भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 34

34.1

इति।
460.020. राजा सुतरां निरीक्ष्य विचारयति।
460.020. इयं कौशाम्बी नगरी, इदं राजकुलम्, अयं माकन्दिकः पुष्पदन्तं प्रासादं भूर्जादिना प्रयोगेण दहति, इमानि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दह्यमानान्युत्प्लुत्य निपतितानीति।
460.022. विचार्य कथयति--भोः पुरुष, किं कथयसि श्यामावती दग्धेति? देव, नाहं कथयामि अपि तु देव एव कथयति।
460.023. भोः पुरुष, उपायेन मे त्वया निवेदितम्, अन्यथा ते मयासिना निकृन्तितमूलं शिरः कृत्वा पृथिव्यां निपातितमन्वभविस्यदित्युत्क्वा मूर्च्छितः पृथिव्यां निपतितः।
460.025. ततो जलपरिषेकेण प्रत्यागतप्राणः कथयति--संनाहयत भवन्तश्चतुरङ्गबलकायम्।
460.026. कौशाम्बीं गच्छाम इति।
460.026. अमात्यैश्चतुरङ्गबलकायं संनाहितम्।
460.027. राजा कौशाम्बीं संप्रस्थितः।
460.027. अनुपूर्वेण संप्राप्तः।
460.027. तेन पौराणां सकाशात् सर्वं श्रुतम्।
460.028. तैरमर्षितम्।
460.028. तमारागितम्।
460.028. ततो योगन्धरायणस्याज्ञा दत्ता--गच्छ माकन्दिकमनुपमया सह यन्त्रगृहे प्रक्षिप्य दह्यताम्।
460.029. ततो योगन्धरायणेन सुगुप्तं भूमिगृहे प्रक्षिप्य स्थापितः।
460.030. राज्ञः सप्तमे दिवसे शोको विगतः।
460.030. स विगतशोकः।
460.030. स कथयति--योगन्धरायण, कुत्रानुपमेति? तेन यथावृत्तं निवेदितम्।
460.031. राजा कथयति--शोभनम्।
460.031. माकन्दिकेन श्यामावती प्रघातिता, त्वयाप्यनुपमया सपरिवारया सार्धं मया प्रव्रजितव्यं जातमिति।
460.032. योगन्धरायणः कथयति--देव, इत्यर्थमेव मया असौ भूमिगृहे प्रक्षिप्य स्थापिता।
460.032. पश्यामि तावद्यदि जीवतीति।
461.001. <461>तेनासौ भूमिगृहादानीता तदवस्थानाक्लिष्टा अम्लानशरीरा।
461.001. राजा दृष्ट्वा संलक्षयति--यथेयमम्लाना, नेइषा निराहारा।
461.002. नूनमनया परपुरुषेण सार्धं परिचारितमिति विदित्वा कथयति--अनुपमे, अन्येन परिचारितमिति? सा कथयति--शान्तं पापम्, नाहमेवंकारिणी।
461.003. कथं जाने? अभिश्रद्दधसि त्वं भगवतह्? अभिश्रद्दधे गौतमे।
461.004. तत्त्तदा श्रमणो गौतमः, इदानीं भगवान्।
461.004. अपि तु किं नवशवाया अर्थे भगवन्तं प्रवक्ष्यामि, श्यामावत्या अर्थे प्रवक्ष्यामीति विदित्वा येन भगवांस्तेनोपसंक्रान्तः।
461.006. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
461.006. उदयनो वत्सराजो भगवन्तमिदमवोचत्--किं भदन्त श्यामावतीप्रमुखैः पञ्चभिः स्त्रीशतैः कर्म कृतम् येनाग्निना दग्धानि? कुब्जोत्तरा अनुक्रमेण निष्पलायितेति।
461.008. भगवानाह--आभिरेव महाराट् कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥
461.010. भूतपूर्वं महाराज वाराणस्यां नगर्या ब्रह्मदत्तो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च पूर्ववद्यावद्धर्मेण राज्यं कारयति।
461.011. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य।
461.012. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीमनुप्राप्तः।
461.013. सो ऽन्यतमस्मिन्नुद्याने कुटिकायामवस्थितः।
461.014. राजा च ब्रह्मदत्तः सान्तःपुरपरिवारस्तदुद्यानं निर्गतः।
461.014. ता अन्तःपुरिकास् त्रीडापुष्किरिण्यां स्नात्वा शीतेनानुबद्धाः।
461.015. ततो ऽग्रमाहिष्या प्रेष्यदारिकोक्ता--दारिके, शीतेनातीव बाध्यामहे।
461.016. गच्छ, एतस्याअं कुटिकायामग्निं प्रज्वलयेति।
461.016. सा उल्कां प्रज्वल्य गता।
461.016. पश्यति तं प्रत्येकबुद्धम्।
461.017. तया तस्या निवेदितम्--देवि, प्रव्रजितो ऽस्यां तिष्ठतीति।
461.017. सा कथयति--प्रव्रजितो वा तिष्ठतु, अग्निं दत्वा तां प्रज्वलयेति।
461.018. तया न दत्तम्।
461.018. ततस्तया कुपितया स्वयमेव दत्तम्।
461.019. स प्रत्येकबुद्धो निर्गतः।
461.019. आभिः सर्वाभिरन्तःपुरिकाभिरनुमोदितम्।
461.019. देवि, शोभनं त्वया यदग्निर्दत्तः।
461.020. सर्वा वयं प्रतप्ता इति।
461.020. स प्रत्येकबुद्धः संलक्षयति--क्षता एतास्तपस्विन्य उपहताश्च।
461.021. मा अत्यन्तक्षता एता भविष्यन्ति।
461.021. अनुग्रहमासां करोमीति।
461.021. स तासामनुकम्पार्थं तत एवाकाशमुत्प्लुत्य तपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
461.022. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी।
461.023. ता मूलनिकृन्तित इव द्रुमः पादयोर् निपत्य क्षमयितुमारब्धाः।
461.023. अवतरावतर सद्भूतदक्षिणीय, अस्माकं कामपङ्कनिमग्नानां हस्तोद्धारमनुप्रयच्छेति।
461.024. स तासामनुकम्पार्थमवतीर्णः।
461.025. तानि तस्मिन् कारां कृत्वा प्रणिधानं कार्तुमारब्धाह्--यदस्माभिरेवं सद्भूतदक्षिणीये ऽपकारः कृतः, मा अस्य कर्मणो विपाकमनुभवेम।
461.026. यत्तु काराः कृताः, अनेन वयं कुशलमूलेनैवंविधानां धर्माणां लाभिन्यो, भवेम, प्रतिविशिष्टतरं चातः शास्तारमारगयेम इति॥
461.028. किं मन्यसे महाराज तदा सासौ राज्ञो ब्रह्मदत्तस्याग्रमहिषी, एषैव सा श्यामावती तेन कालेन तेन समयेन।
461.029. यानि पञ्च स्त्रीशतानि, एतान्येव तानि पञ्च स्त्रीशतानि तानि तेन कालेन तेन समयेन।
461.030. या सा प्रेष्यदारिका, एषैवासौ कुब्जोत्तरा तेन कालेन तेन समयेन।
461.031. यदाभिः प्रत्येकबुद्धस्य कुटिकां दग्ध्वा अनुमोदितम्, तस्य कर्मणो विपाकेन बहूनि वर्षाणि नरकेषु पत्का यावदेतर्ह्यपि दृष्टसत्या अग्निना दग्धाः।
461.032. कुब्जोत्तरा अनुक्रमेण <462>निष्पलायिता।
462.001. यत्प्रणिधानं कृतं ममान्तिके सत्यदर्शनं कृतम्।
462.001. इति हि महाराज एकान्तकृष्णानां कर्माणां पूर्ववद्यावदेवमाभोगः करणीयः।
462.002. इत्येवं ते महाराज शिक्षितव्यम्।
462.003. अत्रोदयनो वत्सराजो भगवतो भाषितमभिनिन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात्प्रक्रान्तः।
462.005. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त कुब्जोत्तरया कर्म कृतम् येन कुब्जा संवृत्ता? भगवानाह--कुब्जोत्तरयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावद् फलन्ति खलु देहिनाम्।
462.008. भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति पूर्ववद्यावद्धर्मेण राज्यं कारयति।
462.009. नैमित्तिकैर्द्वादशवार्षिका अनावृष्टिरादिष्टा।
462.009. राज्ञा वाराणस्यामेवं घण्टावघोषणं कारितम्--यस्य द्वादशवार्षिकं भक्तमस्ति, तेन स्थातव्यम्।
462.010. यस्य नास्ति तेनान्यत्र गन्तव्यमिति यतः कोलेनागन्तव्यमिति।
462.011. तेन खलु समयेन वाराणस्यां संधानो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः पूर्ववद्यावद् वैश्रवणधनप्रतिस्पर्धी।

462.013. तेन कोष्ठागारिक आहूयोक्तह्--भोः पुरुष, भविष्यति मम सपरिवारस्य द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य, भविष्यतीति।
462.014. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते पूर्ववद्यावद्भोः पुरुष, विन्यस्य प्रव्रजितसहस्रस्य मम द्वादश वर्षाणि भक्तमिति।
462.016. स कथयति--आर्य, भबिष्यतीति।
462.016. तेन तेषां प्रतिज्ञातम्।
462.016. दानशाला मापिताः।
462.017. पूर्ववत्तत्र दिने दिने प्रत्येकबुद्धसहस्रं भुङ्क्ते।
462.017. तत्रैकः प्रत्येकबुद्धो ग्लानः।
462.018. सो ऽन्यतमस्मिन् दिने नागच्छति।
462.018. सन्धानस्य दुहिता कथयति--तात, एको ऽद्य प्रव्रजितो नागत इति।
462.019. स कथयति--पुत्रि, कीदृश इति।
462.019. सा पृष्ठं विनामयित्वा कथयति--तात, ईदृश इति।
462.020. यदनया प्रत्येकबुद्धो विनाडितः, तस्य कर्मणो विपाकेन कुब्जा संवृत्ता।
462.021. पुनरपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त, कुब्जोत्तरया कर्म कृतम् येन श्रुतधराअ जातेति? भगवानाह--तेन कालेन तेन समयेन प्रत्येकबुद्धानाम् यः संघस्थविरः स वाय्वाधिकः।
462.023. तस्य मुञ्जानस्य पात्रं कम्पते।
462.023. तस्य संधानदुहित्रा हस्तात् कटानवतार्य स प्रत्येकबुद्ध उक्तह्--आर्य, तैस्तत्पात्रं स्थापयेति।
462.024. तेन तत्र स्थापितम्।
462.024. निष्कम्पमवस्थितम्।
462.025. तया पादयोर् निपत्य प्रणिधानं कृतम्।
462.025. यथैव तत्पात्रं निष्कम्पमवस्थितम्, एवमेव ममापि संताने ये धर्माः प्रविशेयुः, ते निष्क्रम्पं तिष्ठन्त्वति।
462.026. यत्तया प्रणिधानं कृतं तस्य कर्मणो विपाकेन श्रुतधरा संवृता॥
462.028. पुनरपि भिक्षवो भगवन्तं पप्रच्छुह्--किं भदन्त कुब्जोत्तरया कर्म कृतम् येन दासीसंवृत्तेति? भगवानाह--अनया भिक्षवस्तत्रैश्वर्यमदमत्तया परिजनो दासीवादेन समुदाचरितः।
462.030. तस्य कर्मविपाकेन दासी संवृत्ता॥
462.031. पुनरपि भिक्षवो भगवन्तं पप्रच्छुह्--किं भदन्त अनुपमया कर्म यदेषा निराहारा भूमिगृहे स्थापिता अम्लानगात्री चोत्थिता।
462.032. भगवानाह--अनुपमयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥
463.001. <463>भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके द्वे दारिके अन्योन्यसंस्तुतिके क्षत्रियदारिका ब्राह्मणदारिका च।
463.002. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य।
463.003. यावदन्यतमः प्रत्येकबुद्धो ऽन्यतमस्मिञ्छान्ते प्रदेशे रात्रिं वासमुपगतः।
463.004. अपरस्मिन् दिवसे पूर्वाह्णे निवास्य पिण्डार्थी प्रचलितः।
463.004. तं दृष्ट्वा ते दारिके प्रसादिते, अस्मै प्रणीतान्नपूर्णं पात्रं प्रयच्छतः।
463.005. तत्कर्मणो विपालेनानुपमा जाता, एका घोषिलस्य गृहपतेर्दुहिता जाता महासुन्दरी श्रीमती नाम।
463.006. एकस्मिन् समये राज्ञा दृष्टा पृष्टा च--कस्येयं कन्या? मान्त्रिभिः कथियम्--घोषिलस्य गृहपतेः।
463.007. ततो घोषिलो गृहपतिः समाहूयोक्तह्--गृहपते, तव दुहितेयं कन्या? स प्राह--मम देव।
463.008. कस्मान्मम न दीयते? दीयतां मह्यम्।
463.009. स प्राह--देव, दत्ता भवतु।
463.009. घोषिलेन गृहपतिना दत्ता।
463.009. उदयनेन वत्सराजेनान्तःपुरं प्रवेश्य महता श्रीसमुदयेन परिणीता।
463.010. अपरेण समयेन राजा उक्तह्--देव, भिक्षुदर्शनमभिकाङ्क्षामीति।
463.011. स कथयति--आकाङ्क्षसे किं तु भिक्षवो राजकुलं प्रविशान्ति।
463.012. देव, अहं नाम दारकं प्रवेशिता।
463.012. सर्वथा यदि भिक्षुदर्शनं न लभे, अद्याग्रेण न भोक्ष्ये न पास्य इति।
463.013. सा अनाहारतां प्रतिपन्ना।
463.013. राज्ञा घोषिलो गृहपतिरुक्तह्--गृहपते, न त्वं दुहितरं प्रत्यवेक्षसे? देव, किम्? अनाहारतां प्रतिपन्ना।
463.014. किमर्थम्? भिक्षुदर्शनमाकाङ्क्षते।
463.015. तदात्मनो गृहे भक्तं साधित्वा कायाम्(?) भिक्षुसंघमुपनिमन्त्र्य भोजय, अन्तरेण च द्वारं छेदयेति।
463.016. राज्ञो घोषिलस्य च संसक्तसीमं गृहम्।
463.016. घोषिलेन गृहपतिना द्वारं छिन्नम्।
463.017. ततो भूरि कर्म कारयित्वा येन भगवांस्तेनोपसंक्रान्तः।
463.017. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
463.018. एकान्तनिषण्णं घोषिलं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
463.019. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तुष्णीम्।
463.020. अथ घोषिलो गृहपतिरुत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्छ्वो ऽन्तर्गृहे भक्तेन मम निमन्त्रितं सार्धं भिक्षुसंघेन।
463.022. पूर्ववद्यावद्भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालां मन्यत इति।
463.0भगवानौपधिके स्थितः।
463.023. शारिपुत्रप्रमुखो भिषुसंघः संप्रस्थितः।
463.024. पञ्चभिः कारणैर्बुद्धा भगवन्त औपधिके तिष्ठन्ति--अभिनिर्हृतं मन्र्तयते स्म।
463.025. चतुर्णामायुष्मन्त आज्ञा अकोप्या तथागतस्यार्हतः सम्यक्सम्बुद्धस्य, अरहतो भिक्षोः क्षीणाश्रवस्य उपधिवारकस्य, राज्ञश्च क्षत्रियस्य मूर्ध्नाभिषिक्तस्य।
463.026. स्मृतिमुपस्थापयति--प्रविशामेति।
463.027. स प्रविश्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
463.027. अथ श्रीमती देवी सुखोपनिषण्णं शारिपुत्रप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद्यावन्नीचतरमासनं गृहीत्वा पुरस्तान्निषण्णा धर्मश्रवणाय।
463.029. अथायुष्माञ्छारिपुत्रः श्रीमतीं देवीं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
463.030. सा सत्यानि न पश्यति।
463.030. आयुष्माञ्छारिपुत्रः संलक्षयति--किमास्याः सन्ति कानिचित्कुशलमूलानि? न सन्तीति पश्यति।
463.031. सन्ति कस्यान्तिके प्रतिबद्धानि? पश्यत्यात्मनः।
463.032. तस्य धर्मं देशयतो विचारयतश्च सूर्यास्तंगमनसमयो <464>जातः।
464.001. भिक्षव उत्थायासनात्प्रक्रान्ताः।
464.001. आयुष्माञ्छारिपुत्रः संलक्षयति--किं चापि भगवता नानुज्ञातम्, स्थानमेतद्विद्यते यदेतदेव प्रत्यक्षं कृत्वा अनुज्ञास्यतीति।
464.002. स विनेयापेक्षया तत्रैवावस्थितः।
464.003. तेन तस्या आशयानुशयं धातुं च प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा श्रीमत्या विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं पूर्ववद्यावत्सर्वं वाद्यं त्रिशरणगमभिप्रसन्नम्।
464.005. अथायुष्माञ्छारिपुत्रः श्रीमतीं सत्येषु प्रतिष्ठाप्य प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः।
464.006. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।

