दिव्यावदान · अध्याय 35
491.020. भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति।
491.020. तेन सदृशात् कुलात् कलत्रमानीतम्।
491.021. स तया सह क्रीडते रमते परिचारयति।
491.021. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
491.022. पुनरस्य क्रीडतो रममाणस्य परिचारयतो दारिका जाता।
491.022. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
491.023. या जन्मिका दारिकाः, तासाम् याचनका आगच्छन्ति।
491.024. तस्या न कश्चिदागच्छति।
491.024. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनसनभक्ता एकदक्षिणीया लोकस्य।
491.025. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
491.026. यावत्तया दारिकया गृहं संमृज्य वाटस्योपरिष्टात् संकारश्छोरितः।
491.027. तस्य प्रत्येकबुद्धस्य पिण्डपातमटतः शिरसि पतितः।
491.028. तयासौ दारिकया पतन् दृष्टः।
491.028. न चास्य विप्रतिसारचित्तमुत्पन्नम्।
491.028. नेइवम्।
491.029. तस्यास्तमेव दिवसम् याचनक आगतः।
491.029. सा भ्रात्रा पृष्टा--किं त्वयाद्य कृतम् येन ते याचनका नागता इति।
491.030. तया समाख्यातम्--मया तस्योपरि संस्कारशछोरितः।
491.030. तेन विपुष्पितम्।
491.031. तदा दारिकया अन्यस्या दारिकाया निवेदितम्।
491.031. तयाप्यस्या लोकस्येदं पापकं दृष्टिगतमुत्पन्नम्।
491.032. यस्या यस्या याचनका आगच्छन्ति, सा सा तस्य प्रत्येकबुद्धस्योपरि संकारम् <492>छोरयत्विति।
492.001. असत्कारभीतवस्ते महात्मानः सर्वे प्रत्येकबुद्धाः।
492.001. स तस्मात् कर्वटकात्प्रक्रान्तः।
492.002. पञ्चाभिज्ञामृषीणामुपरि क्षेप्तुमारब्धाः।
492.002. ते ऽपि प्रक्रान्ताः।
492.002. ततो मातापित्रोरुपरि क्षेप्तुमारब्धाः।
492.003. तस्मिन् कर्वटके द्वौ गृहपती समकौ प्रतिवसतः।
492.003. सा आभ्यामुक्ता--भवन्तः, असद्धर्मो ऽयं वर्धते, विरमतेति।
492.004. ताभ्यां निवारिताः प्रतिविरताः॥
492.005. किं मन्यध्वे भिक्षवो यासौ दारिका यया प्रत्येकबुद्धस्योपरि संकारश्छोरितः, एष एवासु शिखण्डी।
492.006. यो ऽसौ कर्वटकनिवासी जनकायः, एष एवासौ रौरुकनिवासी जनकायः।
492.007. यदेभिः प्रत्येकबुद्धानामुपरि पापकं दृष्टिगरमुत्पन्नं कृतम्, अस्य कर्मणो विपाकेन पांशुनावष्टब्धाः।
492.008. यो ऽसौ गृहपती याभ्यां निवारितम्, एतावेतौ हिरुभिरुकावग्रामात्यौ।
492.009. तस्य कर्मणो विपाकेन निष्पलायितौ।
492.009. यो ऽसौ दारिकाया भ्राता येन विपुष्पितम्, एष एवासौ कात्यायनो भिक्षुः।
492.010. यदनेन बिपुष्पितं तस्य कर्मणो विपाकेन पांशुनावष्टब्धः।
492.011. यदि तेन न विपुष्पितम् (चित्तम्) न पांशुनावष्टब्धो ऽभविष्यदिति।
492.011. यदि तस्य पापकं दृष्टिगतमुत्पन्नमभविष्यत्, कात्यायनो ऽपि भिक्षुः पांशुनावष्टब्धो ऽनयेन व्यसनमापन्नो ऽभविष्यदिति।
492.013. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
492.014. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुलेष्वेव कर्मस्वाभोगः करणीयः।
492.015. इत्येवं वो भिक्षवः शिक्षितव्यमिति।
492.016. भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥
492.017. इति श्रीदिव्यावदाने रुद्रायणावदानं समाप्तम्॥
********** अवदान 38 **********
493.001. दिव्38 मैत्रकन्यकावदानम्।
493.002. मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः।
493.003. तद्यथानुश्रूयते--विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसम्भारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव।
493.007. परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः।
493.009. तस्यार्यसत्त्वस्य नभस्यरात्रे करा नवेन्दोः कुमुदावदाताः
493.011. तृष्णानिलैः शोकशिखाप्रचण्डैश्चित्तानि दग्धानि बहुप्रकारम्।
493.013. आशावतां सप्रणयाभिरामैर्दानाम्बुषेकैः शमयाम्बभूव
493.015. दृष्ट्वा लोकमिमं धनक्षयभयात् संत्यक्तदानोत्सवं लोकक्लेशपिशाचिकावशतया संदूषिताध्याशयम्।
493.017. कारुण्यात् स ददावनाथकृपणक्लीबातुरेभ्यो धनं मत्वा च प्रहतार्णवोर्मिचपलं स्वं जीवितं भूयसा
493.019. येषु व्यासज्जचेता भुजगवरवधूभोगभीमेषु लब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम्।
493.021. वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस् तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः
493.023. तस्मात् पुत्रधनत्वात् पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनैव विगतनिखिलप्रतीकारदारुणप्रभावमहता सुकृतान्तलयईकपरायणाः क्रियन्ते स्म, यदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थम् याचितुमारेभे।
493.027. यस्मिन् यस्मिंस्तनयसरसि स्वच्छपूर्णाम्बुपूर्णे वने(जाते)वृद्धिः समुदितमहावंशलक्ष्म्यम्बुजस्य।
493.029. तत्तत्तस्य प्रबलविरसम् याति तीक्ष्णांशुमालैः शोषं मन्ये रविरिव जलं भागधेयार्कबिम्बम्
494.001. <494>रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम्।
494.003. गङ्गाशङ्खदलावदातसलिलांस्तांस्तांश्च देवानसौ पुत्रार्थी शरणम् ययौ बहु पुनर्दानं द्विजेभ्यो ददौ
494.005. यद्यज्जनो मङ्गलदेशनाभिर्व्रतोपवासाधिगतैश्च दुःखैः।
494.007. पुत्रार्थसंसिद्धिनिमग्नबुद्धिर्विक्षिप्य खेदं स चकार तांस्तान्
494.009. एवमनेकप्रकारकायचेतसोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदाचित् काले ऽस्य पुत्रा जीविनो बभूवुः, तदैनमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित् साधुपुरुषो ऽब्रवीत्--
494.012. कर्माण्येवावलम्बन्ति देहिनां सर्वसम्पदः।
494.013. भूतानां तुङ्गशृङ्गाद्वा विनिपातो न भूतये
494.014. संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना।
494.015. न च ते ऽद्यापि जीवन्ति तत्र किं परिखिद्यसे
494.016. कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस्तुष्टिवशादिहेयुः।
494.018. ये यैर्विना नात्मभवं लभन्ते ते तैर्विना जन्म कथं भजेरन्
494.020. ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास्ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः।
494.022. त्वं केनापि विडम्बसे जडमतिः पुत्राशयोन्मत्तको यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात्
494.024. विधिमपरमहं ते बोधयामि प्रसिद्ध्यै त्वमपि च कुरु तावत् संप्रसिद्ध्यै कदाचित्।
494.026. यदि भवति सुतस्ते कन्यकानाम तस्य सकलजनपदे ऽस्मिन् ख्यापयस्व प्रसिद्ध्या
494.028. अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकिरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयाम्बभूव।
494.029. स च--
494.030. निर्वान्तामलहेमशैलशिरसः प्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्रोरुभास्वच्छिराः।
495.001. <495>मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्रनिचयश्यामारुणान्तेक्षणः
495.003. भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर्लक्षणैः।
495.005. मूर्तिस्तस्य रराज चारुशिखराद्धेमम् यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम्
495.007. भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम्।
495.009. तनयमुदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयामास लोके
495.011. शरीरिणां वृद्धिकरैः समृद्धैर्विशेषयुक्तैर्विविधान्नपानैः।
495.013. सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम्
495.015. धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः।
495.016. पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम्
495.017. अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः।
495.018. द्रव्यैर्वहनमारोप्य जगाहे चोदधिं मुदा
495.019. तिमिंगिलक्षोभविवर्धितोर्मिपयोदधौ मीनविपन्नपात्रे।
495.021. पितर्यतीते जननीं जगाद चकार किं कर्म पिता ममेति
495.023. ततो ऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेदे।
495.024. आशापाशशताकृष्टो वारणस्येव मृत्यं न पश्यति।
495.025. विषयास्वादकृपणो वारणस्येव बन्धनम्
495.026. यद्यपि कथयिष्यामि पितरम् यानपात्रिकम्।
495.027. एषो ऽपि मम मन्दाया नाशमेष्यति तोयधौ
495.028. यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः।
495.030. तावद्युक्तं मम सुतमिमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिषक्तं निषेद्धुम्
496.001. <496>परो ऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम्।
496.003. निवारणीयः स स्वमताज्जनेन प्रयत्नतः किं पुनरेव पुत्रः
496.005. ततो जननी कथयांचक्रे--
496.006. पुत्र औकरिकत्वेन पिता ते मामपूपुषत्।
