Fragments · अध्याय 1
(अष्टाक्, अ fओल्. 97)
रेच्तो
1 समाधिः अरणसरणसर्वसमवसरणो नाम समाधिः अनिलानिकेतरतिर् नाम समाधिः तथतास्थितनिश्चित्तो नाम समाधिः कायकलिप्रमथनो नाम समाधिः वाक्कलिविधवंसन ग गनकल्पो
2 नाम समाधिः आकाशसंगम्विमुक्तनिरुपलेपो नाम समाधिः इमे ते ह्य् आवुस शारद्वतीपुत्र समाधयो बोधिसत्वानां महासत्वानां येषु खलु समाधिषु विहरमाणो
3 बोधिसत्वो महासत्वो क्षिप्रम् अनुत्तरां संयक्संबोधिम् अभिसंबोत्स्यति । अन्यानि चाप्रमेयाण्य् असंख्येयानि समाधिमुखानि धारणिमुखानि च । यत्र शिक्षमाणाः बोधिसत्वा महासत्वाः
4 क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ति । अथायुष्मां सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्* व्याकृतो बतायम् आवुस शारद्वतीपुत्र बोधिसत्वो महासत्वो वेदितव्यः
5 पूर्वकैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ ये ऽप्य् एतर्हि दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तथागताः अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति यापय न्ति
6 ते ऽपि तथागतास् तं बोधिसत्वं महासत्वं इदानीं व्याकुर्वन्ति । यः खल्व् इमेषु समाधिषु विहरति न च क ञ्चित् समा धिं समनुपश्यति । न चैतेभिः समाधि भिर् मन्यते इ मे
7 पुनर् बोधिसत्वा असमापन्ना । अहं पुनः समापन्नः समापद्यामि समापत्स्यामि च । सर्वे ते तस्य खलु वि तर्का न संविद्यन्ते न प्रवर्तन्ते । एवम् उक्तायु ष्मां शारद्वतीपु त्रा युष्मन्तं
8 सुभूतिम् एतद् अवोचत्* तत् किं पुनर् आवुस सुभूते तत्र स माधिषु स्थितो बोधिसत्वो महासत्वः व्याकृतो वेदि तव्यः पूर्वकैस् तथागतैर् ये चैतर्हि तिष्ठन्ति दशसु दिक्षु गं गानदीवा लि कासमेषु
9 लोकधातुषु तथागतास् तिष्ठन्ति । यापयन्ति । आह नो इत्य् आवुस शारद्वतीपुत्र तत् कस्माद् धेतोर् न ह्य् आवुस शारद्वतीपुत्र अन्या प्रज्ञापारमिता अन्यः समाधि र् अन्यो बो धि सत्वो
10 महासत्वः बोधिसत्व एव समाधिः समाधिर् एव बोधिसत्वश् च समाधिश् च प्रज्ञापारमिता आह : यद्य् आ वुस सुभूते नान्यः समाधि र् अन्यो बोधिसत्वः सम् आधिर् एव बो धि सत्वः
11 बोधिसत्व एव समाधिः यदि च समाधिर् यश् च बोधिसत्वस् तौ खलु प्रज्ञापारमिता । तन् न पुनः सर्वधर्मसमतां समाधिना जाना ति नापि संजानाति । आह : अने नैवावुस
वेर्सो
1 शारद्वतीपुत्र पर्यायेण बोधिसत्वो महासत्वः तां सर्वधर्मसमतां तेन समाधिना न जानाति । नापि संजानाति तत् कस्माद् धेतोर् आह : अविद्यामानत्वाद् एव तस्य बोधिसत् वस्य तस्य
2 च समाधेस् तस्याश् च प्रज्ञापारमितायाः न जानाति नापि संजानाति । अथ भगवान् आयुष्मते सुभूतये साधुकारम् अदासीत् साधु साधु सुभूते : सुभाषितेषा वाक् यथापि :
3 त्व मया अरणाविहारिणां श्रावकानाम् अग्रताया निर्दिष्टः तस्य ते प्रतिरूपो ऽयम् उपदेशः एवं च बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता शिक्षितव्यं । ए वं ध्यान पा रमितायां
4 वीर्यपारमितायां । क्षान्तिपारमितायां । शीलपारमितायां । दानपारमितायां शिक्षितव्यं । एवं स्मृत्युपस्थानेषु शिक्षितव्यं । यावद् आर्याष्टंगमा र्गे दश सु
5 तथागतबलेषु । पेयालं यावद् अष्टादशस्व् आवेदनिकेषु बुद्धधर्मेषु शिक्षितव्यम् इति । अथायुष्मां शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्* एवं शि क्षमाणो भद न्त
6 भगवन् बोधिसत्वो महासत्वः प्रज्ञापारमितायां शिक्षति । भगवान् आह : एवं शिक्षमाणः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां शिक्षति
7 तच् चानुपलंभयोगेन । एवं यावद् दानपारमितायां शिक्षति । पेयालं । एवं शिक्षमाणः स्मृत्युपस्थानेषु शिक्षति । यावद् एवं शिक्षमाणो यावद् अष्टाद शव् आवेद नि केषु
8 बुद्धधर्मेषु शिकति । तच् चानुपलंभयोगेनेति । अथायुष्मां शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्* एवं शिक्षमाणो भदन्त भगवन् बोधिसत्वो महासत्वः प्रज्ञापारमिता यां
9 शिक्षत्य् अनुपलंभयोगेनेति । भगवान् आह: एवं शिक्षमाणः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां शिक्षत्य् अनुपलंभयोगेनेति । आह : किं भदन्त
10 भगवन् नोपलभते । भगवान् आह : आत्मानं नोपलभते । सत्वं नोपलभते । यावज् जानकपश्यकं नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । तथा स्कन्धान् नोपलभते धातू न्
11 नोपलभते ह्य् आयतनानि नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । तथा अविद्यान् नोपलभते यावज् जरामरणं नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । एवं
(अष्टाक्, अ fओल्. 98)
रेच्तो
1 दुःखं नोपलभते । समुदयं निरोधं मार्गं नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । एवं कामधातुं रूपधातुम् आरूप्यधातुम् न्ःपलभते । अत्य्नतविशुद्धिताम् उपादाय ।
2 तथा स्मृत्युपस्थानानि नोपलभते । यावद् आर्याष्टाङ्गं मार्गं नोपलभते अत्यन्तविशुद्धिताम् उपादाय । तथा दश तथागतबलानि नोपलभते । यावद् अष्टादशावेदनिकान् –अष्टादशावेणिकान्
3 बुद्धधर्मान् नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । षट् पारमितां नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । श्रोतापन्नं नोपलभते अत्यन्तविशुद्धिताम् उपादाय । एवं
4 सकृदागामिनम् अनागामिनम् अर्हन्तं नोपलभते । अत्यन्तविशुद्धिताम् उपादाय । प्रत्येकबुद्धं नोपलभते बोधिसत्वं नोपलभते तथागतं नोपलभते अत्यन्तविशुद्धि ताम् उपा दा येति ।
5 अथायुष्मां शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् किं असौ भ दन्त भगवन् विशुद्धिर् भ गवान् आह : अनुत्पादः सर्वधर् माणाम् एवम् अनिरोधो अ संक्लेशो
6 अव्यवदानम् अप्रादुर्भावो अनुपलंभो अनभिसंस्कारः सर्वधर्माणाम् एषा सा विशुद्धिर् इति । आह : एवं पुनर् भदन्त भगवन् शिक्षमाणो बोधिसत्वो महासत्वः
7 कतमेषु धर्मेषु शिक्षितो भवति भगवान् आह : एवं शिक्षमाणः शारद्वतीपुत्र बोधिसत्वो महासत्वः न क्वच् इद् धर्मेषु शिक्षितो भवति । तत् कस्माद् धेतोर् न ह्य् एते शारद्वतीपु त्र
8 धर्मास् तथा संविद्यन्ते । यथा ह्य् एते बालपृथग्जना ह्य् अभिनिविष्टाः आह : कथं पुनर् भदन्त भगवन्न् एते धर्माः संविद्यन्ते । यथा ह्य् एते बालपृथग्जना ह्य् अभिनिवि ष्टा इ ति ।
9 भगवान् आह : यथा न संविद्यन्ते । तथा संविद्यन्ते । एवम् असंविद्यमाना ह्य् उच्यन्ते अविद्या : आह : किं ते भदन्त भग वन्न् अ संविद्यमाना उच्यन्ते अविद्या ।
10 भगवा न् आ ह : रूपं शारद्वतीपुत्र न संविद्यते अध्यात्मशून्यताम् उपादाय । यावद् अभावस्वभाव शून्यताम् उपादाय । एवं वेदना संज्ञा संस्कारा विज्ञानं न संविद्यते । अ ध्या त्मशून्यताम्
11 उपादाय । यावद् अभावस्वभावशून्यताम् उपादाय । एवं स्मृत्युपस्थानानि न संविद्यन्ते । पेयालं । यावद् अष्टादशवेदनिका बुद्धधर्मा न संविद्यन्ते *{अष्टादशावेणिका}*
वेर्सो
1 अध्यात्मशून्यताम् उपादाय. यावद् अभावस्वभावशून्यताम् उपादाय । यत्र बालपृथग्जना अविद्यावशेना तृष्णाशाभिनिविष्टास् तेभिर् विद्या कल्पिता : अविद्याभि भूता स्
2 तै ते चोभययोर् अन्तरयोः अन्तयोः सक्ताः यदुतोच्छेदसाश्वतयोस् ते च न जानन्ति न पश्यन्ति । ये च धर्मा न संविद्यन्ते । तान् धर्मान् कल्पयन्ति । कल्पयित्वा च नामरूपे ऽभिनिविष्टाः पेया लं
3 यावद् अष्टादशस्व् आवेदनिकेषु बुद्धधर्मेष्व् अभिनिविष्टाः एव समानाः असंविद्यमानान् धर्मान् परिकल्पयन्ति । ता च न जानन्ति । न पश्यन्ति । किं ते न जानन्ति न पश्यन्ति रूपं न *{आवेदनिकेषु fओर् आवेणिकेषु}*
4 जानन्ति पश्यन्ति । एवं वेदनां संज्ञां संस्कारां विज्ञानं न जानन्ति न पश्यन्ति । पेयालं । यावद् अष्टादशावेदनिकान् बुद्धधर्मान् न जानन्ति न पश्यन्ति । यस्माच् च न जानन्ति न बुध्यन्ति । बा ल पृथग्जना
5 इति संख्यां गच्छन्ति । ते न निर्यान्ति । कुत्र न निर्यान्ति । कामधात्वैश्वर्ये । तथा रूपधाताव् आरूप्यधातौ न निर्यान्ति । श्रावकप्रत्येकबुद्धधर्मेषु न नि र्यान्ति
6 बोधिसत्वधर्मेषु न निर्यान्ति । सम्यक्संबुद्धधर्मेषु न निर्यान्ति । ते च न श्रद्दधन्ति । किं ते न श्रद्दधन्ति । रूपं रूपशून्यतां च न श्रद्दधन्ति । एवं वेदनां वेदनाशू न्यतां च
7 संज्ञां संज्ञाशून्यतां च । संस्कारां संस्कारशून्यतां च । विज्ञानं विज्ञानशून्यतां च न श्रद्दधन्ति । यावद् बुद्धधर्मान् बुद्धधर्मान् [!] न श्रद्दधन्ति । ते च पुनर् न प्रतितिष्ठन्ति । कुत्र न प्र ति तिष्ठन्ति ।
8 दानपारमितायान् न प्रतितिष्ठन्ति । यावन् न प्रज्ञापारमितायान् प्रतितिष्ठन्ति । अवैवर्तिकभूमौ न प्रतितिष्ठन्ति । यावद् अष्टादशस्व् आवेदनिकेषु बुद्धधर्मेषु न प्रतितिष्ठ न्ति ।
9 तेन कारणेन बालपृथग्जना इत्य् उच्यन्ते । अभिनिवेश इति किम् अभिनिविष्टाः खल्व् एते । कुत्राभिनिविष्टाः रूपे ऽभिनिविष्टाः यावद् विज्ञाने ऽभिनिविष्टाः तदा चक्षु ष्व्
10 अभिनिविष्टाः यावन् मनस्व् अभिनिविष्टाः रूपग श ब्दगन्धरसस्पर्शधर्मेष्व् अभिनिविष्टाः तथा धातुष्व् अभिनिविष्टाः रागद्वेषमोहेष्व् अभिनिविष्टाः दृष्टिगतेष्व् अभिनिविष्टाः स्मृत्युप स्था नेष्व्
11 अभिनिविष्टाः पेयालं । यावद् आष्टादशस्व् आवेदनिकेषु बुद्धधर्मेष्व् अभिनिविष्टाः एवम् उक्तायुष्मां शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्* एवं पुनः शिक्षमाणा
अष्टाह्
रेच्तो
1 भगवान् आह सचेत् सुभूते नवयानसंप्रस्थितो बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरमाणो ऽनुपायकुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेद् उत्त्रस्येत् संत्रस्येत् संत्रास म् आपद्येत सुभूतिर् आह कतमद् भगवन्
2 बोधिसत्वस्य । महास त्वस्योपायकौशल्यं यत्र चरमाणो बोधि सत्वो म हासत्व इमं निर्देशं श्रुत्वा
3 नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते भगवान् आ ह । इ ह सुभूते ब् ओधिस त्वो महासत्वः
4 प्रज्ञापारमितायां चरमाणो रूपं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्याकारेण प्रत्य वेक्ष ते
5 तच् च नोपलभ्यते एवं वेदनां संज्ञां संस्कारं विज्ञान ं सर्वाकारज्ञताप्रति संयुक्तेन चित्तेनानित्या का रेण
6 प्रत्यवेक्षते तच् च नोपलभते इदं सुभू ते बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चर म णस्योपायकौशल्यं
7 पुनर् अपरं सुभूते बोधिस त्वो महासत्वः प्रज्ञापारमितायां चरम् आ नः सर्वाकारज्ञ ता प्रति सं युक्तेन
8 चित्तेन रूपं दुःखाकारे ण प्रत्यवेक्षते तच् च नोपलभते एवं वेदनां संज्ञा संस्कारा न्
वेर्सो
1 विज्ञानं दुःखाकारेण प्रत्यवेक्षते तच् च नो पलभते । पेयालं रूपं नैरात्म्याकारेण प्रत्यवेक्षति तच् च नो प लभते
2 एवं वेदनां संज्ञां संस्कारान् विज्ञा नं नैरात्म्याकारेण प्रत्यवेक्षति तच् च नोपलभते । पुनर् अ प रं
3 सुभू ते बो धिसत्वो महासत्वः प्रज्ञापारमि तायां चरमाणः सर्वाकारज्ञताप्रतिसंयुक्तेन चि त्ते न
4 रूपम् अनित्यं प्र त्यवेक्षति तच् च नोपलभते एवं वेदनां संज्ञां संस्कारां विज्ञा नं अनि त्यतः प्रत्यवे क्ष ते
5 तच् च नोपलभते पेयालं रूपम् अनात्मानं प्रत्यवेक्षते तच् च नो पलभ ते । एवं वेदनां संज्ञां सं स्का रं
6 विज्ञानम् अ नात्मा प्र त्यवेक्षते तच् च नोपलभते रूपं अप्रणि हि तं प् रत्यवेक्षते तच् च नोप ल भते