464.006. एकान्ते निषण्ण आयुष्माञ्छारिपुत्र एतत्प्रकरणं भिक्षवो भगवते विस्तरणारोचयति।
464.007. भगवानाह--साधु साधु शारिपुत्र, सप्तानामाज्ञा अकोप्या--तथागतस्यार्हतः सम्यक्सम्बुद्धस्य, अर्हतो भिक्षोः क्षीणाश्रवस्य, राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य, संघस्थविरस्य, उपधिवारिकस्य, आचार्यस्य, उपाध्यायस्य।
464.010. अथ भगवाञ्छिक्षाकामतया वर्णं भाषित्वा पूर्ववद्यावत् पूर्विका प्रज्ञप्तः।
464.011. इयं चाभ्यनुज्ञाता--एवं च मे श्रावकैर्विनयशिक्षापदमुपदेष्टव्यम्।
464.011. यः पुनर्भिक्षुरनिर्गतायां रजन्यामनुद्गते ऽरुणे अनिर्हृतेषु रत्नेषु रत्नसंमतेषु वा राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य इन्द्रकीलं वा इद्रकीलसामन्तं वा समतिक्रामेदन्यत्र तद्रूपात्प्रत्ययात् पापान्तिकेति।
464.013. यः पुनर्भिक्षुरित्युदायी इति, सो वा पुनरन्यो ऽप्येवंजातीयह् अनिर्गतायां रजन्यामित्यप्रभातायाम्, अनुद्गत इत्यनुदिते अरुणे इति, अरुणो नीलारुणः पीतारुणस् ताम्रारुणः।
464.016. तत्र नीलारुणो नीलाभासः, पीतारुणः पीताभासः, ताम्रारुणस् ताम्राभासः।
464.016. इह तु ताम्रारुणो ऽभिप्रेतः।
464.017. रत्नेषु वेति रत्नान्युच्यन्ते मणयो मुक्ता वैडूर्यं पूर्ववद्यावद्दक्षिणावर्तः।
464.018. रत्नसंमतेषु वेति रत्नसंमतमुच्यते सर्वं संग्रामावचरशस्त्रं सर्वं च गन्धर्वावचरं भाण्डम्।
464.019. राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्येति वा राज्ये स्त्र्यपि राज्याभिषिकेणाभिषिक्ता भवति, राजा सा क्षत्रियो मूर्ध्नाभिषिक्तः।
464.020. क्षत्रियो ऽपि ब्राह्मणो ऽपि वैश्यो ऽपि शूद्रो ऽपि राज्याभिषेकेणाभिषिक्तो भवति राजा क्षत्रियो मूर्ध्नाभिषिक्तः।
464.021. इन्द्रकीलं वेति त्रय इन्द्रकीलः।
464.021. नगरे इन्द्रकीलो राजकुले इन्द्रकीलो ऽन्तःपुर इन्द्रकीलश्च।
464.022. इन्द्रकीलसामन्तं वेति तत्समीपम्।
464.023. समतिक्रमेदपि विगच्छेत्।
464.023. अन्यत्र तद्रूपात्प्रत्ययादिति तद्रूपं प्रत्ययं स्थापयित्वा।
464.024. पापान्तिकेति दहति पचति यातयति पूर्ववत्।
464.024. तत्रापत्तिः कथं भवति? भिक्षुरप्रभाते प्रभातसंज्ञी नगरेन्द्रकीलं समतिक्रामति, आपद्यते दुष्कृताम्।
464.025. अप्रभाते वैमतिकः, आपद्यते दुष्कृतम्।
464.026. प्रभाते अप्रभातसंज्ञी, अथापद्यते दुष्कृतम्।
464.026. प्रभाते वैमतिकः, आपद्यते दुष्कृतम्।
464.027. भिक्षुरप्रभाते अप्रभातसंज्ञी अन्तःपुरेन्द्रकीलम् अस्मतिक्रामति आपद्यते पापान्तिकम्।
464.028. प्रभाते ऽप्रभातसंज्ञी आपद्यते दुष्कृतम्।
464.028. प्रभाते वैमतिकः, आपद्यते दुष्कृतम्।
464.028. अनापत्तिह्--राजा शब्दयति--देव्यः कुमारा आमात्या अष्टानामन्तरायाणामन्त्यतमान्यतममुपथितं भवति राजा चौरमनुष्यामनुष्यव्यालाग्न्युदकानाम्।
464.030. अनापत्तिरादिकर्मिकस्येति पूर्ववत्॥
464.031. इति श्रीदिव्यावदाने माकन्दिकावदानं समाप्तम्॥
********** अवदान 37 **********
465.001. दिव्37 रुद्रायणावदानम्।
465.002. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे।
465.002. द्वे महानगरे पाटलिपुत्रं रोरुकं च।
465.003. यदा पाटलिपुत्रं संवर्तते, तदा रोरुकं विवर्तते।
465.003. रोरुके महानगरे रुद्रायणो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
465.005. सदापुष्पफलवृक्षाः।
465.005. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
465.005. अतीव शस्यसम्पत्तिर्भवति।
465.006. तस्य चन्द्रप्रभा नाम देवी, शिखण्डी पुत्रः कुमारः, हिरुभिरुस्तस्याग्रामात्यौ।
465.007. राजगृहे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
465.008. तस्य वैदेही महादेवी, अजातशत्रुः पुत्रः कुमारः, वर्षकारो ब्राह्मणो मगधमहामात्यो ऽग्रामात्यः।
465.009. सदापुष्पफलवृक्षाः।
465.009. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
465.010. अतीव शस्यसम्पत्तिर्भवति। राजगृहाद्वणिजः पण्यमादाय रोरुकमनुप्राप्ताः।
465.010. अथ राजा रुद्रायणो ऽमात्यगणपरिवृतो ऽमात्यानामन्त्रयते--भवन्तः, अस्ति कस्यचिदन्यस्यापि राज्ञ एवमविधा जनपदा ऋद्धाश्च स्फीताश्च क्षेमाष्च आकीर्णबहुजनमनुष्याश्च? सदापुष्पफलवृक्षाह्? देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति? अतीव शस्यसम्पत्तिर्भवति? ते वणिजः कथयन्ति--अस्ति देव पूर्वदेशे राजगृहं नगरम्।
465.014. तत्र राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
465.015. तस्यापि सदापुष्पफलवृक्षाः।
465.016. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
465.016. अतीव शस्यसम्पत्तिर्भवति।
465.017. तस्य महश्रवणादेव तस्यान्तिके ऽनुनय उत्पन्नः।
465.017. सो ऽमात्यानामन्त्रयते--किं भवन्तस्तस्य राज्ञो दुर्लभम्? ते कथयन्ति--देवो रत्नाधिपतिः, स राजा वस्त्राधिपतिः।
465.018. तस्य रत्नानि दुर्लभानि।
465.019. तेन तस्य रत्नानां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तह्--प्रियवयस्य, त्वं ममादृष्टसखा।
465.020. यदा तव किंचिद् रोरुके नगरे करणीयं भवति, मम लेखो दातव्यः।
465.021. सर्वं तत् परिप्रापयिष्यामि।
465.021. ते तं प्राभृतमादाय येन राजगृहं तेन प्रक्रान्ताः।
465.022. अनुपूर्वेण राजगृहमनुप्राप्ताः।
465.022. तैः सा रत्नपेटा राज्ञो बिम्बिसारस्योपनामिता लेखश्च।
465.022. राजा बिम्बिसारो लेखं वाचयित्वा अमात्यानामन्त्रयते--किं भवन्तस्तद्राज्ञो दुर्लभम्? अमात्याः कथयन्ति--देवो वस्त्राधिपतिः, स राजा रत्नाधिपतिः।
465.024. तस्य वस्त्राणि दुर्लभानि।
465.024. तेन तस्य महार्हाणां वस्त्राणां वस्त्राणां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तह्--प्रियवयस्य, त्वं ममादृष्टसखा।
465.026. यत्किंचित्तव राजगृहे प्रयोजनं भवति, मम लेखो दातव्यः।
465.026. तत्सर्वं परिप्रापयिष्यामि।
465.027. ते तं प्राभृतमादाय येन रोरुकं तेन प्रक्रान्ताः।
465.027. अनुपूर्वेण रोरुकमनुप्राप्ताः।
465.028. तैः सा वस्त्रपेटा राज्ञो रुद्तायणस्योपनामिता लेखष्च।
465.028. स दूतः प्रत्यागतः।
465.028. अथापरेण समयेन राजा रुद्रायणो ऽमात्यगणपरिवृतः।
465.029. सो ऽमात्यानामन्त्रयते--भवन्तः, कीदृशस्तस्य राज्ञो आनाहपरिणाहह्? ते कथयन्ति--यादृश एव देवस्य, अपि तु स राजा स्वयं प्रहर्ता।
465.030 प्रातिसीमैः कीदृशं रजभिः सार्धं संग्रामयति? रुद्रायणस्य राज्ञो मणिवर्म पञ्चाङ्गेपेतोशीतम् उष्णसंस्पर्शमुष्णे शोओतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकं च।

465.032. तेन तस्य तं प्राभृतमनुप्रेषितम् <466>लेखश्च दत्तह्--प्रियवयस्य, इदं मया च तव मणिवर्म प्राभृतमनुप्रेषितं पञ्चाङ्गोपेतं शीते उष्णसंस्पर्शमुष्णे शीतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकम्।
466.002. न त्वयैतत्कस्यचिद्दातव्यम्।
466.003. स दूतस्तन्मणिवर्म आदाय लेखं च, येन राजगृहं तेन प्रक्रान्तः।
466.003. अनुपूर्वेण राजगृहमनुप्राप्तः।
466.004. तेन तन्मणिवर्म राज्ञो बिम्बिसारस्योपनीतं लेखश्च।
466.004. राजा बिम्बिसारस्तं दृष्ट्वा विस्मयमापन्नः।
466.005. तेन रत्नपरीक्षका आहूताह्--मूल्यमस्य कुरुत।
466.005. ते कथयन्ति--देव, एकैकरत्नमनर्धो ऽयम्।
466.006. धर्मता खलु यस्य न शक्यते मूल्यं कर्तुम्, तस्यैकैकस्य कोटिमूल्यं क्रियते।
466.007. राजा बिम्बिसारो व्यथितः कथयति--किं मया तस्य प्राभृतमनुप्रेषितव्यं भविष्यति? स संलक्षयति--अयं बुद्धो भगवान्।
466.008. स राज्ञः सर्वदस्यानुत्तरज्ञानज्ञो वशिप्राप्तः।
466.009. गच्छामि, बुद्धं भगवन्तं पृच्छामि।
466.009. स तमादाय येन भगवांस्तेनोपसंक्रान्तः।
466.009. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
466.010. राजा बिम्बिसारो भगवन्तमिदमवोचत्--रोरुके भदन्त नगरे राजा रुद्रायणो नाम प्रतिवसति ममादृष्टसखा।
466.011. तेन मम पञ्चाङ्गोपतमणिवर्म प्राभृतमनुप्रेषितम्।
466.012. अहं तस्य किं प्राभृतमनुप्रषेयामि? भगवानाह--तथागतप्रतिमां पटे लिखापयित्वा प्राभृतमनुप्रेषय।
466.013. तेन चित्रकरा आहूयोत्काह्--तथागतप्रतिमां पेटे चित्रयथ।
466.014. दुरासदा बुद्धा भगवन्तः।
466.014. ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्।
466.015. ते कथयन्ति--यदि देवो भगवन्तमन्तर्गृहे भोजयेत्, एवं स्वयं संज्ञापय भगवतो निमित्तमुद्ग्रहीतुम्।
466.016. राज्ञा बिम्बिसारेण भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः।
466.016. असेचनकदर्शना बुद्धा भगवन्तः।
466.017. ते यमेवावयवं भगवतः पश्यन्ति, तमेव पश्यन्तो न तृप्तिं गच्छन्ति।
466.018. ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्।
466.019. भगवानाह--महाराज, खेदमापत्स्यन्ते, न शक्यते तथागतस्य निमित्तमुद्ग्रहीतुम्।
466.019. अपि तु पटकमानय।
466.019. तेन पटक आनीतः।
466.020. तत्र भगवता छाया उत्सृष्टा, उक्ताश्च--रङ्गैः पूरयत।
466.020. तस्याधस्ताच्छरणगमनशिक्षापदानि लखितव्यानि।
466.021. अनुलोमप्रतिलोमद्वादशाङ्गः प्रतीत्यसमुत्पादो लिखितव्यः।
466.021. गाथाद्वयं च लिकितव्यम्--
466.023. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
466.024. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः

34.2

466.025. अस्मिन् यो धर्मविनये ह्यप्रमत्तश्चरिष्यति।
466.026. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति

34.3

466.027. यदि कथयति--किमिदम्? वक्तव्यम्--इयमभ्युपपत्तिरियं शिक्षा इयं लोकसंवृतिरियमत्युत्साहता।
466.028. तैर्यथासंदिष्टं सर्वमभिलिखितम्।
466.028. भगवता राजा बिम्बिसार उक्तह्--महाराज, रुद्रायणस्य लेखमनुप्रयच्छ--प्रियवय्स्य, इदं ते मया त्रैलोक्यप्रतिविशिष्टं प्राभृतमनुप्रेषितम्।
466.029. अस्य त्वया अर्धतृतीयानि योजनानि मार्गशोभा कर्तव्यम्।
466.030. स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्।
466.031. विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां सत्कारं कृत्वोद्घाटयितव्यम्।
466.031. ततस्ते महतः पुण्यस्यावाप्तिर्भविष्यतीति।
466.032. राज्ञा बिम्बिसारेण यथासंदिष्टं लेखो लिखित्वा संप्रेषितः।
466.032. राज्ञो <467>रुद्रायणस्य लेख उपनामितः।
467.001. तेन वाचितः।
467.001. तस्यामर्षः।
467.001. सो ऽमात्यानां कथयति--भवन्तः, कीदृशं मम तेन प्रभृतमनुप्रेषितम् यस्य सत्कारः कर्तव्यो भविष्यति? संनाहयत चतुरङ्गबलकायम्।
467.003. राष्ट्रापमर्दनमस्य करिष्यामः।
467.003. अमात्याः कथयन्ति--देव, महात्मासौ राजा श्रूयते।
467.004. न शक्यं तेन यद्वा तद्वा प्रतिप्राभृतमनुप्रेषयितुम्।
467.004. आनुपूर्वी तावत्क्रियताम्।
467.005. यदि देवस्य न चित्तपरितोषो भविष्यति, तत्र कालज्ञा भविष्यामः।
467.005. एवं क्रियताम्।
467.006. तेनार्धतृतीयानि योजनानि मार्गशोभा कृता।
467.006. स्वयमेव चतुरङ्गबलकायेन प्रत्युद्गम्य प्रवेशितः।
467.007. विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां कृत्वोद्धाटिता।
467.007. मध्यदेशाद्वणिजः पण्यमादाय तत्रानुप्राप्तः।
467.008. तैर्बुद्धप्रतिमां दृष्ट्वा एकरवेण नादो मुक्तह्--नमो बुद्धायेति।
467.009. तस्य बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपाण्याहृष्टानि।
467.009. स कथयति--क एष भवन्तो बुद्धो नाम? ते कथयन्ति--देव, शाक्यानां कुमार उत्पन्नो ऽस्ति हिमवत्पार्श्वे नद्या भागीरथ्यास्तीरे कपिलस्य ऋषेराश्रमपदस्य नातिदूरे।
467.011. स ब्राहमणैर् नैमित्तिकैर्विपश्चिकैर्व्याकृतः।
467.012. सचेद्गृही अगारमध्यावसिष्यति, राजा भविष्यति चक्रवर्ती चतुरङ्गैर्विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः।
467.013. तस्येमान्येवम्रूपाणि सप्तरत्नानि भवन्ति, तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्।
467.014. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
467.015. स इमामेव समुद्रपर्यन्तां महापृथ्वींखिलामलण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्मेण शमेनाभिनिर्जित्य अध्यावसिष्यति।
467.016. सचेत् केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्सम्बुद्धो विघुष्टशब्दो लोके।
467.018. स एष बुद्धो नाम।
467.018. तस्यैषा प्रतिभा।
467.019. इदं किम्? अभ्युपपत्तिः।
467.019. इदं किम्? शिक्षापदम्।
467.019. इदं किम्? लोकस्य प्रवृत्तिनिवृत्ती।
467.020. इदं किम्? अत्युत्साहना।
467.020. तेन प्रतीत्यसमुत्पादो ऽनुलोमप्रतिलोमः सुगृहीतः कृतः॥
467.021. अथ रुद्रायणो राजा सामात्यः प्रत्यूषसमये सर्वार्थान् सर्वकर्मान्तान् प्रतिप्रस्रभ्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य।
467.022. स इममेव द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयति, यदुत अस्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते यदुत अविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवति।
467.024. तेनेमं द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
467.026. स दृष्टसत्यो गाथां भाषते--
467.027. भूरत्नेन हि बुद्धेन प्रज्ञाचक्षुर्विशोधितम्।
467.028. नमस्तस्मै सुवैद्याय चिकित्सा यस्य हीदृशी

34.4

467.029. तेन राज्ञो बिम्बिसारस्य संदिष्टम्--प्रियवयस्य, त्वामागम्य मयोद्द्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापितो देवमनुष्येषु।
467.030. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
467.032. भिक्षुदर्शनमाकाङ्क्षामि।
467.032. तदर्हसि भिक्षुं प्रेषयितुम्।
467.032. अथ स राजा बिम्बिसारो येन भगवांस्तेनोपसंक्रान्तः।
468.001. <468>उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
468.001. एकान्तनिषण्णो भगवन्तमिदमवोचत्--रुद्रायणेन भदन्त राज्ञा सत्यानि दृष्टानि।
468.002. तेन मम संदिष्टम्--भिक्षुदर्शनमाकाङ्क्षामीति।
468.003. भगवान् संलक्षयति--कतमस्य भिक्षो रुद्रायणो राजा सपरिवारो विनेयो रैरुकनिवासी च जनकायह्? कात्यायनस्य भिक्षोः।
468.004. तत्र भ्गवानायुष्मन्तं महाकात्यायनमामन्त्रयते--समन्वाहर कात्यायन रौरुके नगरे रुद्रायणं राजानं सपरिवारं रौरुकनिवासिनं च जनकायम्।
468.006. अधिवासयत्यायुष्मान् महाकात्यायनः।
468.006. भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात्प्रक्रान्तः।
468.007. अथायुष्मान् महाकात्यायनस्तस्या एव रात्र्या अत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्।
468.008. राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः परिभुक्तं शयनं प्रतिशाम्य समादाय पात्रचीवरं पञ्चशतपरिवारो येन रौरुकं तेन चारिकां प्रक्रान्तः।
468.010. राज्ञा बिम्बिसारेण रुद्रायणस्य राज्ञो लेखो ऽनुप्रेषितः।
468.011. प्रियवयस्य, एष ते भिक्षुर्मया शास्तृकल्पो महाश्रावको ऽनुप्रेषितः।
468.012. अस्य त्वयार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च।
468.012. स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यः।
468.013. पञ्च विहारशतानि कर्तव्यानि।
468.013. पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दातव्यानि।
468.014. पञ्च पिण्डशतानि प्रज्ञापयितव्यानि।
468.015. अतस्ते महतः पुण्यस्यावाप्तिर्भविष्यति।
468.015. तेनार्धतृतीयानि योजनानि मार्गशोभा कृता, नगरशोभा कृता, पञ्च विहारशतानि, येन एकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रोरुकं नगरं प्रवेशितः।
468.017. बहिर् नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि, विस्तीर्णावकाशे च पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता।
468.019. अयुष्मान् महाकात्यायनः पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
468.020. अनेकानि प्रणिशतसहस्राणि संनिपतितानि।
468.021. कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि।
468.021. तत आयुष्मता महाकात्यायनेन तस्याः परिषद आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महाविशेषो ऽधिगतः।
468.023. कैश्चिच्छ्रोतापत्तिफलम्, कैश्चिद्नागामिफलम्, कैश्चित्प्रव्रह्य सर्वल्केशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ।
468.026. यद्भूयसा सा परिषद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥
468.027. रौरुके नगरे तिष्यः पुष्यश्च गृहपती वसतः।
468.027. तौ येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्तौ।
468.028. उपसंक्रम्य आयुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ।
468.029. तिष्यपुष्यौ गृहपती आयुष्मन्तं महाकात्यायनमिदमवोचताम्--लभेवहि आर्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
468.030. चरेव आर्यमहाकात्यायन भवतो ऽन्तिके ब्रह्मचर्यमिति।
468.031. तावयुष्मता कात्यायनेन प्रव्रजितावुपसम्पादितौ, अववादो दत्तः।
468.031. ताभ्याम् युज्यमानाभ्यां व्यायच्छमानाभ्यां घटमानाभ्यामिदमेव पञ्चगण्डकं संसारचक्रं चलाचलम् <469>विदित्वा सर्वसंस्कारगतीः शतशः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
469.002. अर्हन्तौ संवृत्तौ त्रैधातुकवीरागौ समलोष्टकाञ्चनावाकाशपाणिसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भ्वलाभलोभसत्कारपरान्मुखौ।
469.004. सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्यवभिवाद्यौ च संवृत्तौ।
469.004. तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ।
469.006. तयोर्ज्ञातृभिः शरीरपूजां कृर्त्वा द्वौ स्तूपौ कारितौ--एकस्तिष्यस्य, द्वितीयः पुण्यस्य॥
469.007. रुद्रायणो राजा दिने दिने आयुष्मतो महाकात्यायनस्यान्तिकाद् धर्मं श्रुत्वा अन्तःपुरस्यारोचयति--आर्यो महाकात्यायनो मधुरमधुरं धर्मं देशयति क्षौद्रमिव मधुरं प्रप्रीणयतीति।
469.009. ताः कथयन्ति--देवस्य सफलो बुद्धोत्पादः।
469.009. कथम्? येन त्वं धर्मं शृणोषि।
469.010. यद्येवम्, यूयं कस्माञ् शृणुथ? देव, वयं ह्रीमन्त्यः।
469.010. कथं वयं तत्र गत्वा धर्मं शृणुमह्? यद्यार्यो महाकात्यायन इहैवागत्य धर्मं देशयेत्, एवं वयमपि शृणुयाम् इति।
469.011. रुद्रायणेन राज्ञा आयुष्मान् महाकात्यायन उक्तह्--मम आर्य सान्तःपुरमिच्छति श्रोतुम्।
469.012. स कथयति--महाराज, न भिक्षवो ऽन्तःपुरं प्रविश्य धर्मं देशयन्ति।
469.013. प्रतिक्षिप्तो भगवता अन्तःपुरप्रवेशः।
469.014. आर्य, अत्र को ऽन्तःपुरस्य धर्मं देशयति? महाराज, भिक्षुण्यः।
469.014. रुद्रायणराज्ञा बिम्बिसारस्य राज्ञो लेखो ऽनुप्रेषितह्--प्रियवयस्य, अन्तःपुरमिच्छति धर्मं श्रोतुम्।
469.015. तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुम्।
469.016. बिम्बिसारो राजा तं लेखं वाचयित्वा येन भग्वांस्तेनोपसंक्रान्तः।
469.016. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
469.017. एकान्तनिषण्णो राजा बिम्बिसारो भगवन्तमिदमवोचत्--रुद्रायणेन भगवन् राज्ञा लेखो ऽनुप्रेषितह्--अन्तःपुरमिच्छति धर्मं श्रोतुम्।
तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुमिति।
469.019. तदत्र कथं प्रतिपत्तव्यमिति? भगवान् संलक्षयति--कतरस्या भिक्षुण्या रुद्रायणस्य राज्ञो अन्तःपुरपरिजनो विनेयो रौरुकनिवासी च स्त्रीजन इति? पश्यति शैलाया भिक्षुण्याः।
469.021. तत्र भगवाञ्छैलां भिक्षुणीमामन्त्रयते--समन्वाहर शैले रौरुके नगरे रुद्रायणस्य राज्ञो ऽन्तःपुरजनं रौरुकनिवासिनं स्त्रीजनमिति।
469.022. एवं भदन्तेति शैला भिक्षुणी भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता।

469.024. अथ शैला भिक्षुणी तस्या एव रात्रेर्त्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय चरित्वा कृतभक्रकृत्या पञ्चाद्भक्तपिण्डपातप्रतिक्रान्ता यथापरिभुक्तं शयनासनं प्रतिसमय्य समादाय पात्रचीवरं पञ्चशतपरिवारा येन रौरुकं नगरं तेन चारिकां प्रक्रान्ता।
469.027. बिम्बिसारेण च राज्ञा रुद्रायणस्य राज्ञो लेखो ऽनुप्रेषितह्--प्रियवयस्य, एषा ते मया महाश्राविका शास्त्रानुगता पञ्चशतपरिवारा प्रेषिता।
469.028. अस्यां त्वयार्धरृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च।
469.029. स्वयमेव च चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्।
469.029. अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारयितव्यानि, पञ्च मञ्चपीठशतानि, वृषिकोच्चबिम्बोपधानचतुरस्रकशतानि दातव्यानि, पञ्च पिण्डपातशतानि प्रज्ञापयितव्यानि।
469.031. अतस्ते पुण्यस्यावाप्तिर्भविष्यतीति।
469.032. रुद्रायणेन राज्ञा लेखं वाचयित्वा प्रामोद्यजातेनार्धतृतीयानि योजनानि मार्गशोभा कारिता।
470.001. अनेकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रौरुकं नगरं प्रवेशिता।
470.002. अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोषबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि।
470.003. शैला भिक्षुणी रुद्रायणस्य राज्ञो ऽन्तःपुरं प्रविश्य दिने दिनै धर्मं देशयति।
470.004. रुद्रायणो राजा वीणायां कृतावी, चन्द्रप्रभा देवी नृत्ये।
470.005. यावदपरेण समयेन रुद्रायणो राजा वीणां वादयति, चन्द्रप्रभा देवी नृत्यति।
470.005. तेन तस्या नृत्यन्त्या बिनाशलक्षणं दृष्टम्।
470.006. स तामितश्चामुतश्च निरीक्ष्य संलक्षयति--सप्ताहस्यात्ययात्कालं करिष्यति।
470.007. तस्य हस्ताद्वीणा स्रस्ता, भूमौ निपतिता।
470.007. चन्द्रप्रभा देवी कथयति--देव, मा मया दुर्नृत्यम्? देवि, न त्वया दुनृत्यम्।
470.008. अपि तु मया तव नृत्यन्त्या विनाशलक्षणं दृष्टम्--सप्तमे दिवसे तव कालत्रिया भवतीति।
470.009. चन्द्रप्रभा देवी पादयोर् निपत्य कथयति--देव यद्येवम्, कृतोपस्थानाहं देवस्य।
470.010. यदि देवो ऽनुजानीयात्, अहं प्रव्रजेयमिति।
470.010. स कथयति--चन्द्रप्रभे, समयतो ऽनुजानामि।
470.011. यदि तावत्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोषि, एष एव ते दुःखान्तः।
470.012. अथ सावशेषसम्योजना कालं कृत्वा देवेषूपपद्यसे, देवभूतया ते ममोपदर्शयितव्यमिति।
470.013. सा कथयति--देव, एवं भवत्विति।
470.013. सा रुद्रायणेन राज्ञा शैलाया भिक्षुण्याः समर्पिता--आर्यचन्द्रप्तभा देवी आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्चुणीभावम्।
470.015. तदर्हसि तां प्रव्राजयितुमुपसम्पादयितुमिति।
470.015. शैला भिक्षुणी कथयति--एवं भवतु, प्रब्राजयामीति।
470.016. तयासौ प्रव्राजिता उपसम्पादिता च।
470.016. समन्वाहृत्य चाववादो दत्तह्--मरणसंज्ञां भावयेति।
470.017. चन्द्रप्रभा देवी मरणसंज्ञां भावयितुमारब्धा।
470.017. सा सप्तमे दिवसे कालगता चातुर्महाराजिकेषु देवेषूपपन्ना।
470.018. धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य, त्रीणि चित्तान्युत्पद्यन्ते--कुतश्च्युतः, कुत्रोपपन्नः, केन कर्मणेति।
470.019. चन्द्रप्रभा देवकन्या संलक्षयति--कृतो ऽहं च्युता? मनुष्येभ्यः।
470.020. कुत्रोपपन्ना? चातुर्महाराजिकेषु देवेषु।
470.021. केन कर्मणा? भगवतः शासने ब्राह्मचर्यं चरित्वेति।
470.021. तस्या एतदभवत्--तदप्रतिरूपं स्याद्यदहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रमितुम्।
470.022. यन्न्वहमपर्युषितपरिवासैव भगवन्तं दर्शनायोपसंक्रामेयमिति।
470.023. अथ चन्द्रप्रभा देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्री तामेव रात्रीं दिव्यानामुत्पलकुमुदपुण्डरीकमान्दारवाणामुत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दककनिवापमुदारेणावभासेनावभास्य भगवन्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय।
470.026. भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चन्द्रप्रभया देवकन्यया विंशतिशिखरसमुद्गतंसत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्।
470.028. सा दृष्टसत्या त्रिरुदानमुदानयति--इदमस्माकं भदन्त, न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर् नेष्टैर् नस्वजनबन्धुवर्गैर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्।
470.030. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्टापिता देवमनुष्येषु।
470.032. आह च--
471.001. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदुःखयुक्तः।
471.003. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः

34.5

471.005. त्वदाश्रयादाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः।
471.007. प्राप्तं च शान्तं पदमार्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि

34.6

471.009. जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय।
471.011. भवसहस्रसुदुर्लभदर्शन स्फलमद्य मुने तव दर्शनम्

34.7

471.013. अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जारहर्षा।
471.015. परिगम्य प्रदक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम

34.8

471.017. अथ चन्द्रप्रभा देवकन्या वणिगिव लब्धलाभः, सस्यसम्पन्न इव कर्षकः, शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरः, यया विभूत्या भगवत्सकाशामागता तयैव विभूत्या स्वर्भवनं संप्रस्थिता।
471.019. तस्या एतदभवत्--मया रुद्रायणस्य राज्ञः प्रतिज्ञातमुपदर्शयिष्यामीति।
471.020. अथ चन्द्रप्रभा देवकन्या येन राजा रुद्रायणस्तेनोपसंक्रान्ता।
471.020. तेन खलु समयेन रुद्रायणो राजा एकाकी गृहस्योपरितलके शयितः।
471.021. स तया उदारावभासं कृत्वा अच्छटाशब्देन प्रतिबोधितः।
471.022. स मिद्धावस्थलोचनापरिस्फुटो ऽविज्ञातः कथयति--का त्वमिति? सा कथयति--अहं चन्द्रप्रभेति।
471.023. राजा कथयति--आगच्छ, परिचारयाम इति।
471.023. सा कथयति--देव, च्युताहं कालगता चातुर्महाराजिकेषु देवेषूपपन्ना।
471.024. यदीच्छसि मया सार्धं समागमम्, भगवतो ऽन्तिके प्रव्रज।
471.025. यदि तावद्दृष्टधर्मा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यसे, स एव ते ऽन्तो दुखस्य।
471.026. अथ सावशेषसम्योजनः, कालं कृत्वा चार्तुर्महाराजिकेषु देवेषूपपत्स्यसे।
471.026. तत्र ते मया सार्धं समागमो भविष्यति।
471.027. इत्युक्त्वा तत्रैवान्तर्हिता।
471.027. रुद्रायणो राजा कृत्स्नां रात्रिं प्रव्रज्यामनुविचिन्तयन् काल्यमेवोत्थाय अमात्यानामन्त्रयते--पश्यत भवन्तः, चन्द्रप्रभा देवी क्व तिष्ठतीति? ते कथयन्ति--देव, कालगतेति।
471.029. रुद्रायणः संलक्षयति--न मम प्रतिरूपं स्याद्यदहं देवताचोदितो ऽहम् अगारमध्यावसेयम्।
471.030. संनिधानी कालपरिभोगेन वा कामान् परिभुञ्जीयम्।
471.031. यन्न्वहं शिखण्डिनं कुमारं राज्ये ऽभिषिच्य केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति।
471.032. तेन हिरुभिरुकावग्रामात्यौ द्दुतनाहूतोक्तौ <472>भवन्तौ, यादृश एव मम शिखण्डी कुमारः पुत्रः, तादृश एव युवयोः।
472.001. स एष युवाभ्यामहितान्निवारयितव्यो हिते च संनियोजयितव्यः।
472.002. अहं प्रव्रजामि स्वाख्याते धर्मविनये इति।
472.002. एतौ साश्रुकण्ठौ ब्यवस्थितौ।
472.003. शिखण्ड्यपि कुमारो ऽभिहितह्--पुत्र, यथैव त्वं मम वचनं श्रोतव्यं कर्तव्यं मन्यसे, तथा अनयोरपि हिरुभिरुकयोरग्रामात्ययोर्वचनं श्रोतव्यं कर्तव्यं मन्यथाः।
472.004. अहं प्रव्रजामि स्वाख्याते धर्मविनये।
472.005. इति श्रुत्वा सो ऽपि साश्रुकण्ठो व्यवस्थितः।
472.005. ततो रुद्रायणेन राज्ञा रौरुके नगरे घण्टावधोषणं कारितम्--शृण्वन्तु भवन्तो रौरुकनिवासिनः पौरा नानादेशाभ्यागतश्च जनकायः।
472.007. अहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यामि।
472.008. भूयशः पुत्रमाह--पुत्र, त्वया राज्यं कारयता कस्यचिदपराध्यं न क्षन्तव्यमिति।
472.009. अनुरक्तपौरजनपदो ऽसौ राजा।
472.009. श्रुत्वा सर्व एव रौरुकनिवासी जनकायो ऽन्यश्च नानादेशाभ्यागातः साश्रुकण्ठो व्यवस्थितः।
472.010. ततो रुद्रायणो राजा शिखण्डिनं कुमारं राज्ये प्रतिष्ठाप्य बन्धुजनं क्षमापयित्वा श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा पण्यानि कृत्वा एकेन पुरुषेणोपस्थायकेन राजगृहाभिमुखह् {सम्प्रस्थितह्}।
472.012. ततः शिखण्डी राजा सान्तःपुरामात्यपौरजनपदो ऽन्यश्च नानादेशाभ्यागतो जनकायः पृष्ठतः पृष्ठतः समनुबद्धः।
472.013. सो ऽनेकैः प्रणिशतसहस्रैरनुगम्यमानो रौरुकान्नगरान्निष्क्रम्य अन्यतमास्मिन्नुद्याने विविधतरुषण्डमण्डिते नानापुष्पसलिलसम्पन्ने हंसक्रोञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनिर्घोषिते मुहूर्तमास्थाय रौरुकं नगरमवलोक्य शिखण्डिनं राजानमामन्त्रयते--पुत्र, मया धर्मेण राज्यं कारितम्, येन मे इयन्ति प्रणिशतसहस्राणि पृष्ठतो ऽनुवद्धानि।
472.017. तत्त्वयापि धर्मेण राज्यं कारयितव्यमिति।
472.017. सो ऽपि जनकायः समाश्वास्योक्तह्--भवन्तः, एष युष्माकं राजा समनुयुक्तो मया।
472.018. निवर्तते, सुखं प्रतिवत्स्यथ, इत्युक्त्वा संप्रस्थितः।
472.019. राजा शिखण्डी सान्तःपुरकुमारामात्यपौरजनपदो ऽश्रुपरुयाकुलेक्षणो मुहूर्मुहूर् निवर्त्य निरीक्षमाणो रौरुकं नगरं प्रतिनिवृत्तः।
472.020. ततो रुद्रायणो राजा अनुपूर्वेण राजगृहं नगरमनुप्राप्तः।
472.021. तेनोद्याने स्थित्वा स पुरुष उक्तह्--गच्छ भोः पुरुष, राज्ञो बिम्बिसारस्य गत्वा निवेदय--रुद्रायणो नाम उद्याने तिष्ठतीति।
472.022. तेन पुरुषेण गत्वा राज्ञो बिम्बिसारस्य निवेदितम्--देव, रुद्रायणो राजा उद्याअने तिष्ठतीति, स राजा श्रुत्वा सहसैवोत्थितः पौरुषानामन्त्रयते--भवन्तः, महासाधनो राजा अप्रतिसंविदित एवागतः।
472.024. न युष्माकं केनचिद्विज्ञात् इति? स कथयति--देव, कुतो ऽस्य साधनम्? आत्मना द्वितीय आगत इति।
472.025. राजा बिम्बिसारः संलक्षयति--न मम प्रतिरूपं स्याद्यदहं राहानं क्षत्रियं मूर्ध्नामिषिक्तमेवमेव प्रवेशयेयम्।
472.027. महता सत्कारेण प्रवेशयामीति विदित्वा मार्गशोभां बगरशोभां च कारयित्वा चतुरङ्गेन बलकायेन प्रत्युद्गतः।
472.028. कण्ठे परिष्वज्य हस्तिस्कन्धे आरोप्य राजगृहं महानगरं प्रवेशितः।
472.029. नानागन्धपरिभावितेनोदकेन स्नापितः।
472.029. राजार्हैवस्त्रैर्गन्धमाल्यविलेपनैश्च समलंकृत्य भोजितः।
472.030. मार्गश्रमे प्रतिविनोदिते उक्तह्--प्रियवयस्य, स्फीतं राज्यमपास्य अन्तःपुरं कुमारानामात्यान् पौरजनपदान् किमिहागमनप्रयोजनम्? मा केनचिद्भूम्यन्तरेण राज्ञा राष्ट्रावमर्दनः कृतह्? कुमारेण वा केनचिद्दुष्टामात्यविग्राहितेन राज्याभिनन्दिना पराक्रान्तमिति? स कथयति--वयस्य, <473>आकङ्क्षामि स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
473.001. इति श्रुत्वा राजा बिम्बिसार आत्तमनाः पूर्वकायमभ्युन्नमय्य दक्षिणबाहुमाभिप्रसार्योदानमुदानयति--अहो बुद्धः, अहो धर्मः, अहो संघह् अहो धर्मस्य स्वाख्यातता, यत्रेदानीमेवंविधाः पुरुषाः स्फीतं राज्यमपहाय स्फीतमन्तःपुरं विस्तीर्णस्वजनबन्धुवर्गं स्फीतानि च कोशकोष्ठागाराण्यपहाय आकाङ्क्षन्ते स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
473.005. इत्युक्त्वा राजानं रुद्रायणं समादाय येन भगवांसेत्नोपसंक्रान्तः।
473.006. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति।
473.007. अद्राक्षीद्भगवान् राजानं मागधं श्रेण्यं बिम्बिसारं दूरादेव।
473.007. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षवो राजा बिम्बिसारः सप्राभृत आगच्छति।
473.008. नास्तितथागतस्यैवंविधः प्राभृतो यथा विनेयप्राभृतः।
473.009. इत्युक्त्वा तूष्णीमवस्थितः।
473.009. राजा बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।

473.010. एकान्तनिषण्णो राजा बिंविसारो भगवन्तमिदमवोचत्--अयं भदन्त राजा रुद्रायण आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
473.011. तं भगवान् प्रव्राजयतु, उपसम्पादयतु अनुकम्पामुपादायेति।
473.012. स भगवता एहिभिक्षुकया आभाषितह्--एहि भिक्षो, चर ब्राह्मचर्यमिति।
473.013. स भगवतो वाचावसाने एव मुण्डः संवृत्तः संघाटीप्रावृतः पात्रकरव्यग्रहस्तो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थितः॥
473.015. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरिवृतदेहः।
473.017. सद्यः प्रशान्तेन्द्रय एव तस्थौ एवं स्थितो बुद्धो मनोरथेन

34.9

473.019. आयुष्मान् रुद्रायणः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्टाय प्राविक्षत्।
473.020. स महाजनकायेन दृष्टः।
473.020. एष च शब्दो राजगृहे नगरे समन्ततो विसृतह्--रुद्रायणो राजा भगवता प्रव्रजितः, स राजगृहं भिक्षार्थी प्रविष्टः।
473.021. इति श्रुत्वा अनेकानि प्राणिशतसहस्राणि संनिपतितानि।
473.022. अन्तर्भवनविचारिण्यो ऽपि योषितो वातायनगवाक्षवेदिकास्ववस्थिता निरीक्षितुमारब्धाः।
473.023. अमात्यै राज्ञो बिम्बिसारस्य निवेदितम्--देव, रुद्रायणो राजा राजगृहं पिण्डाय प्रविष्टो ऽनेकैः प्राणिशतसहस्रैः परिवृतस्तिष्ठतीति।
473.024. श्रुत्वा च पुना राजा बिम्बिसारो येन रुद्रायणो भिक्षुस्तेनोपसंक्रान्तः।
473.025. उपसंक्रम्य रुद्रायणं भिक्षुमिदमवोचत्--
473.026. भुक्त्वा ग्रामसहस्राणि रौरुकं च नराधिप।
473.027. उत्सृष्टं पिण्डमेषाणः कच्चिन्न परितप्यसे

34.10

473.028. भुक्त्वा शतपले पात्रे सौवर्णे राजते ऽथ वा।
473.029. भुञ्जानो मृन्मये पात्रे कच्चिन्न परितप्यसे

34.11

473.030. शालीनामोदनं भुक्त्वा शुचि मांसोपसेवितम्।
473.031. भुञ्जानः शुष्ककुल्माषान् कच्चिन्न परितप्यसे

34.12

474.001. <474>हित्वा कौशेयकर्पासान् क्षौमं कौटुम्बकाशिकान्।
474.002. धारयन् पांशुकूलानि कच्चिन्न परितप्यसे

34.13

474.003. कूटागारे शायित्वा त्वं निर्वाते स्पर्शितागते॥
474.004. आसीनो वृक्षमूलेषु कच्चिन्न परितप्यसे

34.14

474.005. पर्यङ्के ऽवशयित्वा त्वं मृदुके तूलसंनिभे।
474.006. तृणसंस्तरे शयानः कच्चिन्न परितप्यसे

34.15

474.007. भार्यां सदृशिकां गृद्यामाश्रवां वै प्रियंवदाम्।
474.008. रुदन्तीं विप्रहाय त्वं कच्चिन्न परितप्यसे

34.16

474.009. यानैस्त्वं हस्तिग्रीवाभिरश्वैरपि रथैरपि।
474.010. पद्भ्यां परिभ्रमन् भूमौ कच्चिन्न परितप्यसे

34.17

474.011. कोष्ठागाराणि कोशं च बहुवित्तं प्रहाय वै।
474.012. आकिंचन्यमनुप्राप्तः कच्चिन्न परितप्यसे

34.18

इति।
474.013. रुद्रायणः प्राह--
474.014. अनृद्धिर्दमयत्येनं सचेद्भवति दुर्दमः।
474.015. परभोजनभुञ्जानः कथं दमयते युगम्

34.19

इति।
474.016. राजा बिम्बिसारः प्राह--
474.017. किं नु त्वं दुर्मना राजन् किं दीन इव भाषसे।
474.018. ददाम्युपार्धराज्यं ते भुङ्क्ष्व भोगपरायण

34.20

474.019. किं नु त्वं दुर्मना राहन् किं दीन इव भाषसे।
474.020. ददामि प्रवरान् भोगान् यान् कांश्चिन्मनसेच्छसि

34.21

इति।
474.021. रुद्रायण प्राह--
474.022. न राजन् कृपणो लोके धर्मकायेन संस्पृशेत्।
474.023. देव त्रिपथनिराशी(?) ध्रुवं तस्य विधीयते

34.22

474.024. यस्तु धर्मविरागार्थमधर्मे निरतो नृपः।
474.025. स राजन् कृपणो ज्ञेयस्तमस्तमःपरायणः

34.23

474.026. शृणु मे त्वं महाराज धर्मता देशयाम्यहम्।
474.027. श्रुत्वा धर्मं ततो ज्ञेयो यदि त्वं प्रीतिमेष्यसि

34.24

474.028. निर्गुणस्य शरीरस्य एक एव महागुणः।
474.029. यथा यथा विधार्यं ते तत्तथैवानुवर्तते

34.25

474.030. दशेमे वर्षदशाः पुरुषस्यासु निरुच्यते।
474.031. त्रीटा तत्र रतिः का वा पुत्रपरधनेषु वा

34.26

475.001. <475>पुत्राद्वेषिणीयामाहुर्भार्यया कृतिरुच्यते।
475.002. शौरा धनं प्रार्थयन्ते राजन् मुक्तो ऽस्मि बन्धनात्

34.28

475.003. न भैषज्यानि त्रायन्ते न धनं ज्ञातयो न च।
475.004. न सर्वविद्या न बलं न शौर्यं त्रायते ऽन्तकात्॥27।
475.005. देवापि सन्तीह महानुभावाः स्थानेच्विहोच्चेषु चिरायुषो ऽपि।
475.007. आयुःक्षयान्ते ऽपि ततश्च्यवन्ते मुच्येत को नेह शरीरभेदात्

34.29

475.009. राज्यानि कृत्वापि महानुभावा वृष्ण्यन्धकाः कुरवश्च पाण्डवाश्च।
475.011. संपन्नचित्ता यशसा ज्वलन्तस् ते न शक्ता मरणं नोपगन्तुम्

34.30

475.013. न सम्यमेन तपसा न राजन् न कर्मणा न राजन् न कर्मणा वीर्यपराक्रमेण वा।
475.015. न वित्तपूगैर् न धनैरुदारैः शक्यं कदाचिन्मरणाद्विमोक्तम्

34.31

475.017. नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य।
475.019. न विद्यते स पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत मृत्युः

34.32

475.021. नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रचिश्य।
475.023. न विद्यते स पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत कर्म

34.33

475.025. यानीमान्यपविद्धानि विक्षिप्तानि दिशो दिश।
475.026. कपोतवर्णान्यस्थीनि तानि दृष्ट्वेह का रतिः

34.34

475.027. इमानि यान्युपस्थानानि अलाबुरिव सेरभे।
475.028. शङ्खवर्णानि शीर्षाणि तानि दृष्ट्वेह का रतिः

34.35

475.029. यमातपे छादयसे शीते यमुपगूहसे।
475.030. एवं ते प्रियमात्मानं राजन् मृत्युर्हनिष्यति

34.36

476.001. <476>यावन्मृत्योर्वशं भुङ्क्ते परिधत्ते ददाति वा।
476.002. तद्धि तस्य स्वकं ज्ञेयमन्यन्नित्यं विगच्छति

34.37

476.003. असाधारणमन्येषामशौराहरणं निधिम्।
476.004. मर्त्यो निदह्याद्दानेन अन्येन सुकृतेन वा

34.38

476.005. पुरा हि त्वां व्याघ्र इव मृगं निहत्य व्याधिर्जरा कर्षति अन्तकश्च।
476.007. न ते मित्राण्यपनेष्यन्ति रोगं संगम्य सोदर्यगणाश्च सर्वे

34.39

476.009. यदेव लब्धाधिकमस्य भवति धनं धान्यं रजतं जातरूपम्।
476.011. दायाद्यमेवानुविचिन्तयन्ति पुत्राः सदारा अनुजीविनश्च

34.40

476.013. सचेदृणं भ्वति पितुर्मृतस्य प्रियाः सुता नास्य वह्णिं विशन्ति मृत्यौ न वाप्यश्रुमुखा रुदन्ति राहुः पिता मम कार्यतेति(?)

