भाषा

ENहिગુ
ग्रंथ पाठ

गण्डव्यूहसूत्र · अध्याय 20

20.1

43 गोपा ।
अथ खलु सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकादपक्रम्य येन कपिलवस्तु महानगरं तेनोपसंक्रम्य एतमेवाप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् विपुलीकुर्वन् अनुतिष्ठन् उत्तापयन् परिजयन् परिचिन्तयन् प्रविचिन्वन् अनुपूर्वेण येन धर्मधातुप्रतिभासप्रभो बोधिसत्त्वसंगीतिप्रासादस्तेनोपसंक्रामत् । तस्योपसंक्रमणस्य अशोकश्रीर्नाम बोधिसत्त्वसंगीतिप्रासाददेवता दशभिर्गृहदेवतासहस्रैः सार्धं प्रत्युद्गम्य सुधनं श्रेष्ठिदारकमेवमाह - स्वागतं ते महापुरुष महाप्रज्ञाज्ञानविक्रामिन् अचिन्त्यबोधिसत्त्वविमोक्षभावनाध्यालम्बनप्रणिधिचित्तविपुलधर्मविमानगोचरचारिन् धर्मनगराभिमुख अनन्तबोधिसत्त्वोपायनयावतारणाप्रतिप्रस्रब्धतथागतगुणसागरावभासप्रतिलब्ध सर्वजगद्विनयप्रतिभासप्रतिभानज्ञानाभिमुखसर्वसत्त्वचर्याज्ञानकायमन्त्रानुवर्तन चर्याभिमुखचित्त सर्वजगद्वेदनाप्रीतिसमुद्रवेगविवर्धनप्रणिधान सर्वतथागतधर्मप्रतिवेधमार्गप्रतिपन्न । यथा त्वां पश्यामि अनिमिषनेत्रगम्भीरचर्येर्यापथविशुद्धगोचरम्, नचिरेण त्वमनुत्तरतथागतकायवाक्चित्तालंकारविशुद्धिं प्रतिलब्धो लक्षणानुव्यञ्जनप्रतिमण्डितेन कायेन दशबलज्ञानालोकालंकृतेन चित्तेन लोकं विचरिष्यसि । यादृशीं च ते दृढवीर्यपराक्रमतां पश्यामि, नचिरेण त्वं सर्वत्र्यध्वतथागतसंमुखीभावदर्शनसमङ्गी सर्वतथागतधर्ममेघान् संप्रतीच्छन् सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्तिशान्तधर्मविमानरतिमनुभवन् गम्भीरं बुद्धविमोक्षमनुप्रवेक्ष्यसि । तथा हि त्वं कल्याणमित्रोपसंक्रमणदर्शनपर्युपासनानुशासनीः संप्रतीच्छंस्तद्गुणप्रतिनयेषु प्रयुज्यमानो न परिखिद्यसे, न विनिवर्तसे, न परितपसि । न च ते कश्चिदन्तरायो वा आवरणं वा निवरणं वा प्रसहते, मारा वा मारकायिका वा देवताः । तेन अचिरादेव त्वं सर्वसत्त्वानां प्रीतिकरो भविष्यसि ॥
एवमुक्ते सुधनः श्रेष्ठिदारको ऽशोकश्रियं बोधिसत्त्वसंगीतिप्रासाददेवतामेतदवोचत् - तथास्तु देवते यथा वदसि । अहं खलु देवते सर्वसत्त्वक्लेशसंतापव्युपशमेन परमां प्रीतिं विन्दामि । सर्वसत्त्वविषयकर्मविपाकविनिवर्तनेन सर्वसत्त्वसुखसंभवेन सर्वसत्त्वानवद्यकर्मप्रतिपत्त्या परमां प्रीतिं विन्दामि । यदा च देवते सत्त्वा विविधविषयकर्मक्लेशप्रयोगाक्षिप्तचित्ता दुर्गतिषु प्रपतन्ति सुगतिषु वा, विविधानि कायिकचैतसिकानि दुःखदौर्मनस्यानि प्रत्यनुभवन्ति, दुर्मनसस्तस्मिन् समये बोधिसत्त्वा भवन्ति परमदुर्मनसः । तद्यथापि नाम देवते पुरुषस्यैकान्ततृष्णाचरितस्य एकपुत्रको भवेत् प्रियो मनापः । स तस्याङ्गप्रत्यङ्गेषु च्छिद्यमानेषु एकान्ततृष्णाचरितत्वात् परमदुर्मनाः स्यादनात्तमनस्कः, एवमेव देवते बोधिसत्त्वो बोधिसत्त्वचारिकां चरन् सत्त्वान् कर्मक्लेशवशेन तिसृषु दुर्गतिषु पतितान् दृष्ट्वा दुर्मना भवति परमदुर्मनाः । यस्मिन् वा पुनः समये सत्त्वाः कायवाङ्भनःसुचरितसमादनहेतोः कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते, देवमनुष्यगतिषु च कायिकचैतसिकानि सुखानि प्रत्यनुभवन्ति, परमसुखी तस्मिन् समये बोधिसत्त्वो भवति सुमना आत्तमनस्कः प्रमुदितः ( ग्व् 301 ) प्रीतिसौमनस्यजातः । न खलु पुनर्देवते बोधिसत्त्वा आत्मार्थाय सर्वज्ञतामभिप्रार्थयन्ते । न विचित्रसंसाररतिसुखप्रभवनार्थं न कामधातुपर्यापन्नं विविधरतिव्यूहप्रार्थनया संज्ञाचित्तदृष्टिविपर्यासवशेन न संयोजनबन्धनानुशयपर्यवस्थानवशगताः । न तृष्णादृष्टिवशगताः, न विविधसत्त्वसंसर्गरतिसंज्ञाविनिबद्धचेतसः, न ध्यानरतिसुखास्वादपरिगृद्धाः, न विविधावरणावृताः संसारगतिषु परिवर्तन्ते । अपि तु खलु पुनर्देवते बोधिसत्त्वा भवसमुद्रगतानामपरिमितदुःखप्रपीडितानां सत्त्वानामन्तिके महाकरुणां संजनयित्वा सर्वजगत्संग्रहमहाप्रणिधिमभिनिर्हरन्ति । ते महाकरुणाप्रणिध्यभिनिर्हारबलवेगेन सत्त्वपरिपाकविनयप्रयुक्ताः संसारे बोधिसत्त्वचर्यां चरन्तः संदृश्यन्ते । ते सर्वसत्त्वनां सर्वावरणसर्वज्ञताज्ञानं पर्येषमाणाः सर्वतथागतपूजोपस्थानप्रणिधिमभिनिर्हरन्ति । ते तथागतपूजोपस्थानप्रणिधिवशैर्न परिखिद्यन्ते बोधिसत्त्वचर्यायाम् । ते बोधिसत्त्वचर्यां चरन्तः संक्लिष्टानि क्षेत्राणि संपश्यन्तः सर्वबुद्धक्षेत्रपरिशोधनप्रणिधिमभिनिर्हरन्ति
संक्लिष्टान् क्षेत्रसागरान् परिशोधयमानाः सर्वसत्त्वानामायतननानात्वं संपश्यमानाः । अनानात्वानुत्तरधर्मकायपरिशुद्धये प्रणिधिमभिनिर्हरन्ति संक्लिष्टकायवाक्चित्ततां सत्त्वानां संपश्यमानाः । सर्वसत्त्वकायवाक्चित्तालंकारपरिशुद्धये प्रणिधिमभिनिर्हरन्ति । विकलायतनानपरिशुद्धचेतसः सर्वान् संपश्यमानाः सर्वसत्त्वचित्तचरितानि परिशोधयमाना बोधिसत्त्वचर्यां चरन्तो न परिखिद्यन्ते । एवं हि देवते बोधिसत्त्वा अनन्तमध्यां बोधिसत्त्वचर्यां चरन्तो ऽपरिखिन्नचित्ताः । एवं चरन्तो ऽलंकारभूता भवन्ति सदेवकस्य लोकस्य देवमनुष्यसंपत्तिसंजननतया । मातापितृभूता भवन्ति बोधिसत्त्वोत्पादप्रतिष्ठापनतया । धात्रीभूता भवन्ति बोधिसत्त्वमार्गावतरणतया । नित्यानुबद्धसहजदेवता भवन्ति दुर्गतिप्रपातभयारक्षणतया । महादाशभूता भवन्ति संसारसमुद्रोत्तारणतया । शरणभूता भवन्ति सर्वमारक्लेशभयविनिवर्तनतया । परायणभूता भवन्ति अन्तपरमशीतिभावोपनयनतया । तीर्थभूता भवन्ति सर्वबुद्धसमुद्रावतरणया । संग्राहकभूता भवन्ति धर्मरत्नद्वीपोपनयनतया । पुष्पभूता भवन्ति सर्वबुद्धगुणसंपुष्पितचित्ततया । अलंकारभूता भवन्ति विपुलपुण्यज्ञानप्रभाप्रमुञ्चनतया । परमप्रीतिकरा भवन्ति समन्तप्रासादिकतया । अभिगमनीया भवन्ति अनवद्यकर्मप्रतिपत्त्या । समन्तभद्रा भवन्ति सर्वाकारवराङ्गसुपरिपूर्णकायतया । असेचनकरूपा भवन्ति अप्रतिकूलदर्शनतया । अवभासकरा भवन्ति ज्ञानरश्मिप्रमुञ्चनतया । आलोककरा भवन्ति धर्मप्रदीपधारणतया । प्रद्योतकरा भवन्ति बोध्याशयपरिशोधनतया । सेनापतिभूता भवन्ति मारकर्मविनिवर्तनतया । सूर्यभूता भवन्ति प्रज्ञारश्मिजालप्रभाप्रमुञ्चनतया । चन्द्रभूता भवन्ति गगनबुद्धिचन्द्रोदागमनतया । मेघभूता भवन्ति सर्वजगन्महाधर्ममेघाभिप्रवर्षणतया । एवं खलु देवते प्रतिपद्यमाना बोधिसत्त्वाः प्रिया भवन्ति सर्वसत्त्वानाम् ॥

