द्वाविंशत्यवदानकथा · अध्याय 3
इति द्वाविंशत्यवदानकथायां धर्मश्रवणप्रोत्साहनकथा द्वितीयः परिच्छेद ः ॥
इइइ. मनुष्यदुर्लभकथा
यत् प्राप्य जन्मजलधेर् अपि यान्ति पारम् आरोपयन्ति शिवम् उत्तमबोधिबीजम् ।
चिन्तामणेर् अपि समभ्यधिकं गुणौघैर् मानुष्यकं क इह तद् विफलीकरोति
यो मानुष्यं कुशलविभवैः प्राप्य कल्पैर् अनल्पैर्
मोहात् पुण्यद्रविणम् इह न स्वल्पम् अप्य् आचिनोति ।
सो ऽस्माल् लोकात् परम् उपगतस् तीव्रम् अभ्येति शोकं
रत्नद्वीपाद् वणिग् इव गतः स्वं गृहं शून्यहस्तः
नाकुशलैः कर्मपथैर् मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये दुःखम् एव कुतः सुखम्
नातः परं वञ्चनास्ति न च मोहो ऽस्त्य् अतः परम् ।
यद् ईदृशं क्षणं प्राप्य न कुर्यात् कुशलं बहु
एकक्षणकृतात् पापात् अवीचौ कल्पम् आस्यते ।
नैकजन्मकृतात् पापात् का पुनः सुगतौ कथा
अत एवाह भगवान् मानुष्यम् अतिदुर्लभम् ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0