7 एवं वे दनां संज्ञां संस्कारां विज्ञानम् अप्रणिहि तं प्रत्यवेक्षते तच् च नोपलभते
8 इदं सुभूते बोधिसत्वस्य महासत्वस्य प्रज्ञापारम् इ तायां चरमाणस्योपायकौशल्यं
(अष्टाक्, अ fओल्. 102)
रेच्तो
1 दानपारमितायां चरमाणो नोत्त्रसति । न संत्रसति न संत्रासम् आपद्यते । पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चर माणैवं प्र त्यवे क्षति रूपशून्यता य
2 रूपं शून्यं । रूपम् एव शून्यता शून्यतैव रूपम् एवं वेदनां संज्ञां संस्कारं विज्ञानं शून्यताया विज्ञानं शून्यं । विज्ञानम् एव शू न्यता शून्यतैव वि ज्ञानं । एवं चक्षुःशून्यताया
3 चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुर् एवं श्रोत्रं घ्राणं जिह्वा कायः मनःशून्यताया मनः शून्यं मन एव शून्यता शून्यतैव मनः पेया लं यावच् च क्षुःसं स्प र्शप्रत्ययावेदनाशून्यताया
4 चक्षुःसंस्पर्शप्रत्यया वेदना शून्याश् चक्षुसंस्पर्शप्रत्यया वेदनै व शून्यता शून्य तैव चक्षुःसंपर्शप्रत्य या वेदना । ए वं या व त्
5 मनःसम्स्पर्शप्रत्यया वेदना शून्यताया मनःसंस्पर्शप्रत्यया वेदना शून्या । म नःसंस्पर्शप्रत्यया वेदनैव शून्यता शून्यतैव मनः संस् पर्शप्रत्यया
6 वेदना । एवं स्मृत्युपस्थानशून्यताया स्मृत्युपस्थानानि शून्यतानि स्मृत्युपस्थानान्य् एव शून्यता । शून्यतैव स्मृत्युपस्थानानि पेयालं । याव द् बुद्धधर्मशून्य ता या
7 बुद्धधर्मा शून्या । बुद्धधर्मैव शून्यता । शून्यतैव बुद्धधर्माः एवं हि सुभूते बोधिसत्वो म हासत्वः प्रज्ञापारमितायां चरमाण् ओ नोत्त्र स ति न संत्रस ति
8 न संत्रासम् आपद्यति । अथायुष्मां सुभू तिर् भ गवन्त म् एतद् अवोचत् कतमं भदन्त भगवन् बोधिसत्वस्य महासत्वस्य कल्याणमित्रं । येन परिगृहीत इमं प्रज्ञापारमि ता निर्देशं
9 श्रुत्वा न् ओत्त्रसति न संत्रसति न संत्रासम् आपद्यते । ए वम् उक्तो भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् इदं सुभूते बोधिसत्वस्य महासत्वस्य कल्याणमित्रं
10 यद् रूपम् अनित्यम् इति धर्मं देशयति । तच् चानुपलंभयोगेन । एवं वेदनां संज्ञां संस्कारं विज्ञानम् अनित्यम् इति धर्मं दे शयति । तच् चानुपलंभयोगेन । तानि च कुशलमूलानि
11 न श्रावक प्रत्येकबुद्धभूमौ परि णामय ति । अन्यत्र सर्वाकारज्ञतायाम् इदं बोधिसत्वस्य महा सत्वस्य कल्याणमित्रं । पुनर् अपरं सुभूते बोधिसत्व स्य महा सत्वस्य कल्याण मि त्रं
वेर्सो
1 यद् रू पं दुःखम् इति धर्मं देशयति । तच् चानुपलंभयोगेन । एवं वेदनां संज्ञां संस्कारं विज्ञानं दुःखम् इति धर्मं देशयति तच् चानुपलंभयोगेन । तानि च कुशलमूलानि
2 न श्रावकप्रत्येकबुद्धभूमौ परिणामयति । नान्यत्र सर्वाकारज्ञतायाम् इदं बोधिसत्वस्य महासत्वस्य कल्याणमित्रं । पेयालं । रूपम् अनात्मानम् इति । धर्मं देशयति । यावद् विज्ञा नं ।
3 तच् चानुपलंभयोगेन । रूपशून्यताया धर्मं देशयति । एवं यावद् विज्ञानशून्यताया धर्मं देशयति । तच् चानुपलंभयोगेन । एवं रूपानिमित्तया धर्मं देशयति ।
4 यावद् विज्ञानानिमित्ततया धर्मं देशयति । तच् चानुपलंभयोगेन । एवं रूपाप्रणिहिततया धर्मं देशयति । यावद् विज्ञानाप्रणिहिततया धर्मं देशयति । तच् चानुपलंभयो गे न ।
5 एवं रूपशान्ततया रूपविविक्ततया धर्मं देशयति । यावद् विज्ञानशान्ततया विज्ञानविविक्ततया धर्मं देशयति । तच् चानुपलंभयोगेन । तानि च कुशल मू लानि ।
6 न श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाम् इदं बोधिसत्वस्य महासत्वस्य कल्याणमित्रं । पुनर् अपरं सुभूते बो धिसत्वस्य महा स त्वस्य
7 कल्याणमित्रं । यच् चक्षुर् अनित्यम् इति धर्मं देशयति । यावन् मनो ऽनित्यम् इति धर्मं देशयति । पेयालं यावद् यच् चक्षुःसंस्पर्सप्रत्यया वेदनानित्यम् इ ति धर्मं
8 देशयति । एवं यावन् मनःसंस्पर्शप्रत्यया वेदनानित्यम् इति धर्मं देशयति । तच् चानुपलंभयोगेन । तानि च कुशलमूलानि । न श्रावकभूमौ प्रत्येकबुद्धभूमौ वा परिणा म यत्य्
9 अन्यत्र सर्वाकारज्ञतायाम् इदं सुभूते बोधिसत्वस्य महासत्वस्य कल्याणमित्रं । पेयालं । दुःखम् इति । अनात्मानम् इति । यावद् विविक्तम् इति । धर्मं देशयति । तच् चानुपलंभ यो गेन ।
10 तानि च कुशलमूलानि । न श्रावकभूमौ प्रत्येकबुद्धभूमौ वा परिणामयति । अन्यत्र सर्वाकारज्ञतायाम् इदं सुभूते बोधिसत्वस्य महासत्वस्य कल्याणमित्रं । पुनर् अ प रं
11 सुभूते बोधिसत्वस्य महासत्वस्य कल्याणमित्रं । यः स्मृत्युपस्थानभावनायै धर्मं देशयति । यावत् स्मृत्युपस्थानविविक्ततायै धर्मं देशयति । तच् चानुपलंभ योगे
(अष्टाक्, अ fओल्. 104)
रेच्तो
1 क्षितव्यम् इति । तत् कस्माद् धेतोः । नै ता भोः पारमितास् तथा गतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषिताः कविताः कावेयाश् चैताः नैता भोः श्रोतव्याः नोद्ग्रहितव्याः न पर्याप्तव्याः न धार यि तव्याः
2 न वाचयितव्याः न मनसीकर्तव्याः न परेभ्यो देशयितव्याः इदं सुभूते बोधिसत्वस्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अपरं सु भूते बोधिसत्वस्य महा स त्वस्य
3 पापमित्रं यो ऽस्मै मारकर्माणि नोपदिशति । मारदोषांश् च नाचक्षति । इह भो मारः पापीमां बुद्धवेषेणोपसंक्रमित्वा बोधिसत्वं षड्भ्यः पारम् इता भ्यो विवेकयति । किं ते भोः
4 कुलपुत्राणया प्रज्ञापारमितया भावितया । एवं किं ते ध्यानपारमितया । किं वीर्यपारमितया । किं क्षान्तिपारमितया । किं शीलपारमितया । किं ते दानपा रमितया भावितया
5 इदं सुभूते बोधिसत्वस्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अपरं सुभूते मारः पापीमां बुद्धवे षेणोपसंक्रमित्वा तं बोधिसत्वं महास त्वं तस्मै ख लु श्रावक प्र त्येकबुद्धप्रतिसंयुक्तां
6 सूत्रान्तां यावद् अवदानावदेशां देशयति । प्रकाशयति वि भज त्य् उत्ता नीकरोति । संप्रकाशयति । य इमान्य् एवरूपाणि
7 मारकर्माणि नाचक्षतीदं बोधिसत्वस्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अपरं सुभूते मारः पापीमां बुद्धवेषे णोपसंक्रमित्वा बोधिसत्वं महासत्व म् एवं वदति ।
8 न त्वं भो कुलपुत्र बोधिसत्वो न च ते ऽस्ति बोधिचित्तं नापि त्वं ह्य् अवैवर्तिको न च त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुम् इति । य इमान्य् एवरूपाणि मारकर्माणि ना च क्षति
9 नावबोधयतीदं बोधिसत्वस्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अपरं सुभूते मारः पापी मां बुद्धवेषेणोप संक्रमित्वा बोधिसत्वं महासत्वम् एवं वदति ।
10 चक्षुः कुलपुत्र शून्यम् आत्मनात्मनीयेन वा । एवं श्रोत्रं घ्राणं जिह्वा कायो मनः कुलपुत्र शून्यम् आत्मनात्मनीयेन वा । एवं रूपशब्दगन्धरसस्प र्शधर्माः कुलपुत्र शू न्या
11 आत्मनात्मनीयेन वा । पेयालं । यावच् चक्षुःसंस्पर्शप्रत्यया वेदना शून्याः आत्मनात्मनीयेन वा । यावन् मनःसंस्पर्शप्रत्यया वेदना । शून्या-र्-आत्मनात्मनी ये न
वेर्सो
1 वा । तथा दानपारमिता शून्या यावत् प्रञापा रमिता शून्यात्मनात्मनीयेन वा । एवं स्मृत्युपस्थानानि । यावद् आर्याष्टा ङ्गो मार्गो । यावत् त्रीणि विमोक्षमुखानि शून्या न्य्
2 आत्मनात्मनीयेन वा. एवं दश तथागतबलानि । यावद् अष्टादशावेदनिका बुद्धधर्माः कुलपुत्र शून्याः आत्मनात्मनी येन वा किं त्वं करि ष्यस्य् अनुत्तराया सम्य क्स ंबोध्या
3 अभिसंबुद्धयेति । यो ऽस्मै ह्य् एवरूपाणि मारकर्माणि नाचक्षति नोपदिशति । न संबोधयति । इ दं बोधिसत्वस्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अप रं
4 सुभूते मारः पापीमां प्रत्येकबुद्धवेषेणोपसंक्रमित्वा बोधिसत्वं महासत्वम् एवं वदेत । शून्या भोः कुलपुत्र पुर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्वैश् च श्रावकैश् च । नात्र बुद्धा भ ग वन्तो
5 न बोधिसत्वा न श्रावकाः यथा पूर्वा दिग् एवं स मन्ताद् द शसु दिशः सर्वे च लोकधातव इति । य इमान्य् एवरूपाणि मारकर्मणि नाच क्ष ति नो प दिशति ।
6 न संबोधयतीदं बोधिसत्वस्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अपरं मारः पापी मां श्रावकवेषेणोपसंक्रमित्वा बोधिसत्वं महा स त्वम्
7 सर्व ज्ञताप्र तिसंयुक्तेभ्यो मनसीकारेभ्यो विवेकयति । श्रावकप्रत्येकबुद्ध प्रतिसंयुक्तेभिर् मनसीकारेभिर् अववद ति तेभि श्
8 चानुशास्ति । य इमान्य् एवरूपाणि मारकर्माणि नाचक्षति । नोपदिशति । न संबोधयतीदं बोधिसत्व स्य महासत्वस्य पापमित्रं वेदितव्यं । पुनर् अपरं सु भूते मारः
9 पापीमाम् उपाध्यायाचार्यवेषेणोपसंक्रमित्वा बोधिसत्वं महासत्वं बोधिसत्वचार्याया विवेकयति । सर्वज्ञताप्रतिसम्यु क्तेभ्यो मनसीकारेभ्यो विवेकयति । स्मृत्यु प स्थानेभ्यो
10 विवेकयति । पेयालं यावद् आर्याष्टाङ्गं मार्गं विवेकयति । शून्यतानिमित्ताप्रणिहितेषु । समादापयति । नि योजयति । एहि त्वं भो कुलपुत्रे मा न्
11 धर्मां भावयित्वा श्रावकभूमि तां साक्षीकुरुष्व । किं करिष्यस्य् अनुत्तरायां सम्यक्संबोद्धायाम् अभिसंबुद्धायाः य इमान्य् एवरूपाणि मारकर्माणि नाचक्षति नो
(अष्टाक्, अ fओल्. 109)
रेच्तो
1 एकनयनिर्हारश् च मया सर्वधर्माणां प्रतिवेद्धव्यं । पेयालं । यावद् अ परिमित्त निर्हारंप्रतिवेधाय च मया सर्वधर्माणां शिक्षितव्यं । इमे ते सुभूते बोधिसत्वस्य महास त्व स्य
2 वज्रोपमाश् चित्तोत्पादा यत्र स्थित्वा बोधिसत्वो महासत्वो म हति सत्वराशौ निय ते ऽग्रत्वं कारयिष्यति । अनुपलंभयोगेन । पुनर् अप् इ सुभूते बोधिसत्वो महासत्वः एवं चि त्त म्
3 उत्पादयति । यावन्ति : सत्वा नैरयिका वा तिर्यग्योनिका वा यम लोकि कानि वा दुःखस ंवेदनां वेदयन्ति तेषाम् अहम् अर्थाय तां वेदनां वेदयेयम् । त त्र च
4 बोधिस्त्वेन महासत्वेनैवं चित्तम् उत्पादयितव्यं एकैकस्याहं सत्वस्य कृते कल्पकोटिनयुतशतसहराणि तां नैरयिकदुःखसं वे दनाम् अनुभवेयं । यावत् तः सत्वा
5 अनुपाधिशेषे निर्वाणधातौ परि निर्वा पिता भवेयुः । तेनैवोपायेन सर्वसत्वानां कृते कल्पकोटिनयुत् अशतसहस्राणि तां नै रयि कां दुःखवेदनाम् अनुभव् एयं याव ता नि
6 सत्वानि । सर्वाण्य् अनुपाधिशेषे निर्वाणधातौ परिनिर्वापितानि भवेयुः । पश्चा द् अहम् आत्म नः कृतेन कुशलमूला न्य् अवरोप्य कल्पकोटिनयुतशतसह स्रेभिर्
7 अनेकां संबोधिसंभारां संभृत्वानुत्तरां सम्यक्संबोधि म् अभि संबुद्ध्येय म् इत्य् अयं सुभूते बोधिस त्वस्य महासत्वस्य वज्रोपमं छित्तो त्पादो यत्र स्थित्वा महति सत्वराशौ नियते ऽग्र त्वं
8 कारयिष्यति । पुनर् अपरं सुभूते बोधिसत्वेन महासत्वेन शत त्येनोदारचित्तेन भवितव्यं । येन चित्तेन सर्वसत्वानाम् अग्रत्वं कारयिष्यति । तत्रेदं बोधिसत्वस्य महासत्वस्या ग्र चित्तम्
9 उदारचित्तं यत् प्रथमचित्तोत्पादम् उपादाय न कदाचिद् रागचित्तम् उत्पद्यते । न द्वेषचित्तं न मोह चित्तं न विहिंसाचित्तं न हिंसाचित्तं न श्रावकचित्तं न प्रत्येकबुद्धचित्त म्
10 उत्पद्यते । इदं सुभूते बोधिसत्वस्य महासत्वस्याग्रचित्तं उदारचित्तं येन सर्वसत्वानाम् अग्रत्वं कारयिष्यति तेन च चित्तेन न मन्यते । पुनर् अपरं सुभू ते बो धिसत्वेन महा स त्वेना कंप्यचित्तेन
11 भवितव्यं । तत्रेदं बोधिसत्वस्य महासत्वस्याकंप्यचित्तता यत् सर्वज्ञचित्त् ए मनस् ईकार स् तेन चामन्यनतेयां सुभूते बो धिसत्वस्य महासत्वस्याकंप्यचित्त ता ।