अथ खलु अशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता सार्धं तैर्दशभिः गृहदेवतासहस्रैः सुधनं श्रेष्ठिदारकं दिव्यसमतिक्रान्तैः मनोमयैः पुष्पमाल्यगन्धचूर्णविलेपनरत्नाभरणवर्षैः प्रवृष्य अनुपरिवार्य बोधिसत्त्वभवनं प्रविशन्तमाभिर्गाथाभिरभ्यष्टावीत् -
उत्पद्यन्ते जिना लोके कदाचि ज्ञानभास्कराः ।
संबोधौ चित्तमुत्पाद्य सर्वसत्त्वानुकम्पया

20.2

बहुभिः कल्पनयुतैः दुर्लभं तच्च दर्शनम् ।
अविद्यान्धस्य लोकस्य ज्ञानसूर्यो महानसि

20.3

दृष्ट्वा लोकं विपर्यस्तमज्ञानतिमिरावृतम् ।
महाकृपां संजनय्य प्रस्थितो ऽसि स्वयंभुताम्

20.4

विशुद्धेनाशयेन त्वं बुद्धबोध्यर्थमुद्यतः ।
कल्याणमित्रं भजसे ऽनपेक्षः कायजीविते

20.5

न निश्रयस्ते लोके ऽस्मिन्न निकेतो न संस्तवः ।
अनालयो ऽस्य संकीर्णो निःसङ्ग गगनाशयः