34.41

476.017. आयान्तु सत्त्वाः पिता ममेति प्रकीर्णकेशाश्रुमुखा रुदन्ति।
476.019. ज्योतिश्चास्य पुरतो हरन्ति ह्यहो बतायममरो भवेदिति

34.42

476.021. दूष्यैरेनं प्रावृतं निर्हरन्ति ज्योतिः समादाय {च तम्} दहन्ति।
476.023. स दह्यते ज्ञातिभी रुद्यमान एकेन वस्त्रेण विहाय भोगम्

34.43

476.025. एको ह्ययं जायते जायमानस्तथा म्रियते म्रियमाणो ऽयमेकः।
476.027. एको दुःखाननुभवतीह जन्तुर् न विद्यते संसरतः सहायः

34.33

476.029. एतच्च दृष्ट्वेह परिव्रजन्ति कुलायकास्ते न भवन्ति सन्तः।
476.031. ते सर्वसंगानभिसम्प्रहाय न गर्भशय्यां पुनरावसान्ति

34.45

इति।
477.001. <477>अथ बिम्बिसारो राजा रुद्रायणेन भिक्षुणा उत्तरोत्तरेण प्रतिभानेन निराकृतस्तूष्णीं निष्प्रतिभः प्रक्रान्तः॥
477.003. अथ शिखण्डी राजा यावत्कंचिद्धर्मेण राज्यं कारयित्वा अधर्मेण राज्यं कारयितुमारब्धः।
477.004. स हिरुभिरुकाभ्यामुक्तह्--देव, धर्मेण राज्यं कारय, मा अधर्मेण।
477.004. तत्कस्य हेतोह्? पुष्पफलवृक्षसदृशा देव जनपदाः।
477.005. तद्यथा देव पुष्पवृक्षाः फलवृक्षाश्च कालेन कालं सम्यक्परिपाल्यमाना अनुपरतप्रयोगेण यथाकालं पुष्पाणि फलानि चानुप्रयच्छन्ति, एवमेव जनपदाः प्रितिपाल्यमाना अनुपरतप्रयोगेण यथाकालं करप्रत्यायाननुप्रयच्छन्तीति।
477.007. स ताभ्यां निवारितो यावत्तावद्धर्मेण राज्यं कारयित्वा पुनरप्यधर्मेण राज्यं कारयितुमारब्धः।
477.009. स ताभ्याम् यावत् त्रिरप्युक्तः।
477.009. विसारिणी कृ(तृ?)ष्णा।
477.009. निवार्यमाणा नावतिष्ठते।
477.009. रुषितो ऽमात्यानामन्त्रयते--यो भवन्तो राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य यावत् त्रिरप्याज्ञां प्रतिवहति, तस्य कीदृशो दण्ड इति।
477.011. तत्र केचिद्दुष्टामात्याः कथयन्ति--देव, किमत्र ज्ञातव्यम्? तस्य वधो दण्ड इति।
477.012. गाथे च भाषन्ते--
477.013. अमात्यस्य च दुष्टस्य दन्तस्य चलितस्य च।
477.014. भोजनस्य च {अजीर्णस्य} नान्यत्रोद्धरणात्सुखम्

34.43

477.015. अमात्यं बुद्धिसम्पत्तिप्रज्ञाविनयकोविदम्।
477.016. कोशस्थं च बलस्थं च यो न हन्यात्स घात्यते

34.47

इति।
477.017. शिखण्डी राजा कथयति--भवन्तः, ममैतौ पित्रा संन्यस्तौ।
477.017. नाहमेतौ प्रघातयामि।
477.018. किं त्वाभ्यां मम दर्शनपथे न स्थातव्यमिति।
477.018. तयोर्द्वारं निवारितम्।
477.018. अन्यौ द्वौ दुष्टामात्यौ स्थापितौ।
477.019. तौ कथयतह्--देव, नाक्रन्दिता नालुञ्चिता नातप्ता नोत्पीडितास्तिलास्तैलं प्रयच्छन्ति, तद्वन्नरपते जनपदा इति।
477.020. राजा कथयति--यदेताभ्यां कृतम्, तत्परं प्रमाणमिति।
477.021. तौ जनपदान् पीडयितुमारब्धौ।
477.021. यावदन्यतमो वणिक् पण्यमादाय रौरुकान्नगराद् राजगृहमनुप्राप्तः।
477.022. स आयुष्मता रुद्रायणेन दृष्टः।
477.023. कच्चिच्छिखण्डी खलु रौरुकेषु सभ्त्यवर्गो बलवानरोगः।
477.025. धर्मेण वा कारयति स्वराज्यं न चास्य कश्चित्परतोपसर्गः

34.48

इति।
477.027. स कथयति--
477.028. तथ्यं शिखण्डी खलु रौरुकेषु सभृत्यवर्गो बलवानरोगः।
477.030. न चास्य कश्चित्परतोपसर्गो अधर्मेण तु राज्यं करोति नित्यम्

34.49

478.001. <478>अथायुष्मान् रुद्रायणो ऽनुपूर्व्या प्रष्टुमारब्धह्--कस्तत्रामात्यप्रधानह्? कस्य शिखण्डी वशेन जनपदान् पीडयतीति? स कथयति--देव, हिरुभिरुकयोरमात्ययोर्द्वारं निवार्य अन्यौ दुष्टामात्यौ स्थापितौ।
478.003. तद्वशेन शिखण्डी जनपदान् पीडयतीति।
478.003. रुद्रायणः कथयति--गच्छ त्वं भोः पुरुष, रौरुकनिवासिनं जनकायं समाश्चासय।
478.004. अहमपि तत्र प्रचारिते गमिष्यामि।
478.005. अहमेनं शिखण्डिनमहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामीति।
478.006. स वणिक् पण्यं विसर्जयित्वा प्रतिपण्यमादाय संप्रस्थितो ऽनुपूर्वेण रौरुकमनुप्राप्तः।
478.007. तेन ज्ञातीनां रहसि निवेदितम्--भवन्तः, अहं पण्यमादाय राजगृहं गतः।
478.007. तत्र मया वृद्धराजो दृष्टः।
478.008. स कथयति--अहं प्रचारितं रौरुकं गमिष्यामि, शिखण्डिनं चाहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामि यथा जनपदान्न पीडयतीति।
478.009. तैरपरेषामारोचितम्, तैरप्यपरेषाम्।
478.010. एवं कर्णपरम्परया स शब्दस्तयोर्दुष्टामात्ययोः कर्णं गतः।
478.010. तौ संलक्षयतह्--यदि वृद्धराजा आगमिष्यति, नियतमसौ भूयो हिरुभिरुकावग्रामात्यौ स्थापयिष्यति, आवयोश्चानर्थं कारयिष्यति।
478.012. तदुपायसंविधानं च कर्तव्यम् येनासवन्तर्मार्ग एव प्रघात्यत इति।
478.013. ताभ्यां राज्ञः शिखण्डिन आरोचितम्--देव, श्रूयते वृद्धराजा आगच्छतीति।
478.013. स कथयति--प्रव्रजितो ऽसौ।
478.014. किमर्थं तस्यागमनप्रयोजनमिति? तौ कथयतह्--देव, येनैकदिवसमपि राज्यं कारितम्, स विना राज्येनाभिरंस्यत इति कृत एतत्? पुनरप्यसौ राज्यं कारयितुकाम इति।
478.016. शिखण्डी कथयति--यद्यसौ राजा भविष्यति, अहं स एव कुमारः।
478.016. को नु विरोध इति? तौ कथयतह्--देव, अप्रतिरूपमेतत्।
478.017. कथं नाम कुमारामात्यपौरजनपदैरञ्जलिसहस्रैर् नमस्यमानेन राज्यं कारयित्वा पुनरपि कुमारवासेन वस्तव्यम्? वरं देशपरित्यागो न तु कुमारवासेन वासम्।
478.019. तद्यथापि नाम पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्,अश्वपृष्ठेन गत्वा रथेन गच्छेत्, रथेन गत्वा पादाभ्यामेव गच्छेत्, एवमेव राज्यं कारयित्वा पुनः कुमारवासेन वास इति।
478.021. स ताभ्यां विप्रलब्धः कथयति--किमत्र युक्तम्? कथं प्रतिपत्तव्यमिति? तौ कथयतह्--देव, प्रघातयितव्यो ऽसौ।
478.022. यदि न प्रघात्यते, नियतं दुष्टामात्यविग्राहितो देवं प्रघातयतीति।
478.023. स एवमुक्ते हीनदीनवदनो मूहूर्तं तूष्णीं स्थित्वा बाष्पोपरुध्यमानहृदयः करुणदीनविलम्बितैरक्षरैः स कथयति--भवन्तौ, कथं पितरं प्रघातयामीति? तौ कह्तयतह्--न देवेन श्रुतम्?
478.026. पिता वा यदि वा भ्राता पुत्रो वा स्वाङ्गनिःसृतः।
478.027. प्रत्यनीकेषु वर्तेत कर्तव्या भूमिवर्धना(?)

34.50

इति।
478.028. पुनरप्याह--
478.029. यस्य पुत्रसहस्रं स्यादेकनावाधिरूढकम्।
478.030. एकश्च तत्र शत्रुः स्यात्तदर्थे तान्निमज्जयेत्

34.51

इति।
478.031. अन्यत्राप्युक्तम्--
478.032. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
478.033. ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

34.52

इति।
479.001. <479>देव, नात्र किंचित्तपनीयम्।
479.001. वधार्हो ऽसौ प्रघातयितव्यः।
479.001. यदि देवो ऽत्र विलम्बते, यद्देवस्यानुरक्ताः कुमारामात्यपौरजनपदास्ते क्षोभमापन्ना नियतमनर्थं कुर्वन्तीति।
479.002. कामान् खलु प्रतिसेवमानस्य नास्ति किंचित्पापं कर्माकरणीयमिति तेनाधिवासितम्--एवं क्रियतामिति।
479.004. तौ दुष्टामात्यौ हृष्टतुष्टौ प्रमुदितौ वधकपुरुषानुत्साहयतह्--भवन्तः, गच्छत, वृद्धराजं प्रघातयत।
479.005. भोगैर्वः संविभागं करिष्याम इति।
479.005. अनुरक्तपौरजानपदः स राजा।
479.005. न कश्चिदुत्सहते प्रघातयितुम्।
479.006. ताभ्यां ते हिरण्यसुवर्णग्रामप्रदानादिना प्रोत्साहिता न प्रतिपद्यन्ते।
479.007. ततस्ताभ्यां क्रोधपर्यवस्थिताभ्यां चारपालानामाज्ञा दत्ता--गच्छन्तु, भवन्तह् एतान् पुरुषान् सपुत्रदारान् ससुहृत्सम्बन्धिबान्धवांश्चारके बद्ध्वा स्थापयतेति।
479.008. ते श्रुत्वा भीताः संप्रतिपन्नाः कथयन्ति--देव, अलं क्रोधेन।
479.009. भृत्या वयमाज्ञाकराः।
479.009. गच्छाम इति।
479.009. ते तीक्ष्णानसीन् कक्षेणादाय संप्रस्थिताः।
479.010. आयुष्मानपि रुद्रायणस्त्रयाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरम् येन भगवांस्तेनोपसंक्रान्तः।
479.011. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्--इच्छाम्यहं भदन्त रौरुकं नगरं जनपदचारिकां चरितुमिति।
479.013. भगवानाह--गच्छ रुद्रायण, कर्मस्वकता ते मनसिकर्तव्येति।
479.013. अथायुष्मान् रुद्रायणो भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः।
479.014. आयुष्मान् रुद्रायणस्तस्या एव रात्रेरत्ययात् पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्।
479.015. राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिसामय्य समादाय पात्रचीवरं कर्मबलप्रेरितम्--
479.018. दूरं हि कर्षते कर्म दूरात्कर्म प्रकर्षते।
479.019. तत्र प्रकर्षते जन्तुम् यत्र कर्म विपच्यते

34.53

479.020. इति येन रौरुकं तेन चारिकां प्रक्रान्तः।
479.020. अनुपूर्वेण चारिकां चरन्नन्तर्मार्गे ऽन्यतमं कर्वटकं पिण्डाय प्रविष्टः।
479.021. स च तस्मात् पिण्डपातमटित्वा निष्क्रामति।
479.021. ते च वधकपुरुषाः संप्राप्ताः।
479.022. स तैर्दृष्टः।
479.022. तेनापि ते प्रत्यभिज्ञाताः।
479.022. स तैः पुरुषैः सार्धमेकस्मिन्नेवोद्याने रात्रिंदेवा समुपगतः।
479.023. स तान् प्रष्टुमारब्धह्--
479.024. कच्चिच्छिखण्डी खलु रौरुकेषु सभृत्यवर्गो बलवानरोगः।
479.026. धर्मेण वा कारयति स्वकं राज्यं न चास्य कच्चित्परतोपसर्गः

34.54

इति।
479.028. ते कथयन्ति--
479.029. देव, तथ्यं शिखण्डी खलु रौरुकेषु सभृत्यवर्गो बकवानरोगः।
479.031. न चास्य कश्चित्परतोपसर्गह् अधर्मराज्यं तु करोति नित्यम्

34.55

480.001. <480>नरवर यत्तव सदृशं कृतं त्वया आर्यपराभवचिह्नकरम्।
480.002. तस्यापि तु यत्सदृशं तदद्य उपलप्स्यसे सौभ्येति

34.56

480.003. आयुष्मान् रुद्रायणः कथयति--भवन्तः, किमसौ मम तत्र गमनं नाभिनन्दतीति? ते कथयति--देव, नाभिनन्दतीति।
480.004. स कथयति--भवन्तः, यदेवं न गच्छामि, प्रतिनिवर्तामीति।
480.005. ते गाथां भाषन्ते--
480.006. क्व यास्यसि त्वं नरवीर भूयो न ते सुतो नन्दति जीवितेन।
480.008. वयं ह्यधन्या नृपसम्प्रयुक्ता इहाभ्युपेतास्तव घातनाय

