भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · अध्याय 1

1.1

ओं नमो भगवते श्रीगुणसागराय ॥
नत्वा श्रीशाक्यकेतुं सुरगणसहितं देवदेवाधिदेवं
संसाराब्धेः प्लवन्तं सकलगुणनिधिं गौतमं बुद्धनाथम् ।
संसारे सिंहनादं सकलभयहरं धर्मच्छत्रं मुनीन्द्रं
वक्ष्ये ऽहं धर्मरत्नं मुनिवरकथितं सर्वलोकाभिलाषम् ॥ दक्_ओ.1 ॥
तद्यथाशोकभूमीन्द्रः कुक्कुटारामसंश्रितम् ।
उपगुप्तं पुनः प्राह द्वाविंशतिकथोत्सुकः ॥ दक्_ओ.2 ॥
भदन्त श्रोतुम् इच्छामि चैत्यसेवाकथां शुभाम् ।
अप्य् एवं धर्मपीयुषं त्वन्मुखाम्बुजनिर्गतम् ॥ दक्_ओ.3 ॥
इति विज्ञप्तिम् आकर्ण्य उपगुप्तः समादिशत् ।
शृण्व् अशोक प्रवक्ष्यामि द्वाविंशत्यवदानकम् ॥ दक्_ओ.4 ॥
इ. पुण्यप्रोत्साहनकथा
विहरति भगवाञ् छास्ता संबुद्धो लोकनायकः ।
राजगृहे महोद्भासे गृद्धकूटे सुखालये

1.2

महता भिक्षुसंघेन सार्धं द्वादशभिः शतैः ।
महद्भिर् बोधिसत्त्वैश् च अशीत्या च सहस्रकैः

1.3

देवदानवगन्धर्वयक्षकिंनरमानुजैः ।
पुरस्कृत्यार्चितस् तस्थौ पूर्णेन्दुः खे ग्रहैर् इव

1.4

भासयन् महता दीप्त्या पर्षद्गणं विलोकयन् ।
त्रिकालकल्याणं धर्मं दिदेश पर्षदां पुनः

1.5

आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थम् सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥
तदाहानन्द आत्मज्ञः कृताञ्जलिपुटो मुदा ।
सर्वज्ञं धर्मराजं तं नत्वा भक्तिपुरःसरः

1.6

भगवञ् छ्रोतुम् इच्छामि नराणां हितकाम्यया ।
धर्माणाम् उत्तमं धर्मं वद वादीन्द्र वादिराट्

1.7

इति संप्रार्थिते तेन शाक्यसिंहस् ततः स्वयम् ।
समाधिं विदधे तत्र धर्मसंदर्शनं वरम्

1.8

अथास्य सुभ्रूविवराद् बभूव विनिर्गता सा प्रहतान्धकारा ।
सर्वासु दिक्षु प्रतिभासितेव मध्याह्नसूर्यस्य गभस्तिमाला

1.9

अथास्य शिष्याः पर्षद्भिर् भगवन्तम् अवाकिरन् ।
सुपुष्पैर् वायुना घूर्णा नगं बाललता इव

1.10

चचाल वसुधा साब्धि ः षड्विकाराथ साचला ।
पपात पुष्पं मेघेभ्यो नेदुर् वाद्यं सुरर्षयः

1.11

अथ देवगणाः सर्वे चायान्ति गृद्धकूटके ।
ब्रह्मशंकरशक्राश् च हरिः कामेश्वरादयः

1.12

असुरा ः खगगन्धर्वा ः किंनराश् च महोरगाः ।
लोकपालास् तथान्ये ऽपि धृतराष्ट्रादयस् तथा

1.13

तत्र प्रदक्षिणीकृत्य भगवन्तं निपत्य च ।
देवाश् चान्ये गणाः सर्वे प्रतस्थुर् विस्मयात् पुरः

1.14

अथ श्रीभगवाञ् छास्ता व्युत्थाय च समाधिना ।
पर्षद्गणं समालोक्य प्रहसन् तूष्णीम् अभूत् तदा

1.15

अथानन्दो महाविज्ञः ज्ञात्वाधिवासनं मुनेः ।
आसनात् सहसोत्थाय भगवन्तम् उवाच सः

1.16

भगवन् पातुम् इच्छामि त्वन्मुखाम्भोजनिर्गतम् ।
वाक्पीयूषं तृषार्तो ऽपि गिरिजं कम् इवार्दितः

1.17

कश् चिन् महाधनो लोके विद्वान् भोगी च भाग्यवान् ।
दरिद्रो व्याधितो दुःखी शिल्पवान् को ऽपि बालिशः

1.18

सुरलोके गतः कश् चिन् निरये चातिदारुणे ।
केन कर्मविपाकेन तादृक् स्याद् भगवन् कथम्

1.19

तत् सर्वं ब्रूहि वादीन्द्र सर्वलोकहितार्थक ।
मयि चानुग्रहं कृत्वा भवाम्भोधिनिमग्नके

1.20

एवम् उक्ते ऽथ भगवान् उवाच भिक्षुसत्तमम् ।
सर्वलोकहितार्थाय स्वं प्रभावं प्रदर्शयन्

1.21

महाभागेति सत्त्वानां यत् तच् चेद् धृदि रोचते ।
षट्सु गतिषु मग्नानां तच् छृणुष्व शुभाशुभम्

1.22

श्रुतपूर्वं महाभाग सदसच् चेति जीविनाम् ।
चतुर्योनिषु संजाताः पृथक्कर्मगताः सदा

1.23

अण्डजाः स्वेदजा औपपादुकाश् च जरायुजाः ।
खगाद्या अण्डजाः प्रोक्ता मानवाद्या जरायुजाः

1.24

स्वेदजाः कृमिकीटाद्या देवाद्या औपपादुकाः ।
दृश्यन्ते कर्मणा चैते व्रतशीलेन धीमता

1.25

तेषां गतिविशेषेण जायन्ते प्राणिनस् तथा ।
चतुर्द्वीपे महोत्साहे पूर्वकर्मविपाकगाः

1.26

षड्गतौ संभवा भूता अधमोत्तममध्यमाः ।
भिक्षो कर्मविपाकेन गतिस् तेषां पृथक् पृथक्

1.27

शुभाशुभम् इदं कर्म कायवाक्चित्तजं ततः ।
फलं भुक्ते जनस् तस्य लोकोत्तरे च लौकिके

1.28

अथाह पुनर् आनन्दो भगवन्तं जगद्गुरुम् ।
पापानां मूललोकानां व्यक्तयस् त्वं प्रदर्शय

1.29

कायवाङ्मनसा कर्म कानि कानि कृतानि च ।
यत् सर्वं तद् विशेषं च वद मे वादिपुंगव

1.30

भगवान् आह ॥
शुभाशुभफलं नॄणां यच् छृणुष्व स्फुटं ततः ।
धर्मेण प्राप्यते मोदम् अमोदम् अशुभोद्भवम्

1.31

पुनश् च विस्तरेण ॥
कायदुश्चरितं कर्म त्रिधा भिन्नं प्रकाशितम् ।
अदत्तप्राणातिपातः काममिथ्या तथैव च

1.32

वाक्दुश्चरितं कर्म चतुर्विधं प्रकाशितम् ।
मृषापिशुनपारुष्यं संभिन्नेत्य् आह धीमता

1.33

मनोदुश्चरितं कर्म त्रिधा भिन्नं विदुर् बुधाः ।
अभिध्या चैव व्यापादमिथ्यादृष्टि त्रयोविधाः

1.34

यो दयां संत्यजेद् द्रोही परप्राणिवधादिना ।
ताडनहिंसकर्मादिः प्राणिपातस् तद् उच्यते

1.35

परविषयलोभेन अन्यायेन बलेन च ।
चौर्यासत्य-अधर्मेण अदत्तग्रहणं विदुः

1.36

व्रतिनी धर्मचारिण्यो ऽशुची वेश्या ः परस्त्रियः ।
संबन्धिनि प्रसङ्गादि काममिथ्या तद् उच्यते

1.37

विषयेषु च लोभेषु स्नेहेषु च भयेषु च ।
असत्येन प्रोबोधाय मृषावादस् तद् उच्यते

1.38

स्वदोषम् गुप्तवान् येन परदोषः प्रकाश्यते ।
शापयेन् मर्मदिग्धेन पारुष्यवचनं विदुः

1.39

दुर्वृत्तिव्यवहारेण बन्धुमित्रं विरुध्यते ।
स्वेन च गुणलब्धाय पैशुन्यं विदधा मतः

1.40

यस्याग्रे भिन्नवादेन परचित्तम् अधीरयन् ।
परस्परविद्वेषं स्यात् संभिन्न विदधा मत ः

1.41

परद्रव्यादिसंपत्ति ं लोभचित्तेन तर्कयन् ।
तद् अभिध्या इति ज्ञेयं दुर्जनः परिसेव्यते

1.42

परदेहादिसंपत्तौ कुचित्तेन स शापयेत् ।
अमङ्गलं भवत्व् इति व्यापादो ऽयं स उच्यते

1.43

परत्र पापपुण्यं न सुखदुःखं न विद्यते ।
दुर्बोधशास्त्रं श्रुत्वा च मिथ्यादृष्टि ः स नास्तिकः

1.44

एवं दशाकुशलेन पापेनैव स बालिशः ।
परत्र यमदूतेन नानापीडां प्रतप्यति

1.45

तस्माच् चोक्तं मयानन्द देहवृक्षफलोदयम् ।
येन येन कृतं कर्म तेन तेन प्रभुञ्जते

1.46

जन्मनाशजरावीचौ निमग्नाः प्राणिनो ह्रदे ।
तस्माद् भीया महाभीमे भुजङ्गे भीतिमान् इव

1.47

देवासुरमनुष्याश् च तिर्यक्प्रेताश् च नारकाः ।
षगतौ जायते तस्मिञ् शुभाशुभेन कर्मणा

1.48

इति श्रुत्वा अथानन्दो लोकानाम् अनुशोचयन् ।
भीतसंसारदुर्वार ः संहर्षिततनुरुहः

1.49

अथासनात् समुत्थाय मैत्रेयो दमितेन्द्रियः ।
लोकानां च हितार्थाय अवोचज् जगतां प्रभुम्

1.50

भगवन् बुद्ध वीरेश जगदानन्दवर्धन ।
दाक्षिण्यम् फलसंपूर्णं भाषस्व विविधं वरम्

1.51

पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः ।
बिम्बस्नानम् तथा गन्धं छत्त्रम् धात्वावरोपणम्

1.52

मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् ।
प्रणामोज्ज्वालिकादीपं विहारं शयनासनम्

1.53

क्षेत्रं विचित्रं चैवान्तम् इत्य् एता बहुधा भृशम् ।
कथा द्वाविंशति ः संख्या वद मे वादिराट् प्रभो

1.54

शीलक्षान्ति ं तथा वीर्यं ध्यानं प्रज्ञा तथैव च ।
षड् एव पारमिता ः सर्वा भाषस्व भगवन् मुने

1.55

भगवान् आह ॥
साधु साधु त्व मैत्रेय लोकानां हितकारक ।
पुण्योत्साहकथां भव्यां शृणुष्व मैत्रमानस

1.56

मानुष्यं समवाप्य दुष्करशतैर् लब्ध्वा दुरापं क्षणं
मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुर ः स्थायिनि ।
पाथेयं दमदानसंयममयं यैर् न प्रभूतं कृतं
संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते

1.57

मानुष्यं दुर्लभं प्राप्य विद्युत्फेनोर्मिभङ्गुरम् ।
मानुस्ये ऽप्य् अक्षणप्राप्ते तदा पुण्यं कथं स्मरेत्

1.58

मानुष्यत्वं समासाद्य तर दुःखमहानदीम् ।
पुण्यम् एवात्र कुर्वीत यतश् चिन्तामणिर् नृणाम्

1.59

यस्यानुभावान् मानुष्यं प्राप्तं भूयो ऽपि सांप्रतम् ।
पुण्यं तद् वर्धयस्वेह यस्माद् धेतुः सुखस्य ते

1.60

मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं
रूपौदार्यकुलोन्नतिप्रभृतिभिर् युक्तं विचित्रैर् गुणैः ।
तत् पुण्यं सुहृद् एक एव जगतां बन्धुश् च जन्मान्तरे
तस्मात् तूर्णम् इदं कुरु त्वम् असकृत् सर्वार्थसंपत्करम्

1.61

लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं प्रभुत्वम् ।
तान्य् एव पुण्यानि विवर्धयेथा न कर्षणीयो ह्य् उपकारिपक्षः

1.62

विरमत पापतः कुरुत पुण्यम् उदारतरं
दमयत दुर्दम ं विषयलोलमनस्तुरगम् ।
भवत मुनीन्द्रवत् परहिताभिरताः सततं
दशति न यावद् एव मरणाहिर् असह्यविषः

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc