द्वाविंशत्यवदानकथा · अध्याय 23
जनो ऽस्ति वा तथा भूयो ब्रूहि मे शास्तः ॥
भगवान् आह ॥ शृणु त भिक्षवः कस्मिंश् चित् समये महता संघेन सार्धं मघदेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपम् अवरुग्णं वातातपाभ्यां परिशीर्णं चैत्यं भिक्षुभिर् दृष्ट्वा भगवान् पृष्टः । कस्य भगवन्न् अयं स्तूप इति ॥
भगवान् आह ॥ चन्दनो नाम प्रत्येकबुद्धो बभूव । तस्येति ॥ भिक्षव ऊचुः । कुतो भगवं श् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनि र् वृत्तिश् चेति ॥ भगवान् आह ॥ इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनि र् वृत्तिश् च ॥ एवं भदन्त ॥ तेन हि भिक्षवः शृणु त साधु सुष्ठु च मनसिकुरु त भाषिष्ये ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयन्ति । ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च ( दक्: 215 ) प्रशान्तकलिकलहडिम्बडमर ं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्न ं धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपुत्रः पुत्राभिनन्दी शिवरुद्रवरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथारामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहितदेवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोकप्रवादः । यद् आयाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवं । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् । तद्यथा राज्ञाश् चक्रवर्तिन ः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । तस्य चोद्याने महापद्मिनी । तत्र पद्मम् अतिप्रमाणं जातम् । तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम् । राज्ञा उक्तः परिरक्ष् य् अताम् एतत् पद्मम् इति ॥ यावद् अपरेण समयेन सूर्योदये तत् पद्म विकसितं तस्य च पद्मस्य कर्णिकायां दारकःपर्यङ्कं बद्ध्वावस्थितः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्त्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोनः संगतभ्रूस् तुङ्गनासो द्वात्रिंशता महापुरुषलक्षणैः ( दक्: 216 ) समलंकृतो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तस्य मुखात् पद्मगन्धो वाति । शरीराच् च चन्दनगन्धः । तत आरामिकेण राज्ञे निवेदितम् । तच् छ्रुत्वा राजा सा मात्यः सान्त ः पुरश् च तद् उद्यानं गतः । सहदर्शनात् तेन दारकेण राजा संभाषितः । एहि तात अहं ते ऽपुत्रस्य पुत्र इति ॥ ततो राजा हृष्टतुष्टप्रमुदित उवाच । एवम् एव पुत्र यथा वदसीति ॥
ततो राजा पद्मिनीम् अवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान् ॥ यत्र च स दारकः पादौ स्थापयति तत्र पद्मानि प्रादुर्भवन्ति ॥
ततस् तस्य चन्दन इति नाम कृतम् ॥ यदानुपूर्वेण चन्दनो दारको महान् संवृत्तो यौवनीभूतस् तदा नागरै राजा विज्ञप्तः । इहास्माकं देव नगरपर्व प्रत्युपस्थितं तद् अर्हति देव चन्दनं कुमारम् उत्स्रष्टुम् अस्माभिः सह पर्वानुभविष्यति । पद्मैश् च सर्वम् अधिष्ठानम् अलंकरिष्यतीति ॥ राजाह ॥