वेर्सो
1 पुनर् अपरं सुभूते बोधिसत्वेन महासत्वेन सर्वसत्वानाम् अन्तिके हित कृ पाचित्तेन । भवितव्यं । तत्रेदं बोधिसत्वय महासत्वय सर्व सत्वहितकृपाच् इत्तं यदु त सर्वस त्वा नां
2 त्राणभूतम् अपरित्यागभूतं तेन चामन्यनतेदं सुभूते बोधिसत्वस्य महासत्वस्य सर्वसत्वहित कृपा चित्तम् एवं च सुभूते बोधिसत्वो महासत्वो प्रज्ञापारमितायां
3 चरमाणः सर्वसत्वानाम् अन्तिके अग्रत्वं कारयिष्यति । तं चानुपलंबयोगेन । पुनर् अपरं सुभूते बोधिसत्वेन महासत्वेन सततं धर्मकामेन भवितव्यं । धर्मारामेण
4 धर्मारामयोगम् अनुयुक्तेन च । तत्र कतमो धर्मो यो न विध्वंस्यते स्वभाव तो न च भिद्यते । न च भेदो ऽस्य लभ्यते । रूपिणि वा अरूपिणि वायम् उच्यते धर्मः । कतमा धर्मकामता । या ध र्मे ष्व्
5 इच्चाभिलाषा । इयम् उच्यते धर्मकामता । कतमा धर्माकामता । या धर्मेषु गु णानृशंसता । कतमा धर्मरतिः । यदुत धर्मे षु रतिर् अभिरतिर् इयम् उच्यते धर्मरतिः कतमा धर्माराम यो गम्
6 अनुयुक्तता : या तस्य धर्मस्य भावना सेवना भाजना बहुलीकरणा इ यम् उच्यते धर्मारामयोगम् अनुयुक्तता । एवं खलु सुभूते चरता बोधिस त्वेन
7 महासत्वेन महति सत्वराशौ नियते ऽग्रत्वं कारयितव्यं । तच् चानुपलंभयोगेन । पुन र् अपरं सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चर ता अ ध्या त्मशून्यतायां
8 स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महति सत्वराशौ नियते ऽग्रत्वं कारयितव्यं । तच् चानुपलंभयोगेन । पुनर् अपरं सुभूते बोधिसत्वेन
9 महासत्वेन प्रज्ञापारमितायां चरता स्मृत्युपस्थानेषु स्थित्वा यावद् अष्टादशस्व् आवेदनिकेषु बुद्धधर्मेषु स्थित्वा यावद् अष्टादशस्व् आवेदनिकेषु बुद्धधर्मेषु स्थित्वा महति
10 सत्वराशौ नियते ऽग्रत्वं कारयितव्यम् अनुपलंभयोगेन । पुनर् अपरं सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता वज्रोपमे स माधौ स्थित्वा आकाशसं स्कृ तनिरुपलेपविमुक्तौ
11 समाधौ स्थित्वा महति सत्वराशौ नियते ऽग्रत्वं कारयितव्यम् अनुपलंभयोगेन । इमेषु खलु सुभूते धर्मेषु स्थित्वा
(अष्टाक्, अ fओल्. 110)
रेच्तो
1 सत्वराशौ नियते ऽग्रत्वं कारयितव्यम्. तस्माद् बोधिसत्वो महासत्व इत्य् उच्यते । ॥ औपम्यपरिवर्तो नाम्नैकादशमः समाप्तः । ॥ अथा युष्मां शारद्वतीपुत्रो भ ग वन्तम्
2 एतद् अवोचत् । ममापि भदन्त भगवं प्रतिभाति येनार्थेन बोधिसत्वो महासत्व इत्य् उच्यते । भग वान् आह : प्रति भाति ते शारद्वतीपुत्र आह : प्रा ति भाति
3 मे भदन्त भगवन् यथा किम् आह : आत्मदृष्टिप्रहा णाय सत्वेभ्यो धर्मं देशयति । एवं सत्वदृष्टिप्र हाणा य जन्तुदृष्टिः जीवदृष्टिः पोष दृ ष्टि ः
4 पुद्गलदृष्टिः मनुजदृष्टिः मानवकारक क र्तृउत्थापकसमुत्थापक वेत्रि वेदक जानक दर्शकदृष्टि प्रहाणाय सत्वेभ्यो धर्मं देशयति । एवम् उ च्छेदसाश्वत दृ ष्टिप्रहाणाय ।
5 अस्तिदृष्टिः नास्तिदृष्टिः स्कन्धदृष्टिः धातुदृष्टिः सत्यदृ ष्टिः प्रतीत्यसमुत्पाददृष्टिः प्रहाणाय सत्वेभ्यो धर्मं देशयति । तथा स्मृत्युप स्थानदृ ष्टि ः
6 यावद् अष्टादशावेदनिकबुद्धधर्मदृष्टिः प्रहाणाय सत्वे भ्यो धर्मं देशयति । तथा सत्वपरिपाकदृष्टिः बुद्धक्षेत्रपरिशोधनदृष्टिः बोधिदृष्टिः बु द्धदृष्टिः
7 धर्मचक्रप्रवर्तनदृष्टिः प्रहाणाय सत्वेभ्यो धर्मं देशयति । तेनार्थेन बोधिसत्वो महासत्व इत्य् उच्यते । पुनः परिनिर्वाणदृष्टिपरिहाणाय सत्वेभ्यो ध र्म ं
8 देशयति । तेनार्थेन बोधिसत्वो महासत्व इत्य् उच्यते । अथायुष्मां सुभूतिर् आयुष्मन्तं शा रद्वतीपुत्रम् एतद् अवोचत्* यद्य् आवुस शारद्वतीपुत्रैतासां दृष्टीनां प्रहाणा य
9 बोधिसत्वो महासत्वः सत्वेभ्यो धर्मं देशयति । तत् केन कारणेन बोधिसत्वस्य महासत्वस्य रूपदृष्टिर् भवति एवं वेदनां संज्ञां संस्कारां विज्ञानदृष्टिर् भवति । पेया लं ।
10 यावद् अष्टादशवेदनिकबुद्धधर्मदृष्टिर् भवति । एवम् उक्तायुष्मां शारद्वतीपुत्रायुष्मन्तं सुभूतिम् एत द् अवोचत् इहावुस सुभूते बोधिसत्वो महासत्व ः प्रज्ञापार् अमितायां
11 चरम् आणो अनुपायकौशल्येन रूपम् उपलब्ध्वा दृष्टिम् उत्पादयति । उपलंभयोगेन । एवं वेदनां सं ज्ञां संस्कारां विज्ञानम् उपलब्ध्वा दृष्टिम् उत्पा दय त्य् उपलंभयोगेन
वेर्सो
1 पेया लं यावद् अष्टादशावेदनिकांबुद्धधर्मा म् अनुपलब्ध्वा दृष्टिम् उत्पादयत्य् उपलंभयोगेन । अनेनावुस सुभूते कारणेन बोधिसत्वस्यानुपायकुशलस्य रूपदृष्टिर् भव ति
2 पेयालं । यावद् अष्टादशावेदनिकबुद्धधर्मदृष्टिर् भवति । तत्रोपायकुशलो बोधिसत्वो महासत्वः प्रज्ञापारमितायां चर माणो उपाय कौशल्येनैतासां दृष्टीनां प्रहा णा य
3 सत्वेभ्यो धर्मं देशयत्य् अनुपल ं भयोगेनेति । अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत् ममपि भदन्त भ ग वन् प्रति भाति येनार्थेन बोधिसत्वो महासत्व इ त्य्
4 उच्यते । भगवान् आह: प्रतिभाति ते सुभूतिर् आह : प्रतिभाति भदन्त भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचि त्तं सर्वश्रावक प्रत्येकबुद्धैस् तेनार्थेन बो धि सत्वो
5 महासत्व इत्य् उच्यते । तत् कस्माद् धेतोस् तथा हि भदन्त भगवन् तं सर्वाकारज्ञताचित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके । यद् अप्य् आर्य सर्वाकारज्ञताचित्तम् अ ना स्रवम्
6 अपर्यापन्नं त्रैधातुके । तत्राप्य् एष चित्ते न सक्तस् तस्माद् एषा बोधिसत्वो महासत्व इत्य् उच्यते । अथायुष्मां शारद्वतीपुत्रो आयुष्मन्तं सुभूतिम् एतद् अवो च त्
7 कतमा सुभूते बोधिसत्वस्य महासत्वस्यासमसमचित्तम् असाधारणचित्तं । सर्वश्रावकप्रत्येकबुद्धैर् एवम् उक्ता युष्मां सुभूतिर् आयुष्म न्तं शारद्वतीपुत्रम् एतद् अ वो चत्
8 इहावुस शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रथमचित्तोत्पादम् उपादाय । न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा समनुपश्यति । नापि कश्चिद् धर्मो हानिं वा
9 वृद्धिं वा गच्छति । नापि कस्यचिद् धर्मस्य संक्लेशो वा व्यवदानं वा संविद्यते । यत्र चावुस शारद्वतीपुत्र नोत्पादो न निरोधो न हानिर् न वृद्धिर् न संक्लेशो न व्यवदानं त त्र
10 न श्रावकचित्तं वा प्रत्येकबुद्धचित्तं वा । बोधिसत्वचित्तं वा । सम्यक्संबुद्धचित्तं वेति । अतः आ वुस सारद्वतीपुत्र बोधिसत्वस्य महासत्वस्यासमसमचित्तम् असाधार ण चित्तं ।
11 सर्वश्रावकप्रत्येकबुद्धैर् इति । अथायुष्मां शारद्वतीपुत्रायुष्मन्तं सुभूतिम् एतद् अवोचत् यद् अप्य् आवुस सुभूतिर् एवम् आह : तत्रापि श्रावकप्रत्येकबुद्ध चित्तं।
(अष्टाब्, प्ल्. इ, 1।2)
रेच्तो
1 भगवान् आह इह सुभूतिर् बोधिसत्वो म हासत्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् आत्मना चोपायकौशल्येन ध्यानानि समापद्यते न च तेषां व शेनोपपद्यति परांश् च ध्यानेषु स्मादाप य तीयं
2 सुभूते बोधिसत्वस्य महासत्वस्य ध्यानपारमिता । सुभूतिर् आह कतमा भगवन् बोधिसत्वस्य महासत्वस् य प्रज्ञापारमितेह सुभूते बोधिसत्वो म हा सत्वः
3 सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः सर्वधर्मान् नाभिनिविशति सर्वधर्मप्रकृतिं च प्रत्यवेक्षते ऽनुपलंभ योगेन सर्वधर्मा नभि निवेशे च सर्व ध र्मप्रकृतिप्रत्यवेक्षतायां
4 चान्यान् समादापयति निवेशयति प्रतिष्ठापयत्य् अनुपलंभयोगेनेयं बोधिसत्व स्य महासत्वस्य प्रज्ञापारमिता । इदं सुभूते बोधि स त्वस्य
5 महासत्वस्य महायानं । पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुत अध्यात्म शून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शु न्या ताशून्यता
6 महाशून्यता परमार्थशून्यता संस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशू न्यताप्रतिकार शून्यता प्रकृति शून्य ता स् व लक्षणशून्य ता
7 सर्वधर्मशून्यता अनुपलंभशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशू न्यता चेति । तत्र कतमाध्यात्मशून्यताध्यात्मिका धर्मा उच्य न्ते
8 चक्षुः । श्रित्रं । घ्राणं । जिह्वा । कायो । मनः । तत्र चक्षुः चक्षुषा शून्यम् अकूटस्थाविनाशताम् उ पादाय तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा तथा श्रोत्रं श्रोत्रेण शुन्यम् अ कू टस्थाविनाशतम्
9 उपादाय तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा घ्राणं घ्राणेन शून्यम् अकूटस्थावि नाशताम् उपादाय तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा : जिह्वा जिह्वाया शू न्या
10 अकूटस्थाविनाशताम् उपादाय । तत् कस्माद् धेतोः प्रकृतिर् अस्या एषा । कायः कायेन शून्यः अ कूटस्थाविनाशताम् उपादाय तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा । मनो म न सा
11 शून्याम् अकूटस्थाविनाशताम् उपादाय तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते ऽध्यात्मशून्यता । तत्र कतमा बहिशून्यता : बाह्या धर्मा उच्यन्ते रूपं
12 शब्दः गन्धः रसाः स्पर्शः धर्माः तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशताम् उपादाय त त् कस्माद् धेतोः प्रकृतिर् अस्यैषा : एवं सब्दः गन्धः रसा स्पर्श धर्मा धर्मेभि शू न्या
13 अकूटस्थाविनाशताम् उपादाय तत् कस्माद् धेतोः प्रकृतिर् एषाम् एषा. इयम् उच्यते बहिःशून्य ता : तर कतमाध्यात्मबहिःशून्यता अध्यात्मबाह्या धर्मा उच्यन्ते षड् आधा त्मि कानि
14 आयतनानि षड् बाह्यानि आयतनानि इमे उच्यन्ते अध्यात्मबाह्या धर्माः तत्राध्या त्मिका धर्मा बाह्येभि शून्या अकूटस्थाविनाशताम् उपादाय : त त्
वेर्सो
1 कस्माद् धेतोः प्रकृतिर् एषाम् एषा बाह्या धर्मा अध्यात्मिकधर्मेभिः शून्या अकूटस्थाविनाशताम् उपादा य : तत् कस्माद् धेतोः प्रकृ तिर् एषाम् एषा इ यम् उच्य ते अध्यात्मबहिःशू न्यता :
2 तत्र कतमा शून्यताशून्यता या सर्वधर्मशून्यता सा शून्याकूटस्थाविनाशताम् उपादाय इ यम् उच्यते शून्यताशून्यता : तत्र कतमा महाशून्यता पूर्वा दिक्
3 पूर्वया दिशा शून्या एवं दक्षिणा पश्चिमा उत्तरा अधस्ताद् उपरिष्टाद्दिग् उपरिष्टाद्दिशा शून्या अनुविदिशो ऽनुविदिग्भि शून्या अकूटस्थाविनाशताम् उपादाय त त्
4 कस्माद् धेतोः प्रकृतिर् आसाम् एषा इयं महाशून्यता तत्र कतमा परमार्थशून्यता परमार्थ उ च्यते निर्वाणं तत्र निर्वाण निर्वाणेन शून्यम् अकूटस्थाविनाशतम् उ पा दाय
5 तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा इयम् उच्यते परमार्थशून्यता तत्र कतमा संस्कृ तशून्यता संस्कृतं उच्यते कामधातु रूपधातु आरूप्यधा तुः
6 तत्र कामधातुः यावद् आरूप्यधातुर् आरूप्यधातुना शुन्यओ ऽकूटस्थाविनाशताम् उपादाय इयम् उच्य ते संस्कृतशून्यता तत्र कतमा ह्य् असंस्कृतशून्यता असंस्कृइत म्
7 उच्यते यस्य नोत्पादो न निरोधो न विनाशो नान्यथात्वम् इदम् उच्यते असंस्कृत म् इति तत्रासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशताम् उप दा य
8 तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा । इयम् उच्यते असंस्कृतशून्यता । तत्र कतमा अत्यन्तशू न्यता यस्य धर्मस्यात्यन्तो नोत्पाद उपलभ्यते तत् कस्माद् धे तोः प्र कृ तिर्
9 अस्यैषा इयम् उच्यते ऽत्यन्तशून्यता । तत्र कतमानवराग्रशून्यता यस्यावरं नोपलभ्यते नाग्रं तत् कस्माद् धेतोः प्रकृतिर् अस्यैषा इयम् उच्यते ऽनवरग्र शू न्य ता