34.57

इति॥
480.010. आयुष्मान् रुद्रायणः कथयति--भवन्तः, यूयं नाम मम वधकपुरुषाह्? देव, वधकपुरुषाः।
480.011. स संलक्षयति--यत्तदुक्तं भगवता कर्मस्वकता ते रुद्रायण मनसिकर्तव्येति, इदं तत्।
480.012. सर्वथा धिक् संसारभङ्गुरमिति विदित्वा तेषां कथयति--भद्रमुखाः, अहमस्मि यदर्थं प्रवजितः, सो ऽर्थो मया न संप्राप्तः।
480.013. तिष्ठत तावन्मुहूर्तम् यावत्खकार्यमनुरूपं गच्छामीति।
480.014. ते परस्परं संजल्पं कृत्वा कथयन्ति--देव, एवं कुरु।
480.014. अथायुष्मान् रुद्रायणो ऽन्यतमं वृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेनावस्थितः।
480.015. उक्तं भगवता--पञ्चानुशंसा बाहुश्रुत्ये--स्कन्धकुशलो भवति धातुकुशल आयतनकुशलः प्रतीत्यसमुत्पादकुशलः, अपरप्रतिबद्धा चास्य भवत्यववादानुशासनीति।
480.017. तेन वीर्यमारभ्य इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
480.019. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः।
480.021. सेन्द्रोपैन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।
480.022. अथायुष्मान् रुद्रायणो ऽर्हत्त्वप्राप्तो विमुक्तिप्रीतिसुखप्रतिसंवेदी तस्या वेलायां गाथां भाषते--
480.024. मुक्तो ग्रन्थैश्च योगौश्च शल्यैर् नीवरणैस्तथा।
480.025. अद्याप्युद्रायणो भिक्षू राजधर्मैर् न मुच्यते

34.58

इति।
480.026. इत्युक्त्वा तान् वधकपुरुषानुवाच--भद्रमुखाः, यं मया प्राप्तव्यं तत्प्राप्तम्।
480.026. इदानीम् यदर्थम् यूयमागतास्तदर्थं संप्रापयतेति।
480.027. ते कथयति--देव, यदि शिखण्डी राजा अस्मान् पृच्छति--किं वृद्धराजेन मरणसमये व्याकृतमिति, किमस्माभिर्वक्तव्यम्? भद्रमुखाः, स वक्तव्यह्--
480.030. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात्।
480.031. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसि

34.59

इति।
481.001. <481>इदं चापरं वक्तव्यह्--द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद् व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवः।
481.002. ते ऽवीचौ महानरके वस्तव्यम्।
481.002. अत्ययमत्ययतो देशय, अप्येतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति।
481.003. पुनरायुष्मान् रुद्रायणः संलक्षयति--ऋद्ध्या गच्छामि।
481.004. ममासौ सत्त्वो नरकपरायणो भविष्यतीति।
481.004. यम् यम् ऋद्ध्युपायं प्रारभते, तस्य धर्मविनष्टत्वाद् ऋकरो ऽपि न प्रतिभाति प्रागेव ऋद्धिः।
481.005. ततस्तेषामेकेन पुरुषेण निर्घृणहृदयेन त्यक्तपरलोकेन कक्षादसिं निष्कृष्य उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातितः॥
481.008. अथ भववान् स्मितमकार्षीत्।
481.008. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतकोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति।
481.010. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मन् महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्पीभूत्वा निपतन्ति।
481.013. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते।
481.013. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति।
481.014. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति।
481.015. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः।
481.016. अपि त्वयमपूर्वदर्शनः सत्त्वः।
481.016. अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति।
481.016. ते निर्मिते चित्तमभिप्रसाद्य तं नरकनिवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति।
481.018. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् ब्रह्मपार्षद्यान् महब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति।
481.022. गाथाद्वयं च भाषन्ते--
481.023. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
481.024. धुनीत मृत्युनः सौन्यं नडागारमिव कुञ्जरः

34.60

481.025. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
481.026. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति

34.61

481.027. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकघातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति।
481.028. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते।
481.029. अनागतं चेत् पुरस्तात्।
481.029. नरकोपपत्तिं चेत् पादतले।
481.029. तिर्यगुपपत्तिं चेत् पार्ष्ण्याम्।
481.030. प्रेतोपपत्तिं चेत् पादाङ्गुष्ठे।
481.030. मनुष्योपपत्तिं चेज्जानुनोः।
481.030. बलचक्रवर्तिराज्यं चेद्वामे करतले।
481.031. चक्रवर्तिराज्यं चेद्दक्षिणे करतले।
481.031. देवोपपत्तिं चेन्नाभ्याम्।
481.031. श्रावकबोधिं चेदास्ये।
481.032. प्रत्येकां बोधिं चेदूर्णायाम्।
481.032. यद्यनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति <482>उष्णीषे ऽन्तर्धीयन्ते।
482.001. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादतले ऽन्तर्हिताः।
482.002. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
482.003. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः।
482.005. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव

34.62

482.007. गाथां च भाषते--
482.008. विगतोद्भवा दैन्यमदप्रहीणा बुद्धाजगत्युत्तमहेतुभूताः।
482.010. नाकरणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिवा जितारयः

34.63

482.013. तत्कालं स्वयमधिगम्य धीर बुद्द्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
482.014. धीरभिर्मुनिवृष वाग्मिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः

34.64

482.016. नाकस्माल्लवणजलाद्रिताजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
482.018. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः

34.65

इति।
482.020. भगवानाह--एवमेतदानन्द, एवमेतद्।
482.020. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
482.021. अपि त्वानन्द,
482.022. मुक्तो ग्रन्थैश्च योगैश्च शल्यैर् नीवरणैस्तथा।
482.023. अथापि रुद्रायणो भिक्षुर्जीविताद् व्यपरोपितः

34.66

482.024. रुद्रायण आनन्द अर्हत्त्वं प्राप्तो जीविताद् व्यपरोपितः।
482.024. श्रुत्वा आयुष्मानान्दः साश्रुकण्ठो व्यवस्थितः।
482.025. अथ ते वधकपुरुषा आयुष्मतो रुद्रायणस्य पात्रचीवरं खिक्खितं चादाय रौरुकमनुप्राप्ताः।
482.026. तैस्तयोर्दुष्टमात्ययोर् निवेदितम्--वृद्धराजः प्रघातित इति।
482.026. तौ श्रुत्वा प्रीतिप्रामोद्यजातौ येन शिखण्डी राजा तेनोपसंक्रान्तौ।
482.027. कथयतह्--देव, दिष्ट्या वर्धसे।
482.028. इदानीं देवस्याकण्टकं राज्यम्।
482.028. कथं कृत्वा? यो देवस्य शत्रुः, स प्रघातितः।
482.029. को नाम शत्रुह्? देव, वृद्धराजः।
482.029. कथं ज्ञायते ऽसौ? प्रघातित इति? ताभ्यां ते वधकपुरुषा दर्शिताह्--देव, इमे ते बधकपुरुषा यौरसौ प्रघातितः।
482.030. शोखण्डना राज्ञा ते पृष्टाह्--भवन्तः, कियद्वृद्धराजस्य बलम्।
482.031. देव, कुतस्तस्य बलम्? इदं पात्रचीवरं खिक्खिरं चेति।
482.031. शिखण्डी <483>राजा मूर्च्छितः पृथिव्यां निपतितो जलपरिषेकप्रत्यागतप्राणः कथयति--भवन्तः, किं वृद्धराजेन मरणकाले व्याकृतम्? देव, वृद्धराजः प्राणवियोगः कथयति--
483.003. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात्।
483.004. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसे

34.67

इति।
483.005. इदं चापरं वक्तव्यह्--द्वे त्वया आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद् व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवश्च।
483.006. चिरं ते ऽवीचौ महानरके वस्तव्यम्।
483.006. अत्ययमत्ययतो देशय।
483.007. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति।
483.007. मनःशोकशल्येनाभ्याहतो हरितलून उव न:ओ म्लायितुमारब्धः।
483.008. तेन हिरुभिरुकावग्रामात्यावाहूतोक्तौभवन्तौ, न युवाभ्यामहमीदृशकर्म कुर्वाणो निवारित इति? तौ कथयतह्--वयं देवेनादर्शनपथे व्यवस्थापिताः।
483.010. कथं निवारयाम इति? तेन तौ दुष्टामात्यौ अदर्शनपथे व्यवस्थापितौ।
483.011. भूयो हिरुभिरुकावग्रामात्यौ स्थापितौ।
483.011. ताभ्यामपि दुष्टामात्याभ्यां प्रच्छन्नं तिष्यपुष्यस्तूपयोर्द्वे बले कृत्वा द्वौ बिडालपोतकौ स्थापितौ।
483.012. तयोर्दिने दिने मांसपेशीर्दत्त्वा शिक्षयतह्--तिष्यपुष्यौ,येन सत्येन सत्यवचनेन युवाभ्यां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ, तेन सत्येन सत्यवचनेन मांसपेशीं कृत्वा स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बलं प्रविशतामिति।
483.015. तौ यदा सुशिक्षितौ संवृत्तौ, तदा ताभ्यां दुष्टामात्याभ्यां रुद्रायणस्य राज्ञो देवी उक्ता--देवि, पुत्रस्ते कृशालुको दुर्बलको म्लानो ऽप्राप्तकायः।
483.017. किमध्युपेक्षस इति? सा कथयति--किमहं करोमीति? युवाभ्यामेवासावीदृशकर्म कारित इति।
483.018. तौ कथयति--देवि, यत्र घ{अः पतितः, किं तत्र रज्जुरपि पातयितव्या? सा कथयति--सत्यमेतत्पितुर्वधम्।
483.019. तदहं तस्य प्रतिविनोदयामि इति।
483.020. सा कथयति--यद्येवम्, शोभनम्।
483.021. सा तस्य सकाशं गत्वा कथयति--पुत्र, कस्मात्वमुत्पाण्डूत्पाडुः कृशालुको दुर्बलको म्लानो ऽप्राप्तकाय इति? स कथयति--अम्ब, त्वमप्येवं कथयसि--कस्मात्त्वमुत्पाडूत्पाण्डुः कृशालुको दुर्बको म्लानो ऽप्राप्तकाय इति, कथमहं नोत्पाण्डूत्पाण्डुको भवामि कृशालुको दुबलको म्लानो ऽप्राप्तकाय इति, येन मया दुष्टामात्यविग्राहितेन द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन् भिक्षुः क्षीणाश्रवह्? चिरमवीचौ महानरके वस्तव्यमिति।
483.026. सा कथयति--पुत्र, अभयं तावत्प्रयच्छ, यत्सत्यं तत्कथयामीति।
483.026. स कथयति--दत्तं भवतु।
483.027. सा कथयति--यथाभूतं पुत्र, नासौ तव पिता, किं तु मया ऋतुस्नातया अन्येन पुरुषेण सार्थं परिचरितम्, ततस्त्वं जात इति।
483.028. स संलक्षयति--पितृवधस्तावन्न जातः।
483.029. इति विदित्वा कथयति--अम्ब, यद्येवं पितृवधो नास्ति, अथद्वधो ऽस्ति।
483.029. स कथं निस्तार्य इति? सा कथयति--पुत्र, ज्ञानकोचिदाः प्रष्टव्याः।
483.030. ते एतदेकान्तीकरिष्यन्तीति उक्त्वा प्रक्रान्ता।
483.031. तया तौ दुष्टामात्यौ आहूयोक्तौ--मया अस्य पितृवधो विनोदितः।
483.031. युवामिदानीमर्हद्वधं प्रतिविनोदयतामिति।
483.032. शिखण्डिना राज्ञा अमात्यानामाज्ञा दत्ता, सर्वामात्यान् <484>संनिपातयत ये च केचिज्ज्ञानकोविदा इति।
484.001. तैः सर्वामात्याः संनिपातिताः, ये च केचिज्ज्ञानकोविदाः।
484.002. तावपि सुष्टामात्यौ तत्रैव संनिपतितौ।
484.002. सर्व एव जाजोपजीवी लोको ऽनुकूलं वक्तुमारब्धः।
484.003. तत्र केचित्कथयन्ति--देव, केनासौ दृष्टो ऽर्हत्त्वम् इति? अपरे कथयन्ति--देव, अर्हन्तः सर्वज्ञानकल्पा आकाशगामिन इति।
484.004. तौ दुष्टामात्यौ कथयतह्--देव, किमत्र शोकः क्रियते? स कथयति--युवामप्येवं कथयथ--किमर्थं शोकः क्रियते इति, ननु युवाभ्यामेवाहमर्हद्वधं कातितः।
484.006. देव, न सन्त्यर्हन्तः।
484.006. कुतो ऽर्हद्वधह्? स कथयति--मया प्रत्यक्षदृष्टौ तिष्यपुष्यौ अर्हन्तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ निर्वातौ।
484.008. युवामेवं कथयथ--न सन्त्यर्हनतः, कुतो ऽर्हद्वध इति? तौ कथयतह्--वयं देवस्य प्रत्यक्षीकुर्मो यथा मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ अद्यत्वे ऽपि स्तूपे तिष्ठत इति।
484.010. राजा अमात्यानामन्त्रयते--भवन्तः, यद्येवमागच्छत गच्छामः, पश्यामः किं भूतमभूतं वेति।
484.011. एष च शब्दो रौरुके नगरे समन्ततो विसृतः।
484.012. ततस्ते सर्वे जनपदनिवासिनो लोकास्तद्द्रष्टुं निष्क्रान्ताः।
484.012. ततस्तौ दुष्टामात्यौ कथयतह्--यथा तिष्यपुष्यौ येन सत्येन सत्यवचनेन युवां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ स्वकस्वके स्तूपे तिष्ठतः।
484.014. अनेन सत्येन सत्यवचनेन इमां मांसपेशीमादाय स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बिलं प्रविशतामिति।
484.015. तावेवमुक्तौ स्वकस्वकात् स्तूपान्निर्गतौ।
484.016. तावेवानेकैः प्राणिशतसहस्रैर्दृष्टौ।
484.016. तौ मांसपेशीमादाय स्वकस्वकस्तूपं प्रदक्षिणीकृत्य स्वकस्वकबिलं प्रविष्टौ।
484.017. तौ दुष्टामात्यौ कथयत--दृष्टं देवेनेति? स कथयति--दृष्टम्।
484.018. देव, न सन्ति लोके ऽर्हन्तः।
484.018. केवलं त्वयं जनप्रवाद इति।
484.018. तस्य यासौ दृष्टिह्--सन्ति लोके ऽर्हन्त इति, सा प्रतिविगता।
484.019. तत्र ये ऽश्रद्धास्तेषामसद्दर्शनमुत्पन्नम्, ये मध्यस्थास्तेषां काङ्क्षा, ये श्रद्धास्तेषामद्भुतं संवृत्तम्।
484.020. अनुभावोदग्रा अविशारदाः।
484.020. शिखण्डी राजा संलक्षयति--यदि न सन्त्येव लोके ऽर्हन्तः, किमर्ह्तमार्यकाश्यपस्य कात्यायनस्य पञ्चशतपरिवारस्य शौलाया भिक्षुण्याः प्लञ्चशतपरिवारायाः पिण्डकमनुप्रयच्छामीति? तेन भिक्षूणां भिक्षुणीनां च पिण्डपातः समुच्छिन्नः।
484.023. भिक्षवो भिक्षुण्यश्च रौरुकात्प्रक्रान्ताः।
484.023. अथायुष्मान् महाकात्यायनः शौला च भिक्षुणी विनयापेक्षया तत्रैवावस्थतौ।
484.024. यावदपरेण समयेन राजा शिखण्डी रौरुकान्नगरान्निर्गच्छति।
484.025. आयुष्मांश्च महाकात्यायनो रौरुकं नगरं पिण्डाय प्रविशति।
484.026. स राजानं दृष्ट्वैकान्ते ऽपक्रम्यावस्थितह्--मा अयमप्रसादं प्रवेदयिष्यतीति।
484.027. स राज्ञा शिखण्डिना एकान्ते ऽवस्थितो दृष्टः।
484.027. दृष्ट्वा च पुनरामन्त्रयते--भवन्तः, किमर्थमयमार्यो महाकात्यायनो मां दृष्ट्वा एकान्ते ऽपक्रम्यावस्थित इति।
484.028. तस्य पृष्ठतो हिरुभिरुकावग्रामात्यौ गच्छतः।
484.029. तौ कथयतह्--देव, आर्यो महाकात्यायनः संलक्षयति--देवः कृतकौतुकमङ्गलो गच्छति, मा अप्रसादं वेदयिष्यति, दुःखं चरद्गच्छति, कर्म क्रियते, पात्रचीवराणि पांशुना अवतरिष्यतीति।
484.031. राजा तूष्णीमवस्थित इति।
484.031. आयुष्मान् महाकात्यायनो रौरुकं नगरं पिण्डाय चरित्वा निर्गच्छति, राजा च शिखण्डी प्रविशति।

485.001. <485>आयुष्मान् महाकात्यायनस्तथैव एकान्ते ऽपक्रम्यावस्थितः।
485.001. शिखण्डी राजा कथयति--भवन्तः, पूर्वमप्ययमार्यो महाकात्यायनो मां दृष्ट्वा एकान्ते ऽपक्रम्यावस्थितः, साम्प्रतिमपि।
485.003. को ऽत्र हेतुरिति? तस्य पृष्ठतस्तौ दुष्टामात्यौ गच्छतः।
485.003. तौ कथयतह्--देव, एष कथयति--मा अहमस्य पितृमारकस्य रजसा प्रव्रज्यामीति।
485.004. अपरीक्षको ऽसौ।
485.004. श्रुत्वा पर्यवस्थितः।
485.005. स कथयति--भवन्तः, यस्याहं प्रियः, सो ऽस्य मुण्डकस्य श्रमणकस्योपर्येकैकं पांशुमुस्टिं क्षिपत्विति।
485.006. सर्वेण जनकायेनैकैका पांशुमुष्टिः क्षिप्ता।
485.006. महासाधनो ऽसौ राजा।
485.006. एकैकया पांशुमुष्ट्या आयुष्मतो महाकात्यायनस्योपरि महान् पांशुराशिर्व्यवस्थितः।
485.007. सो ऽपि ऋद्ध्या पर्णिकां कुटिमभिनिर्मायावस्हितः।
485.008. स गोपालकैः पशुपालकैश्चावष्टभ्यमानो दृष्टः।
458.008. ते बुद्ध्यायमानाह्(?) परिवार्यावस्थिताः।
485.009. हिरुभिरुकावग्रामात्यौ पृष्ठतो ऽनुहिण्ड्य तं प्रदेशमनुप्राप्तौ।
485.010. तौ पृच्छतह्--भवन्तः, किमिदमिति? ते कथयन्ति--तेन कलिराजेन पितृमारकेण आर्यो महाकात्यायनो ऽदुष्यनयकारी पांशुना अवष्टब्ध इति।
485.011. तौ साश्रुकण्ठौ रुदन्मुखौ गोपालकपशुपालकैः सार्धं पांशूनपनेतुमारब्धौ।
485.011. आयुष्मान् महाकात्यायनो निर्गतः।
485.012. तौ पादयोर् निपत्य पृच्छतह्--आर्य, किमिदमिति? स कथयति--किमन्यद्भविष्यतीति? तौ कथयतह्--आर्य, यदिदं शिखण्डिना महाकात्यायने जनकायसहायेन कर्म कृतम्।
485.014. अस्य को भविष्यतीति।
485.015. इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यते।
485.015. आर्य, का आवुपूर्वी भविष्यतीति? आयुष्मन्तौ, प्रथमे दिवसे महावायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति।
485.017. द्वितीये दिवसे पुष्पवर्षं पतिष्यति।
485.017. तृतीये वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामान्तनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रेवक्ष्यन्ति।
485.019. तेषु प्रविष्टेषु षष्ठे दिवसे रत्ववर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति।
485.019. तौ कथयतह्--आर्य, किमावामस्य कर्मणो भाविनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ।
485.021. आर्य, यदेवं कथमस्माभिरस्मान्नगरान्निष्क्रमितव्यमिति? स कथयति--युवाम् यावच्च गृहम् यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत।
485.023. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलायितव्यमिति।
485.023. तौ तस्य पादयोर् निपत्य रौरुकं प्रविष्टौ।
485.024. राज्ञः सकाशं प्रविष्टौ कथयतह्--किं देवेनार्यो महाकात्यायनः किंचिदुक्तः पांशुनावष्टब्धह्? स कथयति--भवन्तः, जीवत्यसौ? देव, जीवति।
485.025. किं कथयति--देव, एवं कथयति--इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत इति।
485.026. कानुपूर्वी? कथयति--देव, स एवं कथयति, प्रथमे तावद्दिवसे महवायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति, द्वितीये दिवसे पुष्पवर्षं पतिष्यति, तृतीये दिवसे वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतं ते रौरुकं नगरं प्रवेक्ष्यन्ति, तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति।
485.031. तौ कथयतह्--आर्य, किमावामप्यस्य कर्मणो भागिनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ।
485.032. आर्य, यद्येवं कथमस्मान्नाग्रान्निष्क्रमितव्यमिति? स कथयति--<486>युवाम् यावच्च गृहम् यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत।
486.002. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलयितव्यमिति।
486.002. तौ दुष्टामात्यौ कथयतह्--समुच्छिन्नपिण्डपातः पांशुवर्षेणावष्टबधः स किमन्यद्वदतु? ईदृशं वा वदते, देवतो वा पापनरमिति(?)।
486.004. राजा शिखण्डी संलक्षयति--स्यादेवमिति।
486.004. हिरुभिरुकावग्रामात्यौ मुखं विभण्ड्य हस्तान् संपरिवर्त्य प्रक्रान्तौ।
486.005. तत्र हितुकस्य श्यामाको दारकः पुत्रः।
486.006. भिरुकस्य श्यामावती नाम दारिका दुहिता।
486.006. हितुकेन श्यामाको दारक आयुष्मते महाकात्यायनाय दत्तह्--आर्य, यद्यस्य कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः।
486.007. नो चेत् तवैवायमुपस्थायक इति।
486.008. भिरुकेनापि श्यामावती दारिका शैलाया भिक्षुण्या दत्ता--आर्ये, यद्यस्याः कानिचित् कुशलमूलानि स्युः, प्रव्राजयेथाः।
486.009. नो चेत् कौशाम्ब्यां घोषिलो नाम गृहपतिर्मम वयस्यस्तस्य समर्पयिष्यसीति।
486.010. तयाधिवासितम्।
486.010. अथ शैला भिक्षुणी श्यामावतीमादाय ऋद्ध्या रौरुकान्नगरात् प्रक्रान्ता।
486.011. तदा कौशाम्ब्यां घोषिलस्य गृहपतेर्दत्ता।
486.012. यथा च संदिष्टं समाख्यातम्।
486.012. आयुष्मान् महाकात्यायनस्तत्रैवावस्थितः।
486.012. हिरुभिरुकाभ्यामग्रामात्याभ्याम् यावच्च गृहम् यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे च नौः स्थापिता।
486.014. यावदन्यतमस्मिन् दिवसे महावायुरागतः, येन तं रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापितम्।
486.015. द्वितीये दिवसे पुष्पवर्षं पतितम्।
486.015. तौ दुष्टामात्यौ कथयतह्--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितमिति।
486.016. देवस्येदं पुष्पवर्षं पतितम्, नचिराद्वस्त्रवर्षं पतिष्यति।
486.017. तृतीये दिवसे वस्त्रवर्षं पतिअम्।
486.017. तौ दुष्टामात्यौ कथयतह्--देवस्येदं वस्त्रवर्षं पतितम्, नचिराद्विराद्धिरण्यवर्षं पतिष्यतीति।
486.018. चतुर्थे दिवसे हिरण्यवर्षं पतितम्।
486.019. तौ दुष्टामात्यौ कथयतह्--देवस्येदं हिरण्यवर्षं पतितम्, नचिरादेव सुवर्णवर्षं पतिष्यतीति।
486.020. पञ्चमे दिवसे सुवर्णवर्षं पतितम्।
486.020. तौ दुष्टामात्यौ कथयतह्--देवस्येदं सुवर्षं प्ततितम्, नचिरादेव रत्नवर्षं पतिष्यतीति।
486.021. यौ रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रविष्टाः।
486.022. तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतितम्।
486.022. हिरुभिरुकावग्रामात्यौ रत्नानां नावं पूरयित्वा निष्पलायितौ।
486.023. तत्र हिरुकेणान्यतमस्मिन् प्रदेशे हिरुकं नाम नगरं मापितम्।
486.024. तस्य हिरुकं हिरुकमिति संज्ञा संवृत्ता।
486.024. भिरुकेणान्यतमस्मिन् प्रदेशे भिरुकं नाम नगरं मापितम्।
486.025. तस्यापि भिरुकच्छं भिरुकच्छमिति संज्ञा संवृत्ता।
486.025. सप्तमे दिवसे पांशुवर्षं पतितुमारब्धम्।
486.026. अमनुष्यकैर्द्वाराण्यवष्टब्धानि।

486.026. श्यामाकः कथयति--आर्य, किमेष उच्चशब्दो महाशब्द इति।
486.027. आयुष्मान् महाकात्यायनः कथयति--पुत्र, वातायनेन काशिकां निष्कासयेति।
486.028. तेन वातायनेन काशिका निष्कासिता।
486.028. पांशुभिरनवीकृता।
486.028. आयुष्मान् महाकात्यायनः संलक्षयति--सावशेषागोचर इति।
486.029. यावद्भूयो निष्कासिता, पूर्णा चूडिकाबद्धा संवृत्ता।
486.030. आयुष्मान् महाकात्यायनः संलक्षयति--अगोचरीभूतम्।
486.030. इदानीं गच्छमीति।
486.030. अथ या रौरुकनिवासिनी देवता सा येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्ता।
486.031. उपसंक्रम्य पादाभिवन्दनं कृत्वा कथयति--आर्य, अहमप्यागछामि।
486.032. आर्यस्योपस्थानं करिष्यामीति।
487.001. <487>तेनाधिवासितम्।
487.001. आय्ष्मता महाकात्यायनेन श्यामाक उक्तह्--पुत्र, गृहाण चीवरकर्णिकम्।
487.002. गच्छाम इति।
487.002. तेन चीवरकर्णिको गृहीतः।
487.002. स ऋद्ध्या उपरिविहायसा श्यामाकं दारकमादाय संप्रस्थितः।
487.003. रौरुकनिवासिन्यपि देवता स्वर्द्ध्या तस्य पृष्ठतो ऽनुबद्धा।
487.004. रौरुकमपि नगरं पांशुनावष्टबद्धम्।
487.004. ते ऽनुपूर्वेण खरं मम कर्वटकमनुप्राप्ताः।
487.004. तेन तत्र खलाभिधाने ऽवस्थिताः।
487.005. आयुष्मान् महाकात्यायनः श्यामाकं दारकं खलभिधाने स्थापयित्वा पिन्ण्डपात्रं प्रविष्टः।
487.006. देवतानुभावात्तस्मिन् खलाभिधाने धान्यं वर्धितुमारब्धम्।
487.007. यस्तत्र पुरुषो ऽवस्थितः, स तं दारकं दृष्ट्वा तस्य सकाशमुपसंक्रम्य कथयति--भो दारक, तव प्रभावात्खलाभिधाने धान्यं वर्धत इति।
487.008. स कथयति--न मम प्रभावात् खलभिधाने धान्यं वर्धत इति, अपि तु रौरुकनिवासिनी देवता इहागता अमुष्मिन् प्रदेशे तिष्ठति, तस्याः प्रभावात् खलाभिधाने धान्यं वर्धत इति।
487.010. स तस्याः सकाशं गत्वा पादयोर् निपत्य कथयति--देवते, ताडकं कुञ्चिकां च तावद्धारय, यावद्ग्रामम् {गत्वा} आगच्छामि।
487.011. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति।
487.012. तेनापि कर्वटकं गत्वा कर्वटकनिवासी जनकायः संनिपातितः।
487.013. उक्तश्च--भवन्तः, रौरुकनिवासिनी देवता इहागता खलाभिधाने तिष्ठति।
487.014. तत्प्रभावात् खलभिधाने धान्यं वर्धते।
487.014. तस्या हस्ते मया ताडकं कुञ्चिका च दत्ता।
487.015. {उक्तम्} च--देवते, ताडकं कुञ्चिकां च तावद्धारय यावद् ग्रामं गत्वा आगच्छामि।
487.016. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति।
487.016. तदधिष्ठानं विज्ञापयामि--यदि मम पुत्रं श्रेष्ठिनमभिषिञ्चथ, अहमात्मानं जीविताद्व्यपरोपयामीति।
487.017. देवता अस्मादधिष्ठानान्न क्वचिद्गमिष्यति, युष्माकं भोगाभिवृद्धिर्भविष्यति, सर्वाश्च ईतयो व्युपशमं गमिष्यन्तीति।
487.019. तौस्तस्य पुत्रः श्रेष्ठी तेनात्मा जीविताद्व्यपरोपितः।
487.019. ततः सर्वं तदधिष्ठानं गन्धपुष्पोशोभितं छत्रध्वजपताकाशोभितं च बलिमादाय येन देवता तेनोपसंक्रान्ताः।
487.021. उपसंक्रम्य पादयोर् निपत्य कथयति--देवते, अधिष्ठा भव, इहैव तिष्ठेति।
487.022. नास्ति ममेहावस्थानम्।
487.022. आर्यस्याहं महाकात्यायनस्योपस्थायिकेति।
487.022. आयुष्मान् महाकात्यायन इति कथयति--देवते, समन्वाहर अस्य यस्य सकाशात् ताडकः कुञ्चिका च गृहीतेति।
487.024. सा समन्वाहर्तुं प्रवृत्ता पश्यति, यावत्कालगतः।
487.024. तयासावधिष्ठाननिवासी जनकायो ऽभिहितह्--भवन्तः, समयतो ऽहं तिष्ठामि।
487.025. तौर्यादृशमेव तस्या देवतायाः स्थण्डिलं कारितं तादृशमेवायुष्मतो महाकात्यायनस्य।
487.027. तस्या देवताया यो ऽधिष्ठाने प्रदीपः प्रज्ञप्तः, तमसौ गृहीत्वा आयुष्मतो महाकात्यायनस्य स्थण्डिले स्थापयति।
487.028. सा अन्यतमेन पुरुषेण प्राकारकण्टके स्थितेन प्रदीपं गृहीत्वा गच्छन्ती दृष्टा।
487.029. स संलक्षयति--एषा देवता आर्यस्य महाकात्यायनस्याभिसातिका गच्छतीति।
487.030. तया तस्य चित्तमुपलक्षितम्।
487.030. सा रुषिता--पापचित्तसमुदाचारो ऽयं कर्वटकनिवासी जनकायः।
487.031. आर्यस्य महाकात्यायनस्य निरामगन्धस्यातृप्तपुण्यस्यापवादमनुप्रयच्छतीति।
487.032. तस्मात्तस्मिन् कर्वटके मारिरुत्सृष्टा।
487.032. महाजनमरको जातः।
487.032. मृतजने <488>निष्कास्यमाने मञ्चकामञ्चके सड्त्कुमारब्धाः।
488.001. अधिष्ठाननिवासिना जनकायेन नैमित्तिका आहूय पृष्टाह्--किमेतदिति? ते कथयन्ति देवताप्रकोप इति।
488.002. ते तां क्षमयितुमारब्धाः।
488.002. साकथयति--यूयमार्यस्य महाकात्यायनस्य निरामगन्धस्यासत्कारमनुप्रयच्छथेति? ते भूयः कथयन्ति--क्षमख देवते, न कश्चिदसत्कारं करिष्यतीति।
488.004. सा कथयति--यदि यूयम् यादृशमेवार्यस्य महाकात्यायनस्येति।
488.005. ते कथयन्ति--देवते क्षमख, प्रतिविशिष्टतरं कुर्म इति।
488.006. तया तेषां क्षान्तम्।
488.006. तैरप्यायुष्मतो महाकात्यायनस्य प्रतिविशिष्टतरः सत्कारः कृतः।
488.006. आयुष्मान् महाकात्यायनस्तत्र वर्षोषितः श्यामाकं दारकमादाय देवतामुपामन्त्र्य संप्रस्थितः।
488.007. सा कथयति--आर्य, मम किचिच्चिह्नमनुप्रयच्छ, यत्राहं कारां कृत्वा तिष्ठामीति।
488.008. तेन तस्यां काशिका दत्ता।
488.009. तयात्र प्रक्षिप्य स्तूपः प्रतिष्ठापितो महश्च प्रस्थापितह्--काशीमह काशीमह इति संज्ञा संवृत्ता।
488.010. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते।
488.010. श्यामाको दारकश्चीवरकर्णिके लग्नः प्रलम्बमानो गोपालकपशुपालकैर्दृष्टः।
488.011. तैर्लम्बते लम्बत इति उच्चैर् नादो मुक्तः।
488.011. तस्मिञ् जनपदे मनुष्याणां लम्बकपाल इति संज्ञा संवृत्ता।
488.012. आयुष्मान् महाकात्यायनो ऽन्यतमं कर्वटकमनुप्राप्तः।
488.013. तत्र श्यामाकं दारकं वृक्षमूले स्थापयित्वा पिण्डाय प्रविष्टः।
488.013. तस्मिंश्च कर्वटके ऽपुत्रो राजा कालगतः।
488.014. पौरजानपदाः संनिपत्य कथयन्ति--भवन्तः, कं राजानमभिषिञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति।
488.015. अपरे कथयन्ति--कथमसौ प्रज्ञायत इति? अन्ये कथयन्ति--परीक्षकाः प्रयुज्यन्तामिति।
488.016. तैः परीक्षकाः प्रयुक्ताः।
488.016. ते इतश्चामुतश्च पर्याटितुमारब्धाः।
488.017. तैरसौ वृक्षस्याधस्तान्मिद्धमवक्रान्तो दृष्टः।
488.017. ते तस्य निमित्तमुद्गृहीतुमारब्धा यावत्पश्यन्ति।
488.018. अन्येषां वृक्षाणां छाया प्राचीनप्रवणा प्राचीनप्राग्भारा।
488.018. तस्य वृक्षस्य च्छाया अस्य श्यामाकस्य दारक्स्य कायं न विजहातीति।
488.019. दृष्ट्वा च पुनः संजल्पितुमारब्धाह्--भवन्तः, अयं पुण्यमहेशाख्यः सत्त्वः, एतमभिषिञ्चाम इति।
488.020. स तैः प्रबोध्योक्तह्--दारक, राज्यं प्रतीच्छेति।
488.021. स कथयति--नाहं राज्येनार्थी।

488.021. अहमार्यस्य महाकात्यायनस्योपस्थापक इति।
488.022. आयुष्मता महाकात्यायनेन श्रुतम्।
488.022. समन्वाहर्तुं प्रवृत्तः।
488.022. किमस्य दारकस्य राज्ञः संवर्तनीयानि कर्माणि न वेति।
488.023. पश्यति, सन्ति।
488.023. स कथयति--पुत्र, प्रतीच्छ राज्यम्, किं तु धर्मेण ते कारयितव्यमिति।
488.024. तेन तं प्रतीष्टम्।
488.024. स तै राज्ये ऽभिषिक्रः।
488.024. श्यामाकेन दारकेण तस्मिन् राज्यं कारितमिति।
488.025. श्यामाकराज्यं श्यामाकराज्यमिति संज्ञा संवृत्ता॥
488.026. आयुष्मान् महाकात्यायनो वोक्काणमनुप्राप्तः।
488.026. वोक्काणे आयुष्मतो महाकात्यायनस्य माता उपपन्ना।
488.027. सा आयुष्मन्तं महाकात्यायनं दृष्ट्वा कथयति--दृष्ट्वा चिरस्य बर पुत्रकं पश्यामि, चिरस्य बत पुत्रकं पश्यामीति।
488.028. स्तनाभ्यां चास्याः क्षीरधाराः प्रसृताः।
488.028. आयुष्मता महाकात्यायनेन अम्ब अम्बेति समाश्वासिता।
488.029. तया आयुष्मान् महाकात्यायनो भोजितः।
488.029. तस्या आयुष्मता महाकात्यायनेनाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
488.032. सा दृष्टसत्या त्रिरुदानमुदानयति स्म--इदमस्माकं भदनत न मात्रा <489>कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर्यद्भवता अस्माकं कृतम्।
489.002. स्मुच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमौष्येषु।
489.003. आह च--
489.004. यत्कर्तव्यं सुपुत्रेण मानुर्दुष्करकारिणा।
489.005. तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्

34.68

489.006. दुर्गतिभ्यः समुद्धृत्य स्वर्गे च ते अहम्।
489.007. स्थापिता पुत्र यत्नेन साधु ते दुष्कृतं कृतम्

34.69

489.008. अथायुष्मान् महाकात्यायनस्तां भद्रकन्यां सत्येषु प्रतिष्ठाप्य कथयति--अम्ब, अवलोकिता भव, गच्छामीति।
489.009. सा कथयति--पुत्र, यद्येवं मम किंचिदनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति।
489.010. तेन तस्या यष्टिर्दत्ता।
489.010. तया स्तूपं प्रतिष्ठाप्य सा तस्मिन् प्रतिमारोपिता।
489.011. यष्टिस्तूप इति संज्ञा संवृत्ता।
489.011. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते॥
489.012. अथायुष्मान् महाकात्यायनो मध्यदेशमागन्तुकामः सिन्धुमनुप्राप्तः।
489.012. अथ या उत्तरापथनिवासिनी देवता, सा आयुष्मन्तं महाकात्यायनमिदमवोचत्--आर्य, ममापि किंचिच्चिह्नमनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति।
489.014. स संलक्षयति--उक्तं भगवता मध्यदेशे पुले न धारयितव्ये इति।
489.015. तदेते अनुप्रयच्छामीति।
489.015. तेन तस्यैते दत्ते।
489.015. तया स्थण्डिले कारयित्वा ते प्रतिष्ठापिते इतश्चरसन्तिसंज्ञा संवृत्ता।
489.016. आयुष्मान् महाकात्यायनो ऽनुपूर्वेण श्रावस्तीमनुप्राप्तः।
489.017. भिक्षुभिर्दृष्ट उक्तश्च--स्वागतं स्वागतमायुष्मन्।
489.017. किच्चित्कुशलचर्येति? स कथयति--आयुष्मन्तः, किंचित् सुखचर्या किंचिद्दुःखचर्येति।
489.018. भिक्षवः कथयन्ति--किं सुखचर्या किं दुःखचर्येति? स कथयति--यत्सत्त्वकार्यं कृतम्, इयं सुखचर्या।
489.019. यद् राजा शिखण्डी रौरुकनिवासी च जनकाय अहं च पांशुनावच्टब्धः, हिरुभिरुकौ चाग्रामात्यौ कृच्छ्रेण पलायितौ, इयं दुःखचर्येति।
489.021. अथ पाथाभिक्षवो ऽवध्यायन्तः कथयन्ति--पितृमारको ऽसौ।
489.022. तेनायुष्मान् रुद्रायणो ऽर्हत्त्वं प्राप्तः।
489.022. अदुष्यनयकारी प्रघतित इति।
489.022. इदं तस्य पुष्पमात्रम्।
489.023. अन्यत्फलं भविष्यतीति॥
489.024. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता रुद्रायणेन कर्म कृतम् येनाढ्ये महाधने महाभोगे कुले प्रत्याजातह्? भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? अर्हत्त्वप्राप्तश्च शस्त्रेण प्रघातित इति? भगवानाह--रुद्रायणेन भिक्षुणा कर्माणि कृतान्युपचित्तानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
489.028. रुद्रायणेन कर्माणि कृतान्युपचितानि।
489.028. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।
490.001. <490>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
490.002. सामगरीं प्राप्य कालं च फलन्ति खलु देहिनाम्

34.70

इति।
490.003. भूतपूर्वं भिक्षवो ऽतीति^ध्वनि अस्ति बुद्धानां भगवतामुत्पादे प्रत्येकबुद्धा लोल उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः खङ्गविषाणकल्पा एकदक्षिणीया लोकस्य।
490.005. यावदन्यतमस्मिन् कर्वटके लब्धुः प्रतिवसति।
490.005. तस्य कर्वटकस्य च नातिदूरे उदपानं प्रभूतानां मृगाणामावासः।
490.006. तत्रासौ लुब्धकः प्रतिदिनं प्रभूतान् कूटान् पाशालेपांश्च प्रतिक्षिपति प्रभूतानां मृगानामुत्सादाय विनाशाय अनयेन व्यसनाय।
490.007. तस्य चामोघास्ते कूटाः पाशालेपाश्च।
490.008. यावदन्यतरः प्रत्येकबुद्धो जनपदचारिकाअं चरंस्तं कर्वटकमनुप्राप्तो देवतायतने रातिंदिवा समुपागतः।
490.009. स पूर्वाह्णे निवास्य पात्रचीवरमादाय तं कर्वटकमनुप्राप्तः।
490.009. तन् कर्वटकं पिण्डाय प्राविक्षत्।
490.010. ततः पिण्डपातमटित्वा संलक्षयति--इदं देवायतनं दिवा आकीर्णम्।
490.011. बहिः कर्वटकस्य शान्ते स्थाने पिण्डपातं वेलां करोमीति।
490.011. स कर्वटकान्निष्क्रम्येदं शान्तमिदं शान्तमिति येन तदुदपानं तेनोपसंक्रान्तः।
490.012. उपसंक्रम्य पात्रस्नावणमेकान्त उपनिक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य शीर्णपर्णकानि समुदानीय निषद्य भक्तकेत्यं कृत्वा हस्तौ निर्माद्य मुखं पात्रं च पात्रपरिस्रावणम् यथास्थाने स्थाप्य पादौ प्रक्षाल्य अन्यतमवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेन निषण्णः।
490.016. तस्मिन् दिवसे मानुषगन्धेनैकमृगो ऽपि न ग्रहणानुगतः।
490.016. अथ स लुब्धकः काल्यमेवोत्थाय येन तदुदपानं तेनोपसंक्रान्तः।
490.017. स तान् कूटान् पाशांश्च प्रत्येवेक्षितुमारब्धः।
490.018. एकमृगमपि नाद्रक्षीत्।
490.018. तस्यैतदभवत्--ममामी कूटाः पाशालेपाश्चावन्ध्याः।
490.018. किमत्र कारणम् येनाद्य एकमृगो ऽपि न बद्ध इति?।
490.019. तदुदपानं सामन्तकेन पर्यटितुमारब्धः।
490.019. पश्यति मनुष्यपदम्।
490.020. स तेन पदानुसारेण गतः।
490.020. पश्यति तं प्रत्येकबुद्धं शान्तेनेर्यापथेन निषण्णम्।
490.021. स संलक्षयति--एते प्रव्रजिताः शान्तात्मान ईदृशेषु स्थानेष्वभिरमन्ते।
490.021. यद्यद्याहमस्य जीवितापच्छेदं न करोमि, नियतमेष मम वृत्तिसमुच्छेदं करोति।
490.022. सर्वथा प्रघात्यो ऽयमिति।
490.023. तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन कराकारसदृशं धनुराकर्णं पूरयित्वा सविषेण शरेण मर्मणि ताडितः।
490.024. स महात्मा प्रत्येकबुद्धः संलक्षयति--मा अयं तपस्वी लुब्धो ऽत्यन्तक्षतश्च भविष्यति, उपहतश्च।
490.025. हस्तोद्धारमस्य ददामीति।
490.025. स विततपक्ष इव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
490.026. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी।
490.027. स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति--अवतरावतर सद्भूतदक्षिणीय, मम क्लेशपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति।
490.028. स तस्यानुकम्पार्थमवतीर्णः।
490.028. ततस्तेन विशल्यी कृतः।
490.029. उपनाहो दत्तः।
490.029. उक्तश्च--आर्य, निवेशनं गच्छमः।
490.029. यद्यत्र सुवर्णपणो ऽपि दातव्यः, अहं परिप्रापयामीति।
490.030. स संलक्षयति--यन्मया अनेन पूतिकायेन प्राप्तव्यं तदिदानीं शान्तं निरुपधिशेषं निर्वाणधातुं प्रविशामीति।
490.031. स तस्यैव पुरस्तात्पुनर्गगनतलमभ्युद्गम्य विचित्राणि प्रतिहार्याणि विदर्श्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः।
490.032. धनवानसौ <491>लब्धः।
491.001. तेन सर्वगन्धकाष्ठैश्चितां चित्वा ध्मापितः।
491.001. सा चिता क्षीरेण निर्वापिता।
491.001. तान्यस्थीनि नवे कुम्भे प्रक्षिप्य शारीरस्तूपः प्रतिष्ठापितः।
491.002. छत्रध्वजपताकाश्चारोपिताः।
491.002. गन्धैर्माल्यैर्धूपश्च कुम्भे कृत्वा पादयोर् निपत्य प्रणिधानं कृतम्--यन्मयैवंविधे सद्भूतदक्षिणीये ऽपकारो कृतः, मा अहमस्य कर्मनो भागी स्याम्।
491.004. यत्तु कारा कृता, अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च गुणानां लाभी स्याम्, प्रतिविशिष्टतरं चातुः शास्तारमारागयेयं न विरागयोयमिति॥
491.007. किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन लुब्धकः, एष एवासौ रुद्रायणो भिक्षुः।
491.008. यदनेन प्रत्येकबुद्धः सविषेण शरेण मर्मणि ताडितः, तस्य कर्मणो विपाकेन बहूनि वर्षशतानि बहूनि वर्षसहस्राणि नरकेषु पक्तः, तस्मिन्नपि चोदपाने सविषेण शरेण मर्मणि ताडितः, तेनैव च कर्मावशेषेणैतर्ह्यप्यर्हत्त्वप्राप्तः शस्त्रेण प्रघातितः॥
491.011. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त शिखण्डिना रौरुकनिवासिना जनकायेनायुच्मता महाकात्यायनेन च कर्म कृतम् येन पांशुनावष्टब्धाः, हिरुभिरुकौ त्वग्रामात्यौ निष्पलयिताविति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि प्ररिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
491.014. एभिः कर्माणि कृतान्युपचितानि।
491.015. के ऽन्यः प्रत्यनुभविष्यति? न ब्ःक्षवः कर्मणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वाअयतनेषु कर्मणि कृतानि विपच्यन्ते शुभान्यशुभानि च।
491.018. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
491.019. समग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc