दिव्यावदान · अध्याय 3
033.009. भूतपूर्वं भिक्षवो ऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां च।
033.011. बुद्धो भगवान् वाराणसीं नगरीमुपनिश्रित्य विहरति।
033.012. तस्यायं शासने प्रव्रजितः।
033.012. त्रिपिटकसंघस्य च धर्मवैयावृत्यं करोति।
033.012. यावदन्यतमस्यार्हत उपधिवारः प्राप्तः।
033.013. स विहारं संमर्ष्टुमारब्धः।
033.013. वायुनेतश्चामुतश्च संकारो नीयते।
033.013. स संलक्षयति--तिष्ठतु तावद् यावद्वायुरुपशमं गच्छतीति।
033.014. वैयावृत्यकरेणासंमृष्टो विहारो दृष्टः।
033.015. तेन तीव्रेण पर्यवस्थानेन खरवाक्कर्म निश्चारितम्--कस्य दासीपुत्रस्योपधिवार इति।
033.015. तेन अर्हता श्रुतम्।
033.015. स संलक्षयति--पर्यवस्थितो ऽयम्।
033.016. तिष्ठतु तावत्।
033.016. पश्चात् संज्ञापयिष्यामीति।
033.017. यदा अस्य पर्यवस्थानं विगतं तदा तस्य सकाशमुपसंक्रम्य कथयति--जानीषे त्वं को ऽहमिति? स कथयति--जाने त्वं काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितो ऽहमपीति।
033.018. स कथयति--यद्यप्येवं तथापि तु यन्मया प्रव्रज्य चरणीयं तत्कृतमहं सकलबन्धनाबद्धः।
033.019. खरं ते वाक्कर्म निश्चारितम्।
033.020. अत्ययमत्ययतो देशय।
033.020. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति।
033.021. तेनात्ययमत्ययतो देशितम्।
033.021. यत्तेन नरक उपपद्य दासीपुत्रेण भवितव्यम्, तन्नरके नोपपन्नः।
033.022. पञ्च तु जन्मशतानि दास्याः कुक्षौ उपपन्नः।
033.022. यावदेतर्ह्यपि चरमे भवे दास्या एव कुक्षौ उपपन्नः।
033.023. यत् संघस्योपस्थानं कृतम्, तेनाढ्ये महाधने महाभोगे कुले जातः।
033.024. यत्तत्र पठितं स्वाध्यायितं स्कन्धकौशलं च कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
033.025. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः।
033.027. तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
033.028. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
033.029. इदमवोचद्भगवान्।
033.029. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥
033.030. इति श्रीदिव्यावदाने पूर्णावदानं द्वितीयम्॥
********** अवदान 3 **********
034.001. दिव्3 मैत्रेयावदानम्।
034.002. यदा राज्ञा भागधेन अजातशत्रुणा वैदेहीपुत्रेण नौक्रमो मातापित्रोर्मापितस्तदा वैशालकैर्लिच्छविभिर्भगवतो ऽर्थे नौक्रमो मापितः।
034.003. नागाः संलक्षयन्ति--वयं विनिपतितशरीरा यन्नु वयं फणसंक्रमेण भगवन्तं नदी{दीम्} गङ्गामुत्तारयेम इति।
034.004. तैः फणसंक्रमो मापितः।
034.005. तत्र भगवान् भिक्षूनामन्त्रयते स्म--राजगृहात् श्रावस्तीं गन्तुम् यो युष्माकं भिक्षव उत्सहते राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेण नदीगङ्गामुत्तर्तुम्, स तेन तरतु, यो वा भिक्षवो वैशालकानां लिच्छवीनां नौसंक्रमेण, सो ऽपि तेनोत्तररु।
034.007. अहमपि आयुष्मता आनन्देन भिक्षुणा सार्धं नागानां फणसंक्रमेण नदीं गङ्गामुत्तरिष्यामि।
034.008. तत्र केचित् राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेणोत्तीर्णाः, केचित् वैशालिकानां लिच्छवीनां नौसंक्रमेण।
034.010. भगवानपि आयुष्मता आनन्देन सार्धं नागानां फणसंक्रमेणोत्तीर्णः।
034.010. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते--
034.012. ये तरन्त्यर्णवं सरः सेतुं कृत्वा विसृज्य पल्वलानि।
034.013. कोलं हि जनाः प्रबन्धिता उत्तीर्णा मेधाविनो जनाः
034.014. उत्तीर्णो भगवान् बुद्धो ब्राह्मणस्तिष्ठति स्थले।
034.015. भिक्षवो ऽत्र परिस्नान्ति कोलं बध्नन्ति श्रावकाः
034.016. किं कुर्यादुदपानेन आपश्चेत् सर्वतो यदि।
034.017. छित्त्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत्
इति॥
034.018. अद्राक्षीद्भगवानन्यतमस्मिन् भूभागे उन्नतोन्नतं पृथिवीप्रदेशम्।
034.018. दृष्ट्वा च पुनरायुष्मन्तमामन्त्रयते--इच्छसि त्वमानन्द यो ऽसौ यूय ऊर्ध्वं व्यामसहस्रं तिर्यक् षोडशप्रवेधो नानारत्नविचित्रो वितः, तं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगतसमयः, यो ऽयं भगवान् यूपमुच्छ्रापयेत्, भिक्षवः पश्येयुः।
034.022. ततो भगवता चक्रस्वतिकनन्द्यावर्तेन जालावनद्धेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण पृथिवी परामृष्टा।
034.024. नागाः संलक्षयन्ति--किमर्थं भगवता पृथिवी परामृष्टेति? यावत् पश्यन्ति यूयं द्रष्टुकामाः।
034.024. ततस्तैरुच्छ्रापितः।
034.024. भिक्षवो यूपं द्रष्टुमारब्धाः।
034.025. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति।
034.025. तत्र भगवान् भिक्षूनामन्त्रयते स्म--आरोहपरिणाहं निमित्तं भिक्षवो यूपस्य गृह्णीत, अन्तर्धास्यतीति।
034.026. अन्तर्हितः।
034.027. भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त भिक्षवो यूपं पश्यन्ति।
034.027. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति।
034.028. किं तावत् वीतररागत्वादाहोस्वित् पर्युपासितपूर्वत्वात्? तद्यदि तावद् वीतरागत्वात्, सन्त्यन्ये ऽपि वीतरागाः।
034.029. अथ पर्युपासितपूर्वत्वात्? कुत्र केन पर्युपासितमिति।
034.030. भगवानाह--अपि भिक्षवो वीतरागत्वादपि पर्युपासितपूर्वत्वात्।
034.030. कुत्रानेन पर्युपासितम्?
035.001. <35>भूतपूर्वं भिक्षवो राजाभूत प्रणादो नाम शक्रस्य देवेन्द्रस्य वयस्यकः।
035.001. सो ऽपुत्रः पुत्राभिनन्दी करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितो ऽहमपुत्रश्च।
035.002. ममात्ययाद् राजवंशसमुच्छेदो भविष्यतीति।
035.003. ततः शक्रेण दृष्टः पृष्टश्च--मार्ष, कस्मात् त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--कौशिल, अनेकधनसमुदितो ऽहमपुत्रश्च।
035.005. ममात्ययाद् राजवंशस्योच्छेदो भविष्यति।
035.005. शक्रः कथयति--मार्ष, मा त्वं चिन्तापरस्तिष्ठ।
035.006. यदि कश्चित् च्यवनधर्मा देवपुत्रो भविष्यति, तत्ते पुत्रत्वे समादापयिष्यामीति।
035.007. धर्मता खलु च्यवनधर्मणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि संक्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ते, दौर्गन्धं मुखान्निश्चरति, उभाभ्यां कक्षाभ्यां स्वेदः प्रघरति, स्वे चासने धृतिं न लभते।
035.009. यावदन्यतमस्य देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भूतानि।
035.010. स शक्रेण देवेन्द्रेणोक्तह्--मार्ष, प्रणादस्य राज्ञो ऽग्रामहिष्याः कुक्षौ प्रतिसंधिं गृहाणेति।
035.011. स कथयति--प्रमादस्थानं कौशिकम्।
035.011. बहुकिल्बिष्कारिणो हि कौशिक राजानः।
035.012. मा अधर्मेण राज्यं कृत्वा नरकपरायणो भविष्यामीति।
035.012. शक्रः कथयति--मार्ष, अहं ते स्मारयिष्यामि।
035.013. प्रमत्ताः कौशलिक देवा रतिबहुलाः।
035.013. एवमेतन्मार्ष।
035.013. तथापि त्वहं भवन्तं स्मारयामि।
035.014. तेन प्रणादस्य राज्ञो ऽग्रमहिष्याः कुक्षौ प्रतिसंधिर्गृहीता।
035.014. यस्मिन्नेव दिवसे प्रतिसंधिर्गृहीता, तस्मिन् दिवसे महाजनकायेन प्रणादो मुक्तः।
035.015. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता।
035.016. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः।
035.017. तस्य ज्ञातयः संगम्य समागम्य नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति।
035.018. ज्ञातय ऊचुह्--यस्मिन्नेव दिवसे ऽयं दारको मातुः कुक्षिमवक्रान्तः, तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः।
035.019. यस्मिन्नेव दिवसे जातस्तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः।
035.020. तस्मात् भवतु दारकस्य महाप्रणाद इति नाम।
035.021. तस्य महाप्रणाद इति नामधेयं व्यवस्थापितम्।
035.021. महाप्रणादो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्यांसंधात्रीभ्यां द्वाघ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्याम्।
035.023. सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्ण्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
035.024. आशु वर्धते ह्रदस्थामिव पङ्कजम्।
035.024. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः।
035.025. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारीपरीक्षायाम्।
035.026. सो ऽष्टासु परीक्षासूद्घट्टको वाचकः पटुप्रचारः पण्डितः संवृत्तः।
035.027. स यानि तानि राअज्ञां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यासतां पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा--हस्तिशिक्षायामश्वपृष्ठे रथे शरे धनुषि प्रयाणे निर्याणे ऽङ्कुशग्रहे पाशग्रहे तोमरग्रहे यष्टिबन्धे पदबन्धे शिखाबन्धे दूरवेधे मर्मवेधे ऽक्षुण्णवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः॥
035.032. धर्मता खलु न तावत् पुत्रस्य नाम प्रज्ञायते यावत् तातो जीवति।
035.032. अपरेण समयेन <36>प्रणादो राजा कालगतः।
036.001. महाप्रणादो राज्ये प्रतिष्ठितः।
036.001. स यावत्तावद् धर्मेण राज्यं कारयित्वा अधर्मेण कारयितुं प्रवृत्तः।
036.002. ततः शक्रेण देवेन्द्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः समादापितः।
036.003. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति।
036.004. स यावत्तावद् धर्मेण राज्यं कारयित्वा पुनरपि अधर्मेण राज्यं कारयितुं प्रवृत्तः।
036.004. द्विरपि शक्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः पुत्रत्वे समादापितः।
036.005. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति।
036.006. स कथयति--कौशिक, वयं राजानः प्रमत्ता इति रतिबहुलाः क्षणाद् विस्मरामः।
036.007. किंचित्त्वमस्माकं चिह्नं स्थापय, यं दृष्ट्वा दानानि दास्यामः, पुण्यानि कारयिष्याम इति।
036.008. न च शक्यते विना निमित्तेन पुण्यं कर्तुम्।
036.008. ततः शक्रेण देवेन्द्रेण विश्वकर्मणो देवपुत्रस्याज्ञा दत्ता--गच्छ त्वं विश्वकर्मन् राज्ञो महाप्रणादस्य निवेशने।
036.009. दिव्यं मण्डलवाटं निर्मिणु, यूपं चोच्छ्रापय।
036.010. ऊर्ध्वं व्यामसहस्रेण तिर्यक् षोडशप्रवेधं नानारत्नविचित्रं सर्वसौवर्णमिति।
036.011. ततो विश्वकर्मणा देवपुत्रेण महाप्रणादस्य राज्ञो निवेशने दिव्यो मण्डलवाटो निर्मितो यूपश्चोच्छ्रितः।
036.012. ऊर्ध्वं व्यामसहस्रं नानारत्नविचित्रो दिव्यः सर्वसौवर्णः।
036.012. ततो महाप्रणादेन राज्ञा दानशाला मापिता।
036.013. तस्य मातुलो ऽशोको नाम यूपस्य परिचारको व्यवस्थितः।
036.014. ततो यूपदर्शनोद्युक्तः सर्व एव जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति।
036.015. ततः कृषिकर्मान्ताः समुच्छिन्नाः।
036.015. राज्ञः करप्रत्याया नोत्तिष्ठन्ते।
036.016. अमात्यैः स्तोकाः करप्रत्याया उपनीताः।
036.016. महाप्रणादो राजा पृच्छति--भवन्तः, कस्मात् स्तोकाः करप्रत्याया उपनीताह्? देव, जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति।
036.018. कृषिकर्मान्ताः समुच्छिन्नाः।
036.018. राज्ञः करप्रत्याया नोत्तिष्ठन्त इति।
036.019. राजा कथयति--समुच्छिद्यतां दानशालेति।
036.019. तैः समुच्छिन्ना।
036.019. ततो ऽप्यसौ जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं निरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति।
036.021. कृषिकर्मान्ताः समुच्छिन्नाः।
036.021. तथापि करप्रत्याया नोत्तिष्ठन्ते।
036.021. राजा पृच्छति--भवन्तः, दानशलाः समुच्छिन्नाः।
036.022. इदानीं करप्रत्याया नोत्तिष्ठन्त इति।
036.022. अमात्याः कथयन्ति--देव, जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं नीरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति।
036.023. कृषिकर्मान्ताः समुच्छिन्नाः, यतः करप्रत्याया नोत्तिष्ठन्ते।
036.024. ततो राज्ञा महाप्रणादेन दानानि दत्त्वा पुण्यानि कृत्वा स यूपो नद्यां गङ्गायामाप्लावितः।
036.025. किं मन्यध्वे भिक्षवो यो ऽसौ माप्रणादस्याशोको नाम मातुलः, एष एवासौ भद्दाली भिक्षुः।
036.026. तत्रानेन पर्युपासितपूर्वः॥
036.027. कुत्र भदन्त असौ यूपो विलयं गमिष्यति? भविष्यन्ति भिक्षवो ऽनागते ऽध्वनि अशीतिवर्षसहस्रायुषो मनुष्याः।
036.028. अशीतिवर्षसहस्रायुषां मनुष्याणां शङ्खो नाम राजा भविष्यति सम्यमनी चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः।
036.029. तस्येमान्येवं रूपाणि सप्त रत्नानि भविष्यन्ति।
036.030. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्।
036.031. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
036.032. स इमामेव समुद्रपर्यन्तां पृथिवीमखिलामकणटकामनुत्पीडामदण्डेनाशस्रेण धर्मेण <37>समयेन अभिनिर्जित्याध्यावसिष्यति।
037.001. शङ्खस्य राज्ञो ब्रह्मायुर् नाम ब्राह्मणः पुरोहितो भविष्यति।
037.002. तस्य ब्रह्मवती नाम पत्नी भविष्यति।
037.002. सा मैत्रेयांशेन स्फुरित्वा पुत्रं जनयिष्यति मैत्रेयं नाम।
037.003. ब्रह्मायुर्माणवो ऽशीतिमाणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयिष्यति।
037.003. स तान् माणवकान् मैत्रेयाय अनुप्रदास्यति।
037.004. मैत्रेयो माणवो ऽशीतिमाणवकसहस्राणि ब्राह्मणकान् मन्त्रान् वाचयिष्यति।
037.005. अथ चत्वारो महाराजाश्चतुर्महानिधिस्थाह्--
037.006. पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः।
037.007. एलापत्रश्च गान्धारे शङ्खो वाराणसीपुरे
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0