपरमाणुसमगात्रः प्रशमगात्रो गुरुगात्रः प्रसन्नगात्रः प्रह्लादगात्रः । कम्बुग्रीवतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् अदीनकण्ठश्च । तस्य यावत्यो ग्रीवासामन्तकेन मुखसामन्तकेन च रसहरण्यः, ताः सर्वाः समा अभूवन् समन्ताः सुपरिपूर्णाः । सिंहहनुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत्, सुनिष्पीडितहनुः सुपरिपूर्णमुखमण्डलः सुजातपरिशुद्धमुखमण्डलः स्वायतमुखद्वारो ऽपविवरः । समचत्वारिंशद्दन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभूत् अनूनदशनः । तस्य किंचिद्भक्तपरिभोगेषु एकवारमपि मुखभक्तं परिवर्तमानमसंभिन्नमभ्यवहारमगमत् अन्तश एकोदनबिन्दुरपि । अविरलाविषमदन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् । अविरला अविषमा अस्य दन्ता अभूवन् अच्छिद्रसंधयः समां सुविभक्ताः, यैरस्याहारं परिभुञ्जानस्य नाभूत्सङ्गो वा परिसङ्गोपरुद्वङ्गो(?) वा उपक्लेदो वा अभिष्यन्दो वा पर्यवनाहो वा अतिसर्जनं वा । समदन्ततामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत् समदन्तो नोनदन्तो नाधिकदन्तो नोन्नतदन्तो न संनतदन्तो न संभिन्नदन्तः समन्तमध्यदन्तो ऽनुत्सन्नदन्तो अविनिर्भिन्नदन्तः । सुशुक्लदंष्ट्रश्च कुमारो ऽभूत् निरुपक्लेशदष्ट्रः सुप्रसन्नदंष्ट्रः सुपरिशुद्धदंष्ट्रः सुसंस्थितविचित्रदंष्ट्रः । सुप्रभूतजिह्वतामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत् । ( ग्व् 311 ) प्रभूता चास्य जिह्वा अभूत् तन्वी मृद्वी सुकुमारा कर्मण्या कमनीया लघुपरिवर्तिनी मुखमण्डलसंछादनी तथ्यपथ्यार्थव्यञ्जनपदनिरुक्त्यधिष्ठानसंप्रयुक्ता । ब्रह्मस्वरश्च स कुमारो ऽभूदभिरुचिरस्वरः सर्वतूर्यनिर्नादगीतवाद्यघोषमनोज्ञरुतरवितालापसंलापवाक्कर्मप्रव्याहारः । वाक्पथाभिरतिसंजननीं सर्वलोकाभिनन्दिनीं वाचमुदीरयति स्म । ब्रह्मातिरेकेण स्वरेण च पर्षन्मण्डलमतिक्रामति, सर्वं च अनुरवति । अभिनीलनेत्रश्च स कुमारो ऽभूदच्छनेत्रः परिशुद्धनेत्रः प्रभास्वरनेत्रः विप्रसन्ननेत्रो ऽभिरूपनेत्रो
दर्शनीयनेत्रः सुरुचिरनेत्रः प्रहसितनेत्रः । गोपक्ष्मो स कुमारो ऽभूत्पद्मरागसुविशुद्धचक्षुरायतनः समनेत्ररङ्गः समसदृशनेत्ररङ्गः सुजातनेत्ररङ्गः आयतनेत्ररङ्गः परिपूर्णनेत्ररङ्गः सुप्रतिष्ठितनेत्ररङ्गः । भ्रुवोन्तरे चास्य ऊर्णा जाताभून्मृद्वी कर्मण्या सुकुमाराकुलसंस्पर्शा स्वच्छा शुद्धा प्रभास्वरा हिमगुडिकातुषारवर्णा सुशुक्लरश्मिमण्डलप्रभावभासा । मुर्ध्नि च अस्योष्णीषमभिनिर्वृत्तमभूत् सुजातं समन्तपरिमण्डलं मध्याभिन्यस्तकेशालंकारं कोटीशतसहस्रपत्ररत्नपद्मसंदर्शितं समन्तात्समभागप्रतिष्ठितमपरिमितमहार्ध्यताप्रधानमध्यम् । सूक्ष्मच्छविश्च स कुमारो ऽभूत् । नास्य काये रजो वा मलो वा क्लेदो वा जालं वा वली वा शैथिल्यं वा भङ्गो वा प्रसरणं वा विसरणं वा असमं वा अस्थिषत । सुवर्णवर्णच्छविश्च स कुमारो ऽभूज्जाम्बूनदहेमनिर्भासः समन्तव्यामप्रभः काञ्चनैकज्वालाप्रभामण्डलोपशोभितः सर्वरोमकूपप्रमुक्तगन्धरश्मिवितिमिरप्रभास्वरशरीरालंकारः । एकैकरोमा च स कुमारो ऽभूत् । एकैकरोमस्य एकैकस्मिन् रोमकूपे रोम जातमभून्नीलवैडूर्यवर्णप्रदक्षिणावर्तकुण्डलजातं सुपरिसंचितं सुनिविष्टं सुप्रतिष्ठितम् । ऊर्ध्वाङ्गरोमा च स कुमारो ऽभूदविनिवर्तनीयरोमा अप्रत्युदावर्तनीयरोमा असंसृष्टरोमा । इन्द्रनीलवर्णकेशतामहापुरुषलक्षणप्रतिलब्धः । स कुमारो ऽभूत् । तस्य नीलाः केशा अभूवन् वैरोचनमणिरत्ननीलवर्णनिर्भासाः स्निग्धा मृदवः सुकुञ्चिताः प्रदक्षिणावर्तकुण्डलिनः सुजातमूला अनुद्धताः निष्पीडिता असंलुलिताः समसदृशस्थानसंस्थिताः । न्यग्रोधपरिमण्डलतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनः तेजोधिपती राजकुमारो ऽभूत् समन्तभद्रपरिमण्डलः समन्तभद्रः समन्तप्रासादिकः । स पुरतो ऽप्यतृप्तिकरचारुदर्शनो ऽभूत् । पृष्ठतो ऽपि दक्षिणतो ऽपि वामतो ऽपि गच्छन्नपि तिष्ठन्नपि निषण्णो ऽपि भाषमाणो ऽपि तूष्णीभूतो ऽपि अतृप्तिकरमनापचारुदर्शनो ऽभुत् । एभिः कुलपुत्र द्वात्रिंशता महापुरुषलक्षणैः समलंकृतकायः स तेजोधिपती राजकुमारो ऽभूत् सर्वसत्त्वाप्रतिकूलदर्शनः सर्वाभिप्रायपरिपूरिकदर्शनः सर्वसत्त्वरतिकरदर्शनः ॥
स खलु कुलपुत्र तेजोधिपती राजकुमारो ऽपरेण समयेन पित्राभ्यनुज्ञातो द्रुममेरुश्रियो राजधान्या गन्धाङ्कुरप्रभमेघं नामोद्यानम्, तत्र भूमिदर्शनाय अभिनिर्ययौ विंशत्या कन्यासहस्रैः सार्धं महता पुण्यतेजौतःश्रीसौभाग्यविकुर्वितव्यूहेन नरनारीगणैः समन्तादभिनन्द्यमानो जाम्बूनदसुवर्णरथमारुह्य महावज्ररत्नचतुश्चक्रं नारायणवज्रमयदृढाक्षयाक्षमुत्तमचन्दनसुपरिनिष्ठितप्रतिष्ठितेषं सर्वगन्धमणिराजसुविभक्तपञ्जरं सर्वरत्नपुष्पसुविचित्रोपशोभितव्यूहं सर्वरत्नजालसंछादितव्यूहं ( ग्व् 312 ) महामणिरत्नराजव्यूहगर्भमध्यप्रतिष्ठापितसिंहासनं पञ्चकन्याशतरत्नसूत्रदामपरिगृहीतं गगनासक्तवायुसमजवाजानेयाश्वसहस्रयुक्तम् अनुपूर्वपरिणतचारुदर्शनेन श्वेतवैदूर्यमणिराजमयच्छदनेन विमलाप्रमाणप्रभेण अचिन्त्याद्भुतसर्वरत्नविरचनाभक्तिविन्यासचित्रसर्वाकारव्यूहोपशोभितेन नीलवैदूर्यमणिराजोद्विद्धदण्डेन महता रत्नच्छत्रेण ध्रियता बहुप्राणिशतसहस्रपरिवृतदिव्यमधुरमनोज्ञनिर्धोषैस्तूर्यशतसहस्रैः प्रवाद्यमानैः महद्भिः पुष्पमेघैरभिप्रवर्षद्भिः सुरभिदिव्यगन्धधूपघटिकानियुतशतसहस्रैः प्रधूप्यमानैः । तस्य तथा व्रजतो ऽष्टवर्त्मा मार्गः समवस्थिषत निम्नोन्नतविगतो ऽपगतशर्करकठल्लोत्सदो जातरूपरजतसर्वरत्नराजधातुसंचितभूमितलप्रतिष्ठानः सुवर्णवालिकासंस्तीर्णो विचित्ररत्नपुष्पाभिकीर्णः उभयतो रत्नवृक्षपङ्क्तिसमलंकृतविचित्ररत्नवेदिकापरिवृतः । उपरि रत्नकिङ्किणीजालसंछन्नो विविधरत्नविततप्रतिमण्डितो ऽनेकरत्नध्वजपताकापट्टशतसहस्राभिप्रलम्बितोपशोभितव्यूहः उभयतो नानारत्नव्योमकपङ्क्तिविरचितव्यूहः ॥
तत्र केषुचिद्रत्नव्योमकेषु विविधरत्नपरिपूर्णानि रत्नभाजनानि स्थापितान्यभूवन् याचनकसंघप्रतिपादनकार्थम् । केषुचिद्व्योमकेषु सर्वरत्नाभरणविधयः स्थापिता अलंकारार्थिनां याचकानामलंकरणार्थम् । केषुचिद्व्योमकेषु चिन्तामणिरत्नानि स्थापितानि सर्वसत्त्वानां सर्वाभिप्रायपरिपूरणार्थम् । केषुचिद्व्योमकेषु सर्वाकारविविधान्नपानरसपरिपूर्णानि भोजनानि स्थापितानि, यस्य येनार्थः तस्य तं प्रतिपादनार्थम् । केषुचिद्व्योमकेषु सर्वाकारपरमस्वादुमनोज्ञवर्णगन्धरसस्पर्शाः दिव्यभक्तविधयः स्थापिताः । केषुचिद्व्योमकेषु विचित्ररसास्वादादिव्यसर्वफलविधयः स्थापिताः । केषुचिद्व्योमकेषु विविधोज्ज्वलविचित्ररङ्गरक्तानि नानाचित्रभक्तिविन्यासविराजितानि परममहार्हाणि सूक्ष्माणि सुकुमारकान्तवर्णानि दिव्यवस्त्रकोटीशतसहस्राणि स्थापितानि वस्त्रार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु सर्वाकारविविधदिव्यमनोज्ञवर्णगन्धाः सर्वगन्धविधयः स्थापिता अभुवन् विलेपनार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु सर्वोपकरणराशयः स्थापिता अभूवन् सत्त्वानां यथाशयाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु नार्यो ऽभिरूपाः प्रासादिका दर्शनीया विविधचारुरूपवेशा विचित्रमनोज्ञवस्त्रसंधिताः सर्वाभरणस्वलंकृता विविधविलेपनभक्तिविन्यासप्रतिमण्डितोपशोभितशरीराः सर्वस्त्रीशिल्पमायाकलाविधिज्ञाः स्थापिता अभूवन् ॥
तेन खलु पुनः समयेन तस्यामेव द्रुममेरुश्रियां राजधान्यां सुदर्शना नाम अग्रगणिकाभूद्राजपरिभोग्या । तस्याः सुचलितरतिप्रभासश्रीर्नाम दारिकाभूदभिरूपा प्रासादिका दर्शनीया नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिकृशा नातिगौरा नातिश्यामा अभिनीलनेत्रा अभिनीलकेशी अभिरामवक्त्रा ब्रह्मस्वरा मधुरप्रियवादिनी प्राज्ञा सर्वकलाविधिज्ञा सर्वशास्त्रकोविदा दक्षा अनलसा सगौरवा सप्रसादा मैत्रचित्ता अप्रतिघातबहुला अतृप्तिकरमनापदर्शना मन्दरागदोषमोहा ह्र्यपत्राप्यसंपन्ना मार्दवा ऋज्वी अशाट्या अमाया ( ग्व् 313 ) विनीता । सा मात्रा सार्धमनेककन्यापरिवृता रत्नरथाभिरूढा द्रुममेरुश्रियो राजधान्या निष्क्रम्य तेजोधिपते राजकुमारस्य पुरतः तेजोधिपतिं राजकुमारं परिमार्गयमाणा राजाज्ञानियोगाद्गच्छन्ती तेजोधिपतिं राजकुमारं दृष्ट्वा तीव्रं रागचित्तमुत्पादयामास । सा तेजोधिपते राजकुमारस्यान्तिके ऽधिमात्रं संजातस्नेहानुबद्धा अस्वतन्त्रचित्ता मातरं सुदर्शनामेतदवोचत् - यत्खलु अम्ब जानीयाः - सचेन्मां तेजोधिपते राजकुमारस्य न दास्यसि, मरणं वोपगमिष्यामि मरणमात्रकं वा दुःखम् । सा प्राह - मैवं दारिके चेतनामुत्पादय । एष हि कुमारश्चक्रवर्तिलक्षणसमन्वागतः । स्थानमेतद्विद्यते - यदेष पितुर्धनपतेरत्ययाच्चक्रवर्तिराज्यमध्यावसिष्यति । स राजा भविष्यति चक्रवर्ती । ततो ऽस्य स्त्रीरत्नं प्रादुर्भविष्यति वैहायसंगमम् । अपि तु खलु पुनर्दारिके गणिका वयं सर्वलोकरतिकराः । न वयमेकसत्त्वं प्रतिनियमेन यावज्जीवमुपतिष्ठामहे । वयं हि राज्ञो धनपतेराज्ञया तेजोधिपतेः कुमारस्योपस्थानाय निर्याताः । मैनां चेतनां दृढीकुरुष्व । दुर्लभमेतत्स्थानम् ॥
तेन चेह समयेन सूर्यगात्रप्रवरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । तस्य खलु पुनर्गन्धाङ्कुरशिखरप्रभमेघस्योद्यानस्यान्तरे धर्ममेघोद्गतप्रभासो नाम बोधिमण्डो ऽभूत् । तत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः प्रथमसप्ताहाभिसंबुद्धो व्याहार्षीत् । स तया दारिकया रथाभिरूढयैव प्रचलायमानया स्वप्नान्तरे दृष्टः । प्रतिविबुद्धायाश्च पुराणज्ञातिसालोहितया देवतया आरोचितम् - एष दारिके सूर्यगात्रप्रवरस्तथागतो धर्ममेघोद्गतप्रभासे बोधिमण्डे विहरति प्रथमसप्ताहाभिसंबुद्धो बोधिसत्त्वगणपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगदेवेन्द्रब्रह्माभास्वराकनिष्ठदेवगणपुरस्कृतः । तत्रैव च सर्वाः पृथ्वीदेवताः संनिपतिताः । आकाशदेवता अब्देवता ज्वलनदेवता वायुदेवताः सागरदेवताः नदीदेवता पर्वतदेवता रात्रिदेवता अरुणोद्गतदेवता वनदेवता वृक्षदेवता औषधिदेवताः सस्यदेवता नगरदेवताः पदगामिनीदेवता बोधिमण्डदेवताः शरीररश्मिदेवताः सत्त्वनिकायदेवता गगनदेवता सर्वदिग्देवताश्च संनिपतिताः तस्य भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनायेति ॥
सा तेन तथागतदर्शनेन तथागतगुणश्रवणेन च विशारदा भूत्वा अवकाशप्रतिलब्धा तेजोधिपते राजकुमारस्य पुरतस्तस्यां वेलायामिमा गाथा अभाषत -
रूपवरेणहु लोकि विशिष्टा विश्रुत सर्वदिशासु गुणेभिः ।
प्रज्ञबलेन न मे सदृशास्ति सर्वकलारतिमायविधिज्ञा
प्राणशता बहु नैकसहस्रा ये मम प्रेक्षिषु रागवशेन ।
नापि च रज्यति मह्य कुमारा कस्यचिदन्तिकि मानसु लोके
नो च मम प्रतिहन्यति चित्तं नाप्यनुनीयति कुत्रचि सत्त्वे ।
नापि च मे क्वचि वैरु न दोषः सर्वहिते ऽभिरतं मम चित्तम्
यद मि त्वमपि दृष्ट कुमारो रूपबलप्रवरो गुणधारी ।
तद इन्द्रिय प्रीणित सर्वे प्रीत ममो विपुला उपजाता
शुद्धविरोचनरत्नसुवर्णा केशभिनील सुवल्लित तुभ्यम् ।
सुभ्रुललाट सुनासा एष निवेदयमी तव आत्मा
वरलक्षणधारि सुतेजा काञ्चनपर्वतसंनिभरूपः ।
पुरतो न विराजमि तुभ्यं श्यामकृता मषिविग्रहतुल्या
स्वभिनीलमहायतनेत्रा सिंहहन्यो (?) परिपूर्ण सुवक्त्रः ।
न च ते प्रतिहन्यति वाच्यं अग्ररुत प्रतिगृह्णमि मह्यम्
वदने तव जिह्व प्रभूता ताम्रतनू विपुला रतनाभा ।
वरब्रह्मस्वराङ्गसुघोषा तोषयसे जगदालपमानः
वदने सहितास्तव दन्ता शङ्खनिभा विमला सुविभक्ता ।
स्मितु येहि विदर्शयमानः तोषयसे जनतां नरवीर
तव लक्षणशोभन कायस्त्रिंश दुवेव प्रभासुर शुद्धः ।
समलंकृतु येहि सुरूपः चक्रधरो भवितासि नरेन्द्रा
अथ खलु तेजोधिपती राजपुत्रः सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत् - कस्य त्वं दारिके, को वा तवारक्षकः? न मम दारिके कल्पते परपरिगृहीतेषु दारेषु ममतां कर्तुम् । तस्यां वेलायामिमा गाथा अभाषत -
सुदर्शने रूपगुणैरुपेते सुलक्षणे पुण्यविशुद्धकाये ।
पृच्छामि ते ब्रूहि ममैतमर्थं परिग्रहस्त्वं वरगात्रि कस्य
माता पिता वा तव कच्चिदस्ति भर्तापि वा स्वामि परिग्रहो वा ।
सत्त्वो ऽपि चान्यः खलु येन संज्ञा कृता ममेति त्वयि सौम्यरूपे
कच्चिन्न हिंसाभिरतं मनस्ते हरस्यदत्तं खलु मा परेषाम् ।
मा काममिथ्याचरणे रतिस्ते मा वा मृषाद्य प्रसृतं मनस्ते
मा मित्रभेदप्रसृता मतिस्ते मा मर्मभेदीनि वचांसि वक्षि ।
मा ते ऽपरक्षेषु धनेष्वभिध्या व्यापादचित्तं जनतासु चापि
मा दृष्टिकान्तारपथि स्थितासि मा कर्मवंशोद्धुरचेतना वा ।
मायाविनी शाठ्यवशानुगा वा मा बाधसे त्वं विषमेण लोकम्
मातापिताज्ञातिसुहृद्गुरूणां कच्चित्प्रियत्वं तव गौरवं वा ।
दरिद्रभूतेषु च संग्रहाय कच्चित्प्रदातुं प्रसृतं मनस्ते
प्रेमास्ति कल्याणसुहृत्स्वथो वा धर्मेण काले च वदन्ति ये त्वाम् ।
कायस्य चित्तस्य च कल्यतां ते कर्मण्यतां वा जनयन्ति सम्यक्
बुद्धेषु ते गौरवमस्ति कच्चित् प्रेमापि वा बुद्धसुतेषु तीव्रम् ।
कच्चित्प्रजानासि तमग्रधर्मं यतः प्रसूतिः सुगतात्मजानाम्
कच्चित्परे तिष्ठसि धर्मवंशे न चाप्यधर्मं चरितुं मतिस्ते ।
अनन्तवर्णे च गुणार्णवे ते कच्चित्परं प्रेम च गौरवं च
अनाथभूतेषु जनेषु कच्चित् मैत्रं मनस्ते ऽपरिणायकेषु ।
आपायिके कर्मणि च प्रवृत्ता कच्चिद्भृशार्ता करुणायसे त्वम्
परेषु संपत्तिमुदीक्ष्य चाग्रां कच्चित्परां तुष्टिमुपैषि च त्वम् ।
क्लेशास्वतन्त्रेषु जनेषु कच्चित् प्रज्ञाबलात्संजनयस्युपेक्षाम्
अज्ञानसुप्तां जनतामुदीक्ष्य कच्चिद्दृढां प्रार्थयसे ऽग्रबोधिम् ।
कल्पाननन्तान् चरमाण चर्यां कच्चिन्न ते प्रार्थनयास्ति खेदः
अथ खलु सुदर्शना अग्रगणिका सुचलितरतिप्रभासश्रियो दारिकाया माता तेजोधिपतिं राजकुमारमेतदवोचत् - ममैषा कुमार दारिका उपपादुका पद्मगर्भसंभूता नाभिनिष्क्रान्तपूर्वा गृहात् । तस्यां च वेलायामिमा गाथा अभाषत -
मां भाषमाणां शृणु राजपुत्र यद्दारिका ते परिपृच्छतेयम् ।
वक्ष्ये ऽनुपूर्व्या तव दारिकेयं जाता यथा सौम्य विवर्धिता च
निशाक्षये यत्र भवान् प्रसूतः तत्रैव जाता मम दारिकेयम् ।
उपपादुका निर्मलपद्मगर्भे सर्वाङ्गपूर्णा सुविशालनेत्रा
वसन्तकाले प्रवरे ऋतूनां संभूतसस्योषधिसंप्ररोहे ।
सालप्रभोद्यानवरे मदीये चिरं मया तत्र विनिर्गताहम्
प्रमुक्तशाखाग्रविचित्रकोशे प्रफुल्लवृक्षे घनमेघवर्णे ।
नानाद्विजोन्नादितवृक्षषण्डे वने विशोका मुदिता रमामि
कन्याशतैरष्टभिरन्विताहं विभूषिताभिः सुमनोहराभिः ।
विचित्ररत्नाम्बरधारिणीभिः गीते च वाद्ये च सुशिक्षिताभिः
विचित्रगन्धध्वजपुण्डरीके वापीतटे ऽभूवमहं निषण्णा ।
पुष्पाभिकीर्णे धरणीप्रदेशे सुशिक्षितस्त्रीगणसंप्रपूर्णे
तत्राम्बुमध्ये ऽथ सहस्रपत्रं प्रादुर्बभूवोत्तमरत्नपद्मम् ।
वैडूर्यदण्डं मणिराजपत्रं विशुद्धजाम्बूनदकर्णिकं च
सुगन्धरत्तोत्तमकेसराढ्यं जम्बुध्वजोद्भूतमहावभासम् ।
आसंस्तदा संशयिता जनौघा रात्र्यां किमभ्युद्गत एष सूर्यः
महारवीन्द्राद्रजनीक्षये ऽस्मात् प्रबोध्यमानात्सवितुः प्रभामिः ।
मुक्तो ऽवभासो मधुरश्च शब्दस्तज्जन्मनः पूर्वनिमित्तमस्याः
स्त्रीरत्नमेतद्धि मनुष्यलोके प्रादुर्बभूवोत्तमशीलशुद्ध्या ।
न कर्मणो ह्यस्ति कृतस्य नाशः पूर्वे सुचीर्णस्य विपाक एषः
सुनीलकेश्युत्पलनीलनेत्रा ब्रह्मस्वरा काञ्चनशुद्धवर्णा ।
आमुक्तमालाभरणा सुवेशा पद्मोद्भवा श्रीरिव निर्मलाभा
विशुद्धगात्री समभागकाया संपूर्णगात्रा सुविभक्तदेहा ।
सुवर्णबिम्बं मणिनेव मृष्टं विरोचते सर्वदिशो ऽवभास्य
गोत्रोद्भवश्चन्दनराजगन्धः प्रवाति चास्याभिदिशः स्फरित्वा ।
रुतं च दिव्यं मधुरं रुवत्या गन्धो मुखाद्वाति यथोत्पलस्य
स्मितं यदैषा प्रकरोति चैव दिव्यं तदा तूर्यरवं विरौति ।
स्त्रीरत्नमेतत्खलु जातु लोके न प्राकृतानां वशमभ्युपैति
मनुष्यलोके न हि विद्यते ऽसौ भर्ता हि यो ऽस्यास्त्वदृते परः स्यात् ।
सल्लक्षणैश्चित्रितचारुरूपः कन्यां प्रतीच्छस्व यतस्त्वमेताम्
ह्रस्वा न चेयं हि न चातिदीर्घा स्थूला न चैषा न कृशातिमात्रम् ।
चापोदरी पीनपयोधरा च तवानुरूपेयमनिन्दिताङ्ग
संख्यालिपिज्ञाननये तथैव मुद्राविधौ शास्त्रनयेष्वभिज्ञा ।
शिल्पानि यावन्ति च सर्वलोके पारंगतेयं निखिलेषु तेषु
इष्वस्त्रविज्ञान परं विधिज्ञा सत्त्वान युक्तौ सुविनिश्चिता च ।
आकर्षणे शत्रुमनःप्रसादे सर्वत्र पारं परमं गतेयम्
विशुद्धरत्नोत्तमसर्वगात्रमुक्तप्रभामण्डलराजितेयम् ।
स्वलंकृता पूर्वकृतैः स्वपुण्यैस्तवानुरूपा परिचारिकेयम्
ये व्याधयः केचन जीवलोके तेषां समुत्थाननये विधिज्ञा ।
