दिव्यावदान · अध्याय 10
इति॥
080.025. जनकायः कथयति--गृहपते, श्रेयः श्रमणस्य गौतमस्य दर्शनम्? स कथयति--श्रेयः।
080.026. ते कथयन्ति--यद्येवम्, गणेनैवं क्रियाकारः कृतो गण एव उद्घाटयतु।
080.026. को ऽत्र विरोधह्? ते क्रियाकारमुद्घाट्य निर्गन्तुमारब्धाः।
080.027. ततः परस्परं संघट्टनेन न शक्नुवन्ति निर्गन्तुमिति वज्रपाणिना यक्षेण विनेयजनानुकम्पया वज्रः क्षिप्तः।
080.028. प्राकारस्य खण्डः पतितः।
080.029. अनेकानि प्राणिशतसहस्राणि निर्गतानि, कानिचित् कुतूहलजातानि, कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि।
080.030. ते गत्वा भगवतः पादाभिवन्दनं कृत्वा पुरतो निषण्णाः।
080.031. यावद्भगवतः सामन्तकेन पर्षत् संनिपतिता।
080.031. अथ बघवांस्तां पर्षदमभ्यवगाह्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्त्वसंतानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्, याम् <81>श्रुत्वा कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि।
081.002. भगवतो ऽचि{तश्चि}रं धर्मं देशयतो भोजनकालो ऽतिक्रान्तः।
081.002. मेण्ढको गृहपतिः कथयति--भगवन् भक्तकृत्यं क्रियतामिति।
081.003. भगवानाह--गृहपते, भोजनकालो ऽतिक्रान्त इति।
081.003. स कथयति--भगवन्, किमकाले कल्पते? भगवानाह--धृतगुडशर्करापानकानि चेति।
081.004. ततो मेण्ढकेन गृहपतिना शिल्पिन आहूय उक्ताह्--भगवतो ऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति।
081.006. तैरकालकानि सज्जीकृतानि।
081.006. ततो मेण्ढकेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽकालखाद्यकैरकालपानकैश्च संतर्पितः।
081.007. ततो भगवान् मेण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठापितं कर्वटनिवासिनं जनकायम् यथाभव्यतया विनीय प्रक्रान्तः॥
081.009. इदमवोचद्भगवान्।
081.009. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
081.010. इति श्रीदिव्यावदाने मेण्ढकगृहपतिविभूतिपरिच्छेदो नवमः॥
********** अवदान 10 **********
082.001. दिव्10 मेण्ढकावदानम्।
082.002. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त मेण्ढकेन मेण्ढकपत्न्या मेण्ढकपुत्रेण मेण्ढकस्नुषया मेण्ढकदासेन मेण्ढकदास्या कर्म कृतम् येन षडभिज्ञाता महापुण्याः संवृत्ताः, भगवतो ऽन्तिके सत्यानि दृष्टानि, भगवांश्चैभिरारागितो न विरागित इति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
082.006. एभिः कर्माणि कृतान्युपचितानि।
082.007. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च।
082.010. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
082.011. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्
082.012. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करोगापगतं शालीक्षुगोमहिषीसम्पन्नमखिलमकण्टकम्।
082.014. एकपुत्रमिव राज्यं पालयति।
082.015. तेन खलु समयेन वाराणस्यां नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता।
082.016. त्रिविधं दुर्भिक्षं भविष्यति--चञ्चु श्वेतास्थि शलाकावृत्ति च।
082.016. तत्र चञ्चु उच्यते--समुद्गके तस्मिन् मनुष्या बीजानि प्रक्षिप्य अनागते सत्त्वापेक्षया सथापयन्ति।
082.017. मृता नाम अनेन ते बीजकायं करिष्यन्तीति।
082.018. इदं समुद्गकं बद्ध्वा चञ्चु उच्यते।
082.018. श्वेतास्थि नाम दुर्भिक्षम्--तस्मिन् काले मनुष्या अस्थीन्युपसंहृत्य तावत् क्वाथयन्ति, यावत् तान्यस्थीनि श्वेतानि संवृत्तानीति।
082.019. ततस्तत्क्वाथं पिबन्ति।
082.020. इदं श्वेतास्थि दुर्भिक्षमित्युचयते।
082.020. शलाकावृत्तिर् नाम--तस्मिन् काले मनुष्याः खलु बिलेभ्यो धान्यगुडकानि शलाकया आकृष्य बहुदकस्थाल्यां क्वाथयित्वा पिबन्ति।
082.021. इयं शलाकासम्बद्धत्वाच्छलाकावृत्तिरित्युच्यते।
082.022. ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः।
082.023. नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता शलाकावृत्ति दुर्भिक्षं चञ्चु श्वेतास्थि च।
082.024. येषां वो द्वादशवर्षिकं भक्तमस्ति, तैः स्थातव्यम्।
082.025. येषां नास्ति, ते यथेष्टं गच्छन्तु।
082.025. विगतदुर्भिक्षभयाः सुभिक्षे पुनरप्युपागमिष्यन्ति।
082.026. तस्मिन्श्च समये वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णपरिवारः।
082.027. तेन कोष्ठागारिक आहूय उक्तह्--भोः पुरुष, भविष्यति मे सपरिवाराणां मे सपरिवाराणां द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य भविष्यतीति।
082.028. स तत्रैवावस्थितः।
082.028. समन्तरानुबद्धं चैतत् दुभिक्षम्।
082.029. तस्य कोशकोष्ठागाराः परिक्षीणाः।
082.029. सर्वश्च परिजनः कालगतः।
082.029. आत्मना षष्ठो व्यवस्थितः।
082.030. ततस्तेन गृहपतिना कोशकोष्ठागराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः।
082.031. सो ऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः।
082.031. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनभक्ता एकदक्षिणीया लोकस्य।
082.032. यावदन्यतमः प्रत्येकबुद्धो <83>जनपदचारिकां चरन् वाराणसीमनुप्राप्तः।
083.001. स पूर्वाह्णे निवास्य पात्रचीवरमादाय वाराणसीं पिण्डाय प्रविष्टः।
083.002. स च गृहपतिरात्मना षष्ठो ऽवस्थितो भोक्तुम्।
083.002. स च प्रत्येकबुद्धो ऽनुपूर्वेण पिण्डपातमटंस् तस्य गृहपतिर् निवेशनमनुप्राप्तः।
083.003. स तेन गृहपतिना दृष्टश्चित्तप्रासादिकः कायप्रासादिकश्च।
083.004. दृष्ट्वा च पुनः संलक्षयति--एतदप्यहं परित्यज्य नियतं प्राणैर्वियोक्ष्ये।
083.005. यन्न्वहं स्वप्रत्यंशमस्मै प्रव्रजिताय दद्यामिति।
083.005. तेन भार्या अभिहिता--भद्रे, यो मम प्रत्यंशस्तमहमस्मै प्रव्रजितायानुप्रयच्छामीति।
083.006. स संलक्षयति--मम स्वामी न परिभुङ्क्ते, कथमहं परिभोक्ष्य इति।
083.007. सा कथयति--आर्यपुत्र, अहमपि प्रत्यंशमस्मै प्रयच्छामि।
083.007. एवं पुत्रेण स्नुषया दासेन दास्या च विचार्य स्वस्वप्रत्यंशाः परित्यक्ताः।
083.008. ततस्तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः।
083.009. कायिकी तेषां महात्मनां धर्मदेशना, न वाचिकी।
083.009. स विततपक्ष इव हंसराज उपरि विहायसमुद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
083.010. आशु पृथग्जनावर्जनकरी ऋद्धिः।
083.011. ते मूलनिकृत्ता इव द्रुमाः पादयोर् निपत्य प्रणिधानं कर्तुमारब्धाः।
083.012. गृहपतिः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि सहदर्शनान्मे पूर्णानि स्युह्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
083.014. पत्नी प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्यार्थाय स्थालीं पचेयम्, सा शतेनापि परिभुज्येत, सहस्रेणापि, न परिक्षयं गच्छेत्, यावन्मया प्रयोगो ऽप्रतिप्रश्रब्धः, इत्येवंविधानां च धर्माणां लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
083.018. पुत्रः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन पञ्चशतिको नकुलकः कट्यामुपरिबद्धस्तिष्ठेत्, यदि च शतं वा सहस्रं वा ततो व्ययं कुर्यात्, पूर्ण एव तिष्ठेत्, मा परिक्षयं गच्छेत्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विराअगयेयमिति।
083.022. स्नुषा प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्य गन्धम् योजयेयम्, शतं वा गन्धं घ्रास्यति, तं न च परिक्षयं गच्छेयुर्यावन्मया अप्रतिप्रश्रब्धम्--एवंविधानां धर्माणां लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
083.025. दासः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकहलसीरं कृषेयम्, सप्त सीराः कृष्टाः स्युह्--एवंविधानां धर्माणां च लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
083.028. दासी प्रणिधानं कर्तुमारब्धा--एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकां मात्रमारभेयम्, सप्त मात्राः संपद्येरन्--एवंविधानां धर्माणां च लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
083.030. तैश्चैवं प्रणिधानं कृतम्।
083.031. स च महात्मा प्रत्येकबुद्धस्तेषामनुकम्पया ऋद्ध्या उपरि विहायसा राजकुलस्योपरिष्टात् संप्रस्थितः॥
084.001. <84>तेन खलु समयेन राजा ब्रह्मदत्त उपरिप्रासादतलगतस्तिष्ठति।
084.001. तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि च्छाया निपतिता।
084.002. स ऊर्ध्वमुखो निरीक्षितुमारब्धः।
084.002. पश्यति तं प्रत्येकबुद्धम्।
084.003. तस्यैतदभवत्--कस्याप्यनेन महात्मना ऋद्धिमहालाङ्गलैर्दारिद्र्यमूलान्युत्पाटितानि।
084.004. बलवती आशा।
084.004. ततो ऽसौ गृहपतिः कोशकोष्ठागाराणि प्रत्यवेक्षितुमारब्धो यावत्पूर्णानि पश्यति।
084.005. स पत्नीमामन्त्रयते--मम तावत् प्रणिधानं पूर्णम्, युष्माकमपीदानीं पश्याम इति।
084.006. ततो दास्या धान्यानामेकां मात्रामारब्धा परिकर्मयितुम्, सप्त मात्राः संपन्नाः।
084.007. प्रातिवेश्यैरनेकैश्च प्राणिशतसहस्रैः परिभुक्तम्, तथैवावस्थिता।
084.008. तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा।
084.009. ततो गृहपतिना घण्टावघोषणं कारितं वाराणस्याम्--यो भवन्तो ऽन्नेनार्थी, स आगच्छतु इति।
084.010. वाराणस्यामुच्चशब्धो महाशब्धो जातः।
084.010. राज्ञा श्रुतम्।
084.010. कथयति--किमेष भवन्त उच्चशब्दो महाशब्द इति? अमात्यैः समाख्यातम्--देव, अमुकेन गृहपतिना कोशकोष्ठागाराणि उद्धाटितानीति।
084.012. राजा तमाहूय कथयति--यदा एव लोकः कालगतः, तदा त्वया कोशकोष्ठागाराण्युद्धाटितानीति।
084.013. देव, कस्य कोशकोष्ठागाराण्युद्धाटितानि? अपि तु अद्यैव मे बीजमुप्तमद्यैव फलदायकमिति।
084.014. राजा पृच्छति--यथा कथम्? स एतत् प्रकरणं विस्तरेणारोचयति।
084.015. राजा कथयति--गृहपते, त्वया असौ महात्मा पिण्डकेन प्रतिपादितह्? देव मयैव प्रतिपादितः।
084.016. सो ऽभिप्रसन्नो गाथां भाषते--
084.017. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।
084.018. यत्रोप्तं बीजमद्यैव अद्यैव फलदायकम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0