10 तत्र कतमाप्रतिकारशून्यता यत्र न कस्यचिद् धर्मस्य प्रतिकार इयम् उच्यते ऽप्रतिकारशून्यता तत्र क तमा प्रकृ तिशून्यता या सर्वधर्माणां प्रकृतिः संस्कृता नां
11 वासंस्कृतानां वा सा प्रकृतिः प्रकृत्या शून्याकूटस्थाविनाशताम् उपादाय । इयम् उच्यते प्रकृतिशून्यता । तत्र कतमा सर्वधर्मशून्यता : सर्वधर्मा उ च्य न्ते
12 रूपं वेदना संज्ञा संस्काराः विज्ञानम्. चक्षुः श्रोत्रं घ्राणं जिह्वा कायः मनः. रूपं शब्दः गन्धः रसः स्पर्शः धर्माः. चक्षुः श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं च क्षुःसंस्पर्शः
13 यावन् मनःसंस्पर्शप्रत्यया वेदना रूपिणो धर्मा अरूपिणो धर्माः संष्कृतासंस्कृतधर्माः इमे उच्यन्ते स र्वधर्माः । तत्र धर्मा धर्मेभि शून्या अकूट स्था विनाशताम्
14 उपादाय. तत् कस्माद् धेतोः प्रकृतिर् एषाम् एषा । इयम् उच्यते सर्वधर्मशून्यता तत्र कतमा स्वलक्षणशून्यता रूप्यलक्षणं रूपम् अनुभवल क्ष णा
(अष्टाब्, प्ल्. इ, 3।4)
रेच्तो
1 वेदना. उद्ग्रहणलक्षण संज्ञा. अभिसंस्कारलक्षनाः संस्काराः. विज्ञानलक्षणं विज्ञानं. यच् च संस्कृता नां धर्माणां लक्षणं यच् चासंस्कृइता नां
2 लक्षणं सर्वा एते धर्माः स्वस्वलक्षणेन शून्या अकूटस्थाविनाशताम् उपादाय । तत् कस्माद् धेतोः प्रकृतिर् एषाम् एषा. तत्र क तमानुपलंभशून्य ता ये धर्मा अतीता ना गतप्रत्युत्पन्नास्
3 तेषाम् अनुपलंभो ऽनुपलंभेन शून्यः अकूटस्थाविनाशताम् उपादाय तत् कस्माद् धेतोः प्रकृतिर् एषाम् एषा तत्र क तमाभावशून्यता यत्र भावो नो पलभ्यते
4 इयम् उच्यते ऽभावशून्यता । तत्र कतमा स्वभावशून्यता. यत्र स्वभावो नोपलभ्यते । इयम् उच्यते स्वभावशून्यता । तत्र कतम् आभावस्वभाव शू न्यता
5 नास्ति सांयोगिकस्य धर्मस्य स्वभावः प्रतीत्यसमुत्पन्नत्वात् सर्वधर्माणाम् इयम् उच्यते ऽभावस्वभावशून्यता भावो भावेन शून्यः अभावो ऽभावेन शून्यः स्वभावः स्व भा वेन
6 शून्यः परभावः परभावेन शून्यः तत्र कतमो भावः भाव उच्यते पञ्च स्कन्धाः तत्र पञ्च स्कन्धा भावेन शून्या अजातत्वाद् । एवं भावो भावेन शून्यः कत मो
7 ऽभवः कथम् अभावो ऽभावेन शून्यः अभाव उच्यते ऽसंस्कृतं तत्र असंस्कृतम् असंस्कृतेन शून्यम् ए वम् अभावः शून्य । कथं स्वभावः स्वभावेन शून्य या
8 सर्वधर्माणां शून्यता सा न ज्ञानेन कृता न दर्शनेन कृता न केनचित् कृता एवं स्वभावः स्वभावेन शून्यः तत्र कतमा पर भावशून्यता योत्पादाय वा तथागतानाम् अनु त्पा दाय
9 वा धर्माणां धर्मस्थितिता. धर्मता. धर्मधातुः । धर्मनियमता । तथा अनन्यतथ तावितथता भूतकोटिर् । इति या चेमेषां धर्माणां परेण शून्य स्थि तिता.
10 इयम् उच्यते परभावशून्यता । इदं सुभूते बोधिसत्वस्य महासत्वस्य महा यानं पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं य दु त
11 शूरङ्गमो नाम समाधिः रत्नमुद्रो नाम समाधिः सिंहविक्रीडितो नाम समाधिः सुच न्द्रो नाम समाधिः चन्द्रध्वजकेतु नाम समाधि सर्वधर्मोद्गतो नाम स मा धिः
12 विलोकितमूर्धा नाम समाधिः धर्मधातुनियतो नाम समाधिः नियतध्वजकेतुर् ना म समाधिः वज्रोपमो नाम समाधिः स र्व धर्मप्रवेशमुद्र नाम समाधिः
13 समाधिराजसुप्रतिष्ठितो नाम समाधिः रश्मिप्रमुक्तो ना म समाधिः बलवीर्यो नाम समाधिः समुद्ग तो नाम समाधिः निरुक्तनिय त प्रवेशो
14 नाम समाधिः अधिवचनसंप्रवेशो नाम समाधिः दिग्विलोकना नाम समाधिः धारणी मुद्रो नाम समाधिः असंप्रमोष्ः नाम समाधिः सर्वधर्मसम व सर ण सागरमुद्रो
वेर्सो
1 नाम समाधिः आकाशस्फरणो नाम समाधिः वज्रमण्डलो नाम समाधिः रजोज हो नाम समाधिः वैरोचनो नाम समाधिः अनेषो नाम समाधिः अनि केतस्थितो
2 नाम समाधिः निश्चित्तो नाम समाधिः विमलप्रदीपो नाम समाधिः अनन्तप्रभो नाम समाधिः प्रभाकरो नाम समाधिः समन्तावभासो नाम समाधिः शुद्धसारो नाम समा धिः
3 विमलप्रभो नाम समाधिः रतिकारो नाम समाधिः विद्युत्प्रदीपो नाम समाधिः अक्षयो नाम समा धिः तेजःपति नाम समाधिः क्षयापगतो नाम समाधिः अनिंजितो ना म
4 समाधिः अविवर्तो नाम समाधिः सूर्यप्रदीपो नाम समाधिः चन्द्रविमलो नाम समाधिः शुद्धप्र तिभासो नाम समाधि आलोकिकरो नाम समाधिः काराकारो नाम समाधिः
5 ज्ञानकेतुर् नाम समाधिः वज्रोपमो नाम समाधिः चित्तस्थितिर् नाम समाधिः समन्तालोको ना म समाधिः सुप्रतिष्ठितो नाम समाधि रत्नकूटि नाम समाधिः वरधर्ममु द्रो
6 नाम समाधिः सर्वधर्मसमता नाम समाधिः रतिजहो नाम समाधिः धर्मोद्गतो नाम समाधिः विकिरणो नाम समाधिः सर्वपदप्रभेतो नाम समाधिः समाक्षराव का रो
7 नाम समाधिः अक्षरापगतो नाम समाधिः अरंबणच्छेदनो नाम समाधिः अप्रकारो नाम समाधिः अविकारो नाम समाधिः अनिकेतचारी नाम समाधिः
8 तिमिरापगतो नाम समाधिः चारित्रवती नाम समाधिः अचलो नाम समाधिः विषयतीर्णो नाम समाधिः सर्वगुणसंचयगतो नाम समाधिः स्थितनि श्चि त्तो
9 नाम समाधिः शुभपुष्पितशुद्धिर् नाम समाधिः बोध्यङ्गवती नाम समाधिः अनन्तप्रतिभानो नाम समा धिः असमसमो नाम समाधिः सर् वधर्मा तिक्रमणो नाम समा धि ः
10 परिच्छेदकरो नाम समाधिः विमतिविकिरणो नाम समाधिः निरधिष्ठानो नाम समाधिः एकव्यूहो नाम स मा धि आकाराभिनिर्हारो नाम समाधि एकाकारो ना म
11 समाधि आकारकारः नाम समाधिः निर्वेधिकसर्वभवतलविकिरणः नाम समाधिः संकेतरुतप्रवेशः नाम समाधिः घोषावतीगिरा क्षरवि मुक्तो नाम समाधिः ज्वल नोल्को
12 नाम समाधिः लक्षणपरिशोधनो नाम समाधिः अनभिलक्षो नाम समाधिः सर्वाकारवरोपेतः नाम समाधिः सुखदुःखनिरभि नन्दनो नाम समाधिः अक्षयकरण्डो ना म
13 समाधिः धारणीपधो नाम समाधिः सम्यक्त्वमिथ्यात्वसर्वसंग्रसनः नाम समाधिः रोध निरोध संप्रशमनो नाम समाधि अविरोधाप्रतिनिरोधो नाम समाधिः विमलप्र भो
14 नाम समाधिः सारवती नाम समाधिः परिपूर्णचन्द्रविमलः नाम समाधिः महाव्यूहो नाम समाधिः सर्वाकारप्रभाकरो नाम समाधिः समाधिसमतो नाम समाधिः
(अष्टाब्, प्ल्. इइ, 1।2)
रेच्तो
1 अरजोविरजः नाम समाधिः अरणसरणसर्वसमवसरणः नाम समाधिः अनिलंभनिकेतनिरतः नाम समाधिः तथतास्थितनिश्चित्तः नाम समाधिः कायकलिसंप्रमथनो नाम समा धि ः
2 वाक्कलिविध्वंसनगगनकल्पो नाम समाधिः आकाशसङ्गविमुक्तनिरुपलेपो नाम समाधिर् इति. तत्र कतमः शूरङ्गमो नाम समाधिः. यत्र समाधि ना
3 सर्वसमाधिनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः तत्र कतमो रत्नमुद्रो नाम समाधिः येन समा धिना सर्वसमाधयो मुद्रिता अय म्
4 उच्यते रत्नमुद्रो नाम समाधिः तत्र कतमः सिंहविकृईडितो नाम समाधिः यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीड त्य् अयम् उच्यते सिंह विक्रीड् इतो ना म
5 समाधिः तत्र कतमः सुचन्द्रो नाम समाधिः यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयत्य् अयम् उ च्यते सुचन्द्रो नाम समाधिः तत्र कतमश् चन्द्रध्वजकेतु र् नाम
6 समाधिः यत्र समाधौ स्थित्वा सर्वसमाधीनां ध्वजं धारयत्य् अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः तत्र कत मः सर्वधर्मोद्ग तो नाम समाधिर् यत्र समाधौ स्थि त्वा स र्व समाधिभिर्
7 अभ्युद्गच्छत्य् अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः तत्र कतमो विलोकितम् ऊर्धा नाम समाधिर् यत्र समाधौ स्थित्वा सर्व समाधी नां मू र्धा नं
8 विलोकयत्य् अयम् उच्यते विलोकितमूर्धा नाम समाधिः. तत्र कतमो धर्मधातु नियतो नाम समाधिर् यत्र समाधौ स्थित्वा धर्मधातोर् निश्चयं
9 गच्छत्य् अयम् उच्यते धर्मधातुनियतो नाम समाधिः तत्र कतमो नियतध्वजकेतुर् नाम समाधि र् यत्र समाधौ स्थित्वा सर्वसमाधीनां ध्वजं धारयत्य् अयम् उ च्य ते
10 नियतध्वजकेतुर् नाम समाधिः तत्र कतमो वज्रोपमो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीन् न भिन्दत्य् अयम् उच्यते वज्रोपमः समाधि तत्र कत मो
11 धर्मप्रवेशमुद्रः समाधिर् यत्र समाधौ स्थित्वा धर्माणां मुद्रां प्रविशत्य् अयम् उच्यते धर्मप्र वेशमुद्रः समाधि तत्र कतमः समधिराजसुप्रतिष्ठितो नाम समा धि र्
12 यत्र समाधौ स्थित्वा सर्वसमाधिषु राजप्रतिष्ठानेन प्रतितिष्ठत्य् अयम् उच्यते समाधिर् आजसुप्रतिष्ठितः समाधि. तत्र कतमो रश्मिप्रमुक्तो नाम समाधिर् य त्र
13 समाधौ स्थित्वा सर्वसमाधिनां रश्मीन् अवसृजत्य् अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः तत्र कतमो बलवीर्यो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां ब ल वीर्यं
14 धारयत्य् अयम् उच्यते बलवीर्यो नाम समाधि. तत्र कतमः समुद्गतो नाम समाधिर् य त्र समाधौ स्थितस्य सर्वसमाधयः समुद्ग च्छन्त्य् अ यम् उच्यते समु द्ग तः
वेर्सो
1 समाधिः तत्र कतमो निरुक्तनिर्देशप्रवेशः समाधिर् यत्र समाधौ स्थित्वा समाधि निरुक्तिनिर्देशं प्रवेशयत्य् अयम् उच्यते निरुक्तनिर्देशप्रवेशः समाधिः तत्र
2 कतमो ऽधिवचनसंप्रवेशः समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अधिवचनं नामधेयं प्रवेशत्य् अयम् उच्यते ऽधिवचनसंप्रवेश समाधिः तत्र कतमो
3 दिग्विलोकना नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां दिशो विलोकयत्य् अयम् उच्यते दिग्विलोकना नाम समाधिः तत्र कतमओ धारणीमुद्रो नाम समा धिर् य त्र
4 समाधौ स्थित्वा सर्वसमाधीनां मुद्रां धारयत्य् अयम् उच्यते धारणीमुद्रो नाम समाधिः तत्र कतमो ऽसंप्र मोषो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीन् न् न संप्रमोषयत्य् अ य म्
5 उच्यते ऽसंप्रमोषः समाधिः. तत्र कतमः सर्वधर्मसमवसरणसागरमुद्रः समाधिर् य त्र समाधौ स्थित्वा समाधयः संग्रह ं समवसरणं गच्छ न् त्य् अयम् उच्य ते
6 सर्वधर्मसमवसरणसागरमुद्रः समाधिः तत्र कतम आकाशस्फरणो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीन् आकाशस्फरणताया स्फरत्य् अयम् उच्य ते
7 आकाशस्फरणो नाम समाधिः तत्र कतमो वज्रमण्डलो नाम समाधिर् यत्र समाधौ स्थित्वा स र्वसमाधीना ं मण्डलं धारयत्य् अयम् उच्यते वज्रमण्डलः समा धिः
8 तत्र कतमो रजोजहो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वक्लेशनिमित्तानि जहात्य् अयम् उच्यते रजोजहः समाधिः तत्र कतमो वैरोचनो नाम समाधि र्
9 यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयत्य् अयम् उच्यते वैरोचनो नाम समाधिः तत्र कतमो ऽनेषो नाम समाधिर् यत्र समाधौ स्थित्वा न सम् आधे कं चि द्
10 धर्मम् एषते अयम् उच्यते ऽनेषः समाधिः तत्र कतमो ऽनिकेतस्थितः समाधिर् यत्र समाधौ न कंचिद् धर्मं निकेतस्थितं समनुपश्यत्य् अयम् उच्यते ऽनिकेतस्थितः समा धि ः
11 तत्र कतमो निश्चित्तः समाधिर् यत्र समाधौ न चित्तं न चैतसिका धर्माः प्रवर्तन्ते ऽयम् उच्यते निश्चित्तः समाधिः तत्र कतमो वि मलप्रदीपो नाम समाधिर् य त्र स मा धौ
12 सर्वसमाधीनां विमलप्रदीपं करोत्य् अयम् उच्यते विमलप्रदीपः समाधिः तत्र कतमो ऽनन्तप्रभः समाधिर् यत्र समाधौ स्थित्वानन्तां प्रभां करोत्य् अयम् उच्यते ऽन न्त प्रभो
13 नाम समाधिः तत्र कतमः प्रभाकरो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वधर्माणां प्रभां करोत्य् अयम् उ च्यते प्र भाकरः समाधिः तत्र कतमः स म न्तावभासः
14 समाधिर् यस्य समाधेः सहप्रतिलंभात् सर्वसमाधिमुखान्य् अवभासयत्य् अयम् उच्यते समन्तावभासः स माधिः तत्र कतमः समधि शुद्धसारो नाम