20.6

बोधिचर्यां चरस्यग्रां पुण्यमण्डलसुप्रभः ।
उदयास्तमिते लोके ज्ञानरश्मिप्रमुञ्चनः

20.7

लोकान्न चैवोच्चलसि लोकधर्मैर्न लिप्यसे ।
असङ्गश्चरसे लोके मारुतो गगने यथा

20.8

कल्पोद्दाहे यथा वह्निः प्रदीप्तः सततोद्यतः ।
अग्निकल्पेन वीर्येण चरसे बोधिचारिकाम्

20.9

सिंहकल्प महावीर दृढवीर्यपराक्रमः ।
ज्ञानविक्रमसंपन्नस्त्वं चरस्यपराजितः

20.10

धर्मधातुसमुद्रे ऽस्मिन् ये केचिन्नयसागराः ।
सन्मित्रसेवया शूर त्वं तानवतरिष्यसे

20.11

अथ खल्वशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता सुधनं श्रेष्ठिदारकमाभिर्गाथाभिरभिष्टुत्य गच्छन्तं पृष्ठतः समनुबध्नाति स्म धर्मकामतया । अथ खलु सुधनः श्रेष्ठिदारको धर्मधातुप्रतिभासप्रभबोधिसत्त्वसंगीतिप्रासादमुपसंक्रम्य अनुप्रविश्य समन्तादनुविलोकयामास गोपायाः शाक्यकन्याया दर्शनकामः । सो ऽपश्यद्गोपां शाक्यकन्यां धर्मधातुप्रतिभासप्रभस्य बोधिसत्त्वसंगीतिप्रासादस्य मध्ये सर्वबोधिसत्त्वस्य गृहावसनप्रतिभासमणिपद्मगर्भासननिषण्णां स्त्रीणां चतुरशीत्या सहस्रैः परिवृतां सर्वासां पार्थिवकुलसंभवानां पूर्वबोधिसत्त्वचर्यासभागकुशलमूलानां पूर्वदानसंग्रहसंगृहीतानां श्लक्ष्णमधुरवचनसमुदाचाराणां सर्वज्ञतार्थाभिमुखसुखसंगृहीतानां बुद्धबोधिसत्त्वसमुदागमसमानार्थतया सुसंगृहीतानां महाकरुणापूर्वंगमपुत्रदारपरिग्रहसुसंपरिगृहीतानां महामैत्र्युपेतस्वदारानुवर्तनपरिशोधितानां पूर्वबोधिसत्त्वाचिन्त्योपायकौशल्यपरिपरिपाचितानाम् । सर्वाणि च तानि चतुरशीतिस्त्रीसहस्राण्यवैवर्तिकान्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वपारमितानयावतीर्णानि सर्वबोधिसत्त्वशिक्षासु अपरप्रणेयानि सर्वग्रहविगतचितानि सर्वसंसाररतिविरतमानसानि असङ्गधर्मधातुनयपरिशुद्धानि सर्वज्ञताभिमुखचित्तवेगानि ( ग्व् 303 ) सर्वनिवरणावरणजालविगतानि सर्वाङ्गपथसमतिक्रान्तानि धर्मकायसुनिर्मितविचाराणि सर्वलोकपरिपाकविनयाभिमुखानि विपुलपुण्यसमुद्रसंभूतचित्तानि समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातानि विपुलबोधिसत्त्वबलवेगसंवर्धितानि ज्ञानसूर्यमण्डलचित्तप्रदीपानि ॥
अथ खलु सुधनः श्रेष्ठिदारको येन गोपा शाक्यकन्या तेनोपसंक्रम्य गोपायाः शाक्यकन्यायाः क्रमतलयोः सर्वशरीरेण प्रणिपत्य उत्थाय पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वाः संसारे संसरन्ति, संसारदोषैश्च न लिप्यन्ते । सर्वधर्मसमतास्वभावं चावबुध्यन्ते । श्रावकप्रत्येकबुद्धभूमौ न च प्रतिष्ठन्ते । बुद्धधर्मावभासप्रतिलब्धाश्च भवन्ति । बोधिसत्त्वचर्यां न च व्यवच्छिन्दन्ति । बोधिसत्त्वभूमौ च प्रतिष्ठिता भवन्ति । सर्वतथागतविषयं च संदर्शयन्ति । सर्वलोकगतिसमतिक्रान्ताश्च भवन्ति । सर्वलोकगतिषु चोपविचरन्ति । धर्मकायपरिनिष्पन्नाश्च भवन्ति । अनन्तवर्णांश्च रूपकायानभिनिर्हरन्ति । अलक्षणधर्मकायपरायणाश्च भवन्ति । सर्वजगद्वर्णसंस्थानांश्च कायानादर्शयन्ति । अनभिलाप्यांश्च सर्वधर्मानवरन्ति । सर्ववाक्पथनिरुक्त्युदाहारैश्च सत्त्वानां धर्मं देशयन्ति । निःसत्त्वांश्च सर्वधर्मान् प्रजानन्ति । सत्त्वधातुविनयप्रयोगाच्च न विनिवर्तन्ते । अनुत्पादानिरोधांश्च सर्वधर्मानवतरन्ति । सर्वतथागतपूजोपस्थानप्रयोगाच्च न विनिवर्तन्ते । अकर्मविपाकांश्च सर्वधर्मानवतरन्ति कुशलकर्माभिसंस्कारप्रयोगाच्च न विनिवर्तन्ते ॥
एवमुक्ते गोपा शाक्यकन्या सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वं बोधिसत्त्वानामिमामेवंरूपां चर्यां धर्मतां परिप्रष्टव्यां मन्यसे, यथापि तत्समन्तभद्रप्रणिधानचर्याभिमुखस्य अयं प्रश्नोदाहारः । तेन हि कुलपुत्र शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये बुद्धानुभावेन । दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्त्वा इमामेवंरूपामिन्द्रजालतलोपमां समन्तज्ञानप्रभां बोधिसत्त्वचर्यां परिपूरयन्ति । कतमैर्दशभिः? यदुत उदारकल्याणमित्रसंनिश्रयेण विपुलाधिमुक्तिप्रतिलाभेन उदारकल्याणाशयविशुद्ध्या विपुलपुण्यज्ञानसमुद्रोपस्तब्धचित्ततया बुद्धोत्पत्तिसंभवमहाधर्मनिर्देशश्रवणप्रतिलाभेन त्र्यध्वतथागताधिमुक्तिचेतनासंवासेन सर्वबोधिसत्त्वचर्यामण्डलसमतानुगमेन सर्वतथागताधिष्ठानप्रतिलाभेन प्रकृतिमहाकरुणाध्याशयविशुद्ध्या सर्वसंसारचक्रोपच्छेदचित्तबलाधानप्रतिलाभेन । एभिः कुलपुत्र दशभिर्धर्मैः समन्वागता इमामेवंरूपामिन्द्रजालतलोपमां समन्तज्ञानप्रभां बोधिसत्त्वचर्यां परिपूरयन्ति ॥
तत्र कुलपुत्र अविवर्त्यवीर्या बोधिसत्त्वा एतान् धर्मान् प्रतिलभ्य अक्षयाकाराभिनिर्हारेण भावयन्तो बहुलीकुर्वन्तः कल्याणमित्राण्याराग्य दशभिराकारैरभिराधयन्ति । कतमैर्दशभिः? यदुत कायजीवितानपेक्षतया संसारोपकरणानर्थिकतया सर्वधर्मस्वभावसमतानुगमेन सर्वज्ञताप्रणिधानाविवर्त्यतया सर्वधर्मधातुनयव्यवलोकनतया सर्वभवसमुद्रोच्चलितमानसतया अनालयधर्मगगनप्रविष्टानालयतया सर्वबोधिसत्त्वप्रणिधानानावरणतया सर्वक्षेत्रसागरप्रसरणतया ( ग्व् 304 ) अनावरणबोधिसत्त्वज्ञानमण्डलसुपर्यवदापिततया । एभिः कुलपुत्र दशभिराकारैर्बोधिसत्त्वाः कल्याणमित्राण्यारागयित्वा अभिराधयन्ति ॥
अथ खलु गोपा शाक्यकन्या एतमेवार्थनयं संदर्शयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत -
ये प्रस्थितामलविशालधियः परार्थाः सन्मित्रसेवनपरा गतशाठ्यमायाः ।
शास्तृत्वसंज्ञप्रतिलब्ध अखिन्नवीर्याश्चर्येन्द्रजालसदृशी चरतेष लोके