एवम् अस्त्व् इति ॥ ततश् चन्दनः सर्वालंकारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर् वाद्यैर् वाद्यमानै राजकुलाद् बहिर् उपयीति नगरपर्व प्रत्यनुभवितुम् । तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि ( दक्: 217 ) प्रादुर्भवन्ति दर्शनीयानि मनोरमाणि च तान्य् एकरश्मिनिश्चरितानि । तैश् च सूर्यरश्मिभिः स् पृष्टमात्राणि ग्लायन्ति शुष्यन्ति च ॥ अथ तस्य शुद्धसत्त्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितकुशलमूलस्य तद्दर्शनाद् योनिशो मनसिकार उत्पन्नः । यथेमानि पद्मानि उत्पन्नमात्राणि शोभन्ते ऽ र्करश्मिपरितापितानि म्लायन्ति शुष्यन्ति । एवम् इदम् अपि तथा शरीरम् इति ॥
तस्यैवं चिन्तयतस् तुलयत उपपरीक्षमाणस्य सप्तत्रिंशद् बोधिपक्ष्या धर्मा अभिमुखीभूताः । तेन तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता ॥ यावच् छुद्धावासकायिकैर् देवैस् तस्मै काषायाण्य् उपनामितानि । तानि च प्रावृत्य गगणतलम् उत्पतितो विचित्राणि च ज्वलनवर्षणतपनविद्युत्तनप्रातिहार्याणि कर्तुं प्रवृत्तः । यद्दर्शनाद् राज्ञामात्यनैगमसहायेन महाप्रसादः प्रतिलब्धः । विचित्राणि च कुशलमूलान्य् अवरोपितान्य् अभूत् ॥
भगवान् आह ॥ अतश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्ति र् नामाभिनिर्वृत्तिश् चेति ॥ भिक्षवो भदन्तं पप्रच्छुः ॥ कानि भदन्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश् चेति ॥
भगवन् आह ॥ भूतपूर्वं भिक्षवः काश्यपो नाम सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स बुद्धः सकलबुद्धकार्यं कृत्वा निरुपदिशेषे निर्वाणधातौ व्यवस्थितः ॥ तत्रानेन चन्दनेन पूर्वस्मिन् काले केशनखस्तूपं कारितं, काश्यपे भगवति प्रसादजातेन प्रव्रजितः । तत्र स्तूपे गन्धावसेकः कृतः पुष्पाणि चावरोपितानि प्रत्येकबोधौ चानेन मार्गो भावितः । तत ः स प्रत्येकबुद्धो बुद्धकार्यं कृत्वा शुद्धाशयत्वात् सो ऽ पि निर्वाणम् अगमत् ॥ ततस् तस्य शिष्यास् तस्यैव नाम्ना चैत्यं कारितवान् । तस्यैव चैत्य इति निवेदितः ॥ तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्य् एवं वो भिक्षवः शिक्षितव्यम् । इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति ॥
इति द्वाविंशत्यवदानकथायां चन्दनावदान द्वाविंशतितमः पन्च्छेदः ॥
( दक्: 219 ) संग्रहश्लोकाः
संग्रहश्लोकाः ॥
पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः ।
बिम्बस्नामं तथा गन्धं छत्त्रं धात्वावरोपणम् ॥ 1 ॥
मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् ।
प्रणामोज्ज्वालिकादीपं विहारम् अवतंसकम् ॥ 2 ॥
निर्माल्यापं चन्दनं च इत्य् एत बहुधा भ्र्शं ।
कथा द्वाविंशति ः प्रोक्ता भूयो दानस्य वर्णने ॥ 3 ॥
xxइइइ. दानकथा
(1) वस्त्र
अथ खलु भिक्षवो भगवन्तम् एतद् अवोचत् ॥
भगवञ् छ्रोतुम् इच्छामि यत् पुरान्यकृतं तथा ।
तत् सर्वं गद् य् अतां वीर लोकानां पुण्यवृद्धये
इत्य् उक्ते भगवान् आह शाक्यसिंहो दयाकरः ।
भिक्षवः श्रूयतां पुण्यं लोकानां पुण्यवृद्धये
दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं
दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम्