ओने fओइलिओ मिस्सिन्ग्
(अष्टाब्, प्ल्. इइ, 3।4)
रेच्तो
1 तत्र कतमो विषयतीर्णो ना म समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयं समतिक्रामत्य् अयम् उच्यते विषयतीर्णो नाम समाधिः तत्र कतमः सर्वगुणसंचयगतो नाम समाधिः
2 यत्र सर्वधर्माणां सर्वसमाधीनां च गुणसंचयम् अनुप्राप्नोत्य् अयम् उच्यते सर्वगुणसंचयगतः समाधिः तत्र कतमः स्थितनिश्चित्तो नाम समाधिर् यत्र
3 समाधौ स्थित्वा सर्वसमाधीषु चित्तं न प्रवर्तते ऽयम् उच्यते स्थितनिश्चित्तः समाधिः तत्र कतमः शुभपुष्पितशुद्धिः समा धिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां शुभ पु ष्पितशुद्धिं
4 प्रतिलभते ऽयम् उच्यते शुभपुष्पितशुद्धिः समाधिः तत्र कतमो बोध्यङ्गवती समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधिभ्यः सप्त बोध्यङ्गानि प्रतिल भ ते
5 ऽयम् उच्यते बोध्यङ्गवती समाधिः तत्र कतमो ऽनन्तप्रतिभानः समाधिर् यत्र सर्वसमाधीष्व् अनन्त प्रतिभानतां प्रति लभते ऽअयम् उच्य ते ऽन न्तप्रतिभानः स मा धिः
6 तत्र कतमो ऽसमसमः समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीष्व् असमसमता प्रतिलभते अयम् उच्यते ऽसम समः समाधिः तत्र कतमः सर्वध र्मातिक्रा म णो
7 नाम समाधिर् यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समतिक्रामत्य् अयम् उच्यते सर्वधर्माति क्रमणः समाधिः तत्र कतमः परिच्छेदकरो ना म समाधि र् य त्र
8 समाधौ स्थित्वा सर्वधर्माणां सर्वसमाधीनां च परिच्छेदं पश्यत्य् अयम् उच्यते परिच्छेदकरो नाम समाधिः तत्र कतमो विमतिविकिरणो नाम समाधिर् यत्र समा धौ
9 सर्वसमाधिविमतिकिरणं प्राप्नोत्य् अयम् उच्यते विमतिविकिरणः समाधिः तत्र कतमो निरधि ष्ठानो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुप श्य त्य्
10 अयम् उच्यते निरधिष्ठानः समाधिः तत्र कतम एकव्यूहो नाम समाधिर् यत्र समाधौ स्थित्वा न कस्यैद् धर्मस्य द्वयं समनुपश्यत्य् अयम् उच्यते एकव्यूहः
11 समाधिः तत्र कतम आकाराभिनिर्हारः समाधिर् यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकारनिर्हारम् न समनुपश्यत्य् अयम् उच्यते ह्य् आकाराभिनिर्हारः समाधिः तत्र कत म
12 एकाकारो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकारं न समनुपश्त्य् अ यम् उच्यते एकाकारः समाधिः तत्र कतम आकारकरो नाम समाधि
13 यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अद्वयतां समनुपश्यत्य् अयम् उच्यते आकारकरः स माधिः तत्र कतमो निर्वेधिकसर्वभवतलविकिरणो नाम समाधिर् य त्र
14 समाधौ स्थित्वा सर्वसमाधीनां नैर्वेधिकज्ञानम् अनुप्रविशति यस्यानुप्रवेशात् कंचिद् ध र्मं न प्रतिविध्यत्य् अयम् उच्यते निर्वेधिकसर्वभवतलविकिरणः समाधिः
वेर्सो
1 तत्र कतमः संकेतरुतप्रवेशः समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां संकेतरुता नि प्रविशत्य् अयम् उच्यते संकेतरुतप्रवेशः समाधिः तत्र कतमो घोषव ती गिरक्षरविमुक्तः
2 नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीन् गीर्घोषाक्षरविमुक्तान् सम नुपश्यत्य् अयम् उच्यते घोषवतीगिराक्षरविनिर्मुक्तः समाधिः तत्र कतमो
3 ज्वलनोल्कः समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयत्य् अयम् उ च्यते ज्वलनोल्कः समाधिः. तत्र कतमो लक्षणपरिशोधनो नाम समाधिर् यत्र
4 समाधौ स्थित्वा सर्वसमाधीनां लक्षणानि परिशुध्यन्ते ऽयम् उच्यते लक्षणपरिशोधनः समाधिः तत्र कतमो ऽनभिलक्षो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीन् अन् अभि लक्षितान्
5 समनुपश्यत्य् अयम् उच्यते ऽनभिलक्षः समाधिः तत्र कतमः सर्वाकारवरोपेतः सम् आधिर् यत्र समाधौ स्थितस्य सर्वसमाधयः सर्वाकारवरोपेता भवन् त्य्
6 अयम् उच्यते सर्वाकारवरोपेतः समाधिः तत्र कतमः सुखदुःखनिरभिनन्दनः समाधि र् यत्र समाधौ स्थित्वा सर्वसमाधिषु सुखदुःखं असमनुपश्यत्य् अयम् उच्य ते
7 सुखदुःखनिरभिनन्दनो नाम समाधिः तत्र कतमो ऽक्षयाकारो नाम समाधिर् यत्र समाधौ स्थित्वा स माधीनां क्ष यं न समनुपश्यत्य् अयम् उच्यते ऽक्षयाकारः स मा धिः
8 तत्र कतमो धारणीपधो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वधारणीन् धरयत्य् अय म् उच्यते धारणी पधः समाधिः. तत्र कतम सम्यक्त्वमिथ्यात्वसर्वसं ग्र सनः
9 नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां संयुक्त्वमिथ्यात्वं न समनुपश्यत्य् अयम् उच्यते सम्यक् त्वमिथ्यात्वसर्व संग्रसनः समाधिः तत्र कतमो रोधनिरोध प्र शमनः
10 नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधनिरोधं समनुपश्यत्य् अयम् उच्यते रोधनि रोधप्रश मनः समाधिः तत्र कतमो ह्य् अविरोधाप्रतिरोध
11 समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अविरोधाप्रतिरोधं समनुपश्यत्य् अयम् उच्यते ऽविरोधाप्रतिरोधः समाधिः तत्र कतमो विमलप्रभो नाम समाधिर् य त्र
12 समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभते ऽयम् उच्यते विमलप्रभः समाधिः तत्र कतमः सारवती स माधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनां असा रं
13 समनुपश्यत्य् अयम् उच्यते सारवती समाधिः तत्र कतमः परिपूर्णचन्द्रविमलः समाधिर् यत्र समाधौ सर्वसमाध यः परिपूर्णा भवन्ति तद्यथा पंचदश्यां
14 चन्द्रमण्डलम् अयम् उच्यते परिपूर्णचन्द्रविमलः समाधिः तत्र कतमो महाव्यूहो नाम समाधिर् यत्र समाधौ स्थित्वा स र्वसमाधयो महाव्यूहसमन्वागता
(अष्टाब्, प्ल्. इइइ, 1।2)
रेच्तो
1 भवन्त्य् अयम् उच्यते महाव्यूहः समाधिः तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीन् सर्वधर् मांश् चावभासय ते अयम् उच्यते सर्वा का रप्रभाकरः
2 समाधिः तत्र कतमः समाधिसमतः समाधिर् यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुविक्षेपम् एकाग्रताम् उ पलभते ऽयम् उच्यते समाधिसमतः मा म
3 समाधिः तत्र कतमो रजोविरजः समाधिर् यत्र सर्वसमाधीन् निःक्लेशान् करोत्य् अयम् उच्यते रजोविरजः समाधिः त त्र कतमो ह्य् अरणसरणसर्वसमवसर णो
4 नाम समाधिर् यत्र समाधौ स्थितस्य सर्वसमाधयो न रणन्त्य् अयम् उच्यते ऽरणसरणसर्वसमवसरणो समाधिः तत्र कतमो ऽनि लंभ् अनिकेतनि र तः
5 समाधिर् यत्र समाधौ सर्वसमाधीनाम् आलयं नोपैत्य् अयम् उच्यते ऽनिलंभनिकेतनिरतः समाधि ः तत्र कतम स् तथतास्थितनिश्चित्तो नाम समा धिर् य त्र समा धौ
6 सर्वसमाधीनां तथता न निवर्तते ऽयम् उच्यते तथतास्थितनिश्चित्तः समाधिः तत्र कतमः कायकलि संप्रमथनो ना म समाधिर् यत्र समा धौ स्थित्वा स र्वसमा धी नां
7 कायं नोपलभते ऽयम् उच्यते कायकलिसंप्रमथनो नाम समाधिः तत्र कतमो वाक्कलि विध्वंसनगगनकल्पो नाम समाधिर् यत्र समाधौ स्थित्वा सर्व स माधीनां
8 वाक्कर्म नोपलंभते ऽयम् उच्यते वाक्कलिविध्वंसनगगनकल्पः समाधिः तत्र कतम आ काशसंगविमुक्तनिरुपलेपो नाम समाधिर् यत्र समाधौ स्थित्वा
9 सर्वधर्मनिरुपलेपताम् अनुप्राप्नोत्य् अयम् उच्यते आकाशसङ्गविमुक्तनिरुपलेपः समाधिः इदं सुभूते बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो म हा यानं
10 समाधिपरिवर्तो नाम्ना पञ्चदशः
पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं
11 यदुत चत्वारि स्मृत्युपस्थानानि. तत्र कतमं कायस्मृत्युपस्थानं । इह सुभूते बोधिसत्वो महासत्वो ह्य् आध्यात्मे काये कायानुदर्शी विहरति । न च काय ग तान्
12 वितर्कान् वितर्कयत्य् आतापी संप्रजानः स्मृतिमां विनीय लोके ऽभिध्यादौर्मनस्ये बहिर्धाकाये कायानुदर्शी विह रत्य् आध्यात्मबहिर्धे काये कायानुपश्यी विहरति न च
13 कायगतान् वितर्कान् वितर्कयत्य् आतापी संप्रजानः स्मृतिमां विनीय लोके ऽभिध्यादौर्मनस्य आध्यात्मासु वेदनासु चित्ते धर्मेषु धर्मानुपश्यी विहरत्य् आतापी
14 संप्रजानः स्मृतिमां विनीय लोके ऽभिध्यादौर्मनस्ये बहिर्धेषु धर्मानुपश्यी आतापी सं प्रजानः स्मृतिमां विनीयाभिध्या लोके दौर्मनस्ये आध्यात्मबहिर्धेषु धर्मा नु पश्यी
वेर्सो
1 विहरत्य् आतापी संप्रजानः स्मृतिमां विनीय लोके ऽभिध्यादौर्मनस्य । कथं सुभूते बोधिसत्वो महासत्वो ऽध्यात्मे काये कायानुपश्यी विहरति । इह सुभूते
2 बोधिसत्वो महासत्वश् चरमाणश् चरामीति प्रजानाति. स्थितः स्थितो ऽस्मीति प्रजानाति. निषण्णो नि षण्ण अस्मि प्रजानाति शयान शयान अस्मि प्रजाना ति यथा य था
3 खलु पुनर् अस्य कायः स्थितस् तथा तथैनं प्रजानाति. एवं खलु सुभूते बोधिस त्वो महासत्वो ऽध्यात्मे काये कायानुपश्यी विहरत्य् आतापी संप्रजानः
4 स्मृतिमां विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते स बोधिसत्वो महासत्वो ऽभिक्रमप्र तिक्रमसंप्रजानचारी भवत्य् आलोकितविलोकितसंप्रजानचारी भव ति
5 संघाटीपिण्डपातचीवरधारणे अशितपीतखादितशयितनिद्राप्रतिविनोदि तो गातागतः स्थितनिषण्णो स्वप्नजागरित भाषिततुष्णीभावसंजान्य प्र तिसंलयने
6 संप्रजानचारी भवति. एवं खलु सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमिता यां चरमाणो ऽध्यात्मे काये कायानुपश्यी विहरति तच् चानुपलंभ यो गेन
7 पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरमाणः स्मृत आश्वसिति स्मृत् आश्वसतिमानि स प्रश्वसति स दीर्घ वा श्वसिति दीर्घं वाश्वस ति
8 दीर्घं वा प्रश्वसिति प्रश्वसिमि दीर्घं श्वसिमि दीर्घम् आश्वसिमि दीर्घं प्रश्वसिमीति प्रजानाति स ह्र स्व वाश्वसति ह्रस्वम् आश्वसिमीति प्रजानाति : ह्रस्वं वा प्रश्वस ति
9 ह्रस्वं प्रश्वसिमीति प्रजानाति. तद्यथा सुभूते कुंभकारः कुंभकारान्तेवासी वा दीर्घम् आविध्यन् दीर्घम् आविध्यामीति प्रज् आनाति ह्र स्वं वा प्रतिवि द्यम् आविद्यं ह्रस्वं प्र ति विध्यामीति
10 प्रजानाति एवम् एव सुभूते बोधिसत्वो महासत्वः स्मृतो वाश्वसितः स्मृतो वा प्रश्व सितो. दीर् घम् आश्वसिति दीर्घम् आश्वसि मीति प्रजा नाति दी र्घं
11 प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति ह्रस्वम् आश्वसन् ह्रस्वम् आश्वसिमीति प्रजानाति ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्र जानाति । एवं हि सुभूते बोधिसत्वो महा स त्वो
12 ऽध्यात्मकाये कायानुपश्यी विहरत्य् आतापी संप्रजानः स्मृतिमां विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्वो महासत्व इमम् एव कायं धा तु शो
13 प्रत्यवेक्षते अस्त्य् अस्मिन् पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः. तद्यथा सुभूते दक्षो गोघ्नो वा ग् ओघ्नान्तेवासी वा तीक्ष्णेन शस्त्रेण गां वध्या द्
14 गां हत्वा च चत्वारि फलकानि कुर्याच् चत्वारि फलकानि च कृत्वा प्रत्यवेक्षते स्थितो वाथवा निषण्णः एवम् एव सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां
ओने fओलिओ मिस्सिन्ग्
(अष्टाब्, प्ल्. इइइ, 3।4)
रेच्तो
1 पुनर् अपरं सुभूते बोधिसत्वो महासत्वो यदा पश्यति शिवपथिकायाम् अस्थीन्य् अनेकवर्णानि नीलानि कपोतवर्णानि चू र्णकजातानि पृथिव्यां पांसुना समसमीकृतानि स इमम् एव कायं तत्रोपसंहरति. अयम् अपि काय एवंधर्मा एवंप्र कार एताया धर्मता या ह्य् अपरिमुक्तः
2 एवं खलु सुभूते बोधिसत्वो महासत्वो अध्यात्मकाये एवं बहिर्धाकाये एवम् अध्यात्मबहिर्धाकाये कायानुपश्यी विहरत्य् आता पी संप्रजान्यः स्मृतिमां विनीयाभिध्या दौ र्मनस्ये.
3 एवं वेदनायां चित्ते धर्मेषु धर्मानुपश्यी विहरत्य् आतापि संप्रजानः स्मृतिमाम् इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानम्. पुनर् अपरं सु भू ते
4 बोधिसत्वस्य महासत्वय महायानं यदुत चत्वारि सम्यक्प्रहाणानि कतमानि चत्वारि इह सुभूते बोधिसत्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अ नु त्पादाच्
5 छन्दं जनयति व्यायच्छते चित्तं प्रगृह्णाति सम्यक् प्रदधात्य् उत्पन्नानां पापका कुशलानां धर्माणां प्रहाणाच् छन्दं जनयति व्याय मति चित्तं परिगृह्णाति स म्य क्
6 प्रदधात्य् अनुत्पन्नानां कुशलधर्माणाम् उत्पादाच् च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं परि गृह्णाति सम्यक् प्रदधात्य् उत्पन्नानां कु शल धर्मांआं स्थित ये
7 भूयोभावाय. असंप्रमोषाय. अपरिहाणाय. परिपूरये छन्दं जनयति व्यायच्छते वी र्यम् आरभते चित्तं परिगृह्णाति सम्यक् प्रदधाति त च् चानुपलं भ यो गेन
8 इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानम्. पुनर् अपरं सुभू ते बोधिसत्वस्य महासत्वस्य महायान्ं यद् इदं चत्वार ऋद्ध्पादाः
9 कतमे चत्वारः इह सुभूते छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धि पादं भावयति विवेकनिशृतं विरागनिशृतं निरोधनिशृतं व्यवसर्गप रि णतं
10 वीर्यसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति चित्तसमाधिप्रहाणसंस्कार समन्वागतम् ऋद्धिपादं भावयति मीमांससमाधिप्रहाणसंस्का र समन्वागतम्
11 ऋद्धिपादं भावयति विवेकनिशृतं विरागनिशृतं निरोधनिशृतं व्यवसर्गप रिणतं तच् चानुपलंभयोगेन इदम् अपि सुभूते बोधिसत्वस्य महा स त्वस्य
12 महायानं पुनर् अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुत पञ्चेन्द्रि याणि कतमानि पञ्च । तद्यथा श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतेन्द्रियं समाधेन्द्रि यं
13 प्रज्ञेन्द्रियं. इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानम्. तच् चानुपलंभयो गेन पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं य दु त
14 पञ्च बलानि. कतमानि पञ्च. श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्र ज्ञा बलम् इदम् अपि सुभूते बोधिसत्वस्य म हासत्वस्य महायानं तच् चा नु पलंभयोगेन ।
वेर्सो
1 पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुत सप्त बोध्यङ्गानि । कतमानि सप्त इह सुभूते बोधिसत्वो महासत्वो स्मृति सं बोध्यङ्गं
2 विवेकनिशृतं विरागनिशृतं निरोधनिशृतं व्यवसर्गपरिणतं धर्मप्र विचयसंबोध्यङ्गं वीर्य प्रीति प्रस्रब्धि समाधि उपेक्षासंबोध्यङ्गं भा व यति
3 विवेकनिशृतं विरागनिशृतं निरोधनिशृतं व्यवसर्गपरिणतं तच् चानुपलंभयोगे न इदं सुभूते बोधिसत्वस्य महासत्वस्य महायानं । पुनर् अप रं
4 सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुतार्याष्टाङ्गमार्गः कतम आर्याष्टाङ्गमार्गः सम्यग्दृ ष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्याजीवं सम्यग्व्या या मः
5 सम्यक्स्मृतिः सम्यक्समाधि तच् चानुपलंभयोगेन । इदम् अपि सुभूते बोधि सत्वस्य महासत्वस्य महायानं पुनर् अपरं सुभूते बोधिस त्व स्य
6 महासत्वस्य महायानं यदुत त्रयो विमोक्षमुखसमाधयः कतमे त्रयः शून्यतास माधिः आनिमित्तं समाधिः अप्रणिधितं समाधिः तत्र कतमा शून्यतास मा धिः
7 शून्यान् धर्मान् प्रत्यवेक्षमाणस्य शून्यताविमोक्षमुखम् अनिमित्तान् धर्मान् प्रत्यवेक्षमाणस्य आनिमित्त विमोक्षमुखम् अनभिसंस्कारसंस्कारो ऽप्रणिधितं विमोक्षमुखम् इद म्
8 अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानं. एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यं. पुनर् अपरं सुभ् ऊते बोधिसत्वस्य महासत्वस्य महायानं यदुत -म् एका द श
9 ज्ञानानि कतमान्य् एकादश दुःखज्ञानं. पेयालं. यावत् क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानम् अन्वयज्ञानं संवृतिज्ञानं परचित्तज्ञ् आ नं यथोक्तं ज्ञानम् इति त त्र क त मं
10 दुःखज्ञानं यद् दुःखस्यानुत्पादज्ञानम् इदम् उच्यते दुःखज्ञानं तत्र कतमं समुदयज्ञानं यत् समुद यय प्रहाणज्ञानं कतमं निरोधज्ञानं य द् दुः कस्य
11 निरोधज्ञानं कतमं मार्गज्ञानं यद् आर्याष्टाङ्गमार्गज्ञानं कतमं क्षयज्ञानं यद् रागद्वेषमोहक्षयज्ञानं कतमं अनुत्पादज्ञानं यद् भगवत्यनुत्पाद ज्ञान : कतमं धर्मज्ञा नं
12 यत् पञ्चानां स्कन्धानाम् अप्रकृतिपरिच्छेदज्ञानं कतमम् अन्वयज्ञानं यच् चक्षुर् अनित्यं श्रोत्रां घ्राणं जिह्वा कायो मनो ऽनित्यम् इति ज्ञानं पेयालं यावद् धर्मा अनित्य इ ति
13 ज्ञानं यावत् प्रतीत्यसमुत्पादो ऽनित्य इति ज्ञानम् इदम् उच्यते ऽन्वयज्ञानं कतमं परचित्तज्ञानं यत् परसत्वानां पर पुद्गलानां चेतसैव चित्ते चैतसिकेषु ध र्मे षु
14 च ज्ञानं कतमं संवृतिज्ञानं यत् प्रतिपज्ज्ञानं कतमं यथोक्तज्ञानं यत् तथागतस्य सर्वाकारज्ञताज्ञानम् इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य म हा यानं
(अष्टाब्, प्ल्. इव्, 1।2)
रेच्तो
1 तच् चानुपलंभयोगेन । पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुत त्रीणीन्द्रियानि कतमानि त्रीण्य् अनाज्ञ् आतम् आज्ञस्यामीन्द्रियं. आज्ञेन्द्रिय म्
2 आज्ञातावीन्द्रियं तत्र कतमम् अनाज्ञातम् आज्ञास्यामीन्द्रियं यद् अनधिगतशिक्षाणां पुद्गलानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इति तत्र कत मम्
3 आज्ञेन्द्रियं यच् छैक्षाणां पुद्गलानाम् आज्ञातवतां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इ दम् उच्यते आज्ञेन्द्रियं. तत्र कतमं आज्ञातावीन्द्रि यं
4 यद् अशैक्षाणां पुद्गलानां तद्यथार्हतां प्रत्येकबुद्धानां बोधिसत्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रि यं समाधीन्द्रियं प्रज्ञेन्द्रि य म्
5 इदम् उच्यते आज्ञातावीन्द्रियं इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानं. तच् चानुप लंभयोगेन । पुनर् अपरं सुभूते बोधिसत्वस्य महा स त्वस्य
6 महायानं यदुत त्रयः समाधयः. कतमे त्रयः सवितर्कः सविचारः समाधिः अवित र्को विचारमात्रः समाधिः अवितर्क् आविचा रः सम्धि तत्र क त मः
7 सवितर्कः सविचारः समाधिः विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचा रं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् अयम् उच्यते सवितर्कः स वि चा रः
8 समाधिः. तत्र कतमो ऽवितर्को विचारमात्रः समाधि प्रथमध्यानस्य द्वितीयध्या नस्य या न् तरिकायम् उच्यते ऽवितर्को विचारमात्रः समाधिः तत्र क त मो
9 ऽवितर्काविचारः समाधिः. द्वितीयध्यानाद् आरभ्य यावन् नैव संज्ञा नासंज्ञायम् उच्यते ऽवितर्का विचारसमाधिर् इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य महा या नं.
10 पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुत दशानुस्मृतयः क तमा दश तद्यथा बुद्धानुस्मृति धर्मानुस्मृति संघानुस्मृति. शीलानुस्मृ ति
11 त्यागानुस्मृति देवतानुस्मृति उद्वेगानुस्मृति कायगतानुस्मृति आनापानानुस्मृ ति मरणानुस्मृतिर् इदम् अपि सुभू ते बोधिसत्वस्य महासत्वस्य महायानं
12 तच् चानुपलंभयोगेन. पुनर् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं यदुत चत्वारि ध्यानानि चत्वार्य् अप्रमाणि. चतस्र आरूप्यसमापत्तयः
13 अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः । इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य म हायानं तच् चानुपलंभयोगेन । पुनर् अपरं सुभूते बोधिसत्वस्य
14 महासत्वस्य महायानं यदुत दश तथागतबलानि. कतमानि दश. इह बोधिसत्वो महासत्वः पुद्गलानां स्थानं च स्थानतो यथाभूतं प्र जानीते ऽस्थानं चास्थानतो
वेर्सो
1 यथाभूतं प्रजानीते. अतीतानागतप्रत्युत्पन्नानां कर्मणां कर्मसमादानानां च स्थानतो विपा कं यथाभूतं प्रजानीते अनेकधातुं नानाधातु लोकं यथाभू तं
2 प्रजानीते परसत्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतं प्रजानीते. पर सत्वानां परपुद्गलानाम् इन्द्रियपरापरते यथाभूतं प्रजानीते
3 सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानीते. परसत्वानां परपुद्गलानां बोध्यङ्ग ध्यान विमोक्ष समाधि समापत्तयः संक्लेश व्यवदान व्यूस्थानः ज्ञा नं
4 यथाभूतं प्रजानीते. सो ऽनेकविधं पूर्वनिवासम् अनुस्मरति । स दिव्येन चक्षुषा च्युत्युत्पाद ज्ञानं यथाभूतं प्रजानीते । आस्रवाणां क्षयाद् अनास्रविचेतोवि मु तिं
5 प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य विहरति क्षीणा मे जा तिर् उषितं मे ब्रह्मचार्यं कृतं मे करणीयं नापरम् अस्माद् भवं प्रजा ना मि ।
6 तच् चानुपलंभयोगेन इदम् अपि सुभूते बोधिसत्वस्य महासत्वस्य महायानं. पुन र् अपरं सुभूते बोधिसत्वस्य महासत्वस्य महायानं यद् इदं चत्वा रि
7 वैशारद्यानि कतमानि चत्वारि सम्यक्संबुद्धस्य मे प्रतिजानतः । इमे धर्मा नाभिसंबुद्धा इति श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुद्ग ल लोके स ह
8 धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि. इदम् अत्र निमित्तं न समनुपश्य माणः क्षेमप्राप्तश् च विहराम्य् अभयप्राप्तश् च विहरामि वैशा र द्यप्राप्तश्
9 च विहरामि. आर्षभम् उदारं स्थानं प्रजानामि परिषद्गतः सम्यक् सिंहनादं नदामि ब्राह्मं चक्र ं प्रवर्तयाम्य् अ प्रवर्तितं श्रम णेन वा ब्राह्म णेन वा
10 देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा लोके सह धर्मेण क्षीणास्रवस्य मे प्रतिजानतः इमे आस्रवा न परिक्षी णा इत्य् अत्र बत मे क श्चिच् छ्रमणो वा ब्राह्मणो वा
11 देवो वा मारो वा ब्रह्मा वा कश्चिद् व पुद्गललोके यावत् सह धर्मेण. ये त्वयान्तरायिका धर्मा आख्यातास् ता प्रतिसेव्यमाना अ लम् अन्तरायाय नेदं स्थानं विद्यते इ ति
12 मे श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् व पुद्गललोके सह धर्मेण चोदयेद् इति निमित्तम् इदं ह् य् अहं न समनुपश्यामीदं चाहं निमित्त ं न स म नुपश्यमानः
13 क्षेमप्राप्तो विहराम्य् अभयप्राप्तः । पेयालं । यावत् सह धर्मेण या त्वया प्रतिपद् आख्याता आर्यनिर्याणिका निर्या ति तत्करस्य सम्यग्दुःखक्षयाय तां प्रति प द्यमानो
14 निर्यायात् सम्यग्दुःखक्षयायेति नेदं स्थानं विद्यते इत्य् अत्र बत मे पेयालं यावत् सह धर्मेण । इदम् अपि सुभूते बोध् इसत्वस्य महासत्वस्य महायानं प्रशि
12-14 fओइलिओस् मिस्सिन्ग्
(अष्टाब्, प्ल्. इव्, 3।4)
रेच्तो
1 एवम् असंविद्यमानेषु सर्वधर्मेषु कतमो धर्माः कतमेन ध र्मेण निर्यास्यति. तत् कस्माद् धेतोः तथा हि सुभूते आत्मा नोपलभ्यते आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय. एवं यावत् सत्व जीवजानकपश्यकस्य धर्मधातुर् नो प लभ्यते
2 ह्य् अत्यन्तविशुद्धिताम् उपादाय. तथता नोपलभ्यते भूतकोटिर् नोपलभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादाय अचिन्त्यधर्मधातुर् नोपलभ्यते ह्य् अत्यन्तवि शु द्धिताम्
3 उपादाय स्कन्धधात्वायतनानि नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाय प्रतीत्यसमुत्पादो नोपलभ्यते ऽत्यन्तवि शुद्धिताम् उपादाय तथा दा नपारमि ता
4 शीलपारमिता वीर्यपारमिता क्षान्तिपारमिता ध्यानपारमिता प्रज्ञापारमिता नोपलभ्यते ऽत्यन्तविशुद्धिताम् उपादाया ध्यात्मशून्यता नोपलभ्यते ह्य् अत्यन्तविशु द्धि ताम्
5 उपादाय पेयालं यावद् अभावस्वभावशून्यता नोपलभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादाय स्मृत्युप स्थानानि नोपलभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादा य
6 बोधिपक्षिका धर्माः बलानि वैशारद्यानि प्रतिसंविदः आवेदनिका बुद्धधर्माः स्रोतआपन्नः सकृदागामी अनागामिः प्र त्येकबुद्धः तथा गतो ऽर्हा सम्यक्संबु द्धो नो प लभ्यते
7 ह्य् अन्तविशुद्धिताम् उपादाय तथा स्रोतआपत्तिफलं पेयालं यावत् सर्वाकारज्ञता नोप लभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादाय अनुत्पादो नोपलब् ह्य ते
8 ह्य् अत्यन्तविशुद्धिताम् उपादाय तथा अनिरोधः असंक्लेशः. अव्यवदानम् अनभि संस्कारो नोपलभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादाय पूर्वान्तो नो प लभ्यते
9 ह्य् अत्यन्तविशुद्धिताम् उपादाय तथापरान्तो नोपलभ्यते तथागतिर् गतिः स्थितिः च्युतिर् उपप त्तिर् नोपलभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादाय. हानिर् नोप ल भ्यते
10 वृद्धिर् नोपलभ्यते ह्य् अत्यन्तविशुद्धिताम् उपादाय कस्यानुपलब्धेः सर्वं नोपलभ्यते धर्मधा त्वनुपलब्धेर् नोपलभ्यते तत् कस्माद् धेतोर् न हि सुभूते धर्माधात्व नु लब्धेर्
11 धर्मधातुर् उपलभ्यते तथानुत्पादानिरोधासंक्लेशाव्यवदानानभिसंस्कारतथ ताभूतकौट्यानुपलब्धेर् यावत् प्रज्ञापारमितानुलब्धेर् नोपल भ्य ते
12 प्रज्ञापारमिता. अध्यात्मशून्यतानुपलब्धेर् नोपलभ्यते अध्यात्मशून्यता. पेयालं या वद् अभावस्वभावशून्यतानुपलब्धेर् नोपलभ्यते. स्मृत्युपस्थाना नु लब्धेर्
13 नोपलभ्यते. पेयालं यावद् अष्टादशावेदनिकबुद्धर्मानुपलब्धेर् नोपलभ्यते स्रोतआपन्नानुपलब्धेर् नोपलभ्यते । पेयालं । यावत् तथागतानुप ल भेर्
14 नोपलभ्यते स्रोतआपत्तिफलानुपलब्धेर् नोपलभ्यते यावत् सर्वाकारज्ञतानु पलब्धेर् नोपलभ्यते अनुत्पादानुपलब्धेर् नोपलभ्यते यावद् अनभिसं स्का रानुपलब्धेर्
वेर्सो
1 नोपलभ्यते अनभिसंस्कारः. पूर्वान्तानुपलब्धेर् नोपलभ्यते यावद् वृ द्धिर् नोपलभ्यते प्रथमभूम्यनुपलब्धेर् नोपलभ्यते यावद् दशमभू म्य् नुपलब्धेर्
2 नोपलभ्यते. पुनर् अपि भूम्य्नुपलब्धेर् नोपलभ्यते दशभूमयः. कतमा दश. तद्य था शुक्लविपश्यना भूमिर् गोत्रभूमिः आष्टमकभूमिर् दर्शन भू मिस्
3 तनूभूमिर् वीतरागभूमिः कृत्यावीभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्वभूमि ः संबुद्धभूमिर् इति । तत्राध्यात्मशून्यतायां प्रथमभूमिर् नोपल भ्य ते.