20.12

अधिमुक्ति येष विपुला गगनप्रकाशा यस्यां समोसरति सर्वत्रियध्वलोकः ।
क्षेत्राश्च सत्त्व तथ धर्म तथैव बुद्धास्तेषामियं चरिय ज्ञानप्रभंकराणाम्

20.13

येषाशयो गगनकल्प अनन्तमध्यः संक्लेशनिर्मलतया परमं विशुद्धः ।
ये ऽत्रोद्भवन्ति गुण सर्वतथागतानां चर्येन्द्रजालतलभेदसमाहितानाम्

20.14

सर्वज्ञज्ञानविपुलैरमितैरचिन्त्यैरुपस्तब्ध ये गुणमहोदधिभिः सुमेधाः ।
ते पुण्यसागरशरीरविशुद्धगर्भा लोके चरन्ति न च लोकमलेन लिप्ताः

20.15

सर्वस्वराङ्गरुतघोषनयैर्जिनानां ये धर्मगर्जित शृणोन्त न यानि तृप्तिम् ।
धर्मं नयानुगतप्रज्ञप्रभप्रदीपास्तेषामियं जगप्रदीपकराण चर्या

20.16

ये ते दशद्दिशि तथागत अप्रमेयान् सर्वत्र चित्तक्षणि ओतरि अन्यमन्यान् ।
सर्वांस्तथागतसमुद्र विचिन्तयन्ति बुद्धाशयाननुगतानमयं प्रवेशः

20.17

पश्यन्ति ये परिषदो विपुला जिनानां तेषां समाधिनयसागरमोतरन्ति ।
प्रणिधानसागरनयं च अनन्तमध्यं तेषामिदं चरितमिन्द्रतलोपमानाम्

20.18

ये ऽधिष्ठिता दशसु दिक्षु जिनैरशेषैः । कल्पांश्चरन्त्यनपरान्तसमन्तभद्राः ।
सर्वत्र क्षेत्रप्रसरे प्रतिभासप्राप्तास्तेषामियं चरिय धर्मप्रभंकराणाम्

20.19

ये ते महाकरुणमण्डलज्ञानसूर्या दृष्ट्वा जगद्व्यसनप्राप्तमुदेन्ति धीराः ।
धर्माभया जगति मोह विधूय तेषामियं चरि दिवाकरसादृशानाम्

20.20

दृष्ट्वा प्रजां भवगतौ परिवर्तमानां संसारस्रोतप्रविलोमस्थिताः सुमेधाः ।
सद्धर्मचक्रममितं समुदानयन्तश्चर्यासमन्तवरभद्रमतिं चरन्ति

20.21

ते ऽत्र शिक्षित नयेहि अनन्तमध्यान् कायान् यथाशय जगत्युपदर्शयित्वा ।
प्रतिभासबिम्बसदृशैरपि तैः स्वकायैः परिपाचयन्ति जनतां भवसागरेषु

20.22

मैत्रीनयैः सुविपुलैर्जनतां स्फरित्वा नानाधिमुक्तिषु जनेषु चरिं विदर्श्य ।
धर्मं यथाशय जगत्यभिवर्षमाणा बोधाय सत्त्वनयुतान् विनयन्ति धीराः

मूल पाठ: Gaṇḍavyūhasūtra · Edition: P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc