द्वाविंशत्यवदानकथा · अध्याय 2
इति द्वाविंशत्यवदानकथायां पुण्यप्रोत्साहनकथा प्रथम ः परिच्छेदः ॥
इइ. धर्मश्रवणप्रोत्साहनकथा
जलनिधिकूर्मकर्णयुगरन्ध्रसमागमवत्
क्षणम् अ न वाप्यम् अद्भुतम् इमं समवेत्य चलम् ।
प्रशमपुरैकवर्म विनिपातभयापहरं
शृणुत सुदुर्लभं क्षणम् अपीह मुनेर् वचनम्
यद् दुर्लभं कल्पशतैर् अनेकैर् मानुष्यम् अष्टाक्षणदोषमुक्तम् ।
तत् साम्प्रतं प्राप्तम् अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः
पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे ।
यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलम्
न नरकगतैः प्रेतैस् तिर्यग्गतैर् विकलेन्द्रियैर्
अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः ।
मुनिसवितरि प्रज्ञालोके न चानुदिते जिने
सनरविबुधैः शक्यम् पातुं मुनीन्द्रवचो ऽमृतम्
तस्मात् कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् ।
श्रोतव्य एव प्रयते न धर्मो यस्माद् अतः सर्वगुणा भवन्ति
मौनीन्द्रं वाक्यरत्नं जनयति सुधियाम् एतद् आदौ प्रमोदं
श्रोत्रापाते ततश् च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति ।
चिन्ताध्यानावसाने स्फुटयति सकलं जन्मचक्रप्रबन्धं
निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम्
हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यम् अनुत्तरम् ।
तद् इदम् एवम् अवेत्य मुनेर् वचः शृणुत संप्रति निर्मलमानसाः
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0