4 पेयालं । यावद् अभावस्वभावशून्यतायां प्रथमा भूमिर् नोपलभ्यते. एवम् अध्यात्मशून्य तायां द्वितीया भूमिर् नोपलभ्यते पेयालं तृतीया भूमिश् चतुर्थ् ई भूमिः
5 पञ्चमी भूमिः षष्टी भूमिः सप्तमी भूमिर् अष्टमी भूमिर् नवमी भूमिर् यावद् अभावस्वभाव शून्यतायां दशमा भूमिर् नोपलभ्यते । तत् कस्माद् धेतोः । न हि सुभूते
6 प्रथमभूम्यनुपलब्धिर् नोपलभ्यते न नोपलभ्यते पेयालं यावन् न दशमभूम्यनुपलब्धिर् अ त्यन्तविशुद्धिताम् उपादाय. आध्यात्मशून्यतायां सत्वपरिपाको
7 नोपलभ्यते पेयालं यावद् अभावस्वभावशून्यतायां सत्वपरिपाको नोपलभ्यते ह्य् अत्यन्तवि शुद्धि ताम् उ पादाय अध्यात्मशून्यताया बुद्धक्षेत्रपरिशोधनं नोप ल भ्यते
8 पेयालं. यावद् अभावस्वभावशून्यतायां बुद्धक्षेत्रपरिशोधनं नोपलभ्यते ह्य् अत्यन्तवि शुद्धिताम् उपादाय अध्यात्मशून्यताया पंच चक्षूंषि नोप ल भ्यन्ते.
9 पेयालं यावद् अभावस्वभावशून्यतायां पञ्च चक्षूंषि नोपलभ्यन्ते ह्य् अत्यन्तविशुद्धिताम् उपादाय् एवम् हि सुभूते बोधिसत्वो महासत्वो ऽनुपलंभयो गे न
10 सर्वधर्माणां महायेन सर्वाकारज्ञतायाम् निर्यास्यति ...... उन्लेसेर्लिछेस् कोलोफोन्?: समाप्त ए .. रिवर्तो .. .. म् एकादस्य
11 अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्. महायानं महायान् अम् इति भदन्त भगवन् उच्यते. सदेव मा नु षासुरं लोकम् अभिभू य निर्या स्य ति
12 तेनोच्यते महायानम् इति. आकाशसमं तद् यानं. तद्यथाप्य् आकाशे ऽप्रमेयाणाम् असंख्येयानां सत्वानाम् अवकाश स् तद् अनेन भदन्त भगव
13 पर्यायेण इदं महायानं. तद्यथापि भदन्त भगवन्न् आकाशस्य आगमो वा निर्गमो वा स्थानं वा नोपलभ्यते एवं खल्व् अस्य भदन्त भगवं म हा यानस्य
14 नैवागमो न निर्गमो न स्थानम् उपलभ्यते. त्र्यध्वसमतायानम् इदं यानं यदुत महायानं तस्माद् भदन्त भगवंस् तद् यानं महायानं महायानम् इ
(अष्टाक्, ब् fओल्. 102)
रेच्तो
1 ... बोधिसत्वं महासत्वम् आगम्य दशाना कुशलानान् धर्मपथानां लोके प्रादुर्भावो भवति तथा चतुर्णा ध्यानानां: चतुर्णा प्रमाणानां
2 चतसॄणाम् आरू प्यसमापत्तीनां लोके प्रादुर्भावो भवति तथा दानपारमिताया लोके प्रादुर्भावो भवति : एवं शीलपारमिताया क्षान्तिपारमिताया वीर्य पा रम् इताया
3 ध्यानपारमिताया प्रज्ञापारमिताया : लोके प्रादुर्भावो भवति तथाध्यात्मशून्यताया लोके प्रादुर्भ् आवो भ् अवति : एवं याव अभावस्वभा व शून्यताया
4 लोके प्रादुर्भावो भवति : तथा चतुर्णां स्मृत्युपस्थानाना ं लोके प्रादुर्भावो भवति : पेयालं याव अष्टादशानां आवेदिकानां बुद्धधर्माना ं
5 लोके प्रादुर्भावो भवति सर्वा का र ज्ञताया लोके प्रादुर्भावो भवति । पुनर् अपर ं भदन्त भगवन् बोधिसत्व महासत्वःम् आगम्य क्षत्रियमहाशालाना ं लोके प्रादुर्भावो भवति : एवं ब्राह्मणमहा शा लानां :
6 गृहपतिमहाशालानां लोके प्रादु र्भावो भवति : तथा राज्ञा चक्रवर्तीना ं लोके प्रादुर्भावो भवति : तथा भदन्त भगवां बोधिसत्वाम् आगम्य च तु महाराजिकायिका
7 देवा प्रज्ञायन्ते एवं या वद् अकनिष्ठा देवा प्रज्ञायते : तथा भदन्त भगवां बोधिसत्वा महासत्वम् आगम्य स्रोतापत्तिफलं प्रज्ञा य ते
8 स्रोतआपन्न प्रज्ञायते : एव याव अर्हत्वं प्रज्ञायते : अर्हा प्रज्ञायते प्रत्येकबोधि प्रज्ञायते प्रत्येकबुद्ध प्रज्ञायते : तथा भदन्त भगवां बो धि सत्व
9 महासत्वम् आगम्य सत्वानां परिपाक प्रज्ञायते : बुद्धक्षेत्रपरिशोधनं प्रज्ञायते : तथागत : अर्हन्त सम्यक्संबुद्धा लोके प्रज्ञायन्ते धर्मचक्रप्रवर्तनानि च लोके
10 प्रज्ञायते : तथा बुद्धरत्नं प्रज्ञायते : धर्मरत्नं प्रज्ञायते संघरत्न ं प्रज्ञायते : तद् अनेन भदन्तेन भदन्त भगवां पर्यायेण बोधिसत्वस्य महास त्व स्य
11 सदेवमनुष्यासुरेण लोकेन सततं रक्षानुगुप्तिं संविधास्यामि । एवम् उक्तो भगवां शक्रं देवेन्द्रम् एतद् अवोचत्* एवम् एत कौशिक तथा यथा
वेर्सो
1 यूयं वदथ : बोधिसत्व कौशिक महासत्वम् आगम्य सर्वनिरया उच्छिद्यते : तीर्यग्योनि उच्छिद्यते : यमलोक उच्छिद्यते : पेयला याव बुद्धरत्नस्य लोके प्रा दु र्भावो
2 भवति : एवं धर्मरत्नस्य संघरत्नस्य लोके प्रादुर्भावो भवति : तस्माद् धि कौशिक बोधिसत्वा महासत्वा सदेवमानुष्यासुरेण लोकेन सत तं
3 सत्कर्तव्य गुरुकर्तव्य : मा न यितव्य पूजयितव्य सततं च सातत्येन रक्षानुगुप्तिस् तेषा संविधातव्य : माम् एव कौशिक सत्कर्तव्य : गुरुकर्तव्य मान यि तव्य
4 पूजयितव्यं मन्येता : यो बोधिसत्वं महासत्व सत्कर्तव्यं : गुरुकर्तव्य मानयितव्य पूजयितव्य मन्यते : तस्माद् धि कौशिक बोधिसत्वो महासत्वो
5 सदेवमानुष्यासुरेण लोकेन सततं सत्कर्तव्य गुरुकर्तव्य मानयितव्य पूजयितव्य : सतत च सातत्येन रक्षानुगुप्ति संविधातव्य : यत् कौशिक अ य ं
6 त्रिसहस्रमहासहस्रो लोकधातु परिपूर्णो भवेत् श्रावकैर् वा प्रत्येकबुद्धैर् वा तद्यथा नटवन ं वा इक्षुवनं वा शालिवन ं वा तिलवन ं वा
7 तानि याव जीव कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सत्कुर्यात् गुरुकुर्यान् मानयेत् पूजयेत् सर्वोपकरणै यश् चेक प्रथमचित्तोत्पादिक बोधिसत्वं म हा सत्व
8 षड्भि पारमिताभिर् अविरहितं सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् : इदम् एव सत् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्य ं प्रसु नु यात् । तत् कस्माद् धेतो
9 न हि क् औशिक श्रावकप्रत्येकबुद्ध आगम्य बोधिसत्वा महासत्वा लोके प्रज्ञायते एव तथागता अर्हत सम्यक्संबुद्धा : बोधिसत्वं तु कौशिक
10 महासत्वम् आगम्य सर्वश्रावकप्रत्येकबुद्धा लोके प्रज्ञायते एवं तथागता अर्हन्त अर्हन्त (!) सम्यक्संबुद्धा इति : तस्माद् धि कौशिक बोधिसत्वा महासत्वा स दे वमानुष्यासुरे ण
11 लोकेन सतत ं सत्कर्तव्य गुरुकर्तव्य : मानयितव्य पूजयितव्य : सतत ं च सातत्येन तेषा ं रक्षानुगुप्तिं सविधातव्य इति ॥ [अद् हेरे हस् अ चोलोफोन्: द्वितीयः शक्रपरिवर्तः 25
(अष्टाक्, च् fओल्. 209)
रेच्तो
1 आह शारद्वतीपुत्र पश्चिमे काले पश्चिमे समये सद्धर्मस्य क्षयात् ते बहवो भविष्यन्ति तत्रोत्तरायान् दि शि
2 बोधिसत्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा अपि त्व् अल्पकास् ते भविष्यन्ति य इमां गंभीरा प्रज्ञा पा रमितां
3 श्रुत्वाधिमोक्ष्यन्त्य् अधिमुक्त्वा च लिखिष्यन्ति लेखयिष्यन्ति । एवम् उद्ग्रहीष्यन्ति । धारयिष्यन्ति पर्याप्स्य न्ति
4 वाचयिष्यन्ति उपदेक्ष्यन्ति भाषिष्यन्ति योनिशं मनःसु करिष्यन्ति भावयिष्यन्ति तथत्वाय च प्र ति पत्स्यन्ते ।
5 ते च पुनर् इमां गंभीरा ं प्रज्ञापारमितां श्रुत्वा भाष्यमाणां नावलीयिष्यन्ति न सलीयिष्यन् ति
6 नोत्त्रसिष्यन्ति न सन्त्रसिष्यन्ति न संत्रासम् आप्स्यन्ते । तत् कस्माद् धेतोर् अनुबद्धास् तेभिः कुलपुत्रै र्
7 वा कुलदुहितृइभिर् वा तथागता अर्हन्त सम्यक्संबुद्धाः परिपृष्टाः परिप्रश्निताश् चेमाम् एव गंभी रां
8 प्रज्ञापारमिताम् आगम्येति । तत् कस्माद् धेतोः प्रज्ञापारमितापरिपूर्णा हि ते कुलपुत्रा वा कुलदुहि त रो
9 वा भविष्यन्त्य् एवं ध्यानपारमितापरिपूर्णा वीर्यपारमितापरिपूर्णाः क्षान्तिपारमितापरिपूर्णाः
10 शीलपारमितापरिपूर्णाः दानपारमितापरिपूर्णा भविष्यन्ति एवम् आध्यात्मशून्यतापरिपूर्णा या व द्
11 अभावस्वभावशून्यतापरिपूर्णा भविष्यन्ति एव स्मृत्युपस्थान प रिपूर्णाः पेयालं यावद् अष्टादशावे णि का
12 बुद्धधर्मपरिपूर्णास् ते कुलपुत्राश् च कुलदुहितरो वा भवि ष्यन्ति तत् कस्माद् धेतो ः कुशलमूल् ओपस्त ब्धा
वेर्सो
1 बहुजनस्थार्थं करिष्यन्ति सुखं चेमाम् एवानुत्तरां सम्यक्संबोधिम् आरभ्ये ति तत् कस्माद् धे तोस् त था हि शार द्व तीपुत्र
2 मया तेभ्यः सर्वाकारज्ञताप्रतिसंयुक्ता कथा कथिता ये ऽपि ते शा रद्वतीपुत्र बभूवुर् अ तीते
3 ऽध्वनि तथागता अर्हतः सम्यक्संबुद्धास् तैर् अपि तेभ्यः कुलपुत्रेभ्यः कुलदुहितृभ्यो वा सर्वाकारज्ञता प्र तिसंयुक्ता
4 कथा कथिता तेषां जातिव्यतिवृत्तानाम् अपि त एव समुदाचारा भविष्यन्ति यदुतानुत्तरां
5 सम्यक्संबोधिम् आरभ्य् ए ति : ते च पुनः परेभ्यस् ताम् एव कथां कथयिष्यन्ति यदुतानुत्तराम् एव सम्यक्संबोधिम् आ र भ्येति
6 ते च पुनः कुलपुत्रा वा कुलदुहितरो वा सहिताः समग्रा भविष्यन्त्य् अनुत्तरायां सम्यक्संबो धौ
7 न च तां शक्ष्यति भेत् त् उ ं मारो वा मारकायिका वा देवा यदुतानुत्तरायाः सम्यक्संबोधेः प्राग् एवान्ये भिः
8 पापेच्छेभिः पाप स मुदाचारेभिः शक्यान् भेत्तुं नेदं स्थानं विद्यते । ते च पुनः शारद्वतीपुत्र बोधिसत्वयानि काः
9 कुलपुत्राः कुलदुहितरो वेमां गंभीरां प्रज्ञापारमितां श्रुत्वोदारं प्रीतिप्रसादप्रामोद्यं प्रतिलप्स्य न्ते
10 बहुजनं वा कुशलेषु धर्मेषु प्रतिष्ठापयिष्यन्ति । यदुतानुत्तरां सम्यक्संबोधिम् आरभ्येति तेभिश् च शा र द्वतीपुत्र
11 कुलपुत्रेभिर् वा कुलदुहितृभिर् वा मम संमुखे वाच ं भाषिता वयं खलु भदन्त भगवन् बहू नि
12 प्राणशतानि बहूनि प्राणसहस्राणि बहूनि प्राणशतसहस्राणि बोधिसत्वचर्यायां चर
[प्रज्(उ1), द् fओल्. 748); तेxत् ओfतेन् चोर्रुप्त्, हेरे wइथोउत् चोर्रेच्तिओन्
रेच्तो
1 याह्नसमये एवं रात्र्या पुरिमे यामे एवं मध्यमे : एवं पश्चिमे यामे गङ्गानदीवालिकासमा सत्वा भुंजापयेद् भुंजापयित्वा
2 च तेषा ं सत्वानां सुवर्णपीतकदुश्य सुवर्णदुष्यं च दद्यु गङ्गानदीवालिकासमा चैव कल्प तिष्ठन्त एवं परित्यजेत न च जानीयात् कथं
3 परिणामयितव्य : सर्वज्ञताया : दानं नैव स्याद् बोधिसत्वस्य न दानपारमिता अथ जानीयात् परिणामयितुं दानपारमिता प्र ति गृह्णेन
4 बोधिसत्वेन एषो बोधिसत्वस्य सान्तिकां बहु परित्याग तत् कस्माद् धेतो तथा हि स अप्रमेया बुद्धधर्मा प्रतिलब्धुकाम न च
5 प्रमाणबद्धेन परित्यागेन शक्यं सर्वज्ञता प्रतिलब्धुं सचेत् स दानं प्रमाणबद्धः स्यात् य तश् चैव सो दानम् अप्रमाणबद्धः ततश् चै व
6 दानपारमिता भवति । एवं खल्व् आवुस पूर्ण बोधिसत्वेनाप्रमाणबद्धं दानं दातव्य : न प्रमाणबद्ध : एवन्तः परि त्य क्तव्य
7 नातः उत्वरां परित्यजामीति । अयं बोधिसत्वः एतेनोपायेन मात्सर्यं प्रतिगृह्णाति । सर्वज्ञता च न प्रतिगृह्णाति । सचेत् पुन र्
8 एवं चित्तम् उत्पादयति । अप्रमेया दानं दातव्यः ताव दास्यामौ यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं समान निरामिषेण धर्मदाने न
9 सत्वानाम् अनुग्रहं करिष्यामि : सांप्रति खलु पुनः आमिषेणानुग्रहीष्यामः यावद् बोधाय चरिष्यामः अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं स मा नः
10 निरामिषेण धर्मदानेन सत्वानाम् अनुग्रहं करिष्यामः तद्यथाप्य् आवुस पूर्ण पुरुषो राजानं सेवेत : राजास्माक भक्तदाता सेवतो भ ज तः
वेर्सो
1 पर्युपासतः तदा राजा तुष्टोदाग्र आप्तमनः अनेकै शतसहस्रैः रत्नै अभिच्छादयेरन् एवम् एवावुस पूर्ण बोधिसत्वो ऽनुत्तरां सम्यक्संबोधिम् अभि सं बोद्धुकामः
2 अप्रमेया सत्वा : आमिषदानेन परिगृह्णाति अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध समानः निरामिषेण धर्मदानेन ओवदत्ति अनुशासति अ प्र मेय
3 सत्वा संसारदुःखेभ्यो मोचयति । तद्यथावुस पूर्ण बहूनि प्राणशतानि बहूनि प्राणशतसहस्राणि राजप् उ त्रं सेवन्ति भजन्ति पर्युपासन्ति । स रा ज पुत्रस्
4 तेषां पुरुषाण्णा सेवकराणां सर्वेषां पक्वभक्तेन संग्रहं करोति भवति स समयो सो राजपुत्रो राजा प्रतिष्ठेत् राजाभिषिम्च्यते । स राजाभिषेक प्रा प्तः
5 ये ते तस्य पुरुषा सेवकराः उपरीभूता ममैते भूम्य चरन्तस्य केलायितुम् अहम् एते ममायितुं य नूनम् अहम् एते यदारू पै र्
6 भोगैः प्रतिष्ठापयेत् स्वस्वंनगरे प्रतिष्ठापयेत् केचि कर्मान्तेषु प्रतिष्ठापयेत् केचि पट्टनेषु प्रतिष्ठापयेत् केचि नगरे केचित् कर्बडे ।
7 केषांचिद् ग्रामवरभोगः ददाति एवम् एवावुस पूर्ण बोधिसत्वो बोधाय चरन्तः अप्रमेया सत्वा आमिषदानेन प्रतिगृह्णि । चीवरपिण्डपा त शय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैः
8 एवं खल्व् आवुस पूर्ण बोधिसत्वः सत्व आमिषदानेना नु गृह्णाति । तद्यथापि स राजपुत्रस् ते
9 सेवकरा उपस्थायका पक्वभक्तेनानुगृह्णाति खादनीयभोजनीयशायनीयेन यथासंविद्यमानेन एवम् एवावुस पूर्ण बोधि स त्वो
10 बोधाय चरन्तः सत्वा आमिषदान् एन् आनुगृह्णाति चीवरपिण्डपातशय्यासनग्लानभैषज्यपरिष्कारैः एवं खल्व् आवुस पू र्ण
[प्रज्(उ1), द् fओल्. 764); तेxत् ओfतेन् चोर्रुप्त्, हेरे wइथोउत् चोर्रेच्तिओन्
रेच्तो
1 वातेन भस्मीकर्तुं न त्व् ऐवा वै वर्तिकस्य बोधिसत्वस्य शक्यं चित्तं परयादयितुं शक्यं खलु पुन शारद्वतीपुत्र ते अर्हन्त क्षीणास्रव षडभिज्ञा गङ्गानदि वा लिकासमा
2 लोकधातव उदह्यमानै आदीप्तः एकज्वालीभूतै तन् महाद् अर्चिस्कन्धः एकैन मुखवातैन निर्वापयितुं न त्व् एवावैवर्तिकस्य बोधि स त्वस्य
3 शक्यं चित्तं पर्यादयितुं अनेनापि शारद्वतीपुत्र पर्यायेण् आ वैवर्तिकस्य बोधिसत्वस्य चित्तम् अग्रम् आख्यायति । याव निरुत्तरम् आख्यायति
4 आह आश्चर्यं भगवां यावद् उदारं चित्तम् अवैवर्तिकस्य बोधिसत्वस्य महासत्वस्य शक्यं पर्यादयितुम् अभिभवितुं वा विवर्तयितुम् आह एवम् एव शार द्व तीपुत्र
5 एवम् एव शारद्वतीपुत्र तत् कस्माद् धेतो न हि शारद्वतीपुत्र बुद्धा भगवन्ता द्वयभाषितं अद्वयभानिना तथागता तथा चै व
6 यथा चैव यथा बुद्धा भाषन्ति । सचेच् चारद्वतीपुत्र ये अनन्तापर्यन्तैः लोकधातुभि सत्वा ये चानन्तापर्यन्तेषु लोकधातुषु गं गा नद्याः
7 तासु यद् वालिका तावन्तः अन्ये सत्वा भवेयु यावन्तश् च पृथिवीधातु यावन्तश् चाब्धातुः यावन्तश् च तेजवधातु । यावन्त वा यु धातुः
8 तावन्तः अन्ये सत्वा भवेयुः तत् किं मन्यसे शारद्वतीपुत्र बहवस् ते सत्वा भवेयुः आह बहवो भगवां बहव सुगत आ ह
9 ते पुनः शारद्वतीपुत्र सर्वसत्वा अर्हन्तः षडभिज्ञाः भवेयुः एवंरूपया ऋद्ध्या समन्वागता भवेयुः तद्यथापि ना म महामौ द्ग ल्यायन
10 एकमेकश् च ऋद्धिवन्ता यावन्तस् ते सत्वास् तावन्तः मार पापीमन्त निर्मिणुयात् एकमेकस्य मारस्य पापीमतः यावन्तस् ते स त्वा
वेर्सो
1 तावन्तः हस्तिकाया निर्मिणुयात् तावन्त अश्वकायाः तावन्त रथकायाः तावन्त पत्तिकायाः निर्मिणुयात् एव याव शारद्वतिपु त्र
2 गणन याति अर्हन्त ऋध्हिमन्ताः एकमेकश् चाभिनिर्मिणु यात् तेषाम् अभिनिर्मितानाम् एकमेकश् चाभिनिर्मिताः एवन्ताभिनिर्मिणुयात् तत् किम्
3 मन्यसे शारद्वतीपुत्र शक्यम् एतेषां गणनापि संख्यापि प्रवेशनाय आ ह नैनि भगवां यत्र वासौ कुलपुत्रो वा कुलदुहिता वा विहरेत् त त्रि स हस्रमहासहस्रं
4 लोकधातुम् उदह्यन्तम् अभिनिर्मिणुयात् तत् किं मन्यसे शारद्वतीपुत्रापि नु ते सत्वा महाऋद्धि दर्सियुः आह : मह र्द्धि का
5 ते भगवां भवेयुः महाऋद्धिसमन्वागता भयेन प्रत्युपस्थिता । आह सचेच् चारद्वतीपुत्र ये अनन्तापर्यन्तै लोकधातुभि र्
6 गङ्गानद्याः तेषां यावन्ता वालिका तावन्ता कल्पा तिष्ठेयु इमे भया घोरा संदर्शयतः अभव्यास् ते अवैवर्तिकस्य चित्तं पर्या द यितुं
7 वा विवर्तयितुं वा तत् किं मन्यसे शारद्वतीपुत्र कतमा ऋद्धि बलवन्ततरा स्यात् यश् च तेषाम् अप्रमेयाणां सत्वानां तेषां च माराणां पापीमतां यश् चा वै वर्तिकस्य
8 ऋद्धिः आह बलवती एषा भगवाम् ऋद्धिः य अवैवर्तिकस्य बोधिसत्वस्य बलवान् एष चित्तः यः अवैवर्तिकस्य बोधिसत्वस्य आह: तत् किं मन्य से
9 शारद्वतीपुत्र य एवरूपया ऋद्ध्या एवरूपेण बलेन समन्वागतः अर्हत्य् असाव् अग्रत्वं कारापयितुम् अग्रता वा निर्देष्टुं आह सर्वज्ञचित्त स्थाप यि त्वा
10 यथाहं भगवद्भाषितस्यार्थाम् आजानामि पर्यायेण बोधिसत्वचित्तम् अग्रम् आख्यायते यावे निरुत्तरम् आख्यायते यदुत-म्-अवैवर्तिकस्य
बोन्गर्द्-लेविन्, ग्.म्. : "अ fरग्मेन्त् ओf थे पञ्चविंशतिसाहस्रिकाप्रज्ञापारमितासूत्र fरोम् अ. स्तेइन् चोल्लेच्तिओन्", अबोरि (अमृतमहोत्सव वोलुमे) 72।73, 1991।1992 (1993), प्प्. 715-717; अगैन् इन् ब्ब् 40, प्प्. 211f.; स्तेइन् ख. इ.220 (ओर्. 8212.174), 2 fरग्म्.; fअच्सिमिले ओf ओने सिदे इन् w. zwअल्f: बुद्धिस्म्: अर्त् अन्द् fऐथ् (लोन्दोन् 1985), प्. 57;
अअ ॥। त थागता अर् अहतः ॥।
ब् ॥। परिनिर्वृता न् आ ं च तेषां तथाग तानां ॥।
च् ॥। चत् उत्र् इं शतिम सम् आ प्त 34 ः ॥। *{= बुद्ध इमगे}
द् ॥। य श् च् ऐते इमां प्रज्ञापार मिताम् उपनामयेत् ः ॥।
ए ॥। जंबुद्व् ईपं पूर्णं स च् ऊडिकाबद्धस् ः ॥।
f ॥। प्रज्ञाप् आ रमितां परिग् ऋह्णे ः ॥।
ग् ॥। मानयितुकामो न पूजय् इतुक् आमो ॥।
ग्.म्. बोन्गर्द्-लेविन् उन्द् स्हिन्ऽइछिर्ः होरि: "अ fरग्मेन्त् ओf थे लर्गेर् प्रज्ञापारमिता fरोम् चेन्त्रल् असिअ", जिअब्स् 19.1 (1996), प्प्. 19-60; सि प्।19.3
रेच्तो
1 ॥। .. मार्गका रज्ञता सर्व् आकारज्ञता ।
मूल पाठ: Fragments of Prajñāpāramitā texts (from 16 sources) · Edition: (1) Konow, Sten: Central Asian fragments of the Ashṭādaśasāhasrikā Prajñāpāramitā and of an unidentified text, Calcutta 1942 (Memoirs of the Archaeological Survey of India, 69). = AṣṭāK, unidentified = Praj(U1); (2) Bidyabinod, B. B.: "Fragment of a Prajnaparamita Manuscript from Central Asia", Memoirs of the Archaeological Survey of India 32 (1927), pp. 1-11. = AṣṭāB; (3) AṣṭāH = 1 Bl. von S. Hed · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0