द्वाविंशत्यवदानकथा · अध्याय 24
इति ॥
ततो राजा अस्या गाथायाः सहश्रवणात् प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षम् उवाच ॥ इदं गुह्यक मे शरीरं यथेष्टं क्रियताम् इति ॥ ततः शक्रो देवेन्द्रो राजानं मेरुवद् अकम्प्य म् अनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्याम् एकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानम् अभ्युत्साहयन्न् उवाच ॥ साधु साधु सत्पुरुष दृढसंनाहस् त्वं नचिराद् अनेन व्यवसायेन अनुत्तरा ं सम्यक्संबोधिम् अभिसंभोत्स्यसे । अयं च ते इष्ट जन समागम इति ॥
ततो राजा शक्रं देवेन्द्रम् इदम् अवोचत् ॥ साधु साधु कौशिक कृतो ऽस्माकं धर्माभिप्रायपूरितश् चेति ॥
भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽ सौ तेन कालेन तेन समयेन सुरूपो नाम राजा बभूवाहं सः । सुन्दरकुमार आनन्दः । सुन्दरका एषैव यशोधरा । तदापि मे भिक्षवो धर्महेतोर् इष्टबन्धुपरित्यागः स्वजीवितपरित्यागश् च कृतः प्राग् एवेदानीम् । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम् । यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो ( दक्: 237 ) धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्य् एवं वो भिक्षवः शिक्षितव्यम् इति ॥
इति द्वाविंशतिकावदानकथायां दानकथा ॥
[xxइव्.] पुण्योत्साहावदानसूत्र
अथ श्रीभगवान् बुद्धः सर्वज्ञस् तान् सभाश्रितान् सर्वांल् लोकान् समालोक्य पुनः सद्धर्मम् आदिशत् ॥
शृण्वन्तु कुलपुत्रा यत् संबोधिज्ञानसाधनम् ।
सद्धर्मं तन् मयाख्यातं सत्त्वानां भद्रकारनं
प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये ।
संबोधिप्रणिधिं कृत्वा कर्तव्यं दानम् ईप्सितम्
ततो विरम्य पापेभ्यो दशभ्यो ऽपि समादरात् ।
शुद्धशीलं समाधाय चरितव्यं सुसंवरम्
ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः ।
क्षान्तिव्रतं सदा धृत्वा चैतव्यं जगद्धितम्
ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने ।
पापमित्ररतिं त्यक्त्वा साधनीयं महद्गुणम्
तत इष्टाशयं त्यक्त्वा कामभोगविरागिणः ।
सुधीरचित्तम् आधाय ध्यातव्यं त्रिजगद्धितम्
ततो ऽमित्रसंरागं त्यक्त्वा संबोधिरागिणा ।
प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे
एताः पारमिताः षड्ढा ः पूरयित्वा यथाक्रमम् ।
सर्वान् मारगणाञ् जित्वा संबोधिज्ञानम् आप्स्यते
तत एवं महाभिज्ञः श्रीसंपद्वीर्यसद्गुणैः ।
सर्वसत्त्वहितं कृत्वा संबुद्धपदम् आप्स्यते
एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ ।
एवं पारमिताः सर्वाः पूरयेध्वं यथाक्रमम्
संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः ।
त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते
एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः ।
अर्हन्तः प्राप्य संबोधिं संबुद्धपदम् आप्स्यथ
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि भिक्षवः ।
एवम् अस्त्य् इति प्राभाष्य प्राभ्यनन्दन् प्रबोधिताः
सभा सर्वावती सा ऽपि श्रुत्वैतत् संप्रसादिताः ।
तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिताः
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0