496.007. यद्यहं सुखिता कार्या कार्षीरौकारिभूषणम्
496.008. अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवन्द्य अन्यस्मिन्नहनि औकरिकापणं प्रससार।
496.010. पुण्यसम्भारमहतस्तस्य सत्त्वदयावतः।
496.011. प्रथमे ऽहनि संपन्नं चतुःकार्षापणं धनम्
496.012. स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै।
496.014. दारिद्र्यदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै
496.016. अथ ये तस्मिन् पुरवरे चिरंतना औकरिकाः, ते तस्य तामभिवर्धमानां क्रियविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसस्तस्मिन् महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्--
496.019. गान्धिकापणिकः श्रेष्ठी पितैतस्मिन् पुरे पुरा।
496.020. स त्वं तां वृत्तिमुज्झत्वा श्रयसे ऽन्यां कया धिया
496.021. अथ बोधिसत्त्वस्तामापि जीविकामपहाय गान्धिकापणं चकार--
496.022. यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम्।
496.023. कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यते
496.024. तमपि मात्रे प्रतिपादितवान्।
496.024. अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुह्--
496.026. गान्धापणं क्लीबजनाभिपन्नं पिता न वै माद्य पुरे(?) चकार।
496.028. तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो
496.030. अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चक्रार।
496.031. तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस्तानभिभूय सर्वान्।
497.001. <497>लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च
497.003. दिने द्वितीये द्वात्रिंशत् कार्षापणमुपार्ज्य सः।
497.004. दक्षिणीयविशेषायै मात्रे तानपि दत्तवान्
497.005. अथ हैरण्यिकापणिकाः पुरुषा समेत्यागत्य च तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्--
497.006. शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम्।
497.007. कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान्
497.008. प्रभञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे।
497.010. विवर्तितं श्लाघ्यमतीव पुंसां न तु स्ववृत्तेश्च्यवनं प्रवृत्तम्
497.012. महोरगाश्वासविघूर्णितोग्रैस्तरंगभङ्गैर्विषमं पयोधिम्।
497.014. अगाधपातालविलग्नमूलं पिता विगाह्यार्जितवान् धनं ते
497.016. यदाश्रितं कर्म जनानुवर्जिना त्वया विदग्धेन धनेप्सुनाधुना।
497.018. कथं न संप्राप्स्यसि भाग्यसम्पदं पितुर्व्यतीते ऽपि विशालिनीं श्रियम्
497.020. वित्तेश्वरो ऽप्यर्थविभूतिविस्तरैर् नाशां सदर्थां विबभार यस्य।
497.022. तस्या महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम्
497.024. ये मृत्युं गणयन्ति नैव विपदि ग्रासं भजन्ते ऽनघ गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः।
497.026. ये नीत्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितयासिन्वन्त कीर्त्या जगत्
497.028. अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्यो ऽपि तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच--अम्ब, सार्थवाहः किलास्माकं पिता पुरा।
497.029. तदनुज्ञां प्रयच्छ, यदहमपि महासमुद्रमवतरिष्यामीति।
497.030. सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासम्लक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदयेव स्वतनयमाह--
497.032. वत्स केन तवाख्यातं विनाकारणशत्रुना।
497.033. जीवितं कस्य ते ऽनिष्टं त्वया क्रीडां करोति कः
498.001. <498>दैवात् कथंचित्सम्प्राप्तं चक्षुरेकं त्वमद्य मे।
498.002. पुत्रक्लेशाभागिन्या मृत्युना ह्रियसे ऽधुना
498.003. न यावदेवं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम्।
498.005. कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैरमित्रैः
498.007. येषां चेतो विविधविरसायासदुःखाप्रकम्प्यम् यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः।
498.009. ते संत्यक्त्वा नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम्
498.011. तन्मामनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम्।
498.013. संत्यज्य यातुं कथमुद्यमस्ते मा सा कथा मा नु वचो मदीयम्(?)
498.015. स्वप्राणसंदेहकरीमवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम्।
498.017. संपत्तयो येन वणिग्जनस्य ततो ऽहमेवं सुत वारयामि
498.019. स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किंचिदीदृशं प्रत्याह--
498.021. वरं नैव तु जायेरन् ये जाता निर्धना जनाः।
498.022. जातस्य यदि दुःखानि वरं मृत्युर् न जीवितम्
498.023. आशया गृहमागत्य दीनदीनास्तपस्विनः।
498.024. अर्थिनो मम पापस्य यान्ति निःश्वस्य दुर्मनाः
498.025. ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते।
498.027. लोकं पुनर्दुःखशतोपतप्तं द्रष्टं न शक्नोमि चिरायमाणः
498.029. तस्माद्विलङ्घामि वचस्त्वदीयम् यास्यामि तं त्वं प्रजहीहि शोकम्।
498.031. तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य
499.001. <499>अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणीकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्धोषयामास।
499.003. अस्यामेव पुरा पुरंदरपुरीप्रतिस्पर्धिपुर्यां वणिक् मित्रो नाम बभूव यत्सुरनरप्रख्यातकीर्तिध्वजः।
499.005. पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्यमुष्मिन्दिने यातुम् ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति
499.007. अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसम्भारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविविधानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार।
499.008. माता चैनं गच्छतीति श्रुत्वाह--ममैकपुत्रक, क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायाणा कोमलविमलकमलदलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति।
499.011. बाष्पसलिलधारापरम्परोद्भवोपरुध्यमानकण्ठी अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह--मा मां पुत्रक परित्यजय यासीति।
499.014. अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम्।
499.016. सतां हिताधानविधानचेतसां गिरो ऽपि शृण्वन्ति न भूतवादिनाम्
499.018. मैत्रकन्यको ऽपि धरणि{तल}निंनां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा।
499.021. मुहुरुपचितशोकः कर्मणा प्रेर्यमाणस् त्वरितमतिरभूत् संप्रयातुं वणिग्भिः
499.023. ततः सा माता समुत्थायाह--पुत्रक,
499.024. मयि गमननिवृत्तिं कर्तुमत्युद्यतायाम् यदुपचितमपुण्यं मच्छिरस्ताडनात्ते।
499.026. व्यसनफलमनन्तं मा तु भूत् कर्मणो ऽस्य पुनरपि गुरुवाक्यं मातिगाः स्वप्नतो ऽपि
499.028. अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमर्कटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलबलविलुलितविपुलविमलसलिलमरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलमसुरस्वरसमसुरपरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरंगभङ्गरौद्रं समुद्रमवततार।
500.001. <500>महाअनिलोत्क्षिप्ततरंगभङ्गैः समुल्लसद्भिः खमिवोत्पतन्तम्।
500.003. सरित्सहस्राम्बुरयप्रवाहैर्भुजैर्विलासैरिव गृह्यमाणम्
500.005. प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम्।
500.007. तन्मूर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छ्रुरितोर्मिचक्रम्
500.009. अहिपतिवदनाद्विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम्।
500.011. तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम्
500.013. तुङ्गतरंगसमुद्गततीरं तीरनिलीनकलस्वनहंसम्।
500.015. हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम्
500.017. रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम्।
500.019. वृद्धभुजंगमहाभवरौद्रं रौद्रमहामकराहतचक्रम्
500.021. खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम्।
500.023. प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम्
500.025. तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटार्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रामतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः सम्यानपात्रकैः सह सहैव सलिलनिधेरधः प्रवेष्टुमारब्धम्।
500.030. उर्वीधराकारतरंगतुङ्गैरुग्रैर्युगान्तानिलचण्डवेगैः।
500.032. तद्यानपात्रं जलधेर्जलौघैरास्फाल्यमानं विददार मध्ये
501.001. <501>दंष्ट्राकराले झषववक्त्ररन्ध्रे कश्चिन्ममारार्तरवस्तपस्वी।
501.003. केचिज्जलोद्गारनिरुद्धकण्ठा जग्मुर् निरुच्छ्वासगिरा व्यसुत्वम्
501.005. गत्वापि केचित्फलकैर्महद्भिरम्भोनिधेस्तीरमवेक्षमाणाः।
501.007. दूराम्बुसंतानपरिश्रमार्तास्त्रासाकुला नेदुरुदीर्णनादाः
501.009. अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससम्भ्रमं फलकमादाय प्रससार।
501.010. ततो ऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथाकथंचित्तस्य दुर्वगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद।
501.014. तीर्त्वा तमम्भोनिधिमप्रगाधमासाद्य तीरं फलकं मुमोच।
501.016. संस्मृत्य मातुर्वचनं स पाणा व्यासज्य मूर्धानमिदं जगाद
501.018. शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम्।
501.020. तेषामिमानि व्यसनानि पुंसामावाहयन्ति प्रभवन्ति मूर्ध्नि
501.022. तैरेव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य।
501.024. प्राप्तं फलं जन्मतरोः सुधीभिर्ये मानयन्तीह गिरो गुरूणाम्
501.026. मातुर्हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य।
501.028. पुष्पम् यदीदृग्भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य
501.030. हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गमनपतितमुग्रं विस्मयात्यन्तवज्रम्।
501.032. गुरुशिरसि दधानः पादवज्रं खलो ऽहं कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः
502.001. <502>ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरिः श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्याम् यथा।
502.003. ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्ते ऽन्यथा दुस्तारे व्यसनोदधौ निपतिन्ताः शोचन्ति ते ऽहम् यथा
502.005. ततो ऽसौ क्रमेण खदिरवरसरलनिचुलबकुलतमालतालनालिकेरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुलताजालदुःसंचरं क्वचित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथंचिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्वचित् स्थित्वैवमाह--
502.009. एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः।
502.011. सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितलैः प्रयान्ति विवशाः फूत्कारभीता नुनः
502.013. रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे।
502.015. वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसम्पादिभिः संगीताहितचतसः प्रमुदिता गायन्त्यमी किन्नराः
502.017. ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श।
502.018. क्वचिदुग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविचरम्।
502.020. क्वचिदुद्धतकिन्नरगीतरवं प्रतिबुद्धससम्भ्रमनागकुलम्
502.022. चपलानिलवेल्लितपुष्पतरुं ततुमन्दिरमूर्ध्नि चलद्भ्रमरम्।
502.024. भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम्
502.026. पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम्।
502.028. सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिसेवितमत्तशकुन्तम्
502.030. मत्तशिखण्डिकलस्वररम्यं रम्यगुहामुखनिर्गतसिंह।
502.032. सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम्
503.001. <503>क्वचिदुपचितवारणदन्तशिखाशनिदारितशिखरततं प्रविरूढविलासशिखागरुवृक्षवनम्।
503.002. क्वचिदुपरिपयोधरभारतरलध्वनिरञ्जितशिखिकुलाविष्कृतपिच्छकलापविचित्रितचारुतटम्।
503.003. क्वचिदनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिबलं कुसुमप्रबलप्रतिवासितसानुशिखम्
503.004. तथापरं ददर्श--
503.005. लिखन्तं करालैर् नभः शृङ्गजालैः क्षिपन्तं मयूखैस्तमः सागराणाम्।
503.007. वहन्तं समभ्राम्बरामद्रिगुर्वीं क्षरन्तं क्वचित् काञ्चनाम्भःप्रवाहम्
503.009. फलितामलकासनकल्पतरुं तरुखण्डविराजितसानुशिखम्।
503.011. शिखरस्थितदेववधूमिथुनं मिथुनैर्दहतां वयसा मधुरम्
503.013. क्वचिदर्कमहारथचक्रनिपातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयं मौलिभरावनतोन्नतभासुरवज्रधरम्।
503.015. क्वचिदिन्द्रकरीन्द्रविमर्दतरंगनयभ्रमितप्रचलत्कलहंसकुलावलिहारनभस्सरिदम्बुविधौतशिलम्।
503.017. क्वचिदण्डजराजविलाससमुच्छ्रितयक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरम्।
503.019. क्वचिदेव सुरासुरसम्युगशस्त्रविपन्नमहासुरविद्रुतशोणितरङ्गमहावलयम्
503.021. दृष्ट्वैवमाह--
503.022. एते पर्वतशृङ्गवन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः।
503.024. प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात् केसरिणो बलेन महता प्रोन्मथ्यमाना गजम्
503.026. इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रन्नज्ञानतमःपटलावगुण्ठितमिव जगत् संसारपङ्के त्रिभुवनस्वामीवोदयद् रमणकं नाम नगरं ददर्श।
503.028. समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः।
503.030. सुवर्णसालैर्मणिहेमशृङ्गैर्महीधराकारगृहैः सुगुप्तैः
503.031. निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः।
504.001. <504>कलप्रलापाण्डजरावरम्यैर्मन्दानिलैरावस्थीकृतं सदा
504.003. सुरकरिकरजध्नकल्पवृक्षैर्मरकतरत्नतृणैः शुकांशुनीलैः।
504.005. मणिकनकलतानिबद्धशाखैः क्वचिदुरुभिस्तरुभिः प्रकामहारि
504.007. विकसितनवकर्णिकारगौरैः कनकगृहैर्बहुरत्नशृङ्गचित्रैः।
504.009. स्वकिरणरुचिरोरुरत्नसानोरचलपतेः सकलश्रियं दधानम्
504.011. क्वचिदमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम्।
504.013. क्वचिदुपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम्
504.015. ततस्तद्दर्शनात् समुत्पन्नजीविताशो ऽसौ रमणं नगरमुपससर्प।
504.015. तस्मान्नगराद्विनिःसृत्य चतस्रो ऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभा(प्राग्भा)रमन्दविलासगतयः कनककलशाकारपृथुतरपओधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यस्य बोधिसत्त्वस्य पादयोर्विन्यसितशिरसः प्राहुह्--
504.021. सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय।
504.023. कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्च्ययाय
504.025. अद्यैव दुःखानि शमं गतानि अद्यैव नो जीवितमात्तसारम्।
504.027. निरत्ययप्रेमविशेषभद्राण्यद्यैव सौख्यानि पुरः स्थितानि
504.029. इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि।
504.031. भवन्तमासाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि
505.001. <505>यान्यर्जितान्यन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि।
505.003. तेषां फलं वीक्षणमेव ते ऽलं सङ्गस्त्वया किं पुनरेव दीघ्यम् (र्घ?)