तेषामशेषप्रशमं च संपद्भैषज्यसम्यक्प्रविचारणे च
जम्बुध्वजे ये ऽपि च सर्वमन्त्रनिरुक्तिभेदा निखिला जनानाम् ।
सर्वत्र लोकव्यवहारसंघौ चित्रे गतेयं परमां गतिं च
स्वराङ्गनिर्हारनयाश्च ये ऽपि तेषां प्रभेदेषु नये प्रविष्टा ।
गीतानि नृत्यानि च यानि लोके तेष्वप्यशेषेषु परं विधिज्ञा
तूर्येषु वाद्येषु रतिप्रयोगे हास्ये च लास्ये च गतिं गतेयम् ।
रक्तेष्वरक्तेषु नरेष्वभिज्ञा नरानुनीता प्रतिघान्विता वा
स्त्रीणां रुतानीह च यानि लोके विशेषतस्तान्यखिलान्यवैति ।
ये चाप्रमेया वनिताजनस्य दोषा न तेषां निखिलेन सन्ति
निरीक्षिते चार्धनिरीक्षिते च अङ्गप्रदाने ऽङ्गविदर्शने च ।
निष्ठां गता सर्वकलासु चैव मनोरथानां परिपूरणी ते
अमत्सरा चेयमनीर्षुका च न कामलोला न पानगृद्धा ।
क्षेमार्जवमार्दवसूरता च अक्रोधना चापरुषा सुविज्ञा
उत्थानशीलाप्रतिकूलवाक्या नित्यं गुरूणामनुवर्तिनी च ।
सगौरवा किंकुशलैषिणी च तवानुयोग्या चरितानुवृत्तौ
जीर्णेषु वृद्धेषु च रोगवत्सु दरिद्रभूतेषु सुदुःखितेषु ।
चक्षुर्विहीनेष्वपरायणेषु कारुण्यमेघं जनयत्यजस्रम्
परार्थचिन्ताभिरता सदैषा न चिन्तयत्यात्महितानि चैव ।
सर्वस्य लोकस्य हितैषिणी च स्वलंकृता चित्तगुणैरुदारैः
नित्याप्रमत्ता स्मृतिसंप्रजन्ये स्थिता निषण्णा शयिता व्रजन्ती ।
तूष्णीं प्रभाषत्यपि च स्मृतैव लोकस्य चैवाभिमता सदैषा
समन्ततः पुण्यवती विभाति सदैव च प्रेमकरी जनानाम् ।
एतामुदीक्षन्न हि तृप्तिमेति लोके न चास्याः क्वचिदस्ति सक्तिः
कल्याणमित्रेषु सगौरवेयं त्वद्दर्शने नित्यसमुत्सुका च ।
दीर्घानुदर्शिन्यविदुष्टचेष्टा सुमेरुकल्पस्थिरशुद्धचित्ता
सदा स्वपुण्यैः समलंकृतैषा न विद्यते ऽस्याः क्वचिदप्यमित्रम् ।
ज्ञाने न चास्याः सदृशास्ति योषिदेषानुरूपा तव राजपुत्र
अथ खलु तेजोधिपती राजपुत्रो गन्धाङ्कुरशिखरप्रभमेघमुद्यानं प्रविश्य सुचलितरतिप्रभासश्रियो दारिकाया मातुरग्रगणिकायाः सुदर्शनायाः समक्षं सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत् - अहं खलु दारिके अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितः । तेन मया अपरिमाणाः सर्वज्ञतासंभाराः समुदानयितव्याः । अनन्तमध्यान् कल्पान् बोधिसत्त्वचर्यां चरता सर्वपारमिताः परिशोधयितव्याः । अपरान्तकोटीगतान् कल्पांस्तथागताः पूजयितव्याः । सर्वबुद्धशासनानि संधारयितव्यानि । सर्वबुद्धक्षेत्राणि परिशोधयितव्यानि । सर्वतथागतवंशा न व्यवच्छेत्तव्याः । सर्वसत्त्ववंशाः परिपाचयितव्याः । सर्वसत्त्वसंसारदुःखानि विनिवर्तयितव्यानि । अत्यन्तसुखे सत्त्वाः प्रतिष्ठापयितव्याः । सर्वसत्त्वानां ज्ञानचक्षुः परिशोधयितव्यम् । सर्वबुद्धबोधिसत्त्वसमुदागमे प्रयोक्तव्यम् । सर्वबोधिसत्त्वसमतायां स्थातव्यम् । सर्वबोधिसत्त्वभूमयो निष्पादयितव्याः । सर्वसत्त्वधातुः परिशोधयितव्यः सर्वसत्त्वदारिद्र्यव्यवच्छेदाय सर्वस्वपरित्यागिना भवितव्यम् । अपरान्तकोटीगतान् कल्पान् दानपारमितायां चरता अन्नपानदानेन सत्त्वाः संतर्पयितव्याः । सर्वोपकरणवस्तुपरित्यागेन सर्वयाचनकसंघः संतर्पयितव्यः । तेन मया सर्वस्वपरित्यागितायां प्रतिपद्यमानेन नास्ति तदाध्यात्मिकं बाह्यं वा वस्तु यन्न परित्यक्तव्यम् । तेन मया पुत्रदुहितृभार्या दातव्याः । चक्षुःशिरोहस्तपादसर्वाङ्गप्रत्यङ्गानि परित्यक्तव्यानि । सा त्वं मम तदा परेषु प्रतिपद्यमाना दानान्तरायं करिष्यसि । प्रियेषु पुत्रेषु परित्यज्यमानेष्वनात्तमना भविष्यसि । बहु कायिकचैतसिकं दुःखं प्रत्यनुभविष्यसि । मम सर्वस्वपरित्यागचित्ते प्रत्युपस्थिते मात्सर्यचित्तमुत्पादयिष्यसि । ममाङ्गप्रत्यङ्गानि च्छित्त्वा याचनकेभ्यः परित्यज्यमानस्य दुःखिता दुर्मनस्विनी भविष्यसि । भविष्यति च स कालो यदहं त्वां परित्यज्य तथागतशासने प्रव्रजिष्यामि । सा त्वं तस्मिन् समये ऽनात्तमना भविष्यसि ॥
अथ खलु तेजोधिपती राजपुत्रः तस्यां वेलायां सुचलितरतिप्रभासश्रियं दारिकां गाथाभिरध्यभाषत -
संबोधिसंभारमहासमुद्रा मयाप्रमेयाः परिपूरणीयाः ।
यतः कृपां सर्वजगत्सु कृत्वा संप्रस्थितो ऽहं सुचिराय बोधौ
कल्यार्णवैः सम्यगनन्तमध्यैः व्योमाप्रमाणैः प्रणिधिर्विशोध्यः ।
प्रस्थानभूमेश्व तथागतानां कल्पाननन्तान् परिकर्म कार्यम्
त्र्यध्वस्थितानां च मया जिनानां संशिक्षिता पारमितापथेषु ।
विशोधनीयो वरबोधिमार्गो निरुत्तरज्ञानमहानयेन
क्षेत्राणि सर्वाण्यपि सर्वदिक्षु क्लिष्टानि शोध्यानि मयाखिलानि ।
सर्वाक्षणा दुर्गतयश्च सर्वा व्यावर्तनीयाः खलु सर्वलोके
सर्वे च सत्त्वा निखिला विशोध्याः क्लेशावृता मोहतमोन्धभूताः ।
प्रपाचयित्वा विविधैरुपायैः सर्वज्ञतामार्गनये निवेश्याः
भूमीरसङ्गाश्च मया विशोध्या कल्पार्णवाश्चैव जिनाः प्रपूज्याः ।
मैत्रीं च संजन्य जगत्यशेषे देयानि दानान्यखिलानि लोके
समागतान् याचनकानुदीक्ष्य सर्वप्रदानाभिरतस्य नित्यम् ।
मा लीनदीना कृपणा तदानीं भूया मम त्वं विसभागचित्ता
शिरोर्थिनो मे ऽर्थमुदीक्ष्य धीमान् चर्यामुदारा च रतस्तदानीम् ।
भविष्यसि त्वं भृशदुःखतप्ता श्रुत्वैवमर्थं स्थिततामुपैहि
त्वं दौर्मनस्यं मम हस्तपादच्छेदान् प्रदास्याम्यापि याचकानाम् ।
कटूनि वक्ष्यस्यबलार्तरूपा श्रुत्वैतमर्थं परिचिन्तयस्व
प्रियाणि वस्तूनि तथैव पुत्रान् दास्यामि च त्वामहमर्थिनः सन् ।
श्रुत्वैतमर्थं यदि ते न सादः सर्वं तथैवास्तु यथा तवेष्टम्
एवमुक्ते सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रमेतदवोचत् - तथा भवतु कुमार यथा वदसि । अहं ते यथाकामं करणीया यथेच्छापरिभोग्या येनकामंगमा सर्वत्रात्यन्तानुगामिनी नित्यानुबद्धा सर्वकार्योत्सुका आशयानुकूलोपचारा सम्यक्पराक्रमा अविषमप्रतिपत्तिप्रयोगोपचारा भविष्यामि ॥
अथ खलु सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रं गाथाभिरध्यभाषत -
कायो हि यन्मे नरकाग्निनायं संताप्यमानो विलयं प्रयायात् ।
जन्मार्णवानप्यहमुत्सहामि चर्यासभागा परिचारिका ते
जातिष्वनन्तास्वपि जातजातश्छिद्येत कायो यदि मे ऽतिमात्रम् ।
तदुत्सहे ऽहं स्थिरधीरचित्ता भर्ता भव त्वं मम साधुरूप
कल्पाननन्तानपि चक्रवालाः कच्चिच्छिरो मे परिचूर्णयेयुः ।
आक्लान्तचित्तापि तदुत्सहे ऽहं स्वामी भव त्वं मम साध्वचिन्त्य
जात्यन्तराण्यप्यमितानि च त्वं छित्त्वाङ्गमात्मानि परस्य देहि ।
चेतोवशित्वं मयि संनिवेश्य दृढं प्रतिष्ठापय मां स्वधर्मे
अत्यन्तमेव प्रतिपादयामि कायं तवेमं नरदेवपुत्र ।
चर्यां चरन् कल्पमहासमुद्रान् प्रयच्छ मामर्थिजनाय हृष्टाम्
संप्रस्थितस्त्वं प्रवराग्रबोधौ सत्त्वेषु संजन्य कृपामनन्ताम् ।
अशेषसत्त्वार्णवसंग्रहाय गृह्णीष्व मामप्यनुकम्पयातः
न भोगहेतोर्न धनस्य हेतोर्न कामचर्यारतिसंभवार्थम् ।
इच्छाम्यहं स्वामिनमग्रसत्त्वं सभागचर्याचरणाय तु त्वाम्
शुद्धाभिनीलेक्षण मैत्रचित्ता यथेक्षसे त्वं खलु सर्वलोके ।
आरक्तचित्तः करुणायमानो निःसंशयं त्वं भविता मुनीन्द्रः
यथा क्रमात्प्रक्रमतो मही ते रत्नोज्ज्वला तिष्ठति निर्मलेयम् ।
सल्लक्षणालंकृत चक्रवर्ती निःसंशयं त्वं भविता नृलोके
स्वप्नान्तरे ऽपश्यमहं रजन्यां सुधर्ममेघप्रभबोधिमण्डे ।
द्रुमेन्द्रमूले सुगतं निषण्णं पुरस्कृतं बुद्धसुतैरनेकैः
तं सूर्यगात्रप्रवरं जिनेन्द्रं जाम्बूनदोत्तप्तमहाद्रिकल्पम् ।
स्वप्नान्तरे मुर्ध्न्यकरोत्स मे ऽद्य पाणिं प्रबुद्धा मुदिता ततो ऽहम्
रतिप्रभा नाम विशुद्धकाया पुराणसालोहितदेवता मे ।
आरोचयत्येष तथागतो ऽस्मिन् संबोधिमण्डे विचरत्युदारे
अभूत्पुरा मे खलु चेतनैवमीक्षेय तेजोधिपतिं कुमारम् ।
आरोचितं देवतया कुमारं त्वं द्रक्ष्यसीत्यद्य निशान्तरे मे
स्वप्नान्तरे मे सुगतो ऽद्य दृष्टः त्वं चैव दृष्टः परिशुद्धसत्त्वः ।
सार्धं त्वयावाप्तमनोरथाहं तं पूजयिष्यामि मुनीन्द्रमद्य
अथ खलु तेजोधिपती राजपुत्रः सूर्यगात्रप्रवरस्य तथागतस्य नामधेयं श्रुत्वा बुद्धदर्शनावकाशप्रतिलब्धो महाप्रीतिप्रसादवेगसंजातः सुचलितरतिप्रभासश्रियं दारिकां ( ग्व् 325 ) पञ्चभिर्मणिरत्नशतैरभ्यवकीर्य श्रीगर्भप्रभासं नाम चूडामणिरत्नमस्याः प्रादात् । अग्निवर्णेन चैनां महामणिरत्नचित्रेण वस्त्ररत्नेनाच्छादयामास । सैवं सत्कृता न हृप्यति नोत्प्लुवति न चरति वा प्रमादं वागमत् अन्यत्र कृताञ्जलिपुटा अनिमिषनयना तेजोधिपतेः कुमारस्य वदनं प्रेक्षमाणा स्थिताभूत् ॥
अथ खलु सुदर्शना अग्रगणिका तेजोधिपतिं राजकुमारं गाथाभिरध्यभाषत -
दद्यामिमां ते खलु दारिकां हमित्येवमासीन्मम दिर्घरात्रम् ।
सेयं प्रदत्ता तव चारुरूपा स्वलंकृता पुण्यगुणैरुपेता
मनुष्यलोके सदृशी न कन्या संविद्यते ऽस्याः क्वचिदुत्तमा या ।
शीलेन बुद्ध्याथ गुणैस्तथान्यैः स्त्रीणां वरेयं स्वलु सर्वलोके
पद्मोद्भवेयं न हि जातिवादः संदूषणामर्हति निर्मलत्वात् ।
अशेषदोषानुपलिप्तचित्ता चर्यासभागा तव संबभूव
सर्वोत्तमस्पर्शसुखावहानि गात्राणि चास्याः परमं मृदूनि ।
व्याध्यातुराः संस्परिशेन येषामरोगतां तत्क्षणमेव यान्ति
यो ऽस्याः शुभो वाति हि गात्रगन्धो वरांस्तदन्यानभिभूय गन्धान् ।
तं गन्धमाघ्राय विशुद्धशीलप्रतिष्ठिता सर्वनरा भवन्ति
अस्या हि कायः कनकप्रकाशो विरोचते निर्मलपद्मगर्भः ।
क्रुद्धा यमुद्वीक्ष्य हि मैत्रचित्ता भवन्ति सर्वे निखिलेन सत्त्वाः
स्निग्धं वचो ऽस्या मधुरं मनोज्ञं कान्तं जनानां श्रवणाभिरामम् ।
श्रुत्वैव यद्दोषतमोविघाति कर्माशुभं नाभिलषन्ति कर्तुम्
शुद्धाशया निर्मलमानसेयं सर्वत्र शाठ्यं न हि विद्यते ऽस्याः ।
यद्भाषते चेतसि तत्तथैव यतो जगत्तोषयति स्वरेण
न मायया मोहयते च सत्त्वान् विलोभयत्येव च नार्थहेतोः ।
लज्जावती संवृतमानसेयं सगौरवा वृद्धनवेषु नित्यम्
न जातिगोत्रेण न रूपमत्ता तथैव नेयं परिवारमत्ता ।
मदेन मानेन च विप्रयुक्ता नम्रा जिनेषु प्रणता सदैव
अथ खलु तेजोधिपती राजपुत्रः सपरिवारया सुचलितरतिप्रभासश्रिया दारिकया विंशत्या कन्यासहस्रैः परिवारेण च सार्धं ततो गन्धाङ्कुरशिखरप्रभमेघादुद्यानान्निष्क्रम्य येन धर्मोद्गतप्रभासो बोधिमण्डो येन च भगवान् सूर्यगात्रप्रवरः तथागतः, तेनोपसंक्रान्तो ऽभूत् भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनाय वन्दनाय पूजनाय पर्युपासनाय । स यावद्यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेव भगवतः सूर्यगात्रप्रवरस्य तथागतस्यान्तिकमुपसंक्रामन् अद्राक्षीत्तेजोधिपती राजपुत्रो भगवन्तं सूर्यगात्रप्रवरं तथागतर्महन्तं सम्यक्संबुद्धं दूरत एव प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तेन्द्रियं नागमिव सुदान्तं हृदमिवाच्छं अनाविलं विप्रसन्नम् । दृष्ट्वा चास्य चित्तमभिप्रसन्नम् । प्रसन्नचित्तो बुद्धदर्शनमहाप्रीतिप्रसादवेगान् संवर्धयामास । महाप्रीतिवेगप्रसादप्रामोद्यपरिस्फुटेन चित्तेन तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पादौ शिरसाभिवन्द्य सार्धं सुचलितरतिप्रभासश्रीदारिकाप्रमुखेन सर्वपरिवारेण पञ्चभिर्महामणिरत्नपद्मशतसहस्रैः तं भगवन्तमभिच्छादयामास । पञ्च च विहारशातानि सर्वगन्धमणिरत्नमयानि सर्वमणिरत्नराजविचित्राणि तस्य भगवतः कारयामास । एकैकं च विहारं पञ्चभिर्महामणिरत्नराजशतसहस्रैः प्रतिमण्डयामास ॥
अथ खलु कुलपुत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः तेजोधिपते राजकुमारस्य अध्याशयं विदित्वा समन्तनेत्रद्वारप्रदीपं नाम सूत्रान्तं संप्रकाशयामास । स तं श्रुत्वा सर्वधर्मनयेषु दश समाधिमुखसमुद्रान् प्रत्यलभत । यदुत - सर्वतथागतप्रणिधानसागरसंभवावभासं नाम समाधिमुखं प्रत्यलभत । त्र्यध्वावभासगर्भं च नाम समाधिमुखं ( ग्व् 327 ) प्रत्यलभत । सर्वबुद्धमण्डलाभिमुखनिर्याणं च नाम समाधिमुखं प्रत्यलभत । सर्वसत्त्वप्रवरावभासप्रवेशं च नाम समाधिमुखं प्रत्यलभत । सर्वलोकसमुदयज्ञानावभासप्रतिपन्नं च नाम समाधिमुखं प्रत्यलभत । सर्वसत्त्वेन्द्रियसमुद्रावभासप्रदीपं च नाम समाधिमुखं प्रत्यलभत । सर्वजगत्परित्राणज्ञानमेघं च नाम समाधिमुखं प्रत्यलभत । सर्वसत्त्वजगत्परिपाकविनयाभिमुखप्रदीपं च नाम समाधिमुखं प्रत्यलभत । सर्वतथागतधर्मचक्रनिर्घोषविज्ञपनं च नाम समाधिमुखं प्रत्यलभत । समन्तभद्रचर्यामण्डलपरिशुद्धिप्रणिधिमेघं च नाम समाधिमुखं प्रत्यलभत । इमानि दश समाधिमुखानि प्रमुखं कृत्वा सर्वधर्मनयेषु दशसमाधिमुखसमुद्रान् प्रत्यलभत । सुचलितरतिप्रभासश्रीश्च दारिका दुर्योधनज्ञानसागरगर्भं च नाम चित्तनिध्यप्तिं प्रत्यलभत, अवैवर्तिका चाभूदनुत्तरायां सम्यक्संबोधौ ॥
अथ खलु तेजोधिपती राजपुत्रः भगवतः सूर्यगात्रप्रवरस्य तथागतस्य पादौ शिरसाभिवन्द्य तं भगवन्तमनेकतसहस्रकृत्वः प्रदक्षिणीकृत्य सुचलितरतिप्रभासश्रिया दारिकया सर्वपरिवारेण च सार्धं तस्य भगवतो ऽन्तिकात्प्राक्रामत् । स येन द्रुममेरुश्री राजधानी, येन च पिता राजा धनपतिस्तेनोपजगाम । उपेत्य पितुर्धनपते राज्ञः पादौ शिरसाभिवन्द्य एतमर्थमारोचयामास - यत्खलु देव जानीयाः - सूर्यगात्रप्रवरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । इहैव तव विजिते धर्ममेघोद्गतप्रभासे बोधिमण्डे विहरत्यचिराभिसंबुद्धः । अथ खलु राजा धनपतिस्तेजोधिपतिं कुमारमेतदवोचत् - केन ते कुमार अयमर्थं आरोचितो देवेन वा मनुष्येण वा? स प्राह - सुचलितरतिप्रभासश्रिया दारिकयेति ॥
अथ खलु राजा धनपतिर्बुद्धोत्पादश्रवणेन महानिधानप्रतिलाभसंज्ञी सुदुर्लभबुद्धरत्नपरिलाभसंज्ञी तथागतदर्शने सर्वदुर्गतिप्रपातभयविनिवर्तनसंज्ञी सर्वक्लेशव्याधिप्रशमनमहावैद्यराजप्रतिलाभसंज्ञी सर्वसंसारदुःखपरिमोचकसंज्ञी अत्यन्तयोगक्षेमप्रतिष्ठापकसंज्ञी वितिमिरज्ञानालोकदर्शकसंज्ञी अविद्यान्धकारविध्वंसनमहोल्काप्रादुर्भावसंज्ञी अनायकस्य लोकस्य धर्मनयविनायकप्रतिलाभसंज्ञी अपरिणायकस्य सर्वज्ञतायानपरिणायकसमुत्पादसंज्ञी महाप्रीतिप्रसादप्रामोद्यप्रतिलब्धो बुद्धोत्पादं श्रुत्वा क्षत्रियब्राह्मणनैगमजनपदामात्यपुरोहितकुमारकोट्टराजानो दौवारिकपार्षद्यांश्च संनिपात्य बुद्धोत्पादनन्दशब्दावेदिनस्तेजोधिपतेः कुमारस्य तद्राज्यं धर्माच्छादं प्रादात् । स तं कुमारं राज्ये ऽभिषिच्य सार्धं दशभिः प्राणिसहस्रैर्येन भगवान् सूर्यगात्रप्रवरस्तथागतस्तेनोपजगाम । उपेत्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पुरस्तान्न्यषीदत् सार्धं स्वकेन परिवारेण ॥
अथ खलु कुलपुत्र स भगवान् सूर्यगात्रप्रवरस्तथागतो धनपतिं राजानं सर्वावच्च पर्षन्मण्डलमवलोक्य तस्यां वेलायामूर्णाकोशात्सर्वजगच्चित्तप्रदीपं नाम रश्मिं प्रामुञ्चत् । सा दशसु दिक्षु सर्वलोकधातूनवभास्य सर्वलोकेन्द्रानभिमुखं परिसंस्थाप्य अचिन्त्यानि बुद्धविकुर्वितानि ( ग्व् 328 ) संदर्श्य बुद्धवैनयिकानां सत्त्वानामाशयान् विशोध्य तस्यां वेलायामचिन्त्येन बुद्धाधिपतेयेन सर्वलोकाभ्युद्गतेन बुद्धकायेन सर्वस्वराङ्गसागरसंप्रयुक्तेन बुद्धघोषेण सर्वधर्मवितिमिरार्थप्रदीपं नाम धारणीमुखं संप्रकाशयामास बुद्धक्षेत्रपरमाणुरजःसमधारणीमुखपरिवारम् । अथ राज्ञो धनपतेस्तद्धारणीमुखं श्रुत्वा सर्वधर्मेषु महान् धर्मावभासः प्रादुरभूत् । तस्यां च पर्षदि जम्बुद्वीपपरमाणुरजःसमानां बोधिसत्त्वानां सर्वधर्मवितिमिरार्थप्रदीपाया धारण्याः प्रतिलम्भो ऽभूत् । षष्टेश्च प्राणिनियुतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि । दशानां च प्राणिसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । अपरिमाणानामनुत्पन्नपूर्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पन्नम् । दशसु दिक्षु अचिन्त्यबुद्धविकुर्वितसंदर्शनेनानन्तमध्यः सत्त्वधातुर्विनयमगमात् त्रिभिर्यानैः ॥
राज्ञश्च धनपतेर्महाधर्मावभासप्रतिलब्धस्य एतदभवत् - न शक्यमगारमध्यावसता इमा एवंरूपा धर्मा अधिमोक्तुम्, एवंरूपं च ज्ञानं निष्पादयितुम् । यन्न्वहं भगवतो ऽन्तिके प्रव्राजयेयम् । अथ खलु राजा धनपतिस्तं भगवन्तमेतदवोचत् - लभेयाहं भगवतो ऽन्तिके प्रव्रज्यामुपसंपदं भिक्षुभावम् । आह - यस्येदानीं महाराज कालं मन्यसे ॥
अथ खलु राजा धनपतिः सूर्यगात्रप्रवरस्य तथागतस्यान्तिके प्राव्रजत् सार्धं दशभिः प्राणिसहस्रैः । तेन अचिरेण प्रव्रजितेन सर्वधर्मवितिमिरार्थप्रदीपं धारणीमुखं सपरिवारं निष्पादितं भावितम्, तावन्त्येव च समाधिमुखानि प्रतिलब्धानि । दश च बोधिसत्त्वाभिज्ञाः प्रतिलब्धा । अनन्तमध्यं च प्रतिसंविन्नयसागरामवतीर्णः । असङ्गगोचरा च नाम कायपरिशुद्धिः दशदिक्तथागतोपसंक्रमणेषु प्रतिलब्धा । स तस्य भगवतो धर्मचक्रं प्रतीच्छितवान् संधारितवान्, कथापुरुषत्वं च कारयामास । महाधर्मभाणकत्वं च अकरोत् । शासनपरिग्रहं चाकार्षीत् । अभिज्ञाप्रतिलाभबलेन च सर्वावतीं लोकधातुं स्फरित्वा यथाशयानां सत्त्वानां कायं संदर्श्य एतं बुद्धोत्पादं प्रभावयन् तां सर्वतथागतसमुदयधर्मतामभिद्योतयन् तां पूर्वयोगसंपदं संप्रकाशयन् तं बुद्धविकुर्वितप्रभावं संवर्णयमानः शासनपरिग्रहमकार्षीत् ॥
तेजोधिपतिना च राजपुत्रेण तत्रैव दिवसे पूर्णायां पूर्णमास्यां सप्त रत्नानि प्रतिलब्धानि । तस्योपरिप्रासादतलगतस्य स्त्रीगणपरिवृतस्य पुरस्तादप्रतिहतवेगं नाम शतसहस्रारं सर्वरत्नसमलंकृतं दिव्यं जाम्बूनदसुवर्णमयं समन्तप्रभं सर्वाकारवरोपेतं महाचक्ररत्नं प्रादुरभूत् । वज्ररत्नगिरितेजश्च नाम महाहस्तिरत्नं प्रादुरभूत् । नीलगिर्यनिलवेगं च नाम अश्वरत्नं प्रादुरभवत् । आदित्यगर्भप्रभमेघराजं च नाम महामणिरत्नं प्रादुरभवत् । सा च सुचलितरतिप्रभासश्री दारिका स्त्रीरत्नं प्रादुरभवत् । प्रभूतघनस्कन्धं च नाम गृहपतिरत्नं प्रादुरभवत् । विमलनेत्रं च नाम परिणायकरत्नं सप्तमं प्रादुरभवत् । स सप्तरत्नसमन्वागतो राजाभवच्चक्रवर्ती चतुर्द्वीपेश्वरो धार्मिको धर्मराजो विजितावी जनपदस्थामवीर्यप्राप्तः । पूर्णं खलु पुनरस्य सहस्रं पुत्राणामभूच्छूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स ( ग्व् 329 ) इमां महापृथिवीं ससागरगिरिपर्यन्तामखिलामकण्टकामनीतिकामनुपद्रवामृद्धां स्फीतां क्षेमां सुभिक्षां रमणीयामाकीर्णबहुजनमनुष्यां धर्मेणाभिनिर्जित्य अध्यावसति स्म ॥
स तस्मिन् जम्बुद्वीपे चतुरशीतिराजधानीसहस्रेषु एकैकस्यां राजधान्यां पञ्च विहारशतानि कारयामास सर्वाकारवरोपेतानि सर्वोपभोगपरिभोगोपचारसंपन्नानि सर्वोद्यानप्रासादचंक्रमनिर्याणसुखपरिभोग्यवनराजीविभूषितानि । एकैकस्मिंश्च विहारे तथागतचैत्यं कारयामास विपुलोद्विद्धमत्यन्तरानेकाकाररत्नव्यूहं सर्वमणिरत्नराजविचित्रम् । सर्वासु च तासु राजधानीषु तं भगवन्तं सूर्यगात्रप्रवरं तथागतं सपरिवारमुपनिमन्त्रयामास नगरप्रवेशाय । सर्वासु राजधानीषु तं तथागतं सर्वाकारया अचिन्त्यया तथागतपूजया पूजयन् प्रवेशयामास । स बुद्धनगरप्रवेशप्रातिहार्यविकुर्वितेन अप्रमाणानां सत्त्वानां कुशलमूलानि संजनयमास । तत्राप्रसन्नचित्ताः सत्त्वाः प्रसादं प्रत्यलभन्त । प्रसन्नचित्ताः सत्त्वा बुद्धदर्शनप्रीतिवेगान् विवर्धयामासुः । प्रीतिवेगविवर्धिताः सत्त्वा बोध्याशयविशुद्धिं प्रत्यलभन्त । बोध्याशयविशुद्धाः सत्त्वाः महाकरुणाचेतनामुत्पादयामासुः । सत्त्वहितप्रतिपन्नाः सत्त्वाः सर्वबुद्धधर्मपर्येष्ट्यभियुक्ता अभूवन् । बुद्धधर्मनयविधिज्ञाः सत्त्वाः सर्वधर्मस्वभावनिध्यप्तये चित्तमभिनिर्णामयामासुः । धर्मसमतावतीर्णाः सत्त्वाः त्र्यध्वसमतावताराय चित्तमभिनिर्णामयामासुः । त्र्यध्वज्ञानावभासप्रतिलब्धाः सत्त्वाः सर्वबुद्धपरंपराविज्ञप्तये ज्ञानालोकमवक्रामति स्म । विचित्रतथागतविज्ञप्त्यवक्रान्ताः सत्त्वाः सर्वजगत्संग्रहाय चित्तमभिनिर्णामयामासुः । सर्वजगत्संग्रहप्रयुक्ताः सत्त्वा बोधिसत्त्वमार्गविशुद्धये प्रणिधानमुत्पादयामासुः । मार्गसमतावतीर्णाः सत्त्वाः सर्वतथागतधर्मचक्राभिनिर्हाराय ज्ञानालोकमुत्पादयामासुः । धर्मसागरविनयाभिमुखा सत्त्वाः सर्वक्षेत्रजालस्वकायस्फरणतायै चित्तमभिनिर्णामयामासुः । क्षेत्रसमतावतीर्णाः सत्त्वाः सर्वसत्त्वेन्द्रियसमुद्रपरिज्ञायै प्रणिधानमकार्षुः । सर्वजगदिन्द्रिययथाधिमुक्तिविचारप्रयुक्ताः सत्त्वाः सर्वज्ञताधिगमाय अध्याशयं विशोधयामासुः । इत्येवंरूपाणां सत्त्वानामिमामेवंरूपार्थसिद्धिं संप्रवेश्य तेजोधिपती राजा सर्वासु राजधानीषु तं सूर्यगात्रप्रवरं तथागतं प्रवेशयामास अचिन्त्येन बुद्धविकुर्वितप्रातिहार्यसंदर्शनेन तेषां सत्त्वानां परिपाकविनयाय ॥
तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन तेजोधिपतिर्नाम राजपुत्रो ऽभूत्? न खलु पुनस्त्वयैवं द्रष्टव्यम् । अयं स भगवान् शाक्यमुनिस्तथागतस्तेन कालेन तेन समयेन तेजोधिपतिर्नाम राजपुत्रो ऽभूत्, येन तच्चक्रवर्तिराज्यं प्रतिलब्धम्, स च सूर्यगात्रप्रवरो नाम तथागत आरागितः । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन धनपतिर्नाम राजा अभूत् तेजोधिपतेः कुमारस्य पिता? न खल्वेवं द्रष्टव्यम् । रत्नकुसुमप्रभो नाम तथागतस्तेन कालेन तेन समयेन धनपतिर्नाम राजा अभूत्, य एतर्हि पूर्वस्यां दिशि लोकधातौ सागरपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण धर्मधातुगगनप्रतिभासमेघनाम्नि लोकधातुसमुद्रे त्र्यध्वप्रतिभासमणिराजसंभवकुलमध्यमे लोकधातुवंशे बुद्धप्रभामण्डलश्रीप्रदीपायां लोकधातौ सुचन्द्रकायप्रतिभासध्वजे बोधिमण्डे ( ग्व् 330 ) अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबोधिसत्त्वपरिवृतो धर्मं देशयति । तेन च भगवता रत्नकुसुमप्रभेण तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता सर्वधर्मधातुगगनप्रतिभासमेघो लोकधातुसमुद्रः परिशोधितः । यावन्तश्च तस्मिन् लोकधातुसमुद्रे तथागता उत्पन्नाश्च उत्पद्यन्ते च उत्पत्स्यन्ते च, ते सर्वे च भगवता रत्नकुसुमप्रभेण तथागतेन पूर्वबोधिसत्त्वचर्याश्चरता अनुत्तरायां सम्यक्संबोधौ परिपाचिताः ॥
तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राजभार्या अभूत् तेजोधिपतेः कुमारस्य माता चतुरशीतिस्त्रीसहस्राणां प्रमुखानाम्? न खल्वेवं द्रष्टव्यम् । एषा सा कुलपुत्र मायादेवी भगवतो माता बोधिसत्त्वजननी समन्तावभासानावरणविमोक्षप्रतिष्ठिता असंख्येयसर्वतथागतसमुद्रागमप्रत्यक्षा सर्वबोधिसत्त्वजन्मसंदर्शनविधिज्ञा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राज्ञो धनतेरग्रमहिष्यभूत् । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिका अभूत्? न खल्वेवं द्रष्टव्यम् । एषा सा सुनेत्रा नाम दण्डपाणेः शाक्यस्य भार्या मम माता तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिकाभूत् । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्नाम गणिकादारिकाभूत्? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्गणिकादारिका अभूत् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन तेजोधिपते राज्ञः परिवारो ऽभूत्? न खल्वेवं द्रष्टव्यम् । इमे ते बोधिसत्त्वाः सर्वे समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूर्यां भगवता प्रतिष्ठापिता अस्मिन्नेव पर्षन्मण्डले संनिषण्णासर्वलोकधातुप्रतिभासप्राप्तेन कायेन सर्वबोधिसत्त्वसमाधिविहारसंभिन्नेन चित्तेन सर्वतथागतः संमुखभाववदनविज्ञप्तेन चक्षुषा सर्वतथागतगगनस्वराङ्गमेघचक्रनिगर्जितनिर्घोषविज्ञप्तेन श्रोत्रेण सर्वधर्मविहारवशवर्तिना आश्वासप्रश्वासेन सर्वबुद्धक्षेत्रानुचलितेन निर्घोषेण सर्वतथागतपर्षन्मण्डलोपसंक्रमणाप्रतिप्रस्रब्धेन बोधिसत्त्वकायेन बोधिसत्त्वयथाशयाभिमुखेन परिपाकविनयानुकूलेन आत्मभावाभिनिर्हारेण अशेषसर्वदिग्जालप्रसृतेन नानागतसर्वकल्पाव्यवच्छिन्नेन समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूरिसमुदागमेन समन्वागता भगवतः पर्षन्मण्डले संनिषण्णाः । स खलु कुलपुत्र सूर्यगात्रप्रवरस्तथागतस्तेजोधिपतिना चक्रवर्तिना च मया च यावज्जीवमुपस्थितो ऽभूत् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥
तस्य खलु पुनः कुलपुत्र सूर्यगात्रप्रवरस्य तथागतस्य परिनिर्वृतस्यानन्तरं तस्यामेव लोकधातौ प्रसन्नगात्रो नाम तथागतो लोक उदपादि । सो ऽप्यस्माभिरारागितः सत्कृतो गुरुकृतो मानितः पूजितः । तस्यानन्तरं सर्वगात्रज्ञानप्रतिभासचन्द्रो नाम तथागतो लोक उदपादि । सो ऽप्यस्माभिर्देवेन्द्रभूतैरारागितः । तस्यानन्तरं जाम्बूनदतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं लक्षणभूषितगात्रो नाम तथागत आरागितः । तस्यानन्तरं विचित्ररश्मिज्वलनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सुविलोकितज्ञानकेतुर्नाम तथागत ( ग्व् 331 ) आरागितः । तस्यानन्तरं विपुलमहाज्ञानरश्मिराजो नाम तथागत आरागितः । तस्यानन्तरं नारायणवज्रवीर्यो नाम तथागत आरागितः । तस्यानन्तरमपराजितज्ञानस्थामो नाम तथागत आरागितः । तस्यानन्तरं समन्तविलोकितज्ञानो नाम तथागत आरागितः । तस्यानन्तरं विमलश्रीमेघो नाम तथागत आरागितः । तस्यानन्तरं सिंहविजृम्भितप्रभो नाम तथागत आरागितः । तस्यानन्तरं ज्ञानरश्मिज्वलनचूडो नाम तथागत आरागितः । तस्यानन्तरं गुणरश्मिध्वजोनाम तथागत आरागितः । तस्यानन्तरं ज्ञानभास्करतेजो नाम तथागत आरागितः । तस्यानन्तरं रत्नपद्मप्रफुल्लितगात्रो नाम तथागत आरागितः । तस्यानन्तरं पुण्यप्रदीपध्वजो नाम तथागत आरागितः । तस्यानन्तरं ज्ञानरश्मिमेघप्रभो नाम तथागत आरागितः । तस्यानन्तरं समन्तवैरोचनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं आभरणच्छत्रनिर्घोषो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानालोकविक्रमसिंहो नाम तथागत आरागितः । तस्यानन्तरं धर्मधातुविषयमतिचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सत्त्वगगनचित्तप्रतिभासबिम्बो नाम तथागत आरागितः । तस्यानन्तरं प्रशमगन्धसुनाभो नाम तथागत आरागितः । तस्यानन्तरं समन्तानुरवितशान्तनिर्घोषो नाम तथागत आरागितः । तस्यानन्तरं सुदृढज्ञानरश्मिजालबिम्बस्कन्धो नाम तथागत आरागितः । तस्यानन्तरं अमृतपर्वतप्रभातेजो नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरनिगर्जितघोषो नाम तथागत आरागितः । तस्यानन्तरं बुद्धगगनप्रभासचूडो नाम तथागत आरागितः । तस्यानन्तरं रश्मिचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं रश्मिचन्द्रोर्णमेघो नाम तथागत आरागितः । तस्यानन्तरं सुपरिपूर्णज्ञानमुखक्त्रो नाम तथागत आरागितः । तस्यानन्तरं सुविशुद्धज्ञानकुसुमावभासो नाम तथागत आरागितः । तस्यानन्तरं रत्नार्चिःपर्वतश्रीतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं विपुलगुणज्योतिःप्रभो नाम तथागत आरागितः । तस्यानन्तरं समाधिमेर्वभ्युद्गतज्ञानो नाम तथागत आरागितः । तस्यानन्तरं रत्नचन्द्रध्वजो नाम तथागत आरागितः । तस्यानन्तरमर्चिर्मण्डलगात्रो नाम तथागत आरागितः । तस्यानन्तरं रत्नाग्रप्रभतेजो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानचर्याविलम्बो नाम तथागत आरागितः । तस्यानन्तरं अर्चिःसमुद्रमुखवेगप्रदीपो नाम तथागत आरागितः । तस्यानन्तरं धर्मविमाननिर्घोषराजो नाम तथागत आरागितः । तस्यानन्तरमसदृशगुणकीर्तिध्वजो नाम तथागत आरागितः । तस्यानन्तरं प्रलम्बबाहुर्नाम तथागत आरागितः । तस्यानन्तरं पूर्वप्रणिधिनिर्माणचन्द्रो नाम तथागत आरागितः । तस्यानन्तरमाकाशज्ञानार्थप्रदीपो
नाम तथागत आरागितः । तस्यानन्तरं धर्मोद्गतनभेश्वरो नाम तथागत आरागितः । तस्यानन्तरं वैरोचनश्रीगर्भराजो नाम तथागत आरागितः । तस्यानन्तरं धर्मनारायणकेतुर्नाम तथागत आरागितः । तस्यानन्तरं ज्ञानकेतुर्नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरपद्मो नाम तथागत आरागितः । इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यां लोकधातौ षष्टिबुद्धकोटीनियुतशतसहस्राण्युत्पन्नानि ( ग्व् 332 ) अभूवन्, यान्यस्माभिरारागितानि सत्कृतानि गुरुकृतानि मानितानि पूजितानि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥
तेषां खलु कुलपुत्र षष्टेर्बुद्धकोटीनियुतशतसहस्राणां सर्वपश्चिमो विपुलधर्माधिमुक्तिसंभवतेजो नाम तथागत उत्पन्नो ऽभूत् । तस्य भगवतो नगरे प्रविष्टस्य मया राजभार्याभूतया सार्धं स्वामिना सर्वाकारपूजामुखं प्रयुक्तया तथागतपूजया पूजां कृत्वा सर्वतथागतोत्पत्तिसंभवप्रदीपो नाम तथागतधर्मपर्यायस्तस्य भगवतो ऽन्तिकात् श्रुतः, यस्य सहश्रवणान्मया ज्ञानचक्षुः प्रतिलब्धम् । एष च सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः प्रतिलब्धः ॥
सा खल्वहं कुलपुत्र एतं विमोक्षं भावयमाना बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागतान् बोधिसत्त्वेन सार्धं बोधिसत्त्वचर्यां चरमाणा । तेषु च मे बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु अनन्तमध्यास्तथागता आरागिताः । क्वचित् कल्पे कल्पस्थो ऽपि एकतथागत आरागितः । क्वचित् कल्पे द्वौ तथागतावारागितौ । क्वचित् कल्पे यावदनभिलाप्यास्तथागता आरागिताः । क्वचित् कल्पे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः । न च मे जातु बोधिसत्त्वस्य कायो ज्ञातः - किंप्रमाणः कीदृक्संस्थानः कीदृग्वर्णः । न कायकर्म ज्ञातं न वाक्कर्म न मनस्कर्म ज्ञातं न ज्ञानदर्शनं न ज्ञानगोचरं न ज्ञानसमाधिविषयो ज्ञातः । ये खलु पुनः कुलपुत्र सत्त्वा बोधिसत्त्वं बोधिसत्त्वचारिकां चरन्तं दृष्ट्वा बोधिसत्त्वस्यान्तिके ऽनुनयचित्तमुत्पादयामासुः, नानासंकेतैर्नानासंवासैश्च प्रसादं जनयामासुः, सर्वे ते बोधिसत्त्वेन लौकिकलोकोत्तरैर्विविधैरुपायैः संगृहीता बोधिसत्त्वस्य परिवारा भवन्ति स्म । ते बोधिसत्त्वस्य बोधिसत्त्वचर्यां चरतः परिवारसंवासे न अवैवर्तिका भवन्ति स्म अनुत्तरायां सम्यक्संबोधौ ॥
साहं कुलपुत्र विपुलधर्माधिमुक्तिसंभवतेजस्तथागतस्य सहदर्शनादिमं सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रतिलभ्य बोधिसत्त्वेन सार्धं बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागता एतं विमोक्षं संभावयमाना । ये च तेषु बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु तथागता उत्पन्नाः, सर्वे ते मया तथागता आरागिताः पूजिता उपस्थिताः । सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता, श्रुत्वा उद्गृहीता संधारिता । सर्वेषां च मया तेषां बुद्धानां भगवतामन्तिकादेष विमोक्षः प्रतिलब्धो नानानयैर्वा नानासूत्रान्तनयनिर्घोषैर्नानाविमोक्षशरीरैर्नानाविमोक्षद्वारैर्नानाविमोक्षविचारैर्नानाध्वजप्रवेशैः नानाबुद्धक्षेत्रसागरावतारैः नानाबुद्धदर्शनसमुद्रविज्ञप्तिभिः नानातथागतपर्षन्मण्डलावतारैः नानाबोधिसत्त्वप्रणिधानसागरनयपथैः नानाबोधिसत्त्वचर्याप्रसरैः नानाबोधिसत्त्वचर्याभिनिर्हारैः नानाबोधिसत्त्वप्रसरैः । न च बोधिसत्त्वस्य समन्तभद्रविमोक्षनयमवतरामि । तत्कस्य हेतोः? आकाशतलप्रवेशाप्रमाणा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः सर्वसत्त्वसंज्ञागततलाप्रमाणाः त्र्यध्वपरिवर्तसागरतलाप्रमाणा ( ग्व् 333 ) दिक्समुद्रतलाप्रमाणा धर्मधातुनयसागरतलाप्रमाणाः । तथागतविषयसमशरीरा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः ॥
सा अहं कुलपुत्र बुद्धक्षेत्रपर्माणुरजःसमान् कल्पान् बोधिसत्त्वशरीरं प्रेक्षमाणा अतृप्तैव दर्शनेन । तद्यथापि नाम कुलपुत्र एकान्तरागचरितयोः स्त्रीपुरुषयोरन्योन्यसमागमे संकेतकृतयोरप्रमाणा अयोनिशोमनसिकारप्रभवाः शुभसंज्ञावितर्कसंमोहसंभवाश्चित्तोत्पादा उत्पद्यन्ते, एवमेव कुलपुत्र मम बोधिसत्त्वस्य शरीरं प्रेक्षमाणाया एकैकस्माद्रोमविवरादनन्तमध्याप्रमाणनिर्देशा लोकधातुवंशप्रसरा नानाप्रतिष्ठाना नानासंधिव्यूहा नानासंस्थाना नानापर्वतव्यूहा नानापृथिवीतलव्यूहनिर्देशा नानागगनमेघसंछन्नालंकारा नानाकल्पनामसंख्यानिर्देशा नानाबुद्धोत्पादतथागतवंशप्रभवा नानाबोधिमण्डालंकारा नानातथागतधर्मचक्रप्रवर्तनविकुर्विता नानातथागतपर्षन्मण्डलव्यूहा नानासूत्रान्तनयनिर्देशनिर्घोषा नानायाननयनिर्हारप्रभवा नानापरिशुद्धप्रभालोकावभासा अदृष्टपूर्वनिमित्ताः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्या बुद्धसमुद्राश्चक्षुष आभासमागच्छन्ति । नानाबोधिमण्डालंकारा नानाधर्मचक्रप्रवर्तनविकुर्विता नानासूत्रान्तनिर्घोषविकुर्विताः अप्रतिस्रब्धयोगेन प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्याः सत्त्वसमुद्रा नानाभवनारामपर्वतविमाननदीसमुद्रनिलया नानारूपकाया नानापरिभोगविषया नानाचारयोगचारप्रयोगा नानेन्द्रियपरिनिष्पत्तिसंस्थानाः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्यास्त्र्यध्वसागरप्रवेशनया अवभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वप्रणिधानसमुद्रा विशुध्यन्ते । अनन्तमध्या बोधिसत्त्वभूमिचर्याविमात्रतासमुद्रा आभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वपारमितानयसागरपरिशुद्धयो ऽवभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वपूर्वयोगसमुद्रा आभासमागच्छन्ति । अनन्तमध्या बुद्धक्षेत्रपरिशोधननयसमुद्रा आभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वपरिपाकविनयपराक्रमप्रयोगसागरा अवक्रामन्ति । अनन्तमध्या बोधिसत्त्वमहाकरुणामेघनयसागराः संभवन्ति । अनन्तमध्या बोधिसत्त्वमहाप्रीतिवेगसागरा विवर्धन्ते । प्रतिचित्तक्षणमनन्तमध्याः सर्वसत्त्वसंग्रहप्रयोगसागरा निष्पद्यन्ते ॥
सा अहं कुलपुत्र तेषु बुद्धक्षेत्रशतपरमाणुरजःसमेषु कल्पेषु बोधिसत्त्वस्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणमनन्तमध्यान् धर्मनयसागरानवतरमाणा पर्यन्तं नाधिगच्छामि । न च अवतीर्णपूर्वमवतरामि । न प्रतिलब्धपूर्वं प्रतिलभे यावदन्तःपुरमध्यगतस्याप्यहं कुलपुत्र सर्वार्थसिद्धस्य स्त्रीगणपरिवृतस्य नानाविमोक्षनयसागरावतारैः । एकैकस्माद्रोमविवरादनन्तमध्यांस्त्र्यध्वनयसागरानवतारामि धर्मधात्ववतारनयसमुद्रावतारेण ॥
एतमहं कुलपुत्र सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रजानामि, समापद्ये । किं मया शक्यं बोधिसत्त्वानामनन्तमध्योपायनयसागरप्रसृतानां सर्वसत्त्वसमसदृशसंस्थानसंस्थितकायविज्ञप्तिसंदर्शकानां सर्वजगदाशयानुकूलचर्यासंदर्शकानाम् ( ग्व् 334 ) अनन्तमध्यवर्णनिर्मितमेघसमुद्रसर्वरोममुखप्रमुञ्चकानां सर्वशरीरधर्मतास्वभावप्रकृतिपरिशुद्धानामाकाशलक्षणजगत्प्रकृत्यवबोधनिर्विकल्पानां सर्वत्रानुगतबुद्धिविनिश्चयतथागतसमविकुर्वितपरमाणाम् अनन्तमध्यविमोक्षविषयविकुर्वितनिर्यातानां विपुलधर्मधातुचित्तोत्पादप्रवेशविहारवशवर्तिनां समन्तमुखसर्वधर्मभूमिविमोक्षसागरविक्रीडितानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, निखिलान् वा गुणनिधीन् संदर्शयितुम् ॥
गच्छ कुलपुत्र, इहैव भगवतो वैरोचनस्य पादमूले विविधरत्नव्यूहमहामणिराजपद्मगर्भासननिषण्णा बोधिसत्त्वजनेत्री माया नाम देवी । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्तो ऽनुपलिप्ता भवन्ति सर्वलोकधर्ममलैः । अप्रतिप्रस्रब्धा भवन्ति तथागतपूजाप्रयोगेषु । अवैवर्तिका भवन्ति सर्वबोधिसत्त्वकर्मान्तेभ्यः । सर्वावरणविगता भवन्ति बोधिसत्त्वविमोक्षावतारेषु । अपरप्रत्यया भवन्ति सर्वबोधिसत्त्वविहारेषु । संमुखीभावगता भवन्ति सर्वतथागतानाम् । न विवर्तन्ते सर्वसत्त्वसंग्रहप्रयोगेभ्यः, न निवर्तन्ते ऽपरान्तकोटीगतकल्पसर्वबोधिसत्त्वचर्यासंवासेभ्यः । न प्रत्युदावर्तन्ते महायानप्रणिधानात् । न संसीदन्ति जगत्कुशलमूलसंधारणविवर्धनतया ॥
अथ खलु गोपा शाक्यकन्या एतमेव विमोक्षमुखनयं संदर्शयन्ती बुद्धाधिष्ठानेन तस्यां वेलायामिमा गाथा अभाषत -
संबोधिचर्याचरणप्रयुक्तं पश्यन्ति सत्त्वाः खलु ये ऽग्रसत्त्वम् ।
प्रसन्नचित्ताः प्रतिघातिनो वा व्रजन्ति ते संग्रहमस्य सर्वे
यावन्ति हि क्षेत्रशते रजांसि स्मरामि कल्पानिह तावतो ऽहम् ।
मेरुप्रभाभूद्वरलोकधातुस्ततः परं व्यूहसनाम्नि कल्पे
षड्विंशतिः कोट्ययुतानि तस्मिन् सहस्रसंख्या ह्यभवन्मुनीनाम् ।
तेषामभूद्यश्चरमो मुनीन्द्रो धर्मध्वजो नाम जगत्प्रदीपः
श्रीतेजनामा नृपतिस्तदानीं तस्मिन् मुनीन्द्रे परिनिर्वृते ऽथ ।
जम्बुध्वजे ऽस्मिन्निहतारिचक्रः सो ऽव्याहताज्ञः परमेश्वरो ऽभूत्
शूराणि वीराण्यथ रूपवन्ति पञ्चाभवन् पुत्रशतानि तस्य ।
सर्वाङ्गसंपूर्णविशुद्धकायान्यनुत्तमश्रीप्रतिमण्डितानि
राजा सपुत्रः सुगते प्रसन्नः पूजामकार्षीद्विपुलां जिनस्य ।
नित्यं च सद्धर्मपरिग्रहो ऽसौ धर्माभियुक्तो ऽभवदप्रकम्प्यः
सुरश्मिनामा च नृपस्य तस्य विशुद्धसत्त्वो ऽयमभूत्कुमारः ।
सुदर्शनीयश्च मनोज्ञरूपः त्रिंशद्वरालंकृतलक्षणाङ्गः
राज्यं परित्यज्य नृणां स पञ्चकोटीवृतः प्रव्रजितस्तदानीम् ।
स प्रव्रजित्वा दृढवीर्ययुक्तः संधारयामास जिनस्य धर्मम्
द्रुमावती नाम पुरी वृताभूत् कोटीसहस्रैर्नगरोत्तमानाम् ।
आसीद्वनं तत्र विचित्रशाखं प्रशान्तनिर्घोषमनुत्तरश्रियम्
यतः सुरश्मिर्विजहार तस्मिन् विशारदो धीप्रतिभानशुद्धः ।
स द्योतयामास जिनस्य धर्मं संक्लिष्टसत्त्वौघविशोधनाय
पिण्डाय धीमान् स पुरं विवेश प्रासादिकेर्यापथशान्तवेषः ।
अनुत्क्षिप्तचक्षुः स्मृतिमान् प्रजानन् गम्भीरचेष्टः स्थिरधीरगामी
नन्दीध्वजो ऽभूत्प्रवरः पुराणां श्रेष्ठी तदानीं सुविघुष्टकीर्तिः ।
तस्याहमासं दुहिता मनापा भानुप्रभा नाम सुचारुरूपा
द्वारे ऽथ तस्योत्तरमन्दिरस्य दृष्टो मयाभूत्सगणः सुरश्मिः ।
प्रासादिको लक्षणचित्रिताङ्गः तत्राभवन्मे सुमहान् प्रसादः
यदा गृहद्वारगतो ममाभूत् पात्रे प्रदत्तो ऽस्य मणिस्तदा मे ।
मुक्त्वा च सर्वाभरणानि मैत्रचित्तानुनीताहमदात्तदास्मै
सरागचित्तेन विधाय पूजां सुरश्मिकेतोः सुगतात्मजस्य ।
अर्धतृतीयानि शतानि नागां कल्पोत्तमायां खलु जात्वपायान्
देवेषु देवेन्द्रकुलेषु जाता नरेन्द्रपुत्री मनुजेषु चाहम् ।
अनन्तवर्णेन समुच्छ्रयेण सर्वत्र चादात्सहदर्शनं मे
अर्धतृतीयेषु गतेषु कल्पशतेषु जातास्म्यभयंकराणाम् ।
सुदर्शनाया गणिकोत्तमायाः संचालिताख्या दुहिता तदानीम्
दृष्ट्वाथ तेजोधिपतिं कुमारं पूजामकार्षं मुदिताहमस्य ।
आत्मानमस्यैव निवेदयित्वा भूतास्मि वश्या खलु तस्य भार्या
संपूजितस्तेन मया सहाभूत् स सूर्यगात्रप्रवरो महर्षिः ।
प्रसन्नया चैव तमीक्ष्य बुद्धमुत्पादितं मे वरबोधिचित्तम्
पूर्णा जिनानां खलु षष्टिकोट्यस्तत्रैव कल्पे सुसमुत्थितानाम् ।
बभूव तेषां चरमो जिनानां बुद्धस्तदानीमधिमुक्तितेजाः
तस्मिन् विशुद्धं मम धर्मचक्षुर्धर्मस्वभावश्च मयावबुद्धः ।
अयोनिशो ऽत्यन्तविकल्प शान्ता लब्धावभासास्म्यभवं ततो ऽर्वाक्
समाधिभूमिं च विलोकयामि ततःप्रभृत्येव जिनौरसानाम् ।
क्षेत्रार्णवानेकमनःक्षणेन चिन्ताव्यतीतांश्च दिशामि दिक्षु
नानाविशुद्धानि च सर्वदिक्षु क्षेत्राणि पश्याम्यमिताद्भुतानि ।
दृष्ट्वा मनस्तेषु न सज्जते मे क्लिष्टेषु नैव प्रतिहन्यते च
क्षेत्रेषु तेष्वेव च बोधिमण्डे पश्यामि बुद्धान् निखिलेष्वशेषान् ।
प्रभासमुद्रानमितांश्च तेषां एकेन चित्तेन विलोकयामि
तथैव तेषां च पर्षत्समुद्रांश्चित्तक्षणेनावतराम्यसङ्गान् ।
तेषां समाधीनखिलानवैमि सर्वान् विमोक्षानपि चाप्रमेयान्
चर्यां च तेषां विपुलां धरेमि भूमीनयांश्चावतराम्यशेषान् ।
प्रणिध्यसंख्येयमहासमुद्रान् प्रतिक्षणं चावतराम्यनन्तान्
संप्रेक्षती सत्पुरुषस्य कायं कल्पाननन्तांश्चरती च चर्याम् ।
एकैकरोम्नो ऽस्य विकुर्वितानां नैवेह पर्यन्तमुपैमि जातु
संख्याव्यतीतानपि चैव रोम्नि क्षेत्रोदधीनप्यवलोकयामि ।
समारुतस्कन्धमहाजलौघानग्निप्रपूर्णान् पृथिवीशरीरान्
नानाप्रतिष्ठानविकल्परूपान् विचित्रसंस्थाननयप्रवेशान् ।
नानाविधान् धातुशरीरभेदैरनन्तमध्याकृतविग्रहांश्च
क्षेत्रोदधिष्वमितेष्वलाप्यान् धातून् पृथग् यानवलोकयामि ।
धर्माभिधानैर्जनतां विनीतां तेष्वेव पश्यामि जिनान् प्रयुक्तान्
न कायकर्मास्य मयावबुद्धं न वाग्न चित्तं न तयोश्च कर्म ।
ऋद्धिर्न नैवास्य पृथग्विकुर्वा कल्पांश्चरन्त्या विपुलां सुचर्याम्
अथ खलु सुधनः श्रेष्ठिदारको गोपायाः शाक्यकन्यायाः पादौ शिरसाभिवन्द्य गोपां शाक्यकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य गोपायाः शाक्यकन्याया अन्तिकात् प्रक्रान्तः
44 माया ।
अथ खलु सुधनस्य श्रेष्ठिदारकस्य मायाया देव्याः सकाशं गमनाभिमुखस्य बुद्धगोचरविचारज्ञानप्रतिपन्नस्य एतदभवत् - केनोपायेन मया शक्यं सर्वलोकोच्चलितषडायतनानामप्रतिष्ठितानां कल्याणमित्राणां सर्वसङ्गसमतिक्रान्तकायानामसङ्गगतिगामिनीप्रतिपदाप्रतिपन्नानां धर्मकायसुविशुद्धानां कायकर्ममायासुनिर्मितशरीराणां ज्ञानमायागतलोकविचाराणां प्रणिधिरूपकायानां बुद्धाधिष्ठानमनोमयशरीराणामनुत्पन्नानिरुद्धकायानामसत्यामृषकायानामसंक्रान्तविनष्टकायानामसंभवाविभवकायानाम् अलक्षणैकलक्षणकायानाम् । अद्वयसंङ्गविनिर्मुक्तकायानाम्, अनालयनिलयकायानाम्, अनक्षतकायानां प्रतिभाससमनिर्विकल्पकायानां स्वप्नसमविचारकायानाम्, आदर्शमण्डलसमसदृशाक्रान्तकायानां दिक्समप्रशान्तप्रतिष्ठकायानां सर्वदिक्स्फरणनिर्माणकायानां त्र्यध्वासंभिन्नकायानामशरीरचित्तनिर्विकल्पकायानां सर्वलोकचक्षुष्पथसमतिक्रान्तकायानां समन्तभद्रचक्षुःप्रसरविज्ञेयविनयकायानाम् असङ्गगगनगोचराणां कल्याणमित्राणां दर्शनमारागयितुं संमुखीभावतामनुप्राप्तुं समवधानं चाप्तुं निमित्तं चोद्ग्रहीतुं घोषमण्डलं वा विज्ञातुं मन्त्रव्यवचारान् वा आज्ञातुमनुशासनीं चोद्ग्रहीतुम् ॥
तमेवं चिन्तामनसिकारप्रयुक्तं रत्ननेत्रा नाम नगरदेवता गगनदेवतागणपरिवृता गगनतलगतमात्मानमुपदर्श्य नानाविभूषणविभूषितशरीरा अनेकाकारवर्णदिव्यकुसुमपुटपरिगृहीता संमुखमभ्यवकीरमाणा सुधनं श्रेष्ठिदारकमेतदवोचत् - चित्तनगरपरिपालनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्यसंवसनतया । चित्तनगरालंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबलाध्यानलम्बनतया । चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यमीर्ष्यामात्सर्यशाठ्यापनयनतया । चित्तनगरसंतापप्रशमाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वधर्मनिध्यप्त्या । चित्तनगरविवर्धनाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्यवेगविवर्धनतया । चित्तनगरभवनकोशव्यूहारक्षाप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसमाधिसमापत्तिध्यानविमोक्षविपुलधर्मविनयमानविहारवशवर्तितया । चित्तनगरावभासप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतपर्षन्मण्डलसमुदयसमन्तभूमिप्रज्ञापारमिताप्रतिलम्भप्रतीच्छनतया । चित्तनगरोपस्तम्भप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतसंभवोपायमार्गस्वचित्तनगरसमवसरणतया । चित्तनगरदृढप्राकाराभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं समन्तभद्रबोधिसत्त्वचर्याप्रणिधानाभिनिर्हारचित्तविशुद्धये । चित्तनगरदुर्योधनदुरासदताभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्रानवमृद्यतया । चित्तनगरावभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसत्त्वतथागतज्ञानावभासप्रतिपद्यमानतया । चित्तनगराभिनिष्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतधर्ममेघसंप्रतीच्छनतया । चित्तनगरोपस्तम्भनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतपुण्यसमुद्रस्वचित्ताशयसंप्रतीच्छनतया । चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्फरणतया । चित्तनगरसंप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्वाकुशलधर्मप्रतिपक्षाभिनिर्हरणतया । ( ग्व् 340 ) चित्तनगरप्रतिस्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलमहाकरुणासर्वजगदनुकम्पनतया । चित्तनगरद्वारविवरणप्रयुक्तेन ते कुलपुत्र भवितव्यमाध्यात्मिकवाह्यवस्तुसर्वजगत्संप्रापणतया । चित्तनगरविशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरतिपराङ्भुखतया । चित्तनगरदृढस्थामाभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्वसंतत्यसंभवनतया । चित्तनगरवीर्यप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारसमार्जनवीर्याभिनिर्वर्तनतया
। चित्तनगरप्रभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्वतथागतमण्डलस्मृत्यवभासनतया । चित्तनगरविचयविधिज्ञेन ते कुलपुत्र सर्वतथागतधर्मचक्रसूत्रान्तविविधधर्मद्वारप्रविचयश्रुताभिज्ञतया । चित्तनगरनियामविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वजगदभिमुखसर्वज्ञताद्वारमार्गविविधसंदर्शनतया । चित्तनगराधिष्ठानविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्वतथागतप्रणिधाननिर्हारविशुद्धये । चित्तनगरसंभारबलविवर्धनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुविपुलपुण्यज्ञानसंभारविवर्धनतया । चित्तनगरसमन्तप्रभासप्रमुञ्चनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वसत्त्वचित्ताशयेन्द्रियाधिमुक्तिसंक्लेशव्यवदानज्ञानाभिज्ञतया । चित्तनगरवशवर्तनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुनयसमवसरणतया । चित्तनगरप्रभास्वराभियुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतस्मृत्यवभासनतया । चित्तनगरस्वभावपरिज्ञाभियुक्तेन ते कुलपुत्र भवितव्यमशरीरसर्वधर्मनयप्रतिविध्यनतया । चित्तनगरमायोपमप्रत्यवेक्षणाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञताधर्मनगरगमनतया । एवं चित्तनगरपरिशुद्ध्यभियुक्तेन ते कुलपुत्र बोधिसत्त्वेन शक्यं सर्वकुशलसमार्जनमनुप्राप्तुम् । तत्कस्य हेतोः? तथा हि बोधिसत्त्वस्य एवं चित्तनगरपरिशुद्धस्य सर्वावरणानि पुरतो न संतिष्ठन्ते बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वा तथागतपूजोपस्थानावरणं वा सत्त्वसंग्रहप्रयोगावरणं वा बुद्धक्षेत्रपरिशुद्ध्यावरणं वा । सर्वावरणविगतेन हि कुलपुत्र चित्ताध्याशयेन कल्याणमित्रपर्येष्ट्यभियुक्तस्य बोधिसत्त्वस्य अल्पकृच्छ्रेण कल्याणमित्राण्याभासमागच्छन्ति । कल्याणमित्राधीना च कुलपुत्र बोधिसत्त्वानां सर्वज्ञता ॥
तत्र धर्मपद्मश्रीकुशला शरीरकायिकदेवता ह्रीश्रीमञ्जरिप्रभावा अपरिमाणदेवतागणपरिवृता मायाया देव्या वर्णमुदीरयमाणा बोधिमण्डान्निष्क्रम्य सुधनस्य श्रेष्ठिदारकस्याभिमुखं गगनतले स्थित्वा स्वकस्वकेभ्यो ऽनेकरत्नवर्णानि रश्मिजालानि अनेकगन्धधूपविमलार्चिर्वर्णानि चित्ताशयप्रसादनवर्णानि चित्तप्रीतिवेगविवर्धनवर्णानि कायपरिदाहप्रह्लादनवर्णानि कायपरिशुद्धिसंदर्शनवर्णानि असङ्गकायविक्रमसंभवविषयाणि रश्मिजालानि प्रामुञ्चत् । तानि विपुलानि क्षेत्राण्यवभास्य सुधनस्य श्रेष्ठिदारकस्य सर्वत्रानुगतं समन्ताभिमुखं सर्वतथागतकायं संदर्शयित्वा सर्वावन्तं लोकं प्रदक्षिणीकृत्य सुधनस्य श्रेष्ठिदारकस्य मूर्धसंधौ निपतन्ति स्म । तानि मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्रविश्य अनुप्रसरन्ति स्म । समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्ताभिर्देवतारश्मिभिः, अथ तावदेव विरजःप्रभासं नाम चक्षुः प्रतिलेभे, यत् सर्वतमोन्धकारेण सार्धं न संवसति । वितिमिरं च नाम चक्षुः प्रतिलेभे, येन सत्त्वस्वभावमवतरति । ( ग्व् 341 ) विरजःपतिं च नाम चक्षुः प्रतिलेभे, येन च सर्वधर्मस्वभावमण्डलं व्यवलोकयति । विशुद्धगतिं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रप्रकृतिं व्यवलोकयति । वैरोचनप्रभं च नाम चक्षुः प्रतिलेभे, येन तथागतधर्मशरीरं व्यवलोकयति । विशुद्धगतिं च नाम चक्षुः प्रतिलेभे, येनाचिन्त्यां तथागतरूपकायपरिनिष्पत्तिं व्यवलोकयति । समन्तप्रभं च नाम चक्षुः प्रतिलेभे, येनाचिन्त्यां तथागतरूपकायपरिनिष्पत्तिभक्तिं व्यवलोकयति । असङ्गप्रभं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रसागरप्रसरलोकधातुसंभवविभक्तिं व्यवलोकयति । समन्तावभासं च नाम चक्षुः प्रतिलेभे, येन सर्वतथागतधर्मेषु सूत्रान्तनयनिर्हारदिशं व्यवलोकयति । समन्तविषयं च नाम चक्षुः प्रतिलेभे, येनानन्तमध्यबुद्धविकुर्वितसत्त्वविनयाधिष्ठानं व्यवलोकयति । समन्तदर्शं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रसमुत्पत्तिप्रसृतं
बुद्धोत्पादं व्यवलोकयति ॥
अथ खलु सुनेत्रो नाम राक्षसेन्द्रो बोधिसत्त्वसंगीतिप्रासादद्वारपालो दशानां राक्षससहस्राणां प्रमुखः सभार्यः सपुत्रः सस्वजनपरिवारः सुधनं श्रेष्ठिदारकं नानावर्णमनोज्ञगन्धैः कुसुमैरभ्यवकीर्य एवमाह - दशभिः कुलपुत्र धर्मैः समन्वागतो बोधिसत्त्व आसन्नो भवति सर्वकल्याणमित्राणाम् । कतमैर्दशभिः? यदुत मायाशाठ्यापगतेन सुपरिशुद्धेनाशयेन, सर्वजगत्परिग्रहासंभिन्नया महाकरुणया, सर्वसत्त्वनिःसत्त्वस्वभावनिध्यप्त्या प्रत्यवेक्षया, सर्वज्ञतागमनावैवर्त्येनाध्याशयबलेन, तथागतमण्डलाभिमुखेनाधिमुक्तिबलेन, सर्वधर्मस्वभावविमलविशुद्धेन चक्षुषा, सर्वसत्त्वमण्डलासंभिन्नया महामैत्र्या, सर्वावरणविकिरणेन ज्ञानालोकेन, सर्वसंसारदुःखप्रतिपक्षच्छत्रभूतेन महाधर्ममेघेन, सर्वधर्मधातुश्रोत्रसमन्तप्रसृतेन कल्याणमित्रगमनाभिमुखेन ज्ञानचक्षुषा । एभिः कुलपुत्र दशभिर्धर्मैः समन्वागतो बोधिसत्त्व आसन्नो भवति सर्वकल्याणमित्राणाम् । दशभिश्च समाधिनिध्यप्तिमुखैर्व्यवलोकयन् बोधिसत्त्वः संमुखीभावं प्रतिलभते सर्वकल्याणमित्राणाम् । कतमैर्दशभिः? यदुत धर्मगगनविरजोविचारमण्डलेन च समाधिनिध्यप्तिमुखेन, सर्वदिक्समुद्राभिमुखचक्षुषा च समाधिनिध्यप्तिमुखेन, सर्वारम्बणाविकल्पाविचारेण च समाधिनिध्यप्तिमुखेन, सर्वदिक्तथागतमेघसंभवेन च समाधिनिध्यप्तिमुखेन, सर्वज्ञज्ञानपुण्यसमुद्रोपचयगर्भेण च समाधिनिध्यप्तिमुखेन, सर्वचित्तोत्पादाविरहितकल्याणमित्रसंभवासन्नेन च समाधिनिध्यप्तिमुखेन, सर्वतथागतगुणकल्याणमित्रसुखसंभवेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रात्यन्ताविप्रवासेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रसमतासदासमन्तोपसंक्रमणप्रयोगेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रोपायचरितेष्वक्लान्तप्रयोगेन च समाधिनिध्यप्तिमुखेन । एभिः कुलपुत्र दशभिः समाधिनिध्यप्तिमुखैः
समन्वागतो बोधिसत्त्वः संमुखीभावं प्रतिलभते सर्वकल्याणमित्राणाम् । सर्वतथागतधर्मचक्रकल्याणमित्रमुखनिर्घोषं च नाम समाधिविमोक्षं ( ग्व् 342 ) प्रतिलभते, यत्र प्रतिपद्यमानो बोधिसत्त्वो ऽसंभिन्नां सर्वबुद्धसमतामवतरति, असंभिन्नानि च सर्वत्रानुगतानि कल्याणमित्राणि प्रतिलभते ॥
एवमुक्ते सुनेत्रेण राक्षसेन्द्रेण सुधनः श्रेष्ठिदारको गगनतलमवलोक्य एवमाह - साधु साधु आर्य, अनुकम्पको ऽस्माकमनुग्रहप्रवृत्तः कल्याणमित्राणां दर्शयिता । तत्साध्वमस्माकं सम्यगुपायमुखमुपदिशन् कथं परिक्रमाति? कतमां दिशमभिमुखं निर्जवामि? कस्मिन्नधिष्ठाने परिमार्गयामि? कतमदारम्बणमुपनिध्यायामि कल्याणमित्रदर्शनाय? आह - तेन हि कुलपुत्र समन्तदिक्प्रणिपतितेन शरीरेण सर्वारम्बणेन कल्याणमित्रस्मृत्युपनिबद्धेनाशयेन समन्तनिर्जवेन समाध्यनुगमेन स्वप्नोपमेन चित्तजवेन प्रतिभासोपमेन मनःशरीरविचारगमनेन कल्याणमित्रसकाशमुपसंक्रमितव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको यथानुशिष्टः सुनेत्रेण राक्षसेन्द्रेण प्रतिपद्यमानो ऽद्राक्षीत्पुरतो धरणितलान्महारत्नपद्मसमुद्गतं सर्ववज्रशरीरदण्डं सर्वजगत्सागरमणिराजगर्भं सर्वमणिराजपत्रपङ्क्तिवैरोचनमणिराजकर्कटिकां सर्वरत्नवर्णगन्धमणिराजकेसरमसंख्येयरत्नजालसंछादितम् । तस्यां च महारत्नराजपद्मकर्कटिकायां धर्मधातुदिक्समवसरणगर्भं नाम कूटागारमपश्यच्चित्रं दर्शनीयं वज्रवैरोचनधरणितलसंस्थानं सर्वमणिराजमयपरिपूर्णस्तम्भसहस्रोपशोभितं सर्वरत्नसंघट्टितायामं जाम्बूनदविमलकनकदिव्यविन्यस्तपट्टमसंख्येयनानामुक्ताहारजालोपनिबद्धं मणिरत्नराजविचित्रभक्तिविन्यासं जम्बूध्वजमणिरत्नसमन्तव्यूहमसंख्येयरत्नवेदिकापरिवृतं समन्तदिग्मणिराजसोपानसुविभक्तम् । तस्य कूटागारस्य मध्ये चिन्ताराजमणिरत्नपद्मगर्भमासनमद्राक्षीत् सर्वलोकेन्द्रसंस्थानमणिविग्रहबिम्बप्रतिष्ठितं सर्वमणिरत्नविग्रहवर्णमिन्द्रध्वजप्रद्योतसंस्थानं वज्रमणिचक्रभूमितलप्रतिष्ठितं नानामणिराजपङ्क्तिव्यूहमनेकरत्नवेदिकापरिवृतं ज्योतिर्ध्वजमणिराजसुप्रत्यर्पितं नानारत्नव्यूहोपशोभितं दिव्यातिक्रान्तमणिराजवस्त्रसुप्रज्ञप्तमनेकवर्णविचित्रवस्त्ररत्नसुसंस्कृतं सर्वरत्नवस्त्रवितानविततगगनालंकारं सर्वरत्नजालसंछादितं समन्तदिक्सुविभक्तवज्रध्वजनिर्घोषं सर्वरत्नपट्टध्वजसुसमीरितविद्योतितं सर्वगन्धमणिराजध्वजविन्यस्तसमतालंकारं सर्वपुष्पधूपविचित्रकुसुमौघसंप्रवर्षणं सर्वरत्नकिङ्किणीध्वजसुसमीरितश्रवणमनःसुखमधुरनिर्घोषं नानारत्नभवनमुखद्वारप्रयुक्तं नानारत्नमणिविग्रहमुखानेकवर्णगन्धोदकप्रवृद्धवैरोचनमणिराजविग्रहगजेन्द्रमुखपद्मजालप्रयुक्तं नानावज्रसिंहमुखानन्तवर्णधूपमेघप्रयुक्तं ब्रह्मसंस्थानवैरोचनमणिराजमुखमहामैत्रीनयब्रह्मघोषनिर्नादप्रमुक्तं नानारत्नरजतमुखशुक्लपक्षोद्द्योतनमधुरनिर्नादरुतवर्णं त्र्यध्वबुद्धनामकनकघण्टामालामधुररुतप्रमुक्तनिर्घोषं सर्वबुद्धधर्मचक्रमहामणिराजघण्टामालामनोज्ञरुतरवणं सर्वबोधिसत्त्वप्रणिधिनानावज्रघण्टानिश्चरितनिर्घोषं चन्द्रध्वजमणिराजपङ्क्तिसर्वबुद्धप्रतिभासनिचितनामनिर्नादविज्ञपनं शुद्धगर्भमणिराजपङ्क्ति सर्वत्र्यध्वतथागतजन्मपरंपराप्रतिभासविज्ञपनमादित्यगर्भमणिराजपङ्क्ति सर्वविकुर्वितप्रतिपत्त्याकाशधातुपरमदशदिक्सर्वबुद्धक्षेत्रविधिपथरश्मिसंदर्शनम् अवभासध्वजमणिराजपङ्क्ति
( ग्व् 343 ) सर्वतथागतप्रभामण्डलावभासप्रमुञ्चनवैरोचनमणिराजपङ्क्ति सर्वजगदिन्द्रसदृशनिर्माणमेघतथागतपूजोपस्थानप्रमुञ्चनं चिन्तामणिराजपङ्क्ति समन्तभद्रबोधिसत्त्वविकुर्वितप्रतिक्षणसर्वधर्मधातुस्फरणं मेरुध्वजमणिराजपङ्क्ति सर्वदेवेन्द्रभवनमेघाप्सरोरुतनिगर्जितनिर्घोषं सर्वारम्बणतथागतस्तुतिमेघप्रमुञ्चनाचिन्त्यगुणवर्णनिर्देशं च तदासनमद्राक्षीत् अचिन्त्यरत्नव्यूहासनपरिवारम् ॥
तस्मिंश्चासने मायादेवीं निषण्णामद्राक्षीत् त्रैलोक्यसमतिक्रान्तेन रूपेण, सर्वलोकाभिमुखेन सर्वभवगत्युद्गतेन रूपेण, यथाशयजगद्विज्ञप्तेन सर्वलोकानुपलिप्तेन रूपेण, विपुलपुण्यसंभूतेन सर्वजगत्सदृशेन रूपेण, सर्वसत्त्वसुखोपदर्शनेन सर्वजगत्परिपाकविनयानुकूलेन रूपेण, सर्वसत्त्वाभिमुखप्रलम्बितेन सर्वकालगगनजगद्विज्ञप्त्यसंभिन्नेन रूपेण, सर्वजगन्निष्ठाविज्ञप्त्याधिष्ठानेन अगतिकेन रूपेण, सर्वलोकगतिकेन रूपेण, सर्वलोकगतिनिरुद्धेन अनागतिकेन रूपेण, सर्वजगदसंभूतेन अनुत्पन्नेन रूपेण, अनुत्पत्तिसमधर्मनिरतेन अनिरुद्धेन रूपेण, सर्वलोकव्यवहारपरमेण असत्येन रूपेण, यथावत्प्रतिलब्धेन अमृषेण रूपेण, यथालोकविज्ञप्तेन अक्रान्तेन रूपेण, च्युत्युपपत्तिविनिवृतेन अविनष्टेन रूपेण, धर्मधातुप्रकृत्यविनाशेन अलक्षणेन रूपेण, त्र्यध्ववाक्पथपरमेण एकलक्षणेन रूपेण, अलक्षणसुलक्षणनिर्यातेन प्रतिभासकल्पेन रूपेण, सर्वजगच्चित्तयथाशयविज्ञप्तेन मायाकल्पेन रूपेण, ज्ञानमायापरिनिष्पन्नेन मरीचिकल्पेन रूपेण, प्रतिक्षणजगत्संज्ञाधिष्ठानपरमेण च्छायोपमेन रूपेण, प्रणिधानसर्वजगदनुबद्धेन स्वप्नोपमेन रूपेण, यथाशयजगद्विज्ञप्त्यसंभिन्नेन सर्वधर्मधातुपरमेण रूपेण, आकाशधातुप्रकृतिपरिशुद्धेन महाकरुणानिर्यातेन रूपेण, सत्त्ववंशपरिपालनप्रयुक्तेन असङ्गमुखनिर्यातेन रूपेण, प्रतिक्षणधर्मधातुस्फरणेन अनन्तमध्येन रूपेण, अनाविलसर्वजगन्निश्रितेन अप्रमाणेन रूपेण, सर्ववाक्पथसमतिक्रान्तेन सुप्रतिष्ठितेन रूपेण, सर्वजगद्विनयाधिष्ठाननिर्वृत्तेन अनधिष्ठितेन रूपेण, अधिष्ठानजगत्कायप्रयुक्तेन असंवृतेन रूपेण, प्रणिधानमायापरिनिष्पन्नेन अनभिभूतेन रूपेण, सर्वलोकाभ्युद्गतेन अयथावतेन रूपेण, शमथालोकविज्ञप्तेन असंभवेन रूपेण, यथाकर्मजगदनुबद्धेन चिन्तामणिराजकल्पेन रूपेण, यथाशयसर्वसत्त्वाभिप्रायपरिपूर्णप्रणिधिपरिपूर्णेन अविकल्पेन रूपेण, सर्वजगत्परिकल्पोपस्थितेन अधिकल्पेन रूपेण, सर्वजगद्विज्ञप्त्यकल्पेन
अधिष्ठानेन रूपेण, संसाराविनिवृत्तिपरमेण विशुद्धेन रूपेण तथतासमनिर्विकल्पेन । इत्येवंप्रकारेण रूपेण सुधनः श्रेष्ठिदारको मायादेवीमद्राक्षीदरूपेण रूपप्रतिभासेन अवेदनेन रूपेण लोकदुःखवेदनाप्रशान्तिपरमेण, सर्वसत्त्वसंज्ञागतोच्चालितेन रूपेण परसत्त्वसंज्ञागतविज्ञप्तेन, अनभिसंस्कारधर्मतानिर्यातेन रूपेण मायागतकर्मविनिवृत्तेन, विज्ञानविषयसमतिक्रान्तेन रूपेण बोधिसत्त्वप्रणिधिज्ञानसंभवेन, अस्वभावेन रूपेण सर्वजगद्वाक्पथपरमेण शरीरेण, संसारे संतापनिरुद्धेन रूपेण धर्मकायपरमशीतीभावोपगतेन यथाशयजगद्रूपकायसंदर्शनीं सत्त्वाशयवशेन सर्वजगत्सदृशं सर्वजगद्रूपकायातिरेकं रूपकायं संदर्शयमानाम् । ( ग्व् 344 ) तत्र केचित्सत्त्वा मारकन्यारूपेण मारकन्यातिरेकरूपां मायादेवीमद्राक्षुः । केचित्सत्त्वा वशवर्त्यप्सरोतिरेकरूपां केचित्सुनिर्मिताप्सरोतिरेकरूपां केचित्संतुषिताप्सरोतिरेकरूपां केचित्सुयामाप्सरोतिरेकरूपां केचित्र्त्रायस्त्रिंशाप्सरोतिरेकरूपां केचिच्चातुर्महाराजिकाप्सरोतिरेकरूपां केचित्कुम्भाण्डेन्द्रकन्यातिरेकरूपां केचिन्महोरगेन्द्रकन्यातिरेकरूपां । केचित्सत्त्वा मनुष्येन्द्रकन्यातिरेकरूपां मायादेवीमपश्यन् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रूपसंज्ञापगतः परसत्त्वाशयानवतरन् सर्वसत्त्वचित्ताशयगतेषु मायादेवीमपश्यत् सर्वजगदुपजीव्यपुण्यां सर्वज्ञतापुण्योपचितशरीरामसंभिन्नदानपारमिताप्रयोगां सर्वजगत्समताप्रतिपन्नां महाकरुणागोष्ठसर्वसत्त्वसमवसरणां सर्वतथागतगुणप्रतिपत्तिनिर्यातां सर्वक्षान्तिनयसागरावतीर्णां सर्वज्ञतावीर्यवेगविवर्धितचेतनां सर्वधर्ममण्डलपरिशुद्ध्यविवर्त्यवीर्यां सर्वधर्मस्वभावनिध्यप्तिनिर्यातां सर्वध्यानाङ्गनयनिष्पत्तिचित्तामसंभिन्नध्यानाङ्गविषयासाधारणतथागतध्यानमण्डलावभासप्रतिलब्धां सर्वसत्त्वक्लेशसागरोच्छोषणनिश्चयनानानिध्यप्तिपरमां सर्वतथागतधर्मचक्रप्रविचयविधिज्ञां सर्वधर्मनयसमुद्रव्यवचारणप्रज्ञां सर्वतथागतादर्शनावितृप्तां त्र्यध्वतथागतपरंपराव्यवलोकनाप्रतिप्रस्रब्धां सर्वबुद्धदर्शनद्वाराभिमुखां सर्वतथागतसमुदागममार्गपरिशुद्धिविमात्रताविधिज्ञां सर्वतथागतगगनगोचरां सर्वसत्त्वसंग्रहोपायविधिज्ञामनन्तमध्ययथाशयजगत्परिपाकविनयप्रतिभासप्राप्तां सर्वबुद्धकायविशुद्धिविमात्रतावतीर्णां सर्वक्षेत्रसागरपरिशुद्धिप्रणिधानसमन्वागतां सर्वसत्त्वधातुविनयाधिष्ठानपर्यवसानप्रणिधानपरिशुद्धां सर्वतथागतविषयपूजास्फरणचित्तां सर्वबोधिसत्त्वविकुर्वितवीर्यनिर्यातामनुत्तरधर्मकायपरिशुद्धामनन्तरूपकायसंदर्शनीं सर्वमारबलप्रमर्दनीं विपुलकुशलमूलबलोपपन्नां धर्मबलसंजातबुद्धिबुद्धबलावभासप्रतिलब्धां सर्वबोधिसत्त्वशिताबलपरिनिष्पन्नां सर्वज्ञतावेगबलसंजातां सर्वतथागतज्ञानविद्युदवभासितप्रज्ञामनन्तमध्यसत्त्वचित्तसमुद्रविचरणज्ञानां विपुलजगदाशयावतीर्णां परसत्त्वेन्द्रियविमात्रताज्ञाननयविधिज्ञामनन्तसत्त्वाधिमुक्तिविमात्रताज्ञानकौशल्यानुगतां दशदिगप्रमाणक्षेत्रसमुद्रकायस्फरणां सर्वलोकधातुविमात्रताज्ञाननयविधिज्ञां सर्वक्षेत्रसंभेदविधिज्ञाननयकौशल्यानुगतां सर्वदिक्सागरप्रसृतज्ञानदर्शनां सर्वाध्वसागरानुप्रसृतबुद्धिं सर्वबुद्धसागराभिमुखप्रणिपतितकायां सर्वबुद्धधर्ममेघसमुद्रसंप्रतीच्छनाभिमुखचित्तां सर्वतथागतगुणप्रतिपूरणप्रतिपत्तिनिर्याणप्रयुक्तां सर्वबोधिसंभारसंभवानुप्रसृतबुद्धिं सर्वबोधिसत्त्वप्रस्थानविचारविक्रान्तां सर्वबोधिचित्तोत्पादाङ्गपरिनिष्पन्नां सर्वसत्त्वपरिपालनप्रयुक्तां सर्वबुद्धवर्णमेघालोकप्रभावनां सर्वबोधिसत्त्वजिनजनेत्रीप्रणिधाननिर्याताम् । एतत्प्रमुखैर्जम्बुद्वीपपरमाणुरजःसमैर्दर्शननयैः सुधनः श्रेष्ठिदारको
मायादेवीमपश्यत् । स तां दृष्ट्वा यत्प्रमाणा मायादेवी तत्प्रमाणं स्वकायमधिष्ठाय समन्तदिगभिमुखां मायादेवीं सर्वत्रानुगतेन कायेन प्रणिपतितः । तस्य प्रणिपतमानस्य अनन्तमध्यानि समाधिमुखानि अवक्रान्तानि । स तानि समाधिमुखानि व्यवलोक्य अनिमित्तीकृत्वा प्रभावयित्वा सारीकृत्वा अनुस्मृत्य स्फरित्वा प्रसरित्वा अवलोकयित्वा विपुलीकृत्वा अभिनिर्हृत्य मुद्रयित्वा तेभ्यः समाधिमुखेभ्यो व्युत्थाय ( ग्व् 345 ) मायादेवीं सपरिवारां सभवनासनां प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमार्ये मञ्जुश्रिया कुमारभूतेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य कल्याणमित्रपर्युपासनेन समादापितम् । सो ऽहं कल्याणमित्रं पर्युपासमानो ऽनुपूर्वेण यावत्तव सकाशमुपसंक्रान्तः । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षमाणः परिनिष्पन्नो भवति सर्वज्ञतायाम् । सा अवोचत् - अहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी । साहं कुलपुत्र अनेन विमोक्षेण समन्वागता यावन्ति इह लोकधातुसमुद्रे भगवतो वैरोचनस्य सर्वलोकधातुषु सर्वजम्बुद्वीपेषु चरमभविकबोधिसत्त्वजन्मविकुर्वितानि प्रवर्तन्ते, सर्वेषां च तेषां चरमभविकानां बोधिसत्त्वानामहं जननी । सर्वे ते बोधिसत्त्वा मम कुक्षौ संभवन्ति । मम दक्षिणात्पार्श्वान्निष्क्रमन्ति । इहैव तावदहं कुलपुत्र भागवत्यां चातुर्द्वीपिकायां कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य कुलबद्धकल्पेन सिद्धार्थं बोधिसत्त्वं जनित्रवती महताचिन्त्येन बोधिसत्त्वजन्मविकुर्वितेन ॥
सा खल्वहं कुलपुत्र तदा राज्ञः शुद्धोदनस्य गृहगता भवामि । अथ बोधिसत्त्वस्य तुषितभवनाच्च्यवनकालसमये प्रत्युपस्थिते सर्वरोममुखेभ्य एकैकस्माद्रोममुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः सर्वबोधिसत्त्वजननीगुणनयव्यूहाः सर्वतथागतजननीगुणमण्डलप्रभवप्रभासा नाम रश्मयो निश्चरित्वा सर्वावन्तं लोकधातुमवभास्य मम शरीरे निपत्य मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्राविशन् । समनन्तरप्रविष्टाभिश्च कुलपुत्र ताभिर्बोधिसत्त्वरश्मिभिरनेकनामधेयाभिर्नानाबोधिसत्त्वजननीविकुर्वितव्यूहप्रमुञ्चनीभिः, अथ तावदेव मम काये बोधिसत्त्वरश्मिमुखमण्डलाभिविज्ञप्ताः सर्वबोधिसत्त्वजन्मविकुर्वितनयव्यूहाः संदृश्यन्ते स्म अन्तर्गतेन परिवारेण । समनन्तरप्रविष्टाभिश्च कुलपुत्र मम काये ताभिर्बोधिसत्त्वरश्मिभिः, अथ तावदेव येषां बोधिसत्त्वानां तानि बोधिसत्त्वरश्मिमुखमण्डलानि विज्ञप्तानि जन्मनयविकुर्वितानि प्रवर्तन्ते, सर्वे ते मम चक्षुष आभासमगमन्, यदुत बोधिमण्डवराग्रगता बुद्धसिंहासननिषण्णा बोधिसत्त्वपर्षन्मण्डलपरिवृता लोकेन्द्राभिपूजिता धर्मचक्रं प्रवर्तयमानाः । ये च तैस्तथागतैः पूर्वबोधिसत्त्वचर्यां चरद्भिस्तथागता आरागिताः, ते ऽपि सर्वे मम चक्षुष आभासमगमन् । प्रथमचित्तोत्पादजन्मविकुर्विताः साभिसंबोधिधर्मचक्रप्रवर्तनपरिनिर्वाणविकुर्विताः सर्वबुद्धक्षेत्रविशुद्धव्यूहाः, यानि च तेषां तथागतानां निर्माणमण्डलानि प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरन्ति, तान्यपि सर्वाणि मम चक्षुष आभासमगमन् । तस्या मम कुलपुत्र काये ताभिर्बोधिसत्त्वरश्मिभिरनुप्रविष्टाभिः सर्वजगदभ्युद्गतः कायः संस्थितो ऽभूत्, आकाशधातुविपुलश्च कुक्षिः, न च मनुष्याश्रयप्रमाणादतिक्रान्तः । यावन्तश्च दशसु दिक्षु बोधिसत्त्वगर्भावासभवनव्यूहाः, ते सर्वे मम काये ऽन्तर्गता अनुप्रविष्टाः सर्वे संदृश्यन्ते ॥
समनन्तरप्रादुर्भूतस्य च मम कुलपुत्र काये बोधिसत्त्वगर्भावासभवनव्यूहपरिभोगस्य, अथ तावदेव बोधिसत्त्वः सार्धं दशबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैरेकप्रणिधानैः सभागचरितैरेककुशलमूलैर् ( ग्व् 346 )
एकव्यूहैरेकविमोक्षविहारिभिरेकज्ञानभूमिसंवासिभिरेकविकुर्वितनिर्यातैरेकप्रणिधानसमुदागतैरेकचर्यानिर्यातैर्धर्मकायपरिशुद्धैरनन्तमध्यरूपकायाधिष्ठानैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधिविकुर्वितनिर्यातैर्नागेन्द्रगर्भमणिकूटागारगतैः सागरनागराजपूर्वंगमैरशीत्या नागेन्द्रसहस्रैः सर्वलोकेन्द्रसहस्रैश्चाभिपूज्यमानो महता बोधिसत्त्वविकुर्वितेन सर्वतुषितभवनच्युतिसंदर्शनेन एकैकस्मात्तुषितभवनात् सर्वलोकधातुप्रसृतचातुर्द्वीपोपपत्तिप्रतिलाभसंदर्शनेन अचिन्त्यसत्त्वपरिपाकोपायकौशल्यानुगतेन प्रमत्तसर्वसत्त्वसंचोदनेन सर्वाभिनिवेशोच्चालनेन महारश्मिजालप्रमुञ्चनेन सर्वलोकान्धकारविधमनेन सर्वापायदुःखव्युपशमनेन सर्वनिरयगतिनिवर्तनेन सर्वसत्त्वपूर्वकर्मसंचोदनेन सर्वसत्त्वधातुपरित्रायणेन सर्वसत्त्वाभिमुखकायसंदर्शनेन तुषितभवनाच्च्युत्वा सार्धं सपरिवारेण मम कुक्षौ प्राविशत् ॥
ते सर्वे मम कुक्षौ त्रिसाहस्रलोकधातुविपुलेन यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुविपुलेन आक्रमविक्रमेण अनुविचरन्ति स्म । सर्वाणि च दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपादमूलेषु सर्वबोधिसत्त्वपर्षन्मण्डलानि प्रतिचित्तक्षणमनभिलाप्यानि मम कुक्षौ समवसरन्ति स्म बोधिसत्त्वगर्भावासविकुर्वितं द्रष्टुम् । चत्वारश्च महाराजाः शक्रसुयामसंतुषितसुनिर्मितवशवर्तिनश्च देवेन्द्राः ब्रह्मेन्द्राश्च गर्भावासोपगतबोधिसत्त्वमुपसंक्रामन्ति स्म दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय सांकथ्यानुभावनाय । न चायं मम कुक्षिस्तावन्ति पर्षन्मण्डलानि प्रतीच्छन् विपुलीभवति । न चास्मान्मनुष्याश्रयादयं मम कायो विशिष्टतरः संतिष्ठते । तानि च तावन्ति पर्षन्मण्डलानि संप्रतीच्छति । सर्वे च ते देवमनुष्या नानाबोधिसत्त्वपरिभोगपरिशुद्धिव्यूहानपश्यन् । तत्कस्य हेतोः? यथापि तदस्यैव महाप्रणिधानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् ॥
यथा चाहं कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायां जम्बुद्वीपे बोधिसत्त्वं कुक्षिणा संप्रतीच्छामि, एवं त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वचातुर्द्वीपिकाजम्बुद्वीपेषु संप्रतीच्छामि अनेन च विकुर्वितव्यूहेन । न चायं मम कायो द्वयीभवति नाद्वयीभवति, न चैकत्वे संतिष्ठते न बहुत्वे, यथापि नाम तदस्यैव महाप्रणिधानज्ञानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् । यथा चाहं कुलपुत्र अस्य भगवतो वैरोचनस्य माता अभूवम्, तथा पूर्वकाणामपि तथागतानामनन्तमध्यानां माता अभूवम् । यत्र बोधिसत्त्वो लोक उपपादुक उपापद्यत पद्मगर्भे, तत्राहं नलिनीदेवता भूत्वा बोधिसत्त्वं संप्रतीच्छामि । लोकश्च मां बोधिसत्त्वजननीति संजानाति । यत्रोत्सङ्गे प्रादुर्बभूव, तत्राहमस्य जनन्यभूवम् । यत्र बुद्धक्षेत्रे प्रादुर्भवति, तत्राहं बोधिमण्डदेवता भवामि । इति हि कुलपुत्र यावद्भिरुपायमुखैश्चरमभविका बोधिसत्त्वा लोक उपपत्तिं संदर्शयन्ति, तावद्भिरुपायमुखैरहं बोधिसत्त्वजननी भवामि ॥
यथा अहं कुलपुत्र इह लोकधातौ अस्य भगवतः सर्वबोधिसत्त्वजन्मविकुर्वितसंदर्शनेषु जनेत्र्यभूवम्, तथा भगवतः क्रकुच्छन्दस्यापि तथागतस्य, कनकमुनेः, काश्यपस्य तथागतस्य ( ग्व् 347 ) जनेत्र्यभूवम् । तथा सर्वेषां भद्रकल्पिकानामनागतानां तथागतानां जनेत्री भविष्यामि । तद्यथा मैत्रेयस्य बोधिसत्त्वस्य तुषितभवनगतस्य च्युतिसंदर्शनकाले प्रवृत्ते सर्वबोधिसत्त्वोपपत्तिसंभवगर्भसंवासविकुर्वितसंदर्शनप्रभासायां रश्म्यामुत्सृष्टायां प्रभासितेषु सर्वधर्मधातुनयतलेषु यावन्ति मम धर्मधातुनयतलानि चक्षुषो ऽवभासमागमिष्यन्ति, येषु मैत्रेयेण बोधिसत्त्वेन मनुष्यलोके मनुष्येन्द्रकुलेषु जन्मोपपत्तिसंदर्शनेन सत्त्वा विनयितव्याः, तेष्वहं सर्वत्र बोधिसत्त्वजननी भविष्यामि । यथा च मैत्रेयस्य बोधिसत्त्वस्य, तथा सिंहस्य यो मैत्रेयस्यानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, तथा प्रद्योतस्य केतोः सुनेत्रस्य कुसुमस्य कुसुमश्रियः तिष्यस्य पुष्यस्य सुमनसो वज्रस्य विरजसः चन्द्रोल्काधारिणो यशसो वज्रशुद्धस्य एकार्थदर्शिनो सिताङ्गस्य पारंगतस्य रत्नार्चिःपर्वतस्य महोल्काधारिणः पद्मोत्तरस्य विघुष्टशब्दस्य अपरिमितगुणधर्मस्य दीपश्रियो विभूषिताङ्गस्य सुप्रयाणस्य मैत्रश्रियो निर्मितस्यानिकेतस्य ज्वलिततेजसो ऽनन्तघोषस्य अनिनेमस्य अनिनेत्रस्य विमतिविकिरणस्य परिशुद्धस्य सुविशालाभस्य यशःशुद्धोदितस्य मेघश्रियो विचित्रभूतस्य सर्वरत्नविचित्रवर्णमणिकुण्डलस्य सागरमतेः शुभरत्नस्य अनिहतमल्लस्य परिपूर्णमनोरथस्य महेश्वरस्य इन्द्रश्रियो ऽग्निश्रियः चन्दनमेघस्य सितविशालाक्षस्य श्रेष्ठमतेर्विभावितमतेरवरोपणराजस्योत्तापनराजमतेर्विभूषितस्य विभूतेः केशरनन्दिन ईश्वरदेवस्य ईश्वरस्य उष्णीषश्रियो वज्रज्ञानपर्वतस्य श्रीगर्भस्य कनकजालकायविभूषितस्य सुविभक्तस्य ईश्वरदेवस्य महेन्द्रदेवस्य अनिलश्रियो विशुद्धनन्दिनो ऽर्चिष्मतो वरुणश्रियो विशुद्धमतेरग्रयानस्य निहितगुणोदितस्य अरिगुप्तस्य वाक्यनुदस्य वशीभूतस्य गुणतेजस्य वैरोचनकेतोर्विभवगन्धस्य विभावनगन्धस्य विभक्ताङ्गस्य सुविशाखस्य सर्वगन्धार्चिमुखस्य वज्रमणिविचित्रस्य प्रहसितनेत्रस्य निहतरागरजसः प्रवृद्धकायराजस्य वासुदेवस्य उदारदेवस्य निरोधनिम्नस्य विबुद्धेर्धूतरजसः अर्चिर्महेन्द्रस्य उपशमवतो
विशाखदेवस्य वज्रगिरो ज्ञानार्चिज्वलितशरीरस्य क्षेमंकरस्य औपगमस्य शार्दूलस्य परिपूर्णशुभस्य रुचिरभद्रयशसः पराक्रमविक्रमस्य परमार्थविक्रामिणः शान्तरश्मेरेकोत्तरस्य गम्भीरेश्वरस्य भूमिमतेरसितस्य घोषश्रियो विशिष्टस्य विभूतपतेर्विभूतभूतस्य वैद्योत्तमस्य गुणचन्द्रस्य प्रहर्षिततेजसो गुणसंचयस्य चन्द्रोद्गतस्य भास्करदेवस्य भीष्मयशसो रश्मिमुखस्य शालेन्द्रस्कधस्य यशसः औषधिराजस्य रत्नवरस्य वज्रमतेः सितश्रियो निर्घौतालयस्य मणिराजस्य महायशसो वेगधारिणो ऽमिताभस्य महासनार्चिषो मोहधर्मेश्वरस्य निहतधीरस्य देवशुद्धस्य दृढप्रभस्य विश्वामित्रस्य विमुक्तिघोषस्य विनर्दितराजस्य वाक्यच्छेदस्य चम्पकविमलप्रभस्य अनवद्यस्य विशिष्टचन्द्रस्य उल्काधारिणो विचित्रगात्रस्य अनभिलाप्योद्गतस्य जगन्मित्रस्य प्रभूतरश्मेः स्वराङ्गशूरस्य करुणावृक्षस्य धृतमतितेजसः कुन्दश्रियो ऽर्चिश्चन्द्रस्य अनिहितमतेरनुनयविगतस्य अनिलम्भमतेरुपचितस्कन्धस्य अपायप्रमथनस्य अदीनकुसुमस्य सिंहविनर्दितस्य अनिहानार्थस्य अनावरणदर्शिनः परगणमथनस्य अनिलनेमस्य अकम्पितसागरस्य शोभनसागरस्य ( ग्व् 348 ) अपराजितमेरोरनिलयज्ञानस्य अनन्तासनस्य अयुधिष्ठिरस्य चर्यागतस्य उत्तरदत्तस्य अत्यन्तचन्द्रमसो ऽनुग्रहचन्द्रस्य अचलस्कन्धस्य अग्रसानुमतेरनुग्रहमतेरभ्युद्धरस्य अर्चितनमस्यानुपगमनाम्नो निहततेजसो विश्ववर्णस्य अनिमित्तप्रज्ञस्य अचलदेवस्य अचिन्त्यश्रियो विमोक्षचन्द्रस्य अनुत्तरराजस्य चन्द्रस्कन्धार्चितब्रह्मणो ऽकम्प्यनेत्रस्य अनुनयगात्रस्य अभ्युद्गतकर्मणो ऽनुधर्ममतेरनुत्तरश्रियो ब्रह्मदेवस्य अचिन्त्यगुणानुत्तरधर्मगोचरस्य अपर्यन्तभद्रस्य अनुरूपस्वरस्य अभ्युच्चदेवस्य बोधिसत्त्वस्य । इति हि कुलपुत्र एतान् मैत्रेयप्रमुखाननागतांस्तथागतान् प्रमुखान् कृत्वा सर्वेषां भद्रकल्पिकानां तथागतानामर्हतां सम्यक्संबुद्धानामहमेव जननी भविष्यामि अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ । यथा च इह लोकधातौ, तथा दशसु दिक्षु अपरिमाणेषु लोकधातुषु अनन्तमध्यान् धर्मधातुनयानवतरमाणा यथा च मैत्रेयस्य तथागतस्य अनभिलाप्यैर्गुणविशेषैर्जननी भविष्यामि, एवमनभिलाप्यगुणविशेषैः सिंहस्य एवं यावद्रोचमस्य तथागतस्य जननी भविष्यामि । यथा च भद्रकल्पिकानां तथागतानाम्, एवमस्मिन् सर्वावति कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वलोकधातुषु सर्वजम्बुद्वीपेष्वपरान्तकोटीगतान् कल्पान् समन्तभद्रायां बोधिसत्त्वचर्यायां चरमाणा सर्वकल्पेषु सर्वसत्त्वपरिपाकविनयमधिष्ठाय सर्वेषामनागतानां तथागतानां बोधिसत्त्वभूतानां
जननी भविष्यामि ॥
एवमुक्ते सुधनः श्रेष्ठिदारको मायादेवीमेतदवोचत् - कियच्चिरप्रतिलब्धस्त्वया अयमार्ये महाप्रणिधानज्ञानमायागतव्यूहो बोधिसत्त्वविमोक्षः? आह - भूतपूर्वं कुलपुत्र अतीते ऽध्वनि अचिन्त्यानां चित्तविषयसमतिक्रान्तानामभिजातबोधिसत्त्वचक्षुष्पथविज्ञप्तानां विज्ञानगणनासमतिक्रान्तानां परेण शुभप्रभो नाम कल्पो ऽभूत् । तस्मिन् खलु पुनः शुभप्रभे कल्पे मेरूद्गतश्रीर्नाम लोकधातुरभूद्विशुद्धसंक्लिष्टानेकरत्नमयी सचक्रवालसुमेरुसागरा पञ्चगतिप्रचारा चित्रा दर्शनीया । तस्यां खलु मेरूद्गतश्रियां लोकधातौ दश चातुर्द्वीपिककोटीशतान्यभूवन् । तेषां खलु दशानां चातुर्द्वीपिककोटीशतानां मध्ये सिंहध्वजाग्रतेजो नाम मध्यमा चातुर्द्वीपिकाभूत्, यस्यामशीतिराजधानीकोटीशतान्यभूवन् । तेषां खलु अशीतीनां राजधानीकोतीशतानां मध्ये ध्वजाग्रवती नाम मध्यमराजधान्यभूत् । तस्यां महातेजःपराक्रमो नाम राजा अभूच्चक्रवर्ती । तस्यां खलु पुनर्ध्वजाग्रवत्यां राजधान्यां चित्रमञ्जरिप्रभासो नाम बोधिमण्डो ऽभूत् । तत्र नेत्रश्रीर्नाम बोधिमण्डदेवता अभूत् । तस्मिन् खलु पुनश्चित्रमञ्जरिप्रभासे बोधिमण्डे विमलध्वजो नाम बोधिसत्त्वो निषण्णो ऽभूत् सर्वज्ञताधर्माधिगमाय । तस्य सर्वज्ञताधर्माधिगमान्तरायाय सुवर्णप्रभो नाम मारो महासैन्यपरिवारो ऽन्तर्धितकाय उपक्रान्तो ऽभूत् । स च महातेजःपराक्रमश्चक्रवर्ती बोधिसत्त्ववशिताप्रतिलब्धो ऽभूत् महर्द्धिविकुर्वितनिर्यातः । स ततो महासैन्याद्विपुलतरमुग्रतरं च महान्तं बलकायमभिनिर्माय तं बोधिमण्डं समन्तादनुपरिवारयामास मारसैन्यपराजयाय । तेन हि महती मारसेना ( ग्व् 349 ) विकीर्णा । तेन च भगवता विमलध्वजेन तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । अथ खलु नेत्रश्रीबोधिमण्डदेवता महातेजःपराक्रमस्य चक्रवर्तिनो ऽन्तिके पुत्रसंज्ञामुत्पाद्य तस्य तथागतस्य चरणयोः प्रणिपत्य प्रणिधानमकार्षीत् - यत्र यत्राहं भगवन् उत्पद्येयम्, तत्र तत्रैष मे महातेजःपराक्रमश्चक्रवर्ती पुत्रो भवेत् । यदा चैषो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत, तदाप्यहमेतस्य जननी भवेयम् । सैवं प्रणिधानं कृत्वा तस्मिन्नेव चित्रमञ्जरिप्रभासे बोधिमण्डे तस्मिन्नेव शुभप्रभे कल्पे दश नयुतानि तथागतानामारागयामास ॥
तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन नेत्रश्रीर्नाम बोधिमण्डदेवता अभूत्? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन नेत्रश्रीर्नाम बोधिमण्डदेवता अभूवम् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन महातेजःपराक्रमो नाम चक्रवर्त्यभूद्बोधिसत्त्ववशिताप्रतिलब्धो महर्द्धिकविकुर्वितनिर्यातो येन सा महती मारसेना विकीर्णा? न खल्वेवं द्रष्टव्यम् । अयं स भगवान् वैरोचनस्तथागतो ऽर्हन् सम्यक्संबुद्धः तेन कालेन तेन समयेन महातेजःपराक्रमो नाम राजा चक्रवर्त्यभूत् । सा अहं कुलपुत्र तत उपादाय यत्रतत्रोपपन्नाः, सर्वत्र एष मम पुत्रत्वमुपागतः सर्वबुद्धक्षेत्रेषु बोधिसत्त्वचर्यां चरन् सर्वगतिमुखेषु सर्वोपपत्तिमुखेषु सर्वकुशलमूलमुखेषु सर्वबोधिसत्त्वचर्याविचारपराक्रमेषु सर्वजातकनयेषु सर्वदेवेन्द्रजन्मसु सर्वलोकेन्द्रगतेषु सर्वेश्वरभूमिषु सर्वगतिप्रभागेषु । यत्र यत्रोपपद्यते सत्त्वपरिपाकहेतोः, सर्वत्र अहमेवास्य जनन्यभूवम् । चरमे च भवे ऽस्य अहमेव सर्वत्रानुगता जनन्यभूवम् । सर्वबोधिसत्त्वजन्ममुखेषु क्षणे क्षणे यावन्ति बोधिसत्त्वजन्मविकुर्वितान्यादर्शयामास, सर्वत्राहमेवास्य माता अभूवम् । अतीतानामपि तथागतानाम्, अनन्तमध्यानामपरिमाणानामहं जनन्यभूवम् । प्रत्युत्पन्नानामपि दशसु दिक्षु अनन्तमध्यानामपरिमाणानां तथागतानामहमेव जननीत्वं प्रत्यनुभवामि । यावतां च तथागतानामहं चरमे भवे बोधिसत्त्वमाता अभूवम्, सर्वेषां च तेषां तथागतानां नाभिमण्डलेभ्यो रश्मयो निश्चरित्वा महाकायमासनं चावभासयामासुः । एतमहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं महाकरुणागर्भाणां बोधिसत्त्वानां सर्वज्ञतापरिपाकविनयापरितृप्तकुक्षीणां सर्वतथागतविकुर्वितरोममुखनिर्यातनिदर्शनवशवर्तिना चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इयमिहैव त्रिदशेन्द्रभवने सुरेन्द्राभा नाम देवकन्या स्मृतिमतो देवपुत्रस्य दुहिता । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपतव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको मायाया देव्याः पादौ शिरसाभिवन्द्य मायादेवीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मायादेव्या अन्तिकात्प्रक्रान्तः
45 सुरेन्द्राभा ।
अथ खलु सुधनः श्रेष्ठिदारको येन त्रिदशेन्द्रभवनं येन च सुरेन्द्राभा देवकन्या स्मृतिमतो देवपुत्रस्य दुहिता, तेनोपजगाम । उपेत्य सुरेन्द्राभाया देवकन्यायाः पादौ शिरसाभिवन्द्य सुरेन्द्राभां देवकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सुरेन्द्राभाया देवकन्यायाः पुरतः प्राञ्जलिः स्थित्व एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदस्व मे देवते कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
एवमुक्ते सुरेन्द्राभा नाम देवकन्या सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र असङ्गस्मृतिविशुद्धव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी । सा अहं कुलपुत्र अभिजानामि - उत्पलको नाम कल्पो ऽभूत् । तत्र मे गङ्गानदीवालुकासमास्तथागता आरागिताः । अभिनिष्क्रामतां चैषामारक्षा कृता, पूजा कृता, आरामाश्च कृताः परिभोगाय । यश्च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वभूतैर्मातुः कुक्षिगतैर्जायमानैः सप्त पदानि प्रक्रामद्भिर्महासिंहनादं नदद्भिः कुमारभूमिस्थितैरन्तःपुरमध्यगतैर्वा अभिनिष्क्रामद्भिर्वा बोधिमभिसंबुध्यमानैर्वा धर्मचक्रं प्रवर्तयमानैः सर्वबुद्धविकुर्वितं वा संदर्शयद्भिः सत्त्वपरिपाकविनयः कृतः, तत्सर्वं प्रथमचित्तोत्पादाय यावत्सद्धर्मपर्यन्तनिष्ठं प्रजानामि स्मरामि अनुस्मरामि धारयामि संधारयामि उपधारयामि अनुसरामि । सुभूतिर्नाम कल्पो ऽभूत् । तत्र मे दश गङ्गानदीवालुकासमास्तथागता आरागिताः । सुभगो नाम कल्पो ऽभूत्तत्र मे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः । अनिलम्भो नाम कल्पो ऽभूत्, तत्र मे चतुरशीतिर्बुद्धकोटीनियुतशतसहस्राण्यारागितानि । सुप्रभो नाम कल्पो ऽभूत् तत्र मे जम्बुद्वीपपरमाणुरजःसमास्तथागता आरागिताः । अतुलप्रभो नाम कल्पो ऽभूत्, तत्र मे विंशतिगङ्गानदीवालुकासमास्तथागता आरागिताः । उत्तप्तश्रीर्नाम कल्पोभूत्, तत्र मे गङ्गानदीवालुकासमास्तथागता आरागिताः । सूर्योदयो नाम कल्पो ऽभूत्, तत्र मे ऽशीतिगङ्गानदीवालुकासमास्तथागता आरागिताः । जयंगमो नाम कल्पो ऽभूत्, तत्र मे षष्टिगङ्गानदीवालुकासमास्तथागता आरागिताः । सुचन्द्रो नाम कल्पो ऽभूत्, तत्र मे सप्ततिर्गङ्गानदीवालुकासमास्तथागता आरागिताः । इति हि कुलपुत्र अनेनोपायेन गङ्गानदीवालुकासमान् कल्पाननुस्मरामि, यदहं सततसमितमविरहिताभूवं तथागतैरर्हद्भिः सम्यक्संबुद्धैः । सर्वेषां च मे तेषां तथागतानामन्तिकादयमसङ्गस्मृतिविशुद्धव्यूहो बोधिसत्त्वविमोक्षः श्रुतः । श्रुत्वा च आरागितः यथोक्तं च प्रतिपन्नः । एवं चाहं विमोक्षं सततसमितमनुप्रविष्टा यच्च तेषां सर्वतथागतानां बोधिसत्त्वभूमिमुपादाय यावत्सद्धर्मस्थितिपर्यन्तनिष्ठं बुद्धविकुर्वितं तत्सर्वमनेन असङ्गस्मृतिविशुद्धव्यूहेन बोधिसत्त्वविमोक्षेणानुस्मरामि धारयामि संधारयामि उपधारयामि
अनुस्मरामि । एतमहं कुलपुत्र बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं बोधिसत्त्वानां विगततमोन्धकाराणां संसाररात्रिप्रभावितानां ( ग्व् 351 ) विगतनिवरणानामनिद्रागमानां विगतस्त्यानमिद्धानां प्रस्रब्धकायसंस्काराणां सर्वधर्मस्वभावानुबोधसुविशुद्धानां दशबलविशुद्धिबोधयितॄणां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, कपिलवस्तुनि महानगरे विश्वामित्रो नाम दारकाचार्यः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातो ऽचिन्त्यकुशलमूलवेगसंवर्धितः सुरेन्द्राभाया देवकन्यायाः पादौ शिरसाभिवन्द्य सुरेन्द्राभां देवकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुरेन्द्राभाया देवकन्याया अन्तिकात्प्रक्रान्तः
46 विश्वामित्रः ।
अथ खलु सुधनः श्रेष्ठिदारको त्रिदशेन्द्रभवनादवतीर्य अनुपूर्वेण येन कपिलवस्तुनि महानगरे विश्वामित्रो दारकाचार्यस्तेनोपजगाम । उपेत्य विश्वामित्रस्य दारकाचार्यस्य पादौ शिरसाभिवन्द्य विश्वामित्रं दारकाचार्यमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य विश्वामित्रस्य दारकाचार्यस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । एवमुक्ते विश्वामित्रो दारकाचार्यः सुधनं श्रेष्ठिदारकमेतदवोचत् - अयं कुलपुत्र शिल्पाभिज्ञो नाम श्रेष्ठिदारको बोधिसत्त्वाल्लिपिज्ञानं शिक्षितः । एतमुपसंक्रम्य परिपृच्छ । एष ते निर्देक्ष्यति यथा बोधिसत्त्वचर्यायां शिक्षितव्यम्, यथा प्रतिपत्तव्यम्
47 शिल्पाभिज्ञः ।
अथ खलु सुधनः श्रेष्ठिदारको येन शिल्पाभिज्ञो श्रेष्ठिदारकस्तेनोपसंक्रम्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्द्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सो ऽवोचत् - अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी । तस्य मे कुलपुत्र मातृकां वाचयमानस्य अकारमक्षरं परिकीर्तयतो बोधिसत्त्वानुभावेन असंभिन्नविषयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । रकारं परिकीर्तयतो ऽनन्ततलसंभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम् । पकारं परिकीर्तयतो धर्मधातुतलसंभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम् । चकारं परिकीर्तयतः समन्तचक्रविभक्तिच्छेदनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । नकारं परिकीर्तयतो ऽनिलयप्रतिलब्धं नाम प्रज्ञापारमितामुखमवक्रान्तम् । लकारं परिकीर्तयतो विगतानालयविमलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । दकारं परिकीर्तयतो ऽवैवर्त्यप्रयोगं नाम प्रज्ञापारमितामुखमवक्रान्तम् । बकारं परिकीर्तयतो वज्रमण्डलं नाम प्रज्ञापारभितामुखमवक्रान्तम् । डकारं परिकीर्तयतः समन्तचक्रं नाम प्रज्ञापारमितामुखमवक्रान्तम् । सकारं परिकीर्तयतः सागरगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम् । वकारं परिकीर्तयतः समन्तविरूढविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । तकारं परिकीर्तयतो ज्योतिर्मण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । यकारं परिकीर्तयतः संभेदकूटं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ष्टकारं परिकीर्तयतः समन्तदाहप्रशमनप्रभासं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ककारं परिकीर्तयतो ऽसंभिन्नमेघं नाम प्रज्ञापारमितामुखमवक्रान्तम् । षकारं परिकीर्तयतो अभिमुखप्रवर्षणप्रलम्बं नाम प्रज्ञापारमितामुखमवक्रान्तम् । मकारं परिकीर्तयतो महावेगविचित्रवेगशिखरं नाम प्रज्ञापारमितामुखमवक्रान्तम् । गकारं परिकीर्तयतः समन्ततलविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । थकारं परिकीर्तयतः तथतासंभेदगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम् । जकारं परिकीर्तयतो जगत्संसारविशुद्धिविगाहनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्वकारं परिकीर्तयतः सर्वबुद्धस्मृतिव्यूहं नाम प्रज्ञापारमितामुखमवक्रान्तम् । धकारं परिकीर्तयतो धर्ममण्डलविचारविचयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । शकारं परिकीर्तयतः सर्वबुद्धानुशासनीचक्ररोचं नाम प्रज्ञापारमितामुखमवक्रान्तम् । खकारं परिकीर्तयतो ऽभिसंस्कारहेतुभूमिज्ञानगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम् । क्षकारं परिकीर्तयतः कर्मनिशान्तसागरकोशविचयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्तकारं परिकीर्तयतः सर्वक्लेशविकिरणविशुद्धिप्रभं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ञकारं परिकीर्तयतो लोकसंभवविज्ञप्तिमुखं नाम प्रज्ञापारमितामुखमवक्रान्तम् । थकारं परिकीर्तयतः संसारप्रतिचक्रज्ञानमण्डलं नाम प्रज्ञापारमितामुइखमवक्रान्तम् । भकारं परिकीर्तयतः सर्वभवनमण्डलविज्ञप्तिव्यूहं ( ग्व् 354 ) नाम प्रज्ञापारमितामुखमवक्रान्तम् । छकारं परिकीर्तयत उपचयगर्भप्रयोगं चारित्रच्छत्रमण्डलभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्मकारं परिकीर्तयतः
सवर्बुद्धदशर्नदिगभिमुखावर्तं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ह्वकारं परिकीर्तयतः सर्वसत्त्वाभव्यावलोकनबलसंजातगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम् । त्सकारं परिकीर्तयतः सर्वगुणसागरप्रतिपत्त्यवतारविगाहनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । घकारं परिकीर्तयतः सर्वधर्ममेघसंधारणदृढसागरगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ठकारं परिकीर्तयतः सर्वबुद्धप्रणिधानदिगभिमुखगमनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । णकारं परिकीर्तयतः चक्राक्षराकारकोटिवचनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । फकारं परिकीर्तयतः सर्वसत्त्वपरिपाककोटीगतमण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्ककारं परिकीर्तयतो भूमिगर्भासङ्गप्रतिसंवित्प्रभाचक्रस्फरणं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्यकारं परिकीर्तयतः सर्वबुद्धधर्मनिर्देशविषयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । श्चकारं परिकीर्तयतः सत्त्वगगनधर्मघननिगर्जितनिर्नादस्फरणं नाम प्रज्ञापारमितामुखमवक्रान्तम् । टकारं परिकिर्तयतः सत्त्वार्थनैरात्म्यकार्यात्यन्तपरिनिष्ठाप्रदीपं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ढकारं परिकीर्तयतो धर्मचक्रसंभेदगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम् ॥
इति हि कुलपुत्र मम मातृकां वाचयत एतानि द्वाचत्वारिंशत् प्रज्ञापारमितामुखप्रमुखान्यप्रमेयासंख्येयानि प्रज्ञापारमितामुखान्यावक्रान्तानि । एतस्य अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी । एतमहं जानामि । किं मया शक्यं सर्वलौकिकलोकोत्तरशिल्पस्थानपारमिताप्राप्तानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् व वक्तुम्? यथा सर्वशिल्पस्थानप्रवेशेषु सर्वलिपिसंख्यागणनानिक्षेपप्रवेशेषु सर्वमन्त्रौषधिविधिज्ञानप्रयोगप्रतिवेधेषु सर्वभूतग्रहज्योतिषापस्मारकाखोर्दवेतालप्रतिष्ठानेषु सत्त्वधातुचिकित्साभैषज्यसंयोगज्ञानेषु धातुतन्त्रसंयोगप्रयोगेषु सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाललोहितकमुसारगल्वकेशरश्रीगर्भाश्मगर्भसर्वरत्नसंभवोत्पत्तिगोत्राकरमूल्यज्ञानेषु उद्यानतपोवनग्रामनगरनिगमराष्ट्रराजधान्यभिनिर्हारेषु मृगचक्राङ्कविद्यासर्वलक्षणनिमित्तभूमिचालदिग्दाहोल्कापातक्षेमाक्षेमसुभिक्षदुर्भिक्षसर्वलौकिकावर्तनिवर्तप्रवेशेषु सर्वलोकोत्तरधर्मविभक्तिसूचनादिनिर्देशप्रवेशतत्त्वानुगमज्ञानेषु नास्त्यावरणं वा विमर्शो वा विमतिर्वा संदेहो वा संशयो वा संमोहो वा धंधायितत्वं वा व्याबाधिकं वा अवसादनं वा अज्ञानं वा अनभिसमयो वा ॥
गच्छ कुलपुत्र, इयमिहैव मगधविषये केवलके जनपदे वर्तनके नगरे भद्रोत्तमा नामोपासिका प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्द्य शिल्पाभिज्ञं श्रेष्ठिदारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्यान्तिकात्प्रक्रान्तः
48 भद्रोत्तमा ।
अथ खलु सुधनः श्रेष्ठिदारको येन केवलके जनपदे वर्तनकं नगरम्, येन च भद्रोत्तमोपासिका, तेनोपजगाम । उपेत्य भद्रोत्तमाया उपासिकायाः पादौ शिरसाभिवन्द्य भद्रोत्तमामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य भद्रोत्तमाया उपासिकायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सा अवोचत् - अहं कुलपुत्र अनालयमण्डलं नाम धर्मपर्यायं जानामि देशयामि । अधिष्ठानश्च मे समाधिः प्रतिलब्धः । न तत्र समाधौ कस्यचिद्धर्मस्याधिष्ठानम् । तत्र सर्वज्ञताचक्षुः प्रवर्तते ऽधिष्ठानं सर्वज्ञताश्रोत्रम् । अधिष्ठानं सर्वज्ञताघ्राणम्, अधिष्ठानं सर्वज्ञताजिह्वा, अधिष्ठानः सर्वज्ञताकायः, अधिष्ठानं तत्र सर्वज्ञतामनः प्रवर्तते, अधिष्ठाना सर्वज्ञतोर्मिः, अधिष्ठाना सर्वज्ञताविद्युत्, अधिष्ठानाः सर्वज्ञतावेगाः प्रवर्तन्ते जगद्रोचनामण्डलाः । एतमहं कुलपुत्र, अनालयमण्डलं धर्मपर्यायं जानामि । किं मया शक्यमसङ्गबोधिसत्त्वचर्या सकला ज्ञातुम्?
गच्छ कुलपुत्र दक्षिणापथे । तत्र भरुकच्छं नाम नगरम् । तत्र मुक्तासारो नाम हैरण्यकः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको भद्रोत्तमाया उपासिकायाः पादौ शिरसाभिवन्द्य भद्रोत्तमामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भद्रोत्तमाया उपासिकाया अन्तिकात्प्रक्रान्तः
49 मुक्तासारः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण दक्षिणापथं गत्वा येन भरुकच्छे नगरे मुक्तासारो हैरण्यकः, तेनोपसंक्रम्य मुक्तासारहैरण्यकस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सो ऽवोचत् - अहं कुलपुत्र असङ्गस्मृतिव्यूहं नाम बोधिसत्त्वविमोक्षं जानामि । अप्रतिप्रस्रब्धा च मे दशसु दिक्षु सर्वतथागतपादमूलेषु धर्मपर्येष्टिः । एतमहं कुलपुत्र असङ्गस्मृतिव्यूहं बोधिसत्त्वविमोक्षं जानामि, प्रजानामि । किं मया शक्यं बोधिसत्त्वानामच्छम्भितसिंहनादनादिनां महापुण्यज्ञानप्रतिष्ठितानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, अयमिहैव भरुकच्छे नगरे सुचन्द्रो नाम गृहपतिः प्रतिवसति । तदवभासितमस्य गृहम् । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको मुक्तासारस्य हैरण्यकस्य पादौ शिरसाभिवन्द्य मुक्तासारं हैरण्यकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मुक्तासारस्य हैरण्यकस्यान्तिकात्प्रक्रान्तः
50 सुचन्द्रः ।
अथ खलु सुधनः श्रेष्ठिदारको येन सुचन्द्रो गृहपतिः, तेनोपसंक्रम्य सुचन्द्रस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीती । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
आह - मया कुलपुत्र विमलज्ञानप्रभो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः । एतमहं कुलपुत्र विमलज्ञानप्रभं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यमप्रमाणविमोक्षप्रतिलब्धानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे रोरुकं नाम नगरम् । तत्र अजितसेनो नाम गृहपतिः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारकः सुचन्द्रस्य गृहपतेः पादुअ शिरसाभिवन्द्य सुचन्द्रं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुचन्द्रस्य गृहपतेरन्तिकात्प्रक्रान्तः
51 अजितसेनः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण रोरुकं नगरं गत्वा येन अजितसेनो नाम गृहपतिस्तेनोपसंक्रम्य अजितसेनस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
आह - मया कुलपुत्र अक्षयलक्षणो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भादक्षयबुद्धदर्शननिधानप्रतिलाभो भवति ॥
गच्छ कुलपुत्र इयमिहैव दक्षिणापथे धर्मग्रामे शिवराग्रो नाम ब्राह्मणः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको ऽजितसेनस्य गृहपतेः पादौ शिरसाभिवन्द्य अजितसेनं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अजितसेनस्य गृहपतेरन्तिकात्प्रक्रान्तः
52 शिवराग्रः ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण धर्मग्रामं गत्वा येन शिवराग्रो ब्राह्मणः, तेनोपसंक्रम्य शिवराग्रस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददादीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
सो ऽवोचत् - अहं कुलपुत्र सत्याधिष्ठानेन चरामि । येन सत्येन सत्यवचनेन त्र्यध्वसु न कश्चिद्बोधिसत्त्वो ऽनुत्तरायाः सम्यक्संबोधेर्विवृत्तः, न विवर्तते, न विवर्तिष्यति, तेन सत्यवचनाधिष्ठानेन इदं च मे कार्यं स्मृध्यत्विति । तन्मे यथाभिप्रायं सर्वं समृध्यति । एतेनाहं कुलपुत्र सत्यवचनाधिष्ठानेन सर्वकार्याणि साधयामि । एतमहं कुलपुत्र सत्याधिष्ठानं जानामि । किं मया शक्यं सत्यानुपरिवर्तनी वाक्प्रतिलब्धानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इयमिहैव दक्षिणापथे सुमनामुखं नाम नगरम् । तत्र श्रीसंभवो नाम दारकः प्रतिवसति, श्रीमतिश्च नाम दारिका । तावुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको महाधर्मगौरवमुत्पाद्य शिवराग्रस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य शिवराग्रं ब्राह्मणमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनःपुनरवलोक्य शिवराग्रस्य ब्राह्मणस्यान्तिकात्प्रक्रान्तः
53 श्रीसंभवः श्रीमतिश्च ।
अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण सुमनामुखनगरं गत्वा येन श्रीसंभवो दारकः श्रीमतिश्च दारिका । तावुपक्रम्य तयोः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्यौ अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यौ बोधिसत्त्वानामववादानुशासनीं दत्त इति । तद्वदतां मे आर्यौ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु श्रीसंभवो दारकः श्रीमतिश्च दारिका सुधनं श्रेष्ठिदारकमेतदवोचताम् - इह आवाभ्यां कुलपुत्र मायागतो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः साक्षात्कृतः । तावावां कुलपुत्र अनेन विमोक्षेण समन्वागतौ मायागतं सर्वलोकं पश्यावो हेतुप्रत्ययमायासंभूतम् । मायागतान् सर्वसत्त्वान् विजानीवः । कर्मक्लेशमायाज्ञानेन मायागतं सर्वजगत्पश्यावः । अविद्याभवतृष्णामायासंभवान् मायागतान् सर्वधर्मान् पश्यावः । अन्योन्यप्रत्ययमायानिर्वृत्तं मायागतं सर्वत्रैधातुकं पश्यावः अभिनिर्हृतमचिन्त्यविषयमायाबोधिविपर्यासमायासंभूतम् । मायागतान् सर्वसत्त्वान् च्युत्युपपत्तिजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् पश्यावः । असद्भूतसंकल्पमायाजनितानि मायाजनितानि सर्वक्षेत्राणि पश्यावः । संज्ञाचित्तदृष्टिविपर्यासमायाभावद्रव्यसंज्ञासंमोहप्रभवान् मायागतान् सर्वश्रावकप्रत्येकबुद्धान् पश्यावः । ज्ञानप्रहाणमायासंकल्पजनितां मायागतां सर्वबोधिसत्त्वचर्याप्रणिधानसत्त्वपरिपाकविनयपरंपरां प्रजानीवः । मायानिर्हाराभिनिर्वृत्तनिर्मितचर्याविनयमायास्वभावान् मायागतं सर्वबुद्धबोधिसत्त्वमण्डलं पश्यावः प्रणिधानज्ञानमायाभिनिर्हृतमचिन्त्यविषयमायास्वभावम् । एतमावां कुलपुत्र मायागतं बोधिसत्त्वविमोक्षं प्रजानीवः । किमावाभ्यां शक्यमनन्तकर्ममायाविठपजालानुगतानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥
अथ खलु श्रीसंभवो दारकः श्रीमतिश्च दारिका सुधनं श्रेष्ठिदारकमचिन्त्येन कुशलमूलवेगेन अभिष्यन्दयित्वा स्वं च विमोक्षविषयं श्राव्य एतदवोचताम् - गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे समुद्रकच्छो नाम दिग्मुखप्रत्युद्देशः । तत्र महाव्यूहं नामोद्यानम् । तत्र वैरोचनव्यूहालंकारगर्भो नाम महाकूटागारो बोधिसत्त्वकुशलमूलविपाकाभिनिर्वृतो बोधिसत्त्वचेतनामनसिकारसंभूतो बोधिसत्त्वप्रणिधानसमुद्गतो बोधिसत्त्ववशितासमुत्थितो बोधिसत्त्वाभिज्ञानबलाभिनिर्मितो बोधिसत्त्वोपायकौशल्यसंभूतो बोधिसत्त्वपुण्यज्ञानबलपरिनिष्पन्नो बोधिसत्त्वमहाकरुणासत्त्वविनयसंदर्शनो बोधिसत्त्वाधिष्ठानव्यूहोपचितो बोधिसत्त्वाचिन्त्यविमोक्षविहारालंकारः । तत्र मैत्रेयो नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति जन्मभूमिकानां मनुष्याणामनुग्रहाय । मातापितृज्ञातिसंबन्धिनां परिपाकाय । तत्रोपपन्नानां सभागचरितानां सत्त्वानां महायानदृढीकरणाय । तदन्येषामपि सत्त्वानां यथाभूमिषु कुशलमूलपरिपाचनाय । स्वस्य च विमोक्षनयावतारस्य संदर्शनाय । ( ग्व् 361 ) सर्वत्रानुगतां च बोधिसत्त्वोपपत्तिवशितां प्रभावयन् सर्वसत्त्वजन्मसंदर्शनाभिमुखतया च सत्त्वपरिपाकारिञ्चनतायै । सर्वजगत्परिग्रहजुगुप्सनतया च बोधिसत्त्वमहाकरुणाबलोद्भावनाय । सर्वनिकेतस्थानोच्चलितं च बोधिसत्त्वविहारमवबोधनाय । अनिकेतपरमं च सर्वभवोपत्तिसंवाससंदर्शनाय । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्या परिप्रष्टव्या, कथं बोधिसत्त्वेन बोधिसत्त्वमार्गः परिशोधयितव्यः, कथं बोधिसत्त्वेन बोधिसत्त्वशिक्षासु प्रतिपत्तव्यम्, कथं बोधिसत्त्वेन बोधिचित्तं प्रतिशोधयितव्यम्, कथं बोधिसत्त्वेन बोधिसत्त्वप्रणिधानमभिनिर्हर्तव्यम्, कथं बोधिसत्त्वेन बोधिसत्त्वसंभाराः समुत्थापयितव्याः, कथं बोधिसत्त्वेन बोधिसत्त्वभूमय आक्रमितव्याः, कथं बोधिसत्त्वेन बोधिसत्त्वपारमिताः परिपूरयितव्याः, कथं बोधिसत्त्वेन बोधिसत्त्वक्षान्तयो ऽवतरितव्याः, कथं बोधिसत्त्वेन बोधिसत्त्वप्रतिपत्तिगुणेषु स्थातव्यम्, कथं बोधिसत्त्वेन कल्याणमित्राणि
पर्युपासितव्यानि । तत्कस्य हेतोः? स हि कुलपुत्र मैत्रेयो बोधिसत्त्वो ऽवतीर्णः सर्वबोधिसत्त्वचर्यासु गतिंगतः । सर्वबोधिसत्त्वचित्ताशयेषु सो ऽनुप्रविष्टः । सर्वसत्त्वचर्यासु सो ऽभिमुखः सर्वसत्त्वपरिपाकविनयेषु । तेन परिपूरिताः सर्वपारमिताः । सुप्रतिष्ठिताः सर्वबोधिसत्त्वभूमिषु । तेन प्रतिलब्धाः सर्वबोधिसत्त्वक्षान्तयः । सो ऽवक्रान्तो बोधिसत्त्वनियामम् । तेन प्रतीष्टानि सर्वव्याकरणानि । स विक्रीडितः सर्वबोधिसत्त्वविमोक्षेषु । तेन संधारितानि सर्वबुद्धाधिष्ठानानि । सो ऽभिषिक्तः सर्वतथागतैः सर्वज्ञज्ञानविषयाभिषेकेण । स ते कुलपुत्र कल्याणमित्रो ऽभिष्यन्दयिष्यति सर्वकुशलमूलानि विवर्धयिष्यति । बोधिचित्तोत्पादं दृढीकरिष्यति । अध्याशयधातुमुत्तापयिष्यति । सर्वकुशलमूलानि विवर्धयिष्यति । बोधिसत्त्वेन्द्रियवेगान् संदर्शयिष्यति । अनावरणधर्मदिशं प्रवेशयिष्यति । समन्तभद्रभूम्यनुगमे निवेशयिष्यति । सर्वबोधिसत्त्वप्रणिधाननिर्याणमुखेषु संवर्णयिष्यति । सर्वबोधिसत्त्वचर्याप्रणिधानगुणपरिनिष्पत्तिमाख्यास्यति समन्तभद्रबोधिसत्त्वचर्याश्रवणपर्यायद्वारम् । न च ते कुलपुत्र एककुशलमूलतन्मयेन भवितव्यं नैकधर्ममुखालोकावभासपरमेण नैकचर्यापरिसंतुष्टेन नैकप्रणिधानाभिनिर्हारपरमेण नैकव्याकरणेन, न निष्ठाप्रतिप्रस्रब्धेन, न त्रिक्षान्त्यवतारपरमसंज्ञिना, न षट्पारमितापरिपूरिप्रस्रब्धेन, न दशभूमिप्रतिलाभनिष्ठागतेन, न प्रामाणिकबुद्धक्षेत्रपरिग्रहपरिशुद्धिप्रणिधानेन, न प्रमाणीकृतकल्याणमित्रारागणपर्युपासनसंतुष्टेन भवितव्यम् । तत्कस्य हेतोः? अप्रमाणानि हि कुलपुत्र बोधिसत्त्वेन कुशलमूलानि समुदानेतव्यानि । अप्रमाणा बोधिसत्त्वसंभारा उत्थापयितव्याः । अप्रमाणा बोधिचित्तहेतवः समार्जयितव्याः । अप्रमाणा नयाः शिक्षितव्याः । अप्रमाणाः सत्त्वधातुः परिनिर्वापयितव्यः
। अप्रमाणा सत्त्वाशयधातुरनुप्रवेष्टव्या । अप्रमाणानि सत्त्वेन्द्रियाणि परिज्ञातव्यानि । अप्रमाणा सत्त्वविमुक्तिरनुवर्तयितव्या । अप्रमाणाः सत्त्वधातुचर्या अनुबोध्यव्याः । अप्रमाणसत्त्वविनयः कर्तव्यः । अप्रमाणाः क्लेशानुशयाः समुद्धाटयितव्याः । अप्रमाणानि कर्मावरणानि परिशोधयितव्यानि । अप्रमाणानि दृष्टिगतानि ( ग्व् 362 ) निवर्तयितव्यानि । अप्रमाणाश्चित्तसंक्लेशा अपनयितव्याः । अप्रमाणाश्चित्तविशुद्धय उत्पादयितव्याः । अप्रमाणा दुःखशल्याः समुद्धारयितव्याः । अप्रमाणः सत्त्वतृष्णार्णवः समुच्छोषितव्यः । अप्रमाणमविद्यान्धकारं विधमितव्यम् । अप्रमाणाः पर्वताः प्रपातयितव्याः । अप्रमाणानि संसारबन्धनानि निर्हारयितव्यानि । अप्रमाणो जन्मसमुद्रः शोषयितव्यः । अप्रमाणो भवौघस्तरितव्याः । अप्रमाणाः सत्त्वाः कामपङ्कसक्ता अभ्युद्धर्तव्याः । अप्रमाणास्त्रैधातुकपुरनिरुद्धाः सत्त्वा निष्क्रामयितव्याः । अप्रमाणाः सत्त्वा आर्यमार्गे प्रतिष्ठापयितव्याः । अप्रमाणा रागद्वेषमोहाः प्रशमयितव्याः । अप्रमाणा मारपाशाः समतिक्रमयितव्याः । अप्रमाणानि मारकर्माणि विनिवर्तयितव्यानि । अप्रमाणो बोधिसत्त्वाध्याशयधातुः परिशोधयितव्याः । अप्रमाणा बोधिसत्त्वप्रयोगा विवर्धयितव्याः । अप्रमाणानि बोधिसत्त्वेन्द्रियाणि संजनयितव्यानि । अप्रमाणा बोधिसत्त्वाधिमुक्तयो विशोधयितव्याः । अप्रमाणा बोधिसत्त्वसमता अवतारयितव्याः । अप्रमाणो बोधिसत्त्वचर्याविशेषो ऽनुसर्तव्यः । अप्रमाणा बोधिसत्त्वगुणाः परिशोधयितव्याः । अप्रमाणा बोधिसत्त्वचारित्रचर्याः प्रतिपूरयितव्याः । अप्रमाणानि लोकचारित्राण्यनुवर्तयितव्यानि । अप्रमाणा लोकानुवर्तनाः संदर्शयितव्याः । अप्रमाणं श्रद्धाबलं संजनयितव्याम् । अप्रमाणं वीर्यबलमुपस्तम्भयितव्यम् । अप्रमाणं स्मृतिबलं परिशोधयितव्यम् । अप्रमाणं समाधिबलं परिशोधयितव्यम् । अप्रमाणं प्रज्ञाबलमुत्पादयितव्यम् । अप्रमाणमधिमुक्तिबलं दृढीकर्तव्यम् । अप्रमाणं पुण्यबलं समुपार्जयितव्यम् । अप्रमाणं ज्ञानबलं विवर्धयितव्यम् । अप्रमाणं बोधिसत्त्वबलं समुत्थापयितव्यम् । अप्रमाणं बुद्धबलं परिपूरयितव्यम् । अप्रमाणानि धर्ममुखानि प्रविचेतव्यानि । अप्रमाणा धर्मदिशः प्रवेष्टव्याः । अप्रमाणानि धर्मद्वाराणि परिशोधयितव्यानि । अप्रमाणा धर्मालोकाः संजनयितव्याः । अप्रमाणो धर्मावभासः कर्तव्यः । अप्रमाणा इन्द्रियवंशा अवभासयितव्याः । अप्रमाणाः क्लेशव्याधयः परिशोधयितव्याः
। अप्रमाणानि धर्मभैषज्यानि समुदानेतव्यानि । अप्रमाणः क्लेशव्याध्यातुरः सत्त्वधातुः चिकित्सितव्यः । अप्रमाणा अमृतसंभाराः समुदानेतव्याः । अप्रमाणानि बुद्धक्षेत्राण्याक्रमितव्यानि । अप्रमाणास्तथागताः पूजयितव्याः । अप्रमाणानि बोधिसत्त्वपर्षन्मण्डलान्यवगाहयितव्यानि । अप्रमाणानि तथागतशासनानि संधारयितव्यानि । अप्रमाणानि सत्त्वद्रोहिण्यानि सोढव्यानि । अप्रमाणा अक्षणापायपथाः समुच्छेत्तव्याः । अप्रमाणानि सत्त्वसुखान्युपसंहर्तव्यानि । अप्रमाणाः सत्त्वसंग्रहाः कर्तव्याः । अप्रमाणानि धारणीमुखानि परिशोधयितव्यानि । अप्रमाणानि प्रणिधानमुखान्यभिनिर्हर्तव्यानि । अप्रमाणानि महामैत्रीमहाकरुणाबलानि परिभावयितव्यानि । अप्रमाणानि धर्मपर्येष्ट्यभियोगानि न प्रतिप्रस्रम्भयितव्यानि । अप्रमाणानि निध्यप्तिबलान्यनुसर्तव्यानि । अप्रमाणा अभिज्ञाभिनिर्हारा उत्पादयितव्याः । अप्रमाणा विद्याज्ञानालोका विशोधयितव्याः । अप्रमाणा सत्त्वगतिरनुगन्तव्या । अप्रमाणा भवोत्पत्तिः ( ग्व् 363 ) परिग्रहीतव्याः । अप्रमाणा कायविभक्तिः संदर्शयितव्या । अप्रमाणा मन्त्रविभक्तिः परिज्ञातव्या । अप्रमाणाः सत्त्वचित्तविमात्रता अनुप्रवेष्टव्याः । विस्तीर्णो बोधिसत्त्वगोचरो ऽनुप्रवेष्टव्यः । विपुलं बोधिसत्त्वभवनमनुविचरितव्यम् । गम्भीरो बोधिसत्त्वविहारो व्यवलोकयितव्यः । दुरनुबोधो बोधिसत्त्वविषयो ऽनुबोद्धव्यः । दुर्गमा बोधिसत्त्वगतिर्गन्तव्या । दुरासदा बोधिसत्त्ववेगाः संधारयितव्याः । दुरवक्रामो बोधिसत्त्वनियामो ऽवक्रमितव्यः । विचित्रा बोधिसत्त्वचर्या अनुबोद्धव्या । सर्वत्रानुगतं बोधिसत्त्वविकुर्वणं संदर्शयितव्यम् । अभिसंभिन्ना बोधिसत्त्वेन धर्ममेघाः संप्रत्येष्टव्याः । अनन्तमध्यं बोधिसत्त्वचर्याजालं प्रविस्तरितव्यम् । अपर्यन्ता बोधिसत्त्वेन पारमिताः परिपूरयितव्याः । अप्रमेयाणि बोधिसत्त्वेन व्याकरणानि संप्रत्येष्टव्यानि । असंख्येयानि बोधिसत्त्वेन क्षान्तिमुखान्यवतर्तव्यानि । असंख्येया बोधिसत्त्वेन भूमयः परिशोधयितव्याः । असमन्तानि बोधिसत्त्वेन धर्ममुखानि पर्यवदापयितव्यानि । अनभिलाप्यानि बोधिसत्त्वेन बुद्धक्षेत्राणि परिशोधयितव्यानि । अपर्यन्तान् बोधिसत्त्वेन कल्पान् संनाहः संनद्धव्यः । अमाप्या बोधिसत्त्वेन तथागताः पूजयितव्याः
। अचिन्त्या बोधिसत्त्वेन प्रणिधानाभिनिर्हारा अभिनिर्हर्तव्याः । संक्षिप्तेन कुलपुत्र सर्वसत्त्वसमोक्ता बोधिसत्त्वानां चर्या सत्त्वपरिपाचनतया । सर्वकल्पसमोक्ता सर्वकल्पसंवसनतया । सर्वोपपत्तिसमोक्ता सर्वत्रजन्मसंदर्शनेन । सर्वाध्वसमोक्ता त्र्यध्वज्ञानानुबोधाय । सर्वधर्मसमोक्ता तत्प्रतिपत्त्या । सर्वक्षेत्रसमोक्ता तत्परिशोधनेन । सर्वप्रणिधानसमोक्ता तत्परिपूरणतया । सर्वबुद्धसमोक्ता तत्पूजाभिनिर्हारेण । सर्वबोधिसत्त्वसमोक्ता तत्प्रणिधानैकत्वेन । सर्वकल्याणमित्रसमोक्ता बोधिसत्त्वानां चर्या तदारागणतया ॥
तस्मात्तर्हि कुलपुत्र न ते परिखेद उत्पादयितव्यः कल्याणमित्रपरिमार्गणासु । न परितृप्तिरुत्पादयितव्या कल्याणमित्रसंदर्शनेषु । न परितुष्टिरापत्तव्या कल्याणमित्रपरिपृच्छासु । नाशयो विनिवर्तयितव्यः कल्याणमित्रसंसर्गेषु । न प्रयोगः प्रतिप्रस्रम्भयितव्यः कल्याणमित्रगौरवोपस्थानेषु । न विलोमग्राहिणा भवितव्यं कल्याणमित्राववादानुशासनीषु । न संशय उत्पादयितव्यः कल्याणमित्रगुणप्रतिलाभेषु । न विचिकित्सा करणीया कल्याणमित्रनिर्याणमुखसंदर्शनेषु । न दोषोत्पादनं करणीयं कल्याणमित्रोपायसंधिलोकानुवर्तनप्रतिचारेषु । न कायचित्तविनिवर्तनं करणीयं कल्याणमित्रप्रसादविवर्धनेषु । तत्कस्य हेतोः? कल्याणमित्राधीनाः कुलपुत्र बोधिसत्त्वानां सर्वबोधिसत्त्वचर्याःश्रवाः । कल्याणमित्रप्रभवाः सर्वबोधिसत्त्वगुणपरिनिष्पत्तयः । कल्याणमित्रप्रभवाणि सर्वबोधिसत्त्वप्रणिधानस्रोतांसि । कल्याणमित्रजनितानि सर्वबोधिसत्त्वकुशलमूलानि । कल्याणमित्रोत्थापिताः सर्वबोधिसत्त्वसंभाराः । कल्याणमित्रनिर्याताः सर्वबोधिसत्त्वधर्ममुखालोकाः । कल्याणमित्रसंभूताः सर्वबोधिनिर्याणमुखविशुद्धयः । कल्याणमित्रप्रतिबद्धाः सर्वबोधिसत्त्वशिक्षाप्रतिपत्तयः । कल्याणमित्रप्रतिष्ठिताः सर्वबोधिसत्त्वगुणधर्माः । कल्याणमित्रमूलाः सर्वबोधिसत्त्वाध्याशयपरिशुद्धयः । ( ग्व् 364 ) कल्याणमित्रसंजाता सर्वबोधिसत्त्वचित्तोत्पाददृढता । कल्याणमित्रनेत्रिकाः सर्वबोधिसत्त्वसमुद्रधारणीप्रतीभानमुखालोकाः । कल्याणमित्रसंधारिताः सर्वबोधिसत्त्वविशुद्धिमुखकोशाः । कल्याणमित्रसंजनिताः सर्वबोधिसत्त्वज्ञानालोकाः । कल्याणमित्रहस्तगता सर्वबोधिसत्त्वप्रणिधानवैशेषिकता । कल्याणमित्रप्रधान एकोतीभावः । कल्याणमित्रगोत्राः सर्वबोधिसत्त्वसमुदागमवैशेषिकश्रद्धाः । कल्याणमित्रकोशगतानि
सर्वबोधिसत्त्वगुह्यस्थानानि । कल्याणमित्राकराः सर्वबोधिसत्त्वधर्माकराः । कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वेन्द्रियवेगाङ्कुराः । कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वज्ञानसागराः । कल्याणमित्रप्रतिपालिताः सर्वबोधिसत्त्वनिधानकोशाः । कल्याणमित्ररक्षिताः सर्वबोधिसत्त्वपुण्योपचयाः । कल्याणमित्रजनिताः सर्वबोधिसत्त्वजन्मविशुद्धयः । कल्याणमित्रमुखागताः सर्वबोधिसत्त्वधर्ममेघाः । कल्याणमित्रकोष्ठगताः सर्वबोधिसत्त्वनिर्याणपथप्रवेशाः । कल्याणमित्राराधनप्रतिलब्धा सर्वबुद्धबोधिः । कल्याणमित्रसंगृहीताः सर्वबोधिसत्त्वचर्याः । कल्याणमित्रोद्द्योतिताः सर्वबोधिसत्त्वगुणोद्भावनाः । कल्याणमित्रसंदर्शिताः सर्वबोधिसत्त्वदिगनुगमाः । कल्याणमित्रसंवर्णिता सर्वबोधिसत्त्वचित्ताध्याशयमहात्मता । कल्याणमित्रसंभूतं बोधिसत्त्वानां महामैत्रीबलम् । कल्याणमित्रसंजनितं बोधिसत्त्वानां महाकरुणाबलम् । कल्याणमित्रसंगृहीतानि सर्वबोधिसत्त्वाधिपत्यानि । कल्याणमित्रसंजनितानि सर्वबोध्यङ्गानि । कल्याणमित्रसंभवाः सर्वबोधिसत्त्वहितोपसंहाराः । कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु । कल्याणमित्रपरिगृहीता बोधिसत्त्वा न निवर्तन्ते महायानात् । कल्याणमित्रसमन्वाहृता बोधिसत्त्वा नातिक्रामन्ति बोधिसत्त्वशिक्षाम् । कल्याणमित्रस्वारक्षिता बोधिसत्त्वा न गच्छन्ति पापमित्रवशम् । कल्याणमित्रपरिपालिता बोधिसत्त्वा न परिहीयन्ते बोधिसत्त्वधर्मेभ्यः । कल्याणमित्रसंगृहीता बोधिसत्त्वा अतिक्रामन्ति पृथग्जनभूमिम् । कल्याणमित्रानुशिक्षिता बोधिसत्त्वा नावक्रामन्ति श्रावकप्रत्येकबुद्धनिपातम् । कल्याणमित्रप्रतिच्छन्ना बोधिसत्त्वा अभ्युद्गता भवन्ति लोकात् । कल्याणमित्रसंवर्धिता बोधिसत्त्वा अनुपलिप्ता भवन्ति
लोकधर्मैः । कल्याणमित्रपर्युपासिता बोधिसत्त्वा असंप्रमोषचारिणो भवन्ति सर्वचर्यासु । कल्याणमित्रोत्थापिता बोधिसत्त्वा न निवर्तन्ते सर्वारम्भेभ्यः । कल्याणमित्रपरिगृहीता बोधिसत्त्वा दुर्धर्षा भवन्ति कर्मक्लेशैः । कल्याणमित्रबलोपस्तब्धा बोधिसत्त्वा अनवमर्द्या भवन्ति सर्वमारैः । कल्याणमित्रोपनिश्रयविहारिणो बोधिसत्त्वा विवर्धन्ते सर्वबोध्यङ्गैः । तत्कस्य हेतोः? विशोधकानि कुलपुत्र कल्याणमित्राण्यावरणीयानां विनिवर्तकानि । कल्याणमित्राण्यपायेभ्यः संबोधनानि । कल्याणमित्राण्यकरणीयानां संनिवारकानि प्रमादस्थानेभ्यः । विधमितारो ऽविद्यान्धकारस्य । निर्दारयितारो दृष्टिबन्धनानाम् । निष्क्रामयितारः संसारात् । उत्खाटयितारो लोकनिकेतात् । निर्मोचयितारो मारपशेभ्यः । समाबृंहयितारो दुःशल्यानाम् । परिमोचयितारः अज्ञानगहनात् । समतिक्रामयितारो दृष्टिकान्तारात् । उत्तारयितारो भवौघेभ्यः । उद्धर्तारः कामपङ्कात् । विनिवर्तयितारः ( ग्व् 365 ) कुमार्गात् । संदर्शयितारो बोधिसत्त्वमार्गस्य । नियोजयितारो बोधिसत्त्वसमादानेन । प्रतिष्ठापयितारः प्रतिपत्तिषु । प्रणेतारः सर्वज्ञतागमनदिशम् । विशोधयितारः प्रज्ञाचक्षुषः । विवर्धयितारो बोधिचित्तस्य । संजनयितारो महाकरुणायाः । आख्यातारः चर्यायाः । अववादितारः पारमितासु । प्रतियापयितारः भूमिषु । विभजितारः क्षान्तीनाम् । संभावयितारः सर्वकुशलमूलानाम् । उत्थापयितारः सर्वसंभाराणाम् । दातारः सर्वबोधिसत्त्वगुणानाम् । संप्रापयितारः सर्वबुद्धपादमूलेषु । संदर्शयितारः सर्वगुणेषु । समादापयितारः अर्थेषु । समुत्तेजयितारः प्रतिपत्तिषु । निदर्शयितारो निर्याणमुखानाम् । आरक्षितारः प्रणाशपथेभ्यः । अवभासयितारो धर्मालोकमुखानाम् । अभिप्रवर्षयितारो धर्मश्रवणमेघानाम् । नाशयितारः सर्वक्लेशानाम् । विनिवर्तयितारः सर्वदृष्टिकृतानाम् । निवेशयितारः सर्वबुद्धधर्मेषु ॥
अपि च कुलपुत्र मातृभूतानि कल्याणमित्राणि बुद्धकुलेषु जनयित्रीणि । पितृभूतानि कल्याणमित्राणि विपुलहितोपसंहरणतया । धात्रीभूतानि कल्याणमित्राणि सर्वपापारक्षणतया । आचार्यभूतानि कल्याणमित्राणि बोधिसत्त्वशिक्षानुबोधनतया । दैशिकभूतानि कल्याणमित्राणि पारमितामार्गावतरणतया । वैद्यभूतानि कल्याणमित्राणि क्लेशव्याधिपरिमोचनतया । हिमवत्पर्वतभूतानि कल्याणमित्राणि ज्ञानौषधिविवर्धनतया । शूरभूतानि कल्याणमित्राणि सर्वभयारक्षणतया । दाशभूतानि कल्याणमित्राणि संभारमहौघोत्तरणतया । कर्णधारभूतानि कल्याणमित्राणि सर्वज्ञज्ञानरत्नद्वीपसंप्रापणतया ॥
तस्मात्तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया । वज्रसमचित्तेनाभेद्याशयतया । चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया । समचित्तेन यथेष्टाज्ञाकरणतया । शिष्यसमचित्तेन सर्वाज्ञाविलोमनतया । लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया । धात्रीसमचित्तेन सर्वक्लेशापरितमनतया । भृत्यसमचित्तेन किंकरणीप्रदक्षिणग्राहतया । रजोपहरणसमचित्तेन मानातिमानविवर्जनतया । पूर्णचन्द्रसमचित्तेन कालाकालानामावमनतया । आजानेयाश्वसमचित्तेन सर्वखटुकताविवर्जनतया । यानसमचित्तेन गुरुभारवहनतया । नागसमचित्तेन दान्ताजानेयचित्ततया । शैलसमचित्तेन अचलाकम्प्यतया । श्वसमचित्तेन अक्रोधनतया । चण्डालकुमारकसमचित्तेन निर्माननिरहंकारतया । छिन्नविषाणर्षभसमचित्तेन सर्वदर्पविगतेन । अन्तेवासिसमचित्तेनानतिमानतया । नौसमचित्तेन गमनागमनापरिखिन्नतया । सेतुसंक्रमचित्तेन कल्याणमित्राज्ञोत्तरणतया । सुपुत्रसमचित्तेन कल्याणमित्रमुखोदीक्षणतया । राजकुमारसमचित्तेन धर्मराजाज्ञाप्रतिवहनतया ॥
आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा । आत्मनि च ते कुलपुत्र अध्वगतसंज्ञोत्पादयितव्या, कल्याणमित्रेषु दैशिकसंज्ञोत्पादयितव्या, अनुशासनीषु मार्गसंज्ञा, प्रतिपत्तिषु ( ग्व् 366 ) क्षेत्रदिग्गमनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र पारगसंज्ञोत्पादयितव्या, कल्याणमित्रेषु नाविकसंज्ञा, अनुशासनीषु तीर्थसंज्ञा, प्रतिपत्तिषु नौसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र कर्षकसंज्ञोत्पादयितव्या, कल्याणमित्रेषु भुजगेन्द्रसंज्ञा, अनुशासनीषु वर्षसंज्ञा, प्रतिपत्तिषु शस्यनिष्पत्तिसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र दरिद्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैश्रवणसंज्ञा, अनुशासनीषु धनसंज्ञा, प्रतिपत्तिषु दारिद्र्यापनयनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र अन्तेवासिकसंज्ञोत्पादयितव्या, कल्याणमित्रेष्वाचार्यसंज्ञा, अनुशासनीषु शिल्पसंज्ञा, प्रतिपत्तिष्वधिगमनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र अभीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र वणिक्संज्ञोत्पादयितव्या, कल्याणमित्रेषु कर्णधारसंज्ञा, अनुशासनीषु रत्नसंज्ञा, प्रतिपत्तिषु रत्नग्रहणसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र सत्पुत्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु मातापितृसंज्ञा, अनुशासनीषु कुलवृत्तिसंज्ञा, प्रतिपत्तिषु वृत्त्यविप्रणाशसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र राजकुमारसंज्ञोत्पादयितव्या, कल्याणमित्रेषु धर्मराजाग्रामात्यसंज्ञा, अनुशासनीषु राजशिक्षा, प्रतिपत्तिषु ज्ञानराजमकुटालंकारधर्मपट्टशिरोबन्धनधर्मराजनगरव्यवलोकनसंज्ञोत्पादयितव्या । एवं चित्तसंज्ञामनसिकारपरिभावितेन कुलपुत्र कल्याणमित्राण्युपसंक्रमितव्यानि
। तत्कस्य हेतोः? एवं कल्याणमित्राध्याशयपरिशुद्धा हि कुलपुत्र बोधिसत्त्वाः कल्याणमित्राज्ञासु प्रतिपद्यमाना विवर्धन्ते सर्वकुशलमूलैः हिमवत्संनिश्रिता इव तृणगुल्मौषधिवनस्पतयः । भाजनीभवन्ति सर्वबुद्धधर्माणां महासागर इव जलस्य । आकरीभवन्ति सर्वगुणानां महासमुद्र इव रत्नानाम् । उत्तापयन्ति बोधिचित्तं सुवर्णमिवाग्निसंतापे । अभ्युद्गता भवन्ति लोकात्, सुमेरुरिव सागरात् । अनुपलिप्ता भवन्ति लोकधर्मैः, पद्ममिव जलेन् । संवसन्ति सर्वदुश्चरितैः, महासागर इव पूतिकुणपेन । विवर्धन्ते शुक्लधर्मैः, चन्द्र इव शुक्लपक्षे । अवभासयन्ति धर्मधातुं सूर्य इव जम्बुद्वीपम् । प्रवर्धयन्ति बोधिसत्त्वप्रणिधानशरीराणि कुमारका इव मातृपितृनिश्रिताः । संक्षिप्तेन कुलपुत्र कल्याणमित्रानुशासनीषु प्रतिपन्ना बोधिसत्त्वा दशानभिलाप्यगुणकोटीनियुतशतसहस्राणि प्रतिगृह्णन्ति । दशाध्याशयकोटीनियुतशतसहस्राणि परिशोधयन्ति । दश बोधिसत्त्वेन्द्रियकोटीनियुतशतसहस्राणि विवर्धयन्ति । दशाधिष्ठानकोटीनियुतशतसहस्राणि विशोधयन्ति । चरणीयधर्मासंख्येयशतसहस्राणि परिशोधयन्ति । दश मारासंख्येयशतसहस्राणि समतिक्रामन्ति । दश धर्ममुखद्वारासंख्येयशतसहस्राणि प्रतिवसन्ति । दशसंभारविशुद्धिमुखासंख्येयकोटीनियुतशतसहस्राणि परिपूरयन्ति । दश चर्यासंख्येयशतसहस्राणि परिपूरयन्ति । दश चर्यासंख्येयशतसहस्राणि पर्यवदापयन्ति । दश महाप्रणिधानासंख्येयशतसहस्राण्यभिनिर्हरन्ति । संक्षिप्तेन कुलपुत्र सर्वबोधिसत्त्वचर्याः सर्वबोधिसत्त्वपारमिताः सर्वबोधिसत्त्वभूमयः सर्वबोधिसत्त्वसमाधिमुखानि सर्वबोधिसत्त्वाभिज्ञाज्ञानविकुर्वितानि सर्वबोधिसत्त्वधारणीप्रतिभानालोकाः, ( ग्व् 367 ) सर्वबोधिसत्त्वपरिणमनाज्ञानाभिज्ञाप्रमाणताः, सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराः, सर्वबुद्धधर्मप्रतिलम्भपरिनिष्पत्तयः
कल्याणमित्राधीनाः कल्याणमित्रमूलाः कल्याणमित्रप्रभवाः कल्याणमित्रयोनिकाः कल्याणमित्रायद्वाराः कल्याणमित्रसंजाताः कल्याणमित्रसंवर्धिताः कल्याणमित्रप्रतिष्ठानाः कल्याणमित्रहेतुकाः कल्याणमित्रप्रभूताः ॥
अथ खलु सुधनः श्रेष्ठिदारकः इमामेवंरूपां कल्याणमित्रागुणवर्णानुशासनीं बोधिसत्त्वचर्याप्रमाणतां बुद्धधर्मविस्तीर्णतां च श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः श्रीसंभवस्य दारकस्य श्रीमत्याश्च दारिकायाः पादौ शिरसाभिवन्द्य श्रीसंभवं दारकं श्रीमतीं दारिकां च अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य श्रीसंभवस्य दारकस्य श्रीमत्याश्च दारिकाया अन्तिकात्प्रक्रान्तः
मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0