विभवसमुदयं वा दीप्तिम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा
।
यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात्
श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर् निवेश्य । श्रद्धाकरेण रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः
विभूतिभिर् यथा भ्रष्टो ऽ नैश्वर्यपदम् आप्तवान् ।
तथा श्रद्धेन्द्रियैर् भ्रष्टो न बोधिपदम् आप्नुयात्
तस्मान् नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु । निःशेषदोषशमनाय न चान्यद् अस्ति श्रद्धा यथा दहति दोषगणं समस्तम्
दानं चतुर्विधं प्रोक्तं दरिद्रस्य शिशोर् अपि ।
सुपात्रे च सुक्षेत्रे च विशेषं दानसद्वरम्
दीना ः कुवाससो मूढाः कपालाङ्कितपाणयः ।
दर्शयन्त्य् एव लोकस्य ह्य् अदातुः फलम् ईदृशम्
दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः
शश्वत् क्षुद्विहता भ्रमन्ति यद् अमी देहीति बाहूच्छ्रिताः ।
दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्य् अपि
प्रायो ऽल्पं सकृद् अप्य् अमीभिर् अशनं दत्तं न कस्मै चन
इति मत्वा नरास् तस्माद् दानैव प्रयतां कुरु ।
तेन दानात् परं बन्धुर् अन्यो नास्ति भवालये
भूतपूर्वं भिक्षवः कस्मिंश् चित् समये महता संघेन सार्धं श्रावस्त्यां विहरामि जेतवने ऽनाथपिण्डदस्यारामे । यदानाथपिण्ड् अद् एन गृहपतिना बुद्धप्रमुखाय भिक्षुसंघाय जेतवनं निर्यातितं क्रमेण कोटीशतं भगवच्छासने दत्तम् तदा तस्य बुद्धिर् अभवत् ॥ किम् अत्राश्चर्यं ( दक्: 222 ) यद् अहं दानानि ददामि पुण्यानि वा करोमि यन् न्व् अहं दरिद्रजनानुग्रहार्थं श्रावस्तीनिवासिनो जनकायाच् छन्दकभिक्षणं कृत्वा भगवन्तं सश्रावकसंघम् उपतिष्ठेयम् । एवं मे महाजनानुग्रहः कृतो भविष्यति बहु चानेन पुण्यं प्रसूतं भविष्यतीति ॥ ततो ऽनाथपिण्ड् अद् एन गृहपतिना एष वृत्तान्तो राज्ञे निवेदितः । राज्ञा सर्वस्यां श्रावस्त्यां घण्ठावघोषणा कारिता । शृण्वन्तु भदन्तः श्रावस्तीनिवासिनः पौरा अद्य सप्तमे दिवसे ऽनाथपिन्डदो गृहपतिर् हस्तिस्कन्धाधिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दकभिक्षणं कर्तुकामः । यस्य वो यन्मात्रं परित्यक्तं तद् अनुप्रदातव्यम् इति ॥ यावत् सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर् हस्तिस्कन्धाधिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दभिक्षणं कर्तुं प्रवृत्तः । तत्र येषां यन्मात्रो विभवस् ते तन्मात्रं दातुं प्रवृत्ताः । के चिद् धर्षं प्रयान्ति के चित् कटकं के चित् केयुरं के चिज् जातरूपमालां के चिद् अङ्गुलिमुद्रां के चिन् मुक्ताहारं ( दक्: 223 ) के चिद् धिरण्यं के चित् सुवर्णं के चिद् अन्तशः कार्षापणम् । गृहपतिर् पै परानुग्रहार्थं प्रतिगृह्णाति ॥ यावद् अन्यतमा स्त्री परमदरिद्रा । तया त्रिभिर् मासैः कृच्छ्रेःअ पटक उपार्जितः । सा तं पटकं प्रावृत्य वीथिम् अवतीर्णा ऽनाथपिण्डदश् च तया दूरत एवागच्छञ् शङ्खपटहैर् वाद्यमानैर् अवलोकितः । तयान्यतम उपासकः पृष्टः । यदि तावद् अयं गृहपतिर् आढ्यो महाधनो महाभोगो ऽन्त र्भौमानि निगूढान्य् अपि निधानानिपश्यति । कस्माद् अयं परकुलेभ्यो भैक्ष्यम् अटतीति ॥ सा उपासकेनोक्ता । परानुग्रहार्थं ये ऽसमर्था भगवन्तं सश्रावकसंघं भोजयितुं तेषाम् अर्थे ऽ नुग्रहं करोति । कथं बहवः समेता भगवन्तं प्रतिपादयेषुर् इति ॥ ततस् तस्या दारिकाया बुद्धिर् उत्पन्ना । अहं तावद् अकृतपुण्या न मे शक्तिर् अस्ति यद् अहम् एकाकिनी भगवन्तं सश्रावकसंघं भोजनेन प्रतिपादयितुम् । यन् न् व् अहम् अत्र किं चिद् अनुप्रदद्याम् इति ॥ सा स्वक ं विभवम् अवलोकयन्ती न किं चित् पश्यति ऋते पटकात् । सा चिन्तयितुं प्रवृत्ता । यद्य् अहम् इहस्थैव पटकं प्रदास्यामि नग्ना भविष्यामि । यन्
न्व् अहं ( दक्: 224 ) शरणपृष्ठम् अभिरुह्य पटकं क्षिपेयम् इति ॥
ततः सा शरणपृष्ठम् अभिरुह्य स्वशरीरात् पटकम् अपनीयानाथपिण्डदस्योपरि क्षिप्ता । ततः पटकं दृष्ट्वा गृहपतिना सा संलक्षिता । नूनम् अस्या एषैव विभवो यद् अनया शरणसंस्थया क्षिप्तम् इति ॥
तेन स्वपौरुषेयाणाम् आज्ञानुप्रदत्ता । गच्छन्तु भवन्तो ऽवलोकयन्तु केनायं पटकः क्षिप्त इति ॥ तैर् अवलोकिता यावद् उत्कुटुका निषण्णा । ततस् तैः पृष्टा तया चोक्तम् । यो मे विभव आसीत् स मे भगवद्गुणानुकीर्तनं प्रतिश्रुत्य दारिद्रभयभीतया तथागतप्रमुखे भिक्षुसंघे दत्त इति ॥ ततस् तैर् अनाथपिण्डदाय निवेदितम् । ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेन सा दारिका विचित्रैर् वस्त्रैर् आभरणैश् चाच्छादिता ॥ ततः सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना । उपपन्नमात्रायास् तस्यास् तथाविधानि वस्त्राणि प्रादुर्भूतानि यानि न कस्य चिद् अन्यस्य देवपुत्रस्य वा देवकन्याया वा । धर्मता खलु देवपुत्रस्य देवकन्याय वाचिरोपसंपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युताः कुत्रोपपन्नाः केन कर्मणेति । सा पश्यति मनुष्येभ्यश् च्युता ( दक्: 225 ) प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतः पटकप्रदानाद् इति ॥ ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्रा मणिरत्नचित्रचूडा कुङ्कुमतमालपत्त्रस्पृक्कादिसंमृष्टगात्रा ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुन्डरीकमन्दारकाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय ॥ अथ भगवान् पटप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञत्व तादृशी ं चतुरार्यसंप्रतिबोधिकी ं धर्मदेशना ं कृतवान् यां श्रुत्वा पटप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् ॥ सा दृष्टसत्या त्रिर् उदानम् उदानयति । इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिः नेष्टेन स्वजनभन्धुवर्गेण न पूर्यप्रेतैर् श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम् । उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वता ः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिता ः स्मो देवमनुष्येषु । आह च ॥
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय ।
भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्
इति ॥
अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा ।
परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखं दिवं जगाम
अथ पटप्रदायिका देवकन्या वणिग् इव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः । किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहापतिः शक्रो देवेन्द्राश् चत्वारो लोकपाला उपसंक्रान्ता इति ॥ भगवान् आह । न भिक्षवो ब्रह्मा सहापतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि त्व् अनाथपिण्डदस्य गृहपतेश् छन्दकभिक्षणं कुर्वाणस्य पटदानं कृत्वा कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना सर्वसुखभोगवस्त्रं प्राप्तवतीति । सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता तस्या मया धर्मो देशितः । दृष्टसत्या च ततः स्वभवनं गता इति ॥ तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम् । यद् बुद्धधर्मसंघेषु कारा न् करिष्यामो नापकारान् इत्य् एवं वो भिक्षवः शिक्षितव्यम् ॥
तच् छ्रुत्वा भिक्षवः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥
(2) शिबि
अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वं समामन्त्र्याह । शृणु मैत्रेय पुनर् अपि दानस्य फलानुशंसां वक्ष्यामि ॥ साधु भगवन्न् इति भगवांस् तस्यैतद् अवोचत् ॥
पुण्यं नराणां तमसि प्रदीपो भयेषु रक्षा व्यसनेषु बन्धुः ।
रुजासु भैषज्यम् अनुत्तरं च प्लवं च संसारमहासमुद्रे
दरिद्रनाशनं दानं शीलं दुर्गतिनिवारणम् ।
अज्ञाननाशनं प्रज्ञा भावना भवनाशनम्
शुद्धेन मनसा द्रव्यं स्वं ददाति यदा पुमान् ।
तत्क्षणं कुशलस्कन्धो दानम् इत्य् अभिधीयते
दानं सर्वसुखं महाभयहरं भाग्यं महच् चार्थदं
नानाकारविशालकौशलपदं सर्वैर् गुणालंकृतम् ।
तस्माद् दानम् अनेकदोषशमनं संसारघोरापहं
क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर् नरा यत्नतः
मैत्रेयतथागतेन पूर्वबोधिसत्त्वभूतेन दानपारमिता परिपूरिता करचरणनयनोत्तमाङ्गमांसासृक्प्रियपुत्रभार्यादुहितृराज्याङ्गसुखभोगस्वशरीरम् अपि परित्यागेन दानपारमिता परिपूरिता परार्थहेतोस् तेनैव तथागतैश्वर्यपदं प्राप्तम् ॥
तद्यथानुश्रूयते ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति स्म । ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमर ं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकन्ठकम् एकपुत्रम् इव राज्यं पालयति ॥ स च शिबी राजा श्रद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गत्यागी च महति त्यागचित्ते परिवर्तते ॥ स काल्यम् एवोत्ताय यज्ञवाटं प्रविश्य अन्नम् अन्नार्थिकेभ्यः प्रयच्छति वस्त्रं वस्त्रार्थिकेभ्यो धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडादीनां परित्यागं करोति ॥
न चासौ पुण्यमयैः संस्कारैस् तृप्तिं गच्छति ॥ सो ऽन्तःपुरजनस्य भक्ताच्छादनं प्रयच्छति कुमाराणाम् अमात्यानां भटबलाग्रस्य नैगमजनपदानाम् ॥ अथ राज्ञः शिबेर् एतद् अभवत् । संतर्पिता अ नेन मनुष्यभूताः । क्षुद्रजन्तवो ऽवषिष्टाः केन संतर्पयितव्या इति ॥ स
परित्यक्तविभवसर्व स्व एकशाटकनिवसितः स्वशरीरावशेषश् चिन्ताम् आपेदे ।
तस्यैतद् अभवत् । क्षुद्रजन्तुभ्यः स्वशरीरम् अनुप्रयच्छामीति । स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास् ( दक्: 230 ) तत्रोपसृष्टकायः प्रतिष्ठते प्रियम् इवैकपुत्रकं रुधिरेण संतर्पयति ॥
अथ शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते ॥
तस्यैतद् अभवत् ॥ किम् अयं शिबिराजा सत्त्वानाम् अर्थम् एवं करोति उत करुणया यन् न्व् अहम् एनं जिज्ञासेय इति ॥ ततो भिन्नाञ्जनमसिवर्णगृद्धवेशम् आत्मानम् अभिनिर्माय राज्ञः शिबेः सकाशम् उपसंक्रम्य मुखतुण्डकेनाक्ष्य् उत्पाटयितुं प्रवृत्तः । न च तथापि राजा संत्रासम् आपद्यते । किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रम् आलोक्य कथयति । वत्स यन् मदीयाच् छरीरात् प्रयुज्यसे तेन प्रणयः क्रियताम् इति ॥ तत आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेशम् आत्मानम् अभिनिर्माय राज्ञः शिबेः पुरस्तात् स्थित्वा कथयति ॥ साधु पार्थिव दीयतां मे ते नयद्वयम् इति ॥ राजोवाच ॥ महाब्राह्मण गृह्यतां यद् अभिरुचितम् । न मे ऽत्र विघ्नः कश् चिद् अस्तीति गृह्यताम् ॥ ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेशम् अन्तर्धाप्य स्वरूपेण स्थित्वा राजानम् उत्साहयन्न् उवाच ॥ साधु साधु पार्थिव सुनिश्चिता ते बुद्धिर् अप्रकम्प्यस् ते प्रणिधिर् अनुगताते सत्त्वेषु ( दक्: 231 ) महाकरुणा, यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशरदो नचिरात् त्वम् अनेन व्यवसायेनानुत्तरा ं सम्यक्संबोधिम् अभिसम्ंबुद्ध्यसे ॥ इत्य् उक्त्वा शक्रो देवेन्द्रस् तत्रैवान्तर्दधानो ऽभूत् ॥
भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽ सौ तेन कालेन तेन समयेन शिबिर् नाम राजा बभूवाहं सः । तदानीम् अपि मे पुण्यमैः संस्कारैस् तृप्तिर् नास्ति प्राग् एवेदानीम् । तस्मात् तर्हि भिक्षवः शिक्षितव्यं यद् दानानि दास्यामः पुण्यानि करिष्यामः ॥ इत्य् एवं भिक्षवः शिक्षितव्यम् ॥
यत्पूर्वजन्मसुकृतदानानुभावेन दानबलेन तथागतो ऽर्हन् सम्यक्संबुद्धो भवामि इति ॥
(3) सुरूप
पुनर् अपि भगवान् भिक्षुसंघान् आमन्त्र्य चतसृणां पर्षदां मध्ये मधुरमधुरं धर्मं देशयति स्म । क्षौद्र ं मध्व् इवानेडक म् अ नेकशता पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिञ्जमानैर् इन्द्रैः । तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनभूताः सत्त्वा आदारेण श्रोतव्य ं मन्य न् त इति ॥ भगवान् आह ॥ यथा तथागतेन भिक्षव आदरजातेन धर्म ः श्रुतश् चोद्गृहीतश् च तच् छृणुत साधु सुष्ठु च मनसिकुरुत भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुरूपो नाम राजा राज्यं कारयति स्म ॥ ऋद्धं च स्फीतं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमर ं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्ठकम् एकपुत्रकम् इव राज्यं पालयति । स च राजा श्रद्धो भद्रः कल्याणाशय आत्महितपराहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते । तस्य राज्ञः ( दक्: 233 ) सुन्दरिका नाम देवी अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता, सुन्दरकश् च नाम्ना एकपुत्र इस्तः कान्तः प्रियो मनापः क्षान्त्यभियुक्तः ॥
