दिव्यावदान · अध्याय 4
037.008. एनं च यूपमादाय शङ्खस्य राज्ञ उपनामयिष्यन्ति।
037.008. शङ्खो ऽपि राजा ब्रह्मायुषे ब्राह्मणायानुप्रदास्यति।
037.009. ब्रह्मायुरपि ब्राह्मणो मैत्रेयाय माणवायानुप्रदास्यति।
037.009. मैत्रेयो ऽपि माणवस्तेषां माणवकानामनुप्रदास्यति।
037.010. ततस्ते माणवकास्तम् यूपं खण्डं खण्डं छित्त्वा भाजयिष्यन्ति।
037.011. ततो मैत्रेयो माणवकस्तस्य यूपस्यानित्यतां दृष्ट्वा तेनैव संवेगेन वनं संश्रयिष्यति।
037.011. यस्मिन्नेव दिवसे वनं संश्रयिष्यति, तस्मिन्नेव दिवसे मैत्रेयांशेन स्फुरित्वा अनुत्तरं ज्ञानमधिगमिष्यति।
037.013. तस्य मैत्रेयः सम्यक्सम्बुद्ध इति संज्ञा भविष्यति।
037.013. यस्मिन्नेव दिवसे मैत्रेयः सम्यक्सम्बुद्धो ऽनुत्तरज्ञानमधिगमिष्यति, तस्मिन्नेव दिवसे शङ्खस्य राज्ञः सप्तरत्नान्यन्तर्धास्यन्ते।
037.014. शङ्खो ऽपि राजा अशीतिकोट्टराजसहस्रपरिवारो मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति।
037.015. यदप्यस्य स्त्रीरत्नं विशाखा नाम, सापि अशीतिस्त्रीसहस्रपरिवारा मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति।
037.017. ततो मैत्रेयः सम्यक्सम्बुद्धो ऽशीतिभिक्षुकोटिपरिवारो येन गुरुपादकः पर्वतस्तेनोपसंक्रमिष्यति, यत्र काश्यपस्य भिक्षोरस्थसंघातो ऽविकोपितस्तिष्ठति।
037.018. गुरुपादकपर्वतो मैत्रेयाय सम्यक्सम्बुद्धाय विवरमनुप्रदास्यति।
037.019. यतो मैत्रेयः सम्यक्सम्बुद्धः काश्यपस्य भिक्षोरविकोपितमस्थिसंघातं दक्षिणेन पाणिना गृहीत्वा वामे पाणौ प्रतिष्ठाप्य एवं श्रावकाणां धर्मं देशयिष्यति--यो ऽसौ भिक्षवो वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम शास्ता लोक उत्पन्नस्तस्यायं श्रावकः काश्यपो नांना अल्पेच्छानां संतुष्टानां धूतगुणवादिनामग्रो, निर्दिष्टः।
037.022. शाक्यमुनेः परिनिर्वृतस्यानेन शासनसंगीतिः कृता इति।
037.023. ते दृष्ट्वा संवेगमापत्स्यन्ते--कथमिदानीमीदृशेनात्मभावेनेदृशा गुणगणा अधिगता इति।
037.024. ते तेनैव संवेगेनार्हत्त्वं साक्षात्करिष्यन्ति।
037.025. षण्णवतिकोट्यो ऽर्हतां भविष्यन्ति धूतगुणसाक्षात्कृताः।
037.025. यं च संवेगमापत्स्यन्ते, तत्रासौ यूपो विलयं गमिष्यति॥
037.027. को भदन्त हेतुः कः प्रत्ययो द्वयो रत्नयोर्युगपल्लोके प्रादुर्भावाय? भगवानाह--प्रणिधानवशात्।
037.028. कुत्र भगवन् प्रणिधानं कृतम्?
037.029. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि मध्यदेशे वासवो नाम राजा राज्यं कारयति ऋद्धं स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
037.030. तस्य सदापुष्पफला वृक्षाः।
037.030. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
037.031. अतीव शस्यसम्पत्तिर्भवति।
037.031. उत्तरापथे धनसंमतो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
037.033. तस्यापि सदापुष्पफला वृक्षाः।
037.033. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति।
037.033. अतीव <38>शस्यसम्पत्तिर्भवति।
038.001. यावदपरेण समयेन वासवस्य राज्ञः पुत्रो जातो रत्नप्रत्युप्तया शिखया।
038.002. तस्य विस्तरेण जातिमहं कृत्वा रत्नशिखीति नामधेयं व्यवस्थापितम्।
038.002. सो ऽपरेण समयेन जीर्णातुरमृतंसंदर्शनादुद्विग्नो वनं संश्रितः।
038.003. यस्मिन्नेव दिवसे वनं संश्रितस्तस्मिन्नेव दिवसे ऽनुत्तरं ज्ञानमधिगतम्।
038.004. तस्य रत्नशिखी सम्यक्सम्बुद्ध इति संज्ञोदपादि।
038.004. अथापरेण समयेन धनसंमतो राजा उपरिप्रासादतलगतो ऽमात्यगणपरिवृतस्तिष्ठति।
038.005. सो ऽमात्यानामन्त्रयते--भवतः, कस्यचिदन्यस्यापि राज्ञो राज्यमेवमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
038.007. सदापुष्पफला वृक्षाः।
038.007. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति।
038.008. अतीव शस्यसम्पत्तिर्भवति यथा अस्माकमिति? मध्यदेशाद् वणिजः पण्यमादायोत्तरापथं गताः।
038.009. ते कथयन्ति--अस्ति देव मध्यदेशे वासवो नाम राजा इति।
038.009. सहश्रवणादेव धनसंमतस्य राज्ञो ऽमर्ष उत्पन्नः।
038.010. स संजातामर्षो ऽमात्यानामन्त्रयते--संनाहयन्तु भवन्तश्चत्रुअङ्गं बलकायम्।
038.011. राष्ट्रापमर्दनमस्य करिष्याम इति।
038.011. ततो धनसंमतो राजा चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूले ऽवस्थितः।
038.013. अश्रौषीद्वासवो राजा--धनसंमतो राजा चत्रुअङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूले ऽवस्थित इति।
038.014. श्रुत्वा च पुनः सो ऽपि चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पतिकायं गङ्गाया उत्तरे कूले ऽवस्थितः।
038.016. अथ रत्नशिखी सम्यक्सम्बुद्धस्तयोर्विनयकालं ज्ञात्वा नद्या गङ्गायास्तीरे रात्रिं वासमुपगतः।
038.017. रत्नशिखिना सम्यक्सम्बुद्धेन लौकिकं चित्तमुत्पादितम्।
038.017. धर्मता खलु यदा बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये शक्रब्रह्मादयो देवा भगवतश्चेतसा चित्तमाजानन्ति।
038.019. अथ शक्रब्रह्मादयो देवा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्ताः।
038.020. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः।
038.020. तेषां वर्णानुभावेन महानुदारावभासः संवृत्तः।
038.021. धनसंमतेन राज्ञा दृष्टः।
038.021. दृष्ट्वा च पुनरमात्यान् पृच्छति--किमयं भवन्तो वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते रत्नशिखी नाम सम्यक्सम्बुद्धह् उत्पन्नः।
038.023. तस्य शक्रब्रह्मादयो देवा दर्शनायोपसंक्रमन्ति।
038.024. तेनैवोदारावभासः संवृत्तः।
038.024. महर्द्धिको ऽसौ महानुभावः।
038.024. तस्यायमनुभाव इति।
038.025. धनसंमतो राजा कथयति--भवन्तः, यस्य विजिते ईदृशं द्विपादकं पुण्यक्षेत्रमुत्पन्नम्, यं शक्रब्रह्मादयो ऽपि देवा दर्शनायोपसंक्रामन्ति, तस्याहं कीदृशमनर्थं करिष्यामि? तेन तस्य दूतो ऽनुप्रेषितः।
038.027. वयस्य, आगच्छ।
038.027. न ते ऽहं किंचित् कारिष्यामि इति।
038.027. पुण्यमहेशाख्यस्त्वम्, यस्य विजिते द्विपादकं पुण्यक्षेत्रं रत्नशिखी सम्यक्सम्बुद्धो ऽयम्।
038.028. शक्रब्रह्मादयो देवा दर्शनायोपसंक्रामन्ति।
038.029. किं तु कण्ठाश्लेषं ते दत्वा गमिष्यामि।
038.029. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति।
038.030. वासवो राजा विश्वासं न गच्छति।
038.030. स येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
038.031. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
038.032. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--<39>मम भदन्त धनसंमतेन राज्ञा संदिष्टम्--प्रियवयसय आगच्छ, न ते ऽहं किंचित् करिष्यामि।
039.002. कण्ढा कण्ढाश्लेषं श्लेषं दत्व अगमिष्यामि।
039.002. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति।
039.002. तत्र मया कथं प्रतिपत्तव्यम्? रत्नशिखी सम्यक्सम्बुद्धः कथयति--गच्छ महाराज, शोभनं भविष्यति।
039.004. भगवन्, किं मया तस्य पादयोर् निपतितव्यम्? महाराज, बलश्रेष्ठा हि राजानः।
039.004. निपतितव्यम्।
039.005. अथ वासवो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः।
039.006. येन धनसंमतो राजा तेनोपसंक्रान्तः।
039.006. उपसंक्रम्य धनसंमतस्य राज्ञः पादयोर् निपतितः।
039.007. ततो धनसंमतेन राज्ञा कण्ढे श्लेषं दत्त्वा विश्वासमुत्पाद्य प्रेषितः॥
039.008. अथ वासवो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
039.008. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
039.009. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे राजानः पादयोर् निपतन्ति? राज्ञो महाराज चक्रवर्तिनः।
039.011. अथ वासवो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी तथागतः सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन।
039.013. अथ वासवो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति।
039.016. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञो वासवस्य भक्तभिसारस्तेनोपसंक्रान्तः।
039.018. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
039.018. अथ राजा वासवो रत्नशिखिनं सम्यक्सम्बुद्धं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
039.020. अनेकपर्यायेण शुचिना खादनीयेन भोजनीयेन स्वहस्तं समतर्प्य संप्रवार्य भगवन्तं रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर् निपत्य प्रणिधानं कर्तुमारब्धह्--अनेनाहं भदन्त कुशलमूलेन राजा स्यां चक्रवर्तीति।
039.023. तत्समनन्तरं च शङ्ख आपूरितः।
039.023. ततो रत्नशिखी सम्यक्सम्बुद्धो वासवं राजानमिदमवोचत्--भविष्यसि महाराज अशीतिवर्षसहस्रायुषि प्रजायां शङ्खो नाम राजा चक्रवर्तीति।
039.024. तत उच्चशब्दो महाशब्दो जातः।
039.025. धनसंमतो राजा कोलाहलशब्दं श्रुत्वा अमात्यान् पृच्छति--किमेष भवन्तो वासवस्य राज्ञो विजिते कोलाहलशब्दः श्रूयते इति? तैरागम्य निवेदितम्--देव, रत्नशिखिना सम्यक्सम्बुद्धेन वासवो राजा चक्रवर्तिराज्ये व्याकृत इति जनकायो हृष्टतुष्टप्रमुदितः।
039.028. तेन कोलाहलशब्दो जात इति।
039.028. अथ धनसंमतो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
039.029. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
039.030. एकान्तनिषण्णो धनसंमतो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे चक्रवर्तिनः पादयोर् निपतन्ति? तथागतस्य महाराज अर्हतः सम्यक्सम्बुद्धस्य।
039.032. अथ धनसंमतो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनाञ्जलिम्<40> प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन।
040.002. अधिवासयति रत्नशिखी सम्यक्सम्बुद्धो धनसंमतस्य राज्ञो ऽपि तूष्णीभावेन।
040.003. अथ धनसंमतो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य तूष्णीभावेनाधिवासनं विदित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्यान्तिकात् प्रक्रान्तः॥
040.006. अथ धनसंमतो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति।
040.009. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन धनसंमतस्य राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः।
040.010. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
040.011. अथ धनसंमतो राजा सुखोपनिषण्णं रत्नशिखिनं सम्यक्सम्बुद्धं तत्प्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति।
040.013. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर् निपत्य सर्वमिमं लोकं मैत्रेणांशेन स्फुरित्वा प्रणिधानं कर्तुमरब्धह्--अनेनाहं कुशलमूलेन शास्ता लोके भवेयं तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति।
040.016. रत्नशिखी सम्यक्सम्बुद्धः कथयति--भविष्यसि त्वं महाराज अशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम तथागतो ऽर्हन् सम्यकस्म्बुद्ध इति।
040.018. तत्प्रणिधानवशाद् द्वयो रत्नयोर्लोके प्रादुर्भावो भविष्यति॥
040.019. इदमवोचद्भगवान्।
040.019. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
040.020. इति श्रीदिव्यावदाने मैत्रेयावदानं तृतीयम्॥
********** अवदान 4 **********
041.001. दिव्4 ब्राह्मणदारिकावदानम्।
041.002. भगवान् न्यग्रोधिकामनुप्राप्तः।
041.002. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय न्यग्रोधिकां पिण्डाय प्राविक्षत्।
041.002. कपिलवस्तुनो ब्राह्मणस्य दारिका न्यग्रोधिकायां निविष्टा।
041.003. अद्राक्षीत् सा ब्राह्मणदारिका भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।
041.005. सहदर्शनादस्या एतदभवत्--अयं स भगवाञ् शाक्यकुलनन्दनश्चक्रवर्तिकुलाद् राज्यमपहाय स्फीतमन्तःपुरं स्फीतानि च कोशकोष्ठागाराणि प्रव्रजित इदानीं भिक्षामटते।
041.006. यदि ममान्तिकात्सक्तुकभिक्षां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति।
041.007. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, आकीर्यतामस्मिन् पात्र इति।
041.008. ततो भूयस्या मात्रया तस्याः प्रसाद उत्पन्नः।
041.009. जानाति मे भगवांश्चेतसा चित्तमिति विदित्वा तीव्रेण प्रसादेन भगवते सक्तुभिक्षां दत्तवती।
041.010. ततो भगवता स्मितमुपदर्शितम्।
041.010. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्परागपद्मरागवज्रवैडूर्यमुसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति।
041.013. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहव हुहुवमुत्पलं पद्मं महापद्ममवीचिपर्यन्तान् नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति।
041.016. तेनानुगतास्तेषां सत्त्वानां तस्मिन् क्षणे कारणाविशेषाः, ते प्रतिप्रस्रभ्यन्ते।
041.017. तेषामेवं भवति--किं नु वयं भवन्तम् इतश्च्युता आहोस्विदन्यत्रोपपन्ना इति।
041.018. तेषां प्रसादसंजननार्थं भगवान्निर्मितम् {दर्शनम्} विसर्जयति।
041.019. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति।
041.020. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति।
041.022. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकान् देवान् गत्वा त्रायस्त्रिंशान् यामांस्तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो देवान् ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानभृहानतपान् सुदृशान् सुदर्शानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयन्ति।
041.026. गाथाद्वयं च भाषन्ते--
041.027. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
041.028. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः
041.029. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
041.030. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति
042.001. <42>अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति।
042.002. तद्यदि भगवानतीतं व्याकर्तुकामो भवति, पृष्ठतो ऽन्तर्धीयन्ते।
042.003. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते।
042.003. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते।
042.004. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्ते।
042.004. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते।
042.005. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्ते।
042.006. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते।
042.006. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते।
042.007. श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते।
042.008. प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्ते।
042.008. यदि अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषे ऽन्तर्धीयन्ते॥
042.010. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्योर्णायामन्तर्हिताः।
042.010. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
042.012. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्क्रमितः कलापः।
042.014. अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव
042.016. गाथाद्वयं च भाषते--
042.017. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
042.019. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः
042.021. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
042.023. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः
042.025. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
042.027. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः
इति।
042.029. भगवानाह--एवमेतदानन्द, एवमेतत्।
042.029. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
042.030. सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
042.030. दृष्टा तवैषा सा आनन्द ब्राह्मणदारिका, यया <43>प्रसादजातया मह्यं सक्तुभिक्षानुप्रदत्ता ? दृष्टा भदन्त।
043.001. असावानन्द ब्राह्मणदारिका अनेन कुशलमूलेन त्रयोदश कल्पान् विनिपातं न गमिष्यति।
043.002. किं तर्हि देवांश्च मनुष्यांश्च संवाच्यसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिम आत्मभावप्रतिलम्भे सुपर्णिहितो नाम प्रत्येकबुद्धो भविष्यति।
043.004. सामन्तकेन शब्दो विसृतह्--अमुकया ब्राह्मणदारिका प्रसादजातया भगवते सक्तुभिक्षा प्रतिपादिता, सा भगवता प्रत्येकायां बोधौ व्याकृतेति।
043.006. तस्याश्च स्वामी पुष्पसमिधामर्थायारण्यं गतः।
043.006. तेन श्रुतं मम पत्न्या श्रमणाय गौतमाय सक्तुभिक्षा प्रतिपादिता, सा च श्रमणेन गौतमेन प्रत्येकायां बोधौ व्याकृता इति।
043.008. श्रुत्वा पुनः संजातामर्षो येन भगवांस्तेनोपसंक्रान्तः।
043.008. भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य भगवन्तमिदमवोचत्--अगमद्भवान् गौतमो ऽस्माकं निवेशनम्? अगमं ब्राह्मण।
043.010. सत्यं भवते तया मम पत्न्या सक्तुभिक्षा प्रतिपादिता, सा च त्वया प्रत्येकायां बोधौ व्याकृता इति? सत्यं ब्राह्मण।
043.011. त्वं गौतम चक्रवर्तिराज्यमपहाय प्रव्रजितः।
043.011. कथं नाम त्वमेतर्हि सक्तुभिक्षाहेतोः संप्रजानन् मृषावादं संभाषसे, कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्येतत् फलमिति? तेन हि ब्राह्मण त्वमेव प्रक्ष्यामि, यथा ते क्षमते तथैवं व्याकुरु।
043.014. किं मन्यसे ब्राह्मण अस्ति कश्चित्त्वया आश्चर्याद्भुतो धर्मो दृष्टह्? तिष्ठन्तु तावत् भो गौतम अन्ये आश्चर्याद्भुता धर्माः।
043.015. यो मया अस्यामेव न्यग्रोधिकायामाश्चर्याद्भुतो धर्मो दृष्टः, स तावच्छ्रूयताम्।
043.016. अस्यां भो गौतम न्यग्रोधिकायां पूर्वेण न्यग्रोधो वृक्षो यस्य नांनेयं न्यग्रोधिका, तस्याधस्तात् पञ्च शकटशतानि असंसक्तानि तिष्ठन्ति अन्योन्यासम्बाधमानानि।
043.018. कियत्प्रमाणं तस्य न्यग्रोधस्य फलम्? कियत् तावत्? केदारमात्रम्।
043.018. नो भो गौतम किलिञ्जमात्रम्।
043.019. तैलिकचक्रमात्रम्।
043.019. शकटचक्रमात्रम्।
043.019. गोपिटकमात्रम्।
043.019. बिल्वमात्रम्।
043.020. कपित्थमात्रम्? नो भो गौतम सर्षपचतुष्टयभागमात्रम्।
043.020. कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्यायं महावृक्षो निर्वृत्त इति? श्रद्दधातु मे भवान् गौतमो मा वा।
043.021. नैतत् प्रत्यक्षं क्षेत्रम्।
043.022. तावद्भो गौतम निरुपहतं स्निग्धमधुरमृत्तिकाप्रदेशं बीजं च नवसारं सुखारोपितम्।
043.023. कालेन च कालं देवो वृष्यते, तेनायं महान्यग्रोधवृक्षो ऽभिनिर्वृत्तः।
043.023. अथ भगवानस्मिन्नुत्पन्ने गाथां भाषते--
043.025. यथा क्षेत्रे च बीजेन प्रत्यक्षस्त्वमिह द्विज।
043.026. एवं कर्मविपाकेषु प्रत्यक्षा हि तथागताः
043.027. यथा त्वया ब्राह्मण दृषमेतदल्पं च बीजं सुमहांश्च वृक्षः।
043.029. एवं मया ब्राह्मण दृष्टमेतत् अल्पं च बीजं महती च संपत्
इति॥
043.031. ततो भगवता मुखात् जिह्वां निर् नमय्य सर्वं मुखमण्डलमाच्छादितम् यावत् केशपर्यन्तमुपादाय, स च ब्राह्मणो ऽभिहितह्--किं मन्यसे ब्राह्मण यस्य मुखात् जिह्वां निश्चार्य सर्वम् <44>मुखमण्डलमाच्छादयति, अपि त्वसौ चक्रवर्तिराज्यशतसहस्रहेतोरपि संप्रजानन् मृषावदां भाषेत? नो भो गौतम।
044.002. ततो ऽन्वेव गाथां भाषते--
044.003. अप्येव हि स्यादनृताभिधायिनी ममेह जिह्वार्जवसत्यवादिता।
044.005. तदेवमेतन्न यथा हि ब्राह्मण तथागतो ऽस्मीत्यवगन्तुमर्हसि
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0