505.005. अद्यैव मा बन्धुसुहृद्वियोगशोकंकथाः कस्य न सन्त्यपायाः।
505.007. दास्यो वयं ते ऽप्सरसश्चतस्रह् छाया न ते लङ्घयितुं समर्थाः
505.009. रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश्चारुतरा वयं च।
505.011. संत्यभर्ताः सुरराजयोग्या शक्तिर्विधेनेह(?) सुखं भजस्व
505.013. अपि च।
505.014. दुःखे महत्यप्रतिकारघोरे ये वर्तमानाश्चिरमुद्वहन्ति।
505.016. ते दुःखभारोपनिपातमूढास्तत्रैव शीघ्रं निधनं प्रयान्ति
505.018. नित्ये वियोगे मरणात् पुरःस्थिते शोचन्ति ते देशकृते वियोगे।
505.020. संस्मृत्य रोगोपनिपातमूढाः कामप्रहाराद्विषमं प्रपन्नाः
505.022. शब्दायमानवरनूपुरमेखलाभिरादिश्यमानभवनं प्रवराप्सरोभिः।
505.024. हैमाद्रिशृङ्गमिव तत्पुरमाविशन्तं नेमुः कृताञ्जलिपुटा बहवो ऽपि तत्र
505.026. अन्यैश्च पुनह्--
505.027. किं दीप्तरश्मिर्विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः।
505.029. हा किं विनिक्षिप्य खराग्रवज्रो नाथः सुराणामिति तर्कितो ऽभूत्
505.031. तिमिरनिकरलेख्याः श्यामलोपक्ष्मलेख्याह्(?) स्फुटितकनकहारा न्यस्तरत्नोज्वलाङ्गाः।
506.001. <506>विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसो ऽन्याश्चिक्षिपुः स्रस्तकाञ्चयः
506.003. रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम्।
506.005. चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम्
506.007. तासां विलासैर्गमनैः सलीलैर्हासैः कटाक्षैर्मधुरैः प्रलापैः।
506.009. क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः
506.011. प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म।
506.011. सो ऽपि यथा यथा निवार्यते, तथा तथा तया दिशा गमनायौत्सुक्यमना बभूव।
506.013. यत्रायं वार्यते लोको जनेन हितबुद्धिना।
506.014. विपर्यस्तमतिस्तत्र जनः स परिधावति
506.015. यदि कुर्यादयं लोके सुहृदां वचनं हितम्।
506.016. परैति स्वर्गं पाताले श्वभ्रे वा स्वप्नतो ऽपि न
506.017. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसामपरिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श।
506.018. तस्मादपि नगरादष्टाप्सरसः ससम्भ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः।
506.019. तत्राप्यतिचिरं रतिमनुभूय प्रतिषिद्धमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श।
506.020. तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामासे।
506.021. तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ।
506.021. तत्रापि द्वात्रिंशताप्सरोभिः प्रभूतसत्कारं विषयसुखं भुक्त्वा ताः प्राह--
506.023. इच्छामि गन्तुं तदहं भवन्त्यो मा मत्कृते शोकह्रदे शयीध्वम्।
506.025. संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके
506.027. स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद्भवितान्तकाले।
506.029. तेनैव नेत्राश्रुजलार्द्रगण्डान् युष्मान् विहायाद्य यियासुरस्मि
506.031. वाताहताम्भोधितरंगलोले ये जीवलोके बहुदुःखभीमे।
507.001. <507>विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः
507.003. अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकरोपितहृदयाः ससम्भ्रमाः कमलकुवलयकुन्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुह्--
507.005. अस्मासु ते कर्तुमनिष्टमिष्टं कथं हि भक्तिप्रणयार्पितासु।
507.007. सो ऽन्येन एकग्रहणीयरूपः शरीरदानेन वयो ऽग्रहीत्ते
507.009. गत्वा तन्नगरत्रयम् यदपि हे स्वामिन्निहाप्यागतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम्।
507.011. गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किम् यासि चेत् संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः
507.013. बोधिसत्त्वः प्राह--
507.014. यदभ्यासवशान्नृर्णामुदयः संपदस्थिरा।
507.015. कथं तेषु निवार्येरन्निवर्तेरन् कथं नु वा
507.016. नियोजनीयाः सुहृदो ऽसुहृद्भिर् यस्मिन् हिते कर्मणि नित्यकालम्।
507.018. निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो मित्रतया भवन्ति
507.020. दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा आयातो ऽस्मि निषेवणाय परं सौख्यं सदामत्तकम्।
507.022. संप्राप्तो ऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः
507.024. तस्मादतो मे गमनं भवन्त्यो मा वारयध्वं न हि नो ऽस्त्यपायः।
507.026. अस्माद्विशेषाणि सुखानि मन्ये लप्स्ये ऽहमित्युच्चलितो ऽहमद्य
इति।
507.028. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गलप्रघटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरम्।
507.031. तस्य च द्वारदेशमुपचक्राम।
508.001. <508>सम्प्राप्तमात्रस्य तु तत्क्षणेन द्वारं च पुस्फोट कपाटभारम्।
508.003. वज्राग्रधारोपरिभिन्नसानोर्विन्ध्याचलस्येव नितम्बकुक्षिः
508.005. ततो मैत्रकन्यको बोधिसत्त्वो ऽत्र विवेश।
508.006. प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम्।
508.008. तत्कर्मवायुप्रभवैर्महद्भिः क्षणाद्भुजाग्रैरिव संजघाट
508.010. अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तम्।
508.011. श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ।
508.012. प्रविष्टमात्रस्य ततो द्वितीयमास्फालितं द्वारमिवापरुद्धम्।
508.014. पर्यन्तकालानिलवेगविद्धं द्वारं सुराणामिव वज्रकल्पम्
508.016. ततो मैत्रकन्यको बोधिसत्त्वः प्रविवेश।
508.017. प्रविष्टमात्रस्य पुनस्तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम्।
508.019. क्षणादभूत्तन्नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः
508.021. ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूराज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्क्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषम्।
508.024. समीपं चोपगम्यैनं पर्यपृच्छत्--
508.025. किं नागो ऽसि सुरो ऽसि किन्नरवरो यक्षो ऽसि किं मानुषः किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचो ऽसि वा।
508.027. किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयम् यास्यामि व्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत्
508.029. पुरुषः प्राह--
508.030. नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजः।
509.001. <509>रक्षो नाहं नापि विद्याधरो ऽपि जातिस्तुल्या संप्रतीहि त्वया नः
509.003. बोधिसत्त्वः प्राह--
509.004. किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतम् येनेदं ज्वलितानलं शिरसि चक्रं भ्रमत्यायसम्।
509.006. पुरुषः प्राह--
509.007. नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया
509.009. यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशादकार्यगुरुकस्तस्या जनन्या महत्।
509.011. साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस् तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम्
509.013. अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह--
509.015. अन्यं जुगुप्साम्यहमल्पबुद्धिरात्मानमेवाद्य निनिन्द अज्ञः।
509.017. येषु स्वयं दोषगुणेषु मग्नस् तैरेव लोकं कथमङ्कयामि
509.019. मयापि यन्मातरि दक्षिणीयैह् (णायाम्?) कृतो ऽपराधः पुरुषाधमेन।
509.021. तस्यैव पापस्य फलानि भोक्तुमुल्लङ्घ्य तोयावलिमागतो ऽस्मि
509.023. अथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात् सजलजलदनिनादगम्भीरधीरो ध्वनिरुच्चचार--
509.025. किं न पश्यति कर्माणि बलवन्ति शरीरिणाम्।
509.026. लोकालोकान्तरस्थायी पाशेनेव विकृष्यते
509.027. ये बद्धा विषयेण दुःखनिगडेनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वते।
509.029. मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैर् मानुष्यम् यदवाप्य मूढमतयो दूरे स्थिता जर्मिणह् (जन्मिनह्?)
509.031. अथ तस्य वचनानन्तरमेव कर्मानिलावेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयद् भ्रमितुमारब्धम्।
509.034. क्षणात्स रेजे रुधिरप्रवाहैर्मूर्ध्ना च्युतैः स्नातसमस्तमूर्तिः।
510.001. <510>प्रभिन्नचक्राग्रविभिन्नमूर्ध्ना ऐरावणस्येव तनुः पतन्ती
510.003. ततः स पुरुषो हा हेति मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह--
510.005. दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि।
510.007. संत्यज्य कर्माद पराणि तानि प्राप्तस्त्विदं स्थानमनन्तदुःखम्
510.009. देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैरतुल्यैः।
510.011. नित्यं ज्वलद्वह्निशिखाकरेण संप्रार्थयेद्भीममपायगर्तम्
510.013. बोधिसत्त्वः प्राह--
510.014. सत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि।
510.016. संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतया गतो ऽहम्
510.018. राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि।
510.020. युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतया गतो ऽहम्
510.022. समुत्पतत्तुङ्गतरंगरोद्रौ भ्रमज्जलावर्तविमुक्तनादे।
510.024. महोदधौ यान्ति नराः प्रणाशम् यया तयेच्छालतया गतो ऽहम्
510.026. निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम्।
510.028. मुनीश्वराणां व्रतमुत्सृजन्ति यया तयेच्छालतया गतो ऽहम्
510.030. तेषां मुनीनां विगतव्यथानां देयं कथं पादरजेन मूर्ध्नि।
510.032. यैर्लङ्घितास्तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः
511.001. <511>किं तद्भवेद्दुःखमतीव तीव्रं का वा विपत्तिर्बहुदुःखयोनिः।
511.003. तृष्णाविषाग्निक्षतचित्तवृत्तेर्या दूरतः संपरिवर्तिनी स्यात्
511.005. अपि च हे साधो,
511.006. कर्मणा परिकृष्टो ऽस्मि वर्तमानो ऽपि दूरतः।
511.007. कर्षति प्राणिनस्तत्र फलम् यत्र प्रयच्छति
511.008. अपि च--
511.009. कति वर्षसहस्राणि कति वर्षशतानि च।
511.010. प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति
511.011. पुरुषः प्राह--
511.012. षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
511.013. प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति
511.014. बोधिसत्त्वः प्राह--
511.015. एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं को ऽन्यो ऽवभ्रमितं प्रयास्यति समं छित्त्वा परश्चैष्यति।
511.017. पुरुषः प्राह--
511.018. यो मातर्यपकारकर्तुमनसः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना तव प्रच्युतम्
511.020. अथ बोधिसत्त्वस्तेन मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयो ऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे--
511.022. क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः।
511.024. स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनरमरसमूहास्ते ऽपि शेण्वन्तु सन्तः
511.026. कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नम् यदि प्रोद्वहेदेतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि।
511.028. कल्पं कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्यमानमस्य हि मे चित्तं न संखिद्यते
511.030. अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना समुत्पाट्योत्क्षिप्तमिव तच्चक्रं सप्ततालोच्छ्रयाच्चक्रं नभस्तलं समुत्पत्यावतस्थे।
511.032. रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम्।
511.034. उद्यद्बिम्बमिवारुणस्य सकलप्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः
512.001. <512>ततः स्रवन्निर्झरवारिचारिणः समीरणोल्लासितपुष्पशाखिनः।
512.003. नभो विचुम्ब्यायतशृङ्गबाहवश्चकम्पिरे भूमिभृतो हता इव
512.005. भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः।
512.007. जलालया रत्नशिखानिवासिनस्तदातिवेलासलिलैर्ललङ्घिरे
512.009. प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलमंशुमालिनः।
512.011. रवेर्मयूखाङ्कुरदन्तुरान्तराद्दिशः समन्ताद्ददृशुः स्फुटश्रियः
512.013. स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः।
512.015. पयोमुचः किंचिदवास्रुताम्भसो वितानवद्व्योमनि ते विरेजिरे
512.017. स्रजो विचित्रा विनिपेतुरम्बरात् वितुष्टुवुर्हृष्टतरा दिवौकसः।
512.019. चिरप्रगाढव्यसना हतार्तयः क्षणादभूवन् बहवो निरामयाः
512.021. ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः।
512.023. भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन
512.025. दानोदकमहत्तीर्थे शीलशौचसुनिर्मले।
512.026. क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके
512.027. ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके।
512.028. तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः
512.029. प्रक्षालयेच्छेषपापं तुषिते ऽसौ ययौ मुदा।
512.030. तत्रस्थो ऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0