अथापरेण समयेन राज्ञः सुरूपस्य धर्मे ऽभिलाष उत्पन्नः । तेन सर्वे ऽमात्याः संनिपात्योक्ताः । पर्येषत मे ग्रामण्यो धर्म् अं मे धर्मो रोचित इति ॥
ततस् ते ऽमात्याः कृतकरपुटा राजानं विज्ञापयन्ति । दुर्लभो महाराज धर्मः श्रूयते महाराज बुद्धानां लोक उत्पादा द् धर्मस्योत्पादो भवतीति ॥ ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्ठावघोषणं कारितम् । यो मे धर्मं वक्ष्यति, तस्येमं सुवर्णपिटकं दास्यामि महता सत्कारेण सत्करिष्यामीति ॥ ततो बहवः काला अ तिक्रान्ता न कश् चिद् धर्मदेशक उपलभ्यते ॥ ततः स राजा धर्महेतोर् उत्कण्ठति परित्रस्यति ॥ ततः शक्रस्य च देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति राजानं धर्महेतोर् विहन्यमानम् । तस्यैतद् अभवत् । यन् न् व् अहं सुरूपं राजानं मीमांसेय इति ॥ ततो यक्षरूपम् आत्मानम् अभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानम् एतद् अवोचत् ॥ ननु धर्माभिलाषी भवान् अहं ते धर्मं ( दक्: 234 ) वक्ष्यामीति ॥ ततः स राजा धर्मश्रवणात् प्रीतिप्रामोद्यजातो अक्षम् एतद् उवाच ॥ ब्रूहि गुह्यक धर्मान् श्रोष्यामीति ॥
गुह्यक उवाच ॥ सुखितस्य बत महाराज धर्मा अभिलषन्ति । बुभूक्षितो ऽस्मि भोजनं तस्मान् मे प्रयच्छेति ॥ ततः श्रुत्वा राजा पौरुषान् आमन्त्रयाम् आस ॥
आनीय न् तम् अस्य भक्ष्यभोज्यप्रकारा इति ॥ यक्ष उवाच ॥ मा राजन्, मानुष्यकेन अदनेनाहं तृप्तिं न भवामि । अपि तु स्वाभिप्रायं शृणु ॥
अत्यन्तोष्माणि मांसानि नवानि रुधिराणि च ।
इत्य् अन्नपान पद्माक्ष यक्षाणाम् अक्षतव्रत
सद्योहतमांसरुधिरं भक्षो ऽहम् एतं सुन्दरम् एकपुत्रकं प्रयच्छेति ॥
श्रुत्वा राजा परं विषादम् आपन्नः । कदा चित् कर्हि चिन् मे ऽ द्य धर्मशब्द आसादितः सो ऽप्य् अनर्घेण मूल्येनेति ॥ ततः सुन्दरकुमारस् तम् उपश्रुत्य पितुः पादयोर् निपत्य राजानं विज्ञापयाम् आस ॥ मर्षय देव पूर्यतां देवस्याभिप्रायं प्रयच्छ मां गुह्यकायाहरार्थम् इति ॥ ततो राजा तम् एकपुत्रकम् इष्टं कान्तं प्रिय ं मनापं क्षान्तं ( दक्: 235 ) धर्मस्यार्थे यक्षाय दत्तवान् ॥ ततो यक्षेणर्द्धिबलाधानाद् राज्ञः पर्षदश् च यथादर्शितं यथाङ्गानि प्रत्यङ्गानि पृथग् विकृत्य विकृत्य भक्षितानि रुधिरं च पीयमानम् । दृष्ट्वा राजा धर्माभिलाषी न विषादम् आपन्नः ॥ स गुह्यको राजानाम् उवाच ॥ अतृप्तो ऽस्मि भो पार्थिव भूयो मे प्रयच्छेति ॥ ततो राजा तस्मै दयितां भार्यां दत्तवान् । सापि तेनैवाकारेण दर्शिता । ततो भूयो राजानम् उवाच ॥ भोः पार्थिवाद्यापि तृप्तिं न लभत इति ॥ ततो राजा यक्षम् उवाच ॥ वत्स दत्तो मे एकपुत्रको भार्या च यावत् किं भुयः प्रार्थयस इति ॥ गुह्यक उवाच ॥
स्वशरीरं मे प्रयच्छानेन तृप्तिम् उपयास्यामीति ॥ राजोवाच ॥ यदि स्वशरीरं ते प्रदास्यामि कथं पुनर् धर्मं श्रोष्यामि । किं नु पूर्वं मे धर्मं वद पश्चाद् गृहीतधर्मा शरीरं परित्यक्ष्यामीति ॥ ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ठाप्यानेकशतायाः परिषदः पुरस्ताद् धर्मो देशितः ॥
प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् ।
प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0