दिव्यावदान · अध्याय 33
444.019. सूतो राज्ञः कथयति--देवस्यानुपूर्वी न कृता यनैष यवसयोग्याशनं न गृह्णाति।
444.020. कास्यानुपूर्वी कृता? अस्यायमुपचारः।
444.020. सार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या।
444.020. राजाभिषिक्तश्चतुरङ्गेन बलकायेन सार्धं प्रत्युद्गच्छति।
444.021. यस्मिन् प्रदेशे स्थाप्यते, स प्रदेशस्ताम्रपट्टैर्बध्यते।
444.022. राज्ञो ज्येष्ठपुत्रः।
444.022. स तस्य शतशलाकं छत्रं मूर्ध्नि धारयति।
444.022. राज्ञो ज्येष्ठा दुहिता सौवर्णेन मणिव्यजनेन मक्षिकान् वारयति।
444.023. राज्ञो ऽग्रमहिषी सौवर्गस्थाले मधुम्रक्षितकान् मूलान् भक्षयतो धारयति।
444.024. राज्ञो ऽग्रामात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति।
444.024. राजा कथयति--एष नाम राजा, नाहं स राजेति।
444.025. सूतः कथयति--देव, नास्य सर्वकालमेष उपचारः क्रियते।
444.026. अपि तु सप्ताहस्यात्ययाद्विधेयो भवति।
444.026. राजा कथयति--यत्तावदतीतं न शक्यं तत्पुनः कर्तुम्, यदवशिष्टं तत्क्रियताम्।
444.027. यस्मिन् प्रदेशे ताम्रपड्डैर्बद्धः, तस्य राज्ञो ज्येष्ठः पुत्रः शतशलाकां धारयति, राज्ञो ज्येष्ठा दुहिता सौवर्णमणिमयवालव्यजनेन मक्षिकान् वारयति, राज्ञो ऽग्रमाहिषी सौवर्णेन स्थालेन मधुम्रक्षितकान् मूलान् भक्षयतो धारयति, राज्ञो ऽमात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति।
444.030. तमनुनयति पार्थिवः।
444.030. ससृतपरमसुगन्धिविलेपनानुधारी मधुरमधुरकृतान्तरानुरागा नृपमहिषी तुरगोत्तमाय दत्ता राज्ञा।
444.031. उद्यानभूमिं निर्गन्तुकामो ऽस्याश्चाजानेय उपगम्य पृष्ठमुन्नामयति।
444.031. राजा सूतं पृच्छति--राजा अस्य पृष्ठं दुःखयति।
444.031. स कथयति--किं तु राजा <445>दुःखमधिरोक्ष्यतीति।
445.001. यतो ऽनेनावनामितं स राजा तमभिरुह्य संप्रस्थितः।
445.001. तस्य गच्छतः पानीयमागतम्।
445.002. स तत्र नावतरति।
445.002. राजा सूतं पृच्छति--एषो बिभेति? देव, नैष बिभेति।
445.002. अपि तु मा राजानं पुच्छोदकेन सेक्ष्यामीति।
445.003. तस्य तत्पुच्छं सौवर्णायां नालिकायां प्रक्षिप्तम्।
445.003. स तं पानीयमुत्तीर्णः।
445.004. स उद्यानं गत्वा प्रमत्तो ऽवस्थितः।
445.004. सामन्तराजैः श्रुतम्--यथा राजा ब्रह्मदत्त उद्यानं गत इति।
445.005. तैरागत्य नगरस्य द्वाराणि बन्धयन्ति।
445.005. राज्ञा ब्रह्मदत्तेन श्रुतं सामन्तराजैर् नगरद्वाराणि निगृहीतानीति।
445.006. सो ऽश्वाजानेयमभिरूढः।
445.006. अन्तरा च वाराणस्यन्तरा चोद्यानमत्रान्तरा ब्रह्मवती नाम पुष्किरिण्युत्पलकुंदपुण्डरीकसंछन्ना।
445.007. सो ऽश्वाजानेयः पद्मोपरि सरन् वाराणसीं प्रविष्टः।
445.008. राजा तुष्टो ऽमत्यानां कथयति--भवन्तः, योराज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जीवितमनुप्रयच्छति, किं तस्य कर्तव्यम्? देव, उपार्धराज्यं दातव्यम्।
445.009. राजा कथयति--तिर्यगेषः।
445.010. किमस्योपार्धराज्येन? अपि त्वेनमागम्य सप्ताहं दानानि दीयन्ताम्, पुण्यानि क्रियन्ताम्, अकालकौमुदी च क्रियताम्।
445.011. अमात्यैः सप्ताअहं दानानि दातुमारब्धानि, पुण्यानि कर्तुमारब्धानि, सप्ताहमकालकौमुदी प्रस्थापिता।
445.012. सार्थवाहः पुरुषान् पृच्छति--भवन्तः, किमकालकौमुदी वर्तते? ते ऽस्य कथयन्ति--पूजितं नामाधिष्ठानम्।
445.013. ततः कुम्भकारस्य सकाशात् सुवर्णलक्षेणाश्वाजानेयं गृहीत्वा इहानीतम्।
445.014. तेनाद्य राज्ञो जीवितं दत्तम्।
445.014. तमागम्य सप्ताहं दानानि दातुमारब्धानि, पुण्यानि क्रियन्ते, अकालकौमुदी च प्रस्थापिता।
445.015. सार्थवाहः संलक्षयति--यो मया छोरितो नाम, स एष किशोरको ऽश्वाजानेयः स्यात्? तत्तावद्गत्वा पश्यामि।
445.017. स तस्य सकाशं गतः।
445.017. स तेनाश्वाजानेयेनोक्तह्--भोः पुरुष, किं त्वया तेषामश्वानां सकाशाल्लब्धम्? मयैकाकिनैव तस्य कुम्भकारस्य सुवर्णलक्षं दत्तम्।
445.018. स मूर्छितकः पृथिव्यां निपतितः।
445.019. जलपरिषेकेन प्रत्यागतप्राणः पादयोर् निपत्य क्षमापितवान्॥
445.020. किं मन्यध्वे ब्ःक्षवो यो ऽसौ सार्थवाहः, एष एव जीवकस्तेन कालेन तेन समयेन।
445.021. यो ऽश्वाजानेयः, एष एव पन्थकस्तेन कालेन तेन समयेन।
445.021. तदापि यदा अस्यैष गुणानामनभिज्ञः, तदास्यासत्कारं प्रयुक्तवान्।
445.022. यदा तु गुणानामभिज्ञः, तदा पादयोर् निपत्य क्षमापितवान्।
445.023. एतर्ह्यप्येष यदा गुणानामनभिज्ञः, तदा असत्कारं प्रयुक्तवान्।
445.023. यदा गुणानामभिज्ञः, तदा पादयोर् निपत्य क्षमपयति॥
445.025. इति श्रीदिव्यावदाने चूडापक्षावदानं समाप्तम्॥
********** अवदान 36 **********
446.001. दिव्36 माकन्दिकावदानम्।
446.002. बुद्धो भगवान् कुरुषु जनपदचारिकां चरत् कल्माषदम्यमनुप्राप्तः।
446.002. तेन खलु पुनः समयेन कल्माषदम्ये माकन्दिको नाम परिव्राजकः प्रतिवसति।
446.003. तस्य साकलिर् नाम पत्नी।
446.004. तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता।
446.004. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यत उपमा कर्तुम्।
446.005. तस्यास्त्रीणि सप्ताहान्येकविंशतिं दिवसान् विस्तरेण जातिमही संवृत्ता यावज्जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारिकाया नामेति? ज्ञातय ऊचुह्--इयं दारिका अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता।
446.008. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यते उपमा कर्तुम्।
446.008. भवतु दारिकाया अनुपमेति नाम।
446.009. तस्या अनुपमेति नामधेयं व्यवस्थापितम्।
446.009. सोन्नीता वर्धिता।
446.009. माकन्दिकः संलक्षयति--इयं दारिका न मया कस्यचित् कुलेन दातव्या न धनेन नापि श्रुतेन, किं तु यो ऽस्या रूपेण समो वाप्यधिको वा, तस्य मया दातव्येति॥
446.012. अत्रान्तरे भगवान् कुरुषु जनपदेषु चारिकां चरन् कल्माषदम्यमनुप्राप्तः।
446.012. कल्माषदम्ये विहरति कुरूणां निगमे विहरति।
446.013. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय कल्माषदम्यं पिण्डाय प्राविक्षत्।
446.014. कल्माषदम्यं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः।
446.015. पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाम्य अन्यतमवृक्षमूलं निश्रित्य निषण्णः सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा।
446.016. तेन खलु समयेन माकन्दिकः परिव्रजकः पुष्पसमिधस्यार्थे निर्गतो ऽभुत्।
446.017. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं दूरदेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्क बद्ध्वा निषण्णं भगवन्तं दूरादेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीलृतं पर्यङ्कं बद्ध्वा निषण्णं प्रासादिकं प्रदर्शनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तव्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्।
446.020. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः।
446.020. स संलक्षयति--यादृशो ऽयं श्रमणः प्रासादिकः प्रदर्शनीयः सकलजनमनोहारी, दुर्लभस्तु सर्वस्त्रीजनस्य पतिः प्रतिरूपः प्रागेव अनुपमायाः।
446.022. लब्धो मे जामातेति।
446.022. येन स्वं निवेशनं तेनोपसंक्रान्तः।
446.022. उपसंक्रम्य पत्नीमामन्त्रयते--यत्खलु भद्रे जानीयाह्--लब्धो मे दुहितुर्जामाता।
446.023. अलंकुरुष्व, अनुपमां ददामीति।
446.024. सा कथ्यति--कस्य प्रयच्छसीति? स कथयति--श्रमणस्य गौतमस्येति।
446.024. सा कथयति--गच्छावस्तावत्पश्याव इति।
446.025. माकन्दिकस्तया सार्धं गतः।
446.025. दूरात्तया दृष्टः।
446.025. तस्या अन्तर्मार्गे स्मृतिरुपपन्ना।
446.026. गाथां भाषते--
446.027. दृष्टो मया विप्र स पिण्डहेतोः कल्माषदम्ये विचरन्महर्षिः।
446.029. भूरत्नभा सन्ति तस्य प्रगच्छतो ऽत्युन्नमते न चैव(?)
446.031. नासौ भक्तां भजते कुमारिकाम्।
446.031. निवर्त, यास्यामः स्वकं निवेशनम्।
446.031. सो ऽपि गाथां भासते--
447.001. <447>अमङ्गले साकलिके त्वं मांगलयकाले वदसे ह्यमङ्गलम्।
447.003. सचेद्द्रुत समधिकृतं भविष्यति पुनरप्यसौ कामगुण्येषु रंस्यते
इति।
447.005. सा आनुपमां वस्त्राम्लकारैरलंकृत्य संप्रस्थिता।
447.005. भगवानपि तस्नाद्वनषण्डादन्यवनषण्डं संप्रस्ह्तितः।
447.006. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं तृणसंस्तरणकम्।
447.006. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--यत्खलु भवति जानीयाह्--एष ते दुहितुस्तृणसंस्तरक इति।
447.007. सा गाथां भाषते--
447.009. रक्तस्य शय्या भवततिविकोपिता द्विष्टस्य शय्या सहसा निपीडिता।
447.011. सूढस्य शय्या खलु पादतो गता सुवीतरागेण निसेविता न्वियम्।
447.013. नासौ भर्ता भजते कुमारिकां निर्वत, यास्यामः स्वं निवेशनम्
447.015. अमङ्गले साकलिके त्वं मङ्गल्यकाले वदसे ह्यमङ्गलम्।
447.017. साचेद्द्रुतं समधिकृतं भविष्यति पुनरप्यसौ कामगुणेषु रंस्यते
447.019. अद्राक्षीन्माकन्दिकः परिव्राजकः।
447.019. भगवतः पदानि दृष्ट्वा पुनः पत्नीमामन्त्रयते--इमानि ते भवन्ति भद्रे दुहितुर्जामातुः पदानि।
447.020. गाथां भाषते--
447.021. रक्तस्य पुंसः पदमुत्पटं स्यान्निपीडितं द्वेषवतः पदं च।
447.023. पदं हि मूढस्य विसृष्टदेहं सुवीतरागस्य पदं त्विहेदृशम्।
447.025. नासौ भर्ता भजते कुमारिकाम्।
447.026. निवर्त, यास्यामः स्वकं निवेशनम्
447.027. अमङ्गले साकलिके पूर्ववत्।
447.028. भगवतोत्कशशब्दः कृतः।
447.028. अश्रौषीन्माकन्दिकः परिव्राजको भगवत उत्काशनशब्दं शुश्राव।
447.029. श्रुत्वा च पुनः पुनः पत्नीमामन्त्रयते--एष ते भवति हुहितुर्जामातुरुत्काशनशब्द इति।
447.030. सा गाथां भाषते--
447.031. रक्तो नरो भवति हि गददस्वरो द्विष्टो नरो भवति हि खक्खटास्वरः।
448.001. <448>मूढो नरो हि भवति समाकुलस्वरो बुद्धो ह्ययं ब्राह्मणदुन्दुभिस्वरः।
448.003. नासौ भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्
448.005. अमङ्गले साकलिके पूर्ववत्।
448.006. भगवता माकन्दिकः परिव्राजको दूरादिवलोकितः।
448.006. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तमवलोकयन्तम्।
448.007. दृष्ट्वा च पुनः पत्नीमामन्त्रयते स्म--एष ते भवति दुहितुर्जामाता निरीक्षत इति।
448.008. स गाथां भाषते--
448.009. रक्तो नरो भवति हि चञ्चलेक्षणो द्विष्टो भुजगघोरविषो यथेक्षते।
448.011. मूडो नरः संतमसीव पश्यति द्विजवीतरागो युगमात्रदर्शी।
448.013. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्
448.015. अमङ्गले साकलिके पूर्ववत्।
448.016. भगवांश्चक्रम्यते।
448.016. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं चंक्रम्यमाणम्।
448.017. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--एष दुहितुर्जामाता चंक्रम्यत इति।
448.017. सा गाथां भाषते--
448.018. यथास्य तेत्रे च यथावलेकितम् यथास्य काले स्थित एव गच्छतः।
448.020. यथैव पद्मं स्तिमिते जले ऽस्य नेत्रं विशिष्टे वदने विराजते।
448.022. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्
448.024. अमङ्गले साकलिके त्वं मङ्गलकाले वदसे ह्यमङ्गलम्।
448.026. सचेद्द्रुतं समधिकृतं भविष्यति पुनरप्ययं कामगुणेषु रंस्यते
448.028. वशिष्ठोशीरमौनलायना(?) अपत्यहेतोरतत्काममोहिताः।
448.030. धर्मो मुनीनां हि सनातनो ह्ययमपत्यमुत्पादितवान् सनातनः
449.001. अथ माकन्दिकः परिव्राजको येन भगवांस्तेनोपसंक्रान्तः।
449.001. उपसंक्रम्य भगवन्तमिदमवोचत्--
449.003. इमां भगवान् पश्यतु मे सूतां सतीं रूपोपपन्नां प्रमदामलंकृताम्।
449.005. कामार्थिनीम् यद्भवते प्रदीयते सहानया साधुरिवाचरतां भवान्।
449.007. समेत्य चन्द्रो नभसीव रोहिणीम्
449.008. भगवान् संलक्षयति--यद्यहमनुपमाया अनुनयवचनं ब्रूयाम्, स्थानमेतद्विद्यते यदनुपमा रागेण स्विन्ना कालं कुर्वाणा भविष्यति।
449.009. तत्तस्याः प्रतिघवचनं ब्रूयामिति विदित्वा गाथां भाषते--
449.011. दृष्टा मया मारसुता हि विप्र तृष्णा न मे नापि तथा रतिश्च।
449.013. छन्दो न मे कामगुणेषु कश्चित्।
449.014. तस्मादिमां मूत्रपुरीषपूर्णां प्रष्टुं हि यत्तामपि नोत्सहेयम्
449.016. माकन्दिको गाथां भाषते--
449.017. सुतामिमां पश्यसि किं मदीयां हीनाङ्गिनीं रूपगुणैर्वियुक्ताम्।
449.019. छन्दं न येनात्र करोषि चारौ विविक्तभावेष्विव कामभोगी
इति।
449.021. भगवानपि गाथां भाषते--
449.022. यस्मादिहार्थी विषयेषु मूटः स प्रार्थयेद्विप्र सुतां तवेमाम्।
449.024. रूपोपपन्नां विषयेषु सक्तामवीतरागो ऽत्र जनः प्रमूडः
449.026. अहं तु बुद्धो मुनिसत्तमः कृती प्राप्ता मया बोधिरनुत्तरा शिवा।
449.028. पद्मम् यथा वारिकणैरलिप्तं चरामि लोके ऽनुपलिप्त एव
449.030. नीलाम्बुजं कर्दमवारिमध्ये यथा च पङ्केन व नोपलिप्तम्।
449.032. तथा ह्यहं ब्राह्मण लोकमध्ये चरामि कामेषु विविक्तह् {एव}
इति।
450.001. अथानुपमा भगवता मूत्रपुरीषवादेन समुदाचरिता वीतहर्षा दुर्मनाः संवृत्ता।
450.001. तस्या यद्रागपर्यवस्थानं तद्विगतम्, द्वेषपर्यवस्थानमुत्पन्नम्, स्थूलीभूतार्यस्थीतिकावरीभूतेक्षिणी(?)।
450.003. तेन स खलु समयेनान्यतमो महल्लो, भगवतः पृष्ठतः स्थितो ऽभूत्।
450.003. अथ महल्लो भगवन्तमिदमवोचत्--
450.005. समन्तदृष्टे प्रतिगृह्य नारीमस्मत्समेतां भगवन् प्रयच्छ।
450.007. रता वयं हि प्रमदामलंकृतां भोक्ष्यामहे घीर यथानुलोमम्
इति।
450.009. एवमुक्ते भगनांस्तं महल्लमिदमवोचत्--अपेहि पुरुष, मा मे पुरतस्तिष्ठेति।
450.009. स रुषितो गाथां भाषते--
450.011. इदं च ते पात्रमिदं च चीवरम् यष्टिश्च कुण्डी च व्रजन्तु निष्ठाम्।
450.013. इमां च शिक्षां स्वयमेव धारय धात्री यथा ह्यङ्कगतं कुमारकम्
इति।
450.015. एवमुक्ते स महल्लः शिक्षां प्रत्याख्याय महाननार्यो ऽयमिति मत्वा येन माकन्दिकः परिव्राजकस्तेनोपसंक्रान्तः।
450.016. उपसंक्रम्य माकन्दिकं परिव्राजकमिदमवोचत्--अनुप्रयच्छममान्तिके ऽनुपमामिति।
450.017. स पर्यवस्थितः कथयति--महल्ल, द्रष्टमपि ते न प्रयच्छामि, प्रागेव स्पर्च्टुमिति।
450.018. एवमुक्तस्य माकन्दिकस्य परिव्राजकस्यान्तिके तादृशं पर्यवस्थानमुपन्नम् येनोष्णं शोणितं छर्दयित्वा कालगतो नरकेषूपपन्नः॥
450.020. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, भगवता अनुपमा लभ्यमाना न प्रतिगृहीतेति।
450.021. भगवानाह--न भिक्षव एतर्हि, यथा अतीते ऽप्यध्वन्येषा मया लभ्यमाना न प्रतिगृहीता।
450.022. तच्छ्रूयताम्॥
450.023. भूतपूर्वं भिक्षवो ऽन्यतमस्मिङ्कर्वटके ऽयस्कारः प्रतिवसति।
450.023. तेन सदृशात्कुलात् कलत्रमानीतम्।
450.024. पूर्ववद्यावद्दुहिता जाता अभिरूपा दर्शनीया प्रासादिका।
450.024. उन्नीता वर्धिता महानीतं संवृत्ता।
450.025. अयस्कारः संलक्षयति--मयैषा दुहिता न कस्यचित् कुलेन दातव्या, न रूपेण न धनेन, अपि तु यो मम शिल्पेन समो ऽभ्यधिको वा, तस्याहमेनां दास्यामीति।
450.027. याअवदन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः।
450.027. सा दारिका भैक्षमादाय निर्गता।
450.027. स माणवस्तां दृष्ट्वा कथयति--दारिके, त्वं कस्यचिद्दत्ता आहोस्विन्न दत्तेति? सा कथयति--यदा जाताहं तदैव मत्पितैवाङ्गीकृत्य वदति--दुष्करमसौ मां कस्यचिद्दास्यति।
450.029. किं तव पिता वदति? यो मम शिल्पेन समो ऽभ्यधिको वा, अस्याहमेनां दास्यामीति।
450.030. तव पिता कीदृशं शिल्पं जानीते? सूचीमीदृशां करोति यावदुदके प्लवते।
450.031. स माणवः संलक्षयति--किं चाप्यहमनयानर्थी, मदापनयो ऽस्य कर्तव्य इति।
450.032. कुशलो ऽसौ तेषु तेषु शिल्पस्थानकर्मस्थानेषु।
451.001. <451>तेनायस्कारभाण्डिकाम् याचित्वा अन्यत्र गृहे सुसूक्ष्माः सूच्यो घटिताः, या उदके प्लवन्ते।
451.002. एका च महती घटिता यस्यां सप्त सूच्यः प्रतिक्षिप्ताः सह तया प्लवन्ते।
451.002. स ताः कृत्वा तस्यायस्कारस्य गृहमागतः।
451.003. स कथयति--सूच्यः सूच्य इति।
451.003. तया दारिकया दृष्टाः।
451.003. सा गाथां भाषते--
451.005. उन्मत्तकस्त्वं कटुको ऽथ वासि अचेतनः।
451.006. अयस्कारगृहे यस्त्वं सूचीं विक्त्रेतुमागतः
इति।
451.007. सो ऽपि गाथां भाषते--
451.008. नाहमुन्मत्तको वास्मि कटुको ऽहमचेतनः।
451.009. मानावतारणार्थं तु मया शिल्पं प्रदृश्यते
451.010. सचेत्पिता ते जानीयाच्छिल्पं मम हि यादृशम्।
451.011. त्वां चैवानुप्रयच्छेत अन्यच्च विप्रतम् (विपुलम्?) धनम्
इति।
451.012. सा कथयति--कीदृशं त्वं शिल्पं जानीषे? ईदृषीं सूचीं करोमि योदके प्लवते।
451.013. तया मातुर् निवेदितम्--अम्ब, शिल्पकर्मात्रागत इति।
451.013. सा कथयति--प्रवेशयेति।
451.013. तया प्रवेशितः।
451.014. अयस्कारभार्या कथयति--कीदृशं त्वं शिल्पं जानीषे? तेन समाख्यातम्।
451.014. तया स्वामिने निवेदितः।
451.015. आर्यपुत्र, अयं शिल्पदारकः।
451.015. ईदृशं जानीत इति।
451.015. स कथयति--यद्येवमानय पानीयम्, पश्यामीति।
451.016. तया पानीयस्य भाजनं पूरयित्वोपनामितम्।
451.016. तेनैका सूची प्रक्षिप्ता।
451.017. सा प्लोतुमारब्धा।
451.017. एवं द्वितीया, तृतीया।
451.017. ततः सा महती सूची प्रक्षिप्ता।
451.017. सापि प्लोतुमारब्धा।
451.018. पुनस्तस्यामेका सूची प्रक्षिप्ता।
451.018. तथापि प्लोतुमारब्धा।
451.018. एवं द्वितीयां तृतीयाम् यावत् सप्तसूचीं प्रक्षिप्य प्रक्षिप्तास्तथापि प्लोतुमारब्धाः।
451.019. अयस्कारः संलक्षयति--ममैषो ऽधिकतरः शिल्पेन।
451.020. अस्मै दुहितरमनुप्रयच्छाम्।
451.020. इति विदित्वा तां दारिकां सर्वालंकारविभूषितां कृत्वा वामेन पाणिना गृहीत्वा दक्षिणेन पाणिना भृङ्गारकमादाय माणवस्य पुरतः स्थित्वा कथयति--इमां ते ऽहं माणवक दुहितरमनुप्रयच्छामि भार्यार्थायेति।
451.022. स कथयति--नाहमनयार्थी, किं तु तवैव मदापनयः कर्तव्य इति मया शिल्पमुपदर्शितमिति॥
451.024. भगवानाह--किं मन्यध्वे भिक्षवो यो ऽसौ माणवः, अहमेव स तेन कालेन तेन समयेन।
451.025. यो ऽसावयस्कारः, एष एव माकन्दिकस्तेन कालेन तेन समयेन।
451.025. यासावयस्कारभार्या, एषैवासौ माकन्दिकभार्या तेन कालेन तेन समयेन।
451.026. यासावयस्कारदुहिता, एषैवासावनुपमा तेन कालेन तेन समयेन।
451.027. तदाप्येषा मया लभ्यमाना न प्रतिगृहीता।
451.028. एतर्ह्यप्येषा मया लभ्यमाना न प्रतिगृहीता॥
451.029. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त अयं महल्लको ऽनुपमामागम्यानयेन व्यसनमापन्न इति।
451.030. भगवानाह--भिक्षव एतर्हि यथातीते ऽप्यध्वन्येष अनुपमामागम्य सान्तःपुरो ऽनयेन व्यसनमापन्नः।
451.031. तच्छ्रूयताम्॥
452.001. <452>भूतपूर्वं भिक्षवः सिंहकल्पायां सिंहकेसरी नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनं पूर्ववद्यावद्धर्मेण राज्यं कारयति।
452.002. तेन खलु समयेन सिंहकल्पायां सिंहको नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहः पूर्ववद्यावत्तेन कलत्रमानीतम्।
452.004. सा आपन्नसत्त्वा संवृत्ता।
452.004. न चास्याः किंचिदमनो ऽज्ञशब्दश्रवणम् यावद्गर्भस्य परिपाकाय।
452.005. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता।
452.005. दारको जातह् अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णह् छत्राकारशिराः प्रलम्बबाहुर्विद्तीर्णललाट उच्चघोण संगतभ्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः।
452.007. तस्य त्रीणि सप्तकान्येकविंशतिं दिवसान् विस्तरेण तस्य जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति? ज्ञातय ऊचुह्--अयं दारकः सिंहस्य सार्थवहस्य पुत्रः।
452.009. भवतु सिंहल इति नाम।
452.009. तस्य सिंहल इति नामधेयं व्यवस्थापितम्।
452.010. सिंहलो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः पूर्ववद्यावदष्टासु परीक्षासु घटको वाचकः पिण्डितः पटुप्रचारः संवृत्तः।
452.011. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
452.012. त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्।
452.013. सो ऽपरेण समयेन पितरमाह्वयते--तात, अनुजानीहि, महासमुद्रमवतरामीति।
452.014. स कथयति--पुत्र, तावत्प्रभूतं मे धनजातमस्ति यदि त्वं तिलतण्डुलकुलत्थादिपरिभोगेन रत्नानि मे परिभोक्ष्यसे, तथापि मे भोगा न तनुत्वं परिक्षयं पर्यादानं गमिष्यन्ति।
452.015. तद्यावदहं जीवामि, तावत् क्रीड रमस्व परिचारय।
452.016. ममात्ययाद् धनेनोपार्जितं करिष्यसीति।
452.016. स भूयो भूयः कथयति--तात, अनुजानीहि, महासमुद्रमवतरामीति।
452.017. स तेनावश्यनिर्बन्धं ज्ञात्वा उक्तह्--पुत्र, एवं कुरु।
452.018. किं तु भयभैरवसहिष्णुना ते भवितव्यमिति।
452.018. तेन सिंहकल्पायां राजधान्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सिंहकल्पनिवासिनो वणिजो नानादेशाभ्यागताश्च।
452.020. सिंहलसार्थवाहो महासमुद्रमवतरिष्यतीति।
452.020. यो युष्माकमुत्सहते सिंहलेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयत्विति।
452.022. ततः पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्।
452.022. मातापितरौ भृत्यांश्च सुहृत्सम्बन्धिबान्धवानवलोक्य दिवसतिथिमुहूर्तप्रयोगेण कृतकौतुकम.ङ्गलस्वस्त्ययनः शकटैर्भारैः पिटकैर् मूटैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यमादाय पञ्चभिर्वणिक्शतैः सपरिवारः संप्रस्थितः।
452.025. सो ऽनुपूर्वेण ग्रामनगरनिगमराष्ट्राजधानीषु चञ्चूर्यमाणः पत्तनान्यवलोकयन् समुद्रतीरमनुप्राप्तः।
452.026. विस्तरेण राक्षसीसूत्रं सर्वं वाच्यम्।
452.026. सर्वे ते वणिजो बालहाश्वराजात्पतिताः, ताभिश्च राक्षसीभिर्भक्षिताः।
452.027. सिंहलक एकः स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्राप्तः।
452.028. सिंहलभार्या या राक्षसी सा राक्षसीभिरुच्यते--भगिनि, अस्माभिः स्वकस्वकाः स्वामिनो भिक्षिताः, त्वया स्वामी निर्वाहितः।
452.029. यदि तावत्तमानयिष्यसीत्येवं कुशलम्, नो चेत्वां भक्षयाम् इति।
452.030. सा संत्रस्ता कथयति--यदि युष्माकमेष निर्बन्धो मां धरिष्यथ आनयामीति।
452.031. ताः कथयन्ति--शोभनम्।
452.031. एवं कुरुष्वेति।
452.031. सा परमभीषणरूपमभिनिर्माय लघुलध्वेव गत्वा सिंहलस्य सार्थवाहस्य पुरतो गत्वा स्थिता।
452.032. सिंहलेन सार्थवहेन निष्कोषमसिं कृत्वा <453>संत्रासिता अपक्रान्ता।
453.001. यावन्मध्यदेशात् सार्थ आगतः।
453.001. सा राक्षसी सार्थवाहस्य पादयोर् निपत्याह--सार्थवाह, अहं ताम्रद्वीपकस्य राज्ञो दुहिता।
453.002. तेनाहं सिंहलसार्थवाहस्य भार्यार्थं दत्ता।
453.003. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्।
453.003. तेनाहममङ्गलेति कृत्वा छोरिता।
453.004. तदर्हसि तं ममोपसंवरयितुमिति।
453.004. तेनाधिवासितं क्षमापयामीति।
453.004. स तस्य सकाशं गतः।
453.005. विश्रम्भकथालापेन मुहूर्तं स्थित्वा कथयति--वयस्य, राजदुहितासौ त्वया परिणिता।
453.006. मा तामस्थाने परित्यज, क्षमस्वेति।
453.006. स कथयति--वयस्य, नासौ राजदुहिता, ताम्रद्वीपादसौ राक्षसी।
453.007. अथ कथमिहागता? तेन वृत्तमारोचितम्।
453.007. स तूष्णीमवस्थितः।
453.008. सिंहलः सार्थवाहो ऽनुक्रमतः स्वगृहमनुप्राप्तः।
453.008. सापि राक्षसी स्वयमतीवरूपयौवनसम्पन्नमहासुन्दरीमानुषीरूपमास्थाय सिंहलसदृशनिर्विशेषसुन्दरं पुत्रं निर्माय तं पुत्रमादाय सिंहकल्पां राजधानीमनुप्राप्ता।
453.010. सिंहलस्य सार्थवाहस्य स्वगृहद्वारमूले ऽवस्थिता।
453.010. जनकायेनासौ मुखबिम्बकेन प्रत्यभिज्ञातः।
453.011. ते कथयन्ति--भवन्तः, ज्ञायन्तामयं दारकः सिंहलस्य सार्थवाहस्य पुत्र इति।
453.012. राक्षसी कथयति--भवन्तः, परिज्ञातो युष्माभिः।
453.012. तस्यैवायं पुत्र इति।
453.013. ते कथयन्ति--भगिनि, कुत आगता, कस्य वा दुहिता त्वमिति? सा कथयति--भवन्तः, अहं ताम्रद्वीपराजस्य दुहिता सिंहलस्य सार्थवाहस्य भार्यार्थं दत्ता।
453.014. महासमुद्रमध्यगतस्य सार्थवाहस्य मत्स्यजातेन यानपात्रं भग्नम्।
453.015. तेनाहममङ्गलेति कृत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता।
453.016. क्षुद्रपुत्राहम्।
453.016. अर्हथ सिंहलं सार्थवाहं क्षमयितुमिति।
453.016. तैस्तस्य मातापित्रोर् निवेदितम्।
453.017. स ताभ्यामुक्तह्--पुत्र, मैनाम् {त्यज}दुहितरं राज्ञः, क्षुद्रपुत्रेयं तपस्विनी, क्षमेति।
453.018. स कथयति--तात, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति।
453.018. तौ कथयतह्--पुत्र, सर्वा एव स्त्रियो राक्षस्यः।
453.019. क्षमेति।
453.019. तात, यद्येषा युष्माकमभिप्रेता, एतां गृहे धारयत।
453.020. अहमप्यन्यत्र गच्छामीति।
453.020. तौ कथयतह्--पुत्र, सुतरां वयमेनां तवैवार्थाय धारयामः।
453.020. यद्येषा तव नाभिप्रेता, किमस्माकमनया? न धारयाम इति।
453.021. ताभ्यां निष्कासिता।
453.021. सा सिंहकेसैणो राज्ञः सकाशं गता।
453.022. अमात्यै राज्ञो निवेदितम्--देव, ईदृशी रूपयौवनसम्पन्ना स्त्री राजद्वारे तिष्ठतीति।
453.023. राजा कथयति--प्रवेशयेति।
453.023. पश्याम इति।
453.023. सा तैः प्रवेशिता।
453.023. हारिणीन्द्रियाणि।
453.024. राजा तां दृष्ट्वा रागेनोत्क्षिप्तः।
453.024. स्वागतवादसमुदाचारेण तां समुदाचर्य कथयति--कुतः कथमत्रागता, कस्य वा त्वमिति।
453.025. सा पादयोर् निपत्य कथयति--देव, अहं ताम्रद्वीपकस्य राज्ञो दुहिता सिंहलस्य सार्थवाहस्य भार्वार्थं दत्ता।
453.026. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्।
453.027. तेनाहममङ्गलेति श्रुत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता।
453.028. क्षुद्रपुत्राहम्।
453.028. तदर्हसि देव तमेव सिंहलं सार्थवाहं क्षमापयितुमर्हसि।
453.028. तेन राज्ञा समाश्वासिता।
453.029. अमात्यानामाज्ञा दत्ता--गच्छन्तु भवन्तः, सिंहलं सार्थवाहं शब्दयतेति।
453.029. तैरसौ शब्दितः।
453.030. राजा कथयति--सिंहल, एनां राजादुहितरं धारय, क्षमस्वेति।
453.030. स कथयति--देव, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति।
453.031. राजा कथयति--सार्थवाह, सर्वा एव स्त्रियो राक्षस्यः, क्षमस्व।
453.032. अथ तव नाभिप्रेता, ममानुप्रयच्छेति।
453.032. सार्थवाहः कथयति--देव, <454>राक्षस्येषा।
454.001. नाहं ददामि, न वरयामीति।
454.001. सा राज्ञा अन्तःपुरं प्रवेशिता।
454.001. तया राजा वशीकृतः।
454.002. यावदपरेण समयेन राज्ञः सान्तःपुरस्यास्वापनं दत्वा तासां राक्षसीनां सकाशं गत्वा कथयति--भगिन्यः, किम् युष्माकं सिंहलेन सार्थवाहेन? मया सिंहकेसरिणो राज्ञः सान्तःपुरस्यास्वापनं दत्तम्।
454.004. आगच्च्छत, तं भक्षयाम इति।
454.004. ता विकृतकरचरणनासाः परमभैरवमात्मानमभिनिर्माय रात्रौ सिंहकल्पमागताः।
454.005. ताभिरसौ राजा सान्तःपुरपरिवारो भक्षितः।
454.006. प्रभातायां राजन्यां राजद्वारं न मुच्यते।
454.006. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रामितुमारब्धाः।
454.007. अमात्या भटबलाग्रनैगमजनपदाश्च राजद्वारे तिष्ठन्ति।
454.007. एष शब्दः सिंहकल्पायां राजधान्यां समन्ततो विसृतह्--राजद्वारं न मुच्यते।
454.008. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रमन्ति।
454.009. अमात्या भटबलग्रं नैगमजनपदाश्च राजद्वारे तिष्ठन्तीति।
454.010. सिंहलेन सार्थवाहेन श्रुतम्।
454.010. स त्वरितत्वरितं खङ्गमादाय गतः।
454.010. स कथयति--भवन्तः, क्षमं चिन्तयत।
454.011. तया राक्षस्या राजा खादित इति।
454.011. अमात्याः कथयन्ति--कथमत्र प्रतिपत्तव्यमिति? स कथयति--निश्रयणीमानयत, पश्यामीति।
454.012. तैरानीता।
454.012. सिंहलः सार्थवाहः खङ्गमादाय निरूठः।
454.013. तेन ताः संत्रासिताः।
454.013. तासां काश्चिद्धस्तपादानादाय निष्पलायिताः, काश्चिच्छिरः।
454.014. ततः सिंहलेन सार्थवाहेन राजकुलद्वाराणि भुक्तानि।
454.014. अमात्यै राजकुलं शोधितम्।
454.015. पौरामात्यजनपदाः संनिपत्य कथयन्ति--भवन्तः, राजा सान्तःपुरपरिवारो राक्षसीभिर्भक्षितः।
454.016. कुमारो नास्य, कमत्राभिषिञ्चाम इति? तत्रैके कथयन्ति--यः सात्त्विकः प्रज्ञश्चेति।
454.017. अपरे कथयन्ति--सिंहलात्सार्थवाहात् को ऽन्यः सात्त्विकः प्रज्ञश्च? सिंहलं सार्थवाहमभिषिञ्चाम इति।
454.018. एवं कुर्मः।
454.018. तैः सिंहलः सार्थवाह उक्तह्--सार्थवाह, राज्यं प्रतीच्छेति।
454.019. स कथयति--अहं वणिक्संव्यवहारोपजीवी।
454.019. किं मम राज्येनेति? ते कथयन्ति--सार्थवाह, नान्यः शक्नोति राज्यं धारयितुम्।
454.020. प्रतीच्छेति।
454.020. स कथयति--समयेन प्रतीच्छामि यदि मम वचनानुसारिणो भवथ।
454.021. प्रतीच्छ, भवामः, शोभनं ते।
454.021. तौरसौ नगरशोभां कृत्वा महता सत्कारेण राज्ये ऽभिषिक्तः।
454.022. तेन नानादेशनिवासिनो विद्यावादिका आहूय भूयस्या मात्रया विद्या शिक्षिता, एवमिष्वस्त्राचार्या इष्वस्त्राणि।
454.023. अमात्यानां चाज्ञा दत्ता--सज्जीक्रियतां भवन्तश्चतुरङ्गबलकायं संनाहितम्।
454.025. सिंहलो राजा चतुरङ्गाद्बलकायाद्वरवराङ्गान् हस्तिनो ऽश्वान् रथान् मनुष्याश्च वहनेष्वरोप्य ताम्रद्वीपं संप्रस्थितः।
454.026. स्नुपूर्वेण समुद्रतीरमनुप्राप्तः।
454.026. तासां रक्षसीनामापणस्थानीयो ध्वजः कम्पितुमारब्धः।
454.027. ताः संजल्पं कर्तुमारब्धाह्--भवत्यः, आपणस्थानीयो ध्वजः कम्पते।
454.028. नूनं जाम्बुद्वीपका मनुष्या युद्धभिनन्दिन आगताः।
454.029. समन्वेषाम इति।
454.029. ताः समुद्रतीरं गताः।
454.029. यावत् पश्यन्ति अनेकशतानि यानपात्राणि समुद्रतीरमनुप्राप्तानि।
454.030. दृष्ट्वा च पुनस्ता अर्धेन प्रत्युद्गताः।
454.030. ततो विद्याधारिभिराविष्टा इष्वस्त्राचार्यैः संप्रघातिताः।
454.031. अवशिष्टाः सिंहलस्य राज्ञः पादयोर् निपत्य कथयन्ति--देव, क्षमस्वेति।
454.032. स कथयति--समयेन क्षमे, यदि यूयमेतन्नगरमुत्कीलयित्वा अन्यत्र गच्छथ, न च मद्विजिते <455>कस्यचिदपराध्यथेति।
455.001. ताः कथयन्ति--देव, एवं कुर्मः।
455.001. शोभनम्।
455.001. तं नगरमुत्कीलयित्वा अन्यत्र गत्वावस्थिताः।
455.002. सिंहलेनापि राज्ञा आवासितमिति सिंहलद्वीपः सिंहलद्वीप इति संज्ञा संवृत्ता॥
455.004. किं मन्यध्वे भिक्षवो यो ऽसौ सिमिहलः, अहमेव स तेन कालेन तेन समयेन।
455.004. यो ऽसौ सिंहकेसरी राजा, एष एव स महल्लस्तेन कालेन तेन समयेन।
455.005. या सा राक्षसी, एषैवानुपमा तेन कालेन तेन समयेन।
455.006. तदाप्येच अनुपमाया अर्थे अनयेन व्यवसनमापन्नः।
455.006. एतर्ह्यप्येष अनुपमाया अर्थे अनयेन व्यसनमापन्नः॥
455.008. माकन्दिकः परिव्राजको ऽनुपमामादाय कौशाम्बीं गतः।
455.008. अन्यतमस्मिन्नुद्याने ऽवस्थितः।
455.009. उद्यानपालकपुरुषेण राज्ञ उदयनस्य वत्सराजस्य निवेदितम्--देव, स्त्री अभिरूपा दर्शनीया प्रासादिका उद्याने तिष्ठति।
455.010. देवस्यैषा योग्येति श्रुत्वा राजा तदुद्यानं गतः।
455.011. तेनासौ दृष्टा।
455.011. हारीणीन्द्रियाणि।
455.011. सहदर्शनादेवाक्षिप्तहृदयः।
455.011. तेन माकन्दिकः परिव्राजक उक्तह्--कस्येयं दारिका? स आह--देव, मद्दुहिता देव, न कस्यचिद्।
455.012. मम कस्मान्न दीयते? देव, दत्ता भवतु राज्ञः।
455.013. शोभनम्।
455.013. महाराजस्य बहवः पण्यपरिणीताः।
455.013. तस्य पुष्पदन्तस्य परिणीता।
455.014. तस्याः पुष्पदन्तस्य प्रासादस्यार्थं दत्तम्, पञ्चोपस्थायिकाशतानि दत्तानि, पञ्च च कार्षापणशतानि दिने दिने गन्धमाल्यनिमित्तम्।
455.015. माकन्दिकः परिव्राजको ऽग्रामात्यः स्थापितः।
455.016. तेन खलु पुनः समयेनोदयनस्य राज्ञस्त्रयो ऽग्रामात्या योगन्धरायणो घोषिलो माकन्दिक इति।
455.017. यावदपरेण समयेन उदयनस्य राज्ञः पुरुष उपसंक्रान्तः।
455.017. राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव प्रियाख्यायीति।
455.018. अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छत प्रियाख्यायिनो वृत्तिमिति।
455.019. तैस्तस्य वृत्तिर्दत्ता।
455.019. यावदपरः पुरुष उपसंक्रान्तः।
455.019. सो ऽपि राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव अप्रियाख्यायीति।
455.020. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छताअस्याप्यप्रियाख्यायिनो वृत्तिमिति।
455.021. ते कथयन्ति--मा कदाचिद्देवो ऽप्रियं शृणुयात्।
455.021. स कथयति--भवन्तः, विस्तीर्णानि राजकार्याणि।
455.022. प्रियच्छतेति।
455.022. तैस्तस्यापि वृत्तिर्दत्ता।
455.022. यावदपरेण समयेन राजा उदयनः श्यामावती अनुपमा चैकस्मिन् स्थाने तिष्ठन्ति।
455.023. तदा राज्ञा क्षुतं कृतम्।
455.024. श्यामावत्योक्तम्--नमो बुद्धायेति।
455.024. अनुपमया नमो देवस्येति।
455.024. अनुपमा कथयति--महाराज, श्यामाअवती देवस्य सन्तकं भक्तं भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति।
455.026. राजा कथयति--अनुपमे, नात्र ह्येवम्।
455.026. श्यामावत्युपासिका।
455.026. अवश्यं श्रमणस्य गौतमस्य नमस्कारं करोतीति।
455.027. सा तूष्णीमवस्थिता।
455.027. तस्याः प्रेष्यदारिका उक्ता--दारिके, यदा देवः श्यामावती अहं च रहसि तिष्ठेम, तदा त्वं सोपानके कांसिकां पातयिष्यसीति।
455.029. एवमस्त्विति।
455.029. तया तेषां रहस्यवस्थितानां सोपानके कांसिका पातिता।
455.029. श्यामावत्योक्तम्--नमो बुद्धायेति।
455.030. अनुपमा नमो देवस्येत्युक्त्वा कथयति--देवस्य सन्तकं भवती भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति।
455.031. राजा कथयति--अनुपमे, अत्र मा संरम्भं कुरु, उपासिकैषा, नात्र दोष इति।
455.032. राजा उदयन एकस्मिन् दिवसे श्यामावत्या सकाशम् <456>भुङ्क्ते, द्वितीयदिवसे ऽनुपमायाः।
456.001. राज्ञा शाकुनिकस्याज्ञा दत्ता--यस्मिन् दिवसे श्यामावत्या भोजनवारः, तस्मिन् दिवसे जीवन्तः कपिंजला आनेतव्या इति।
456.002. शाकुनिकेन जीवन्तः कपिंजला राज्ञ उपनीताः।
456.003. राजा कथयति--अनुपमायाः समर्पयेति।
456.003. अनुपमया श्रुतम्।
456.004. सा कथयति--देव, न मम वारः।
456.004. श्यामावत्या वार इति।
456.004. राजा कथयति--गच्छ भोः पुरुष, श्यामावत्याः समर्पयेति।
456.005. तेन श्यामावत्याः सकाशमुपनीतह्--देवस्यार्थाय साधयेति।
456.005. सा कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पते।
456.006. गच्छेति।
456.006. तेन राज्ञे गत्वा निवेदितम्--देव, श्यामावती कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पते।
456.008. गच्छेति।
456.008. अनुपमा श्रुत्वा कथयति--देव, यद्यसावुच्यते श्रमणस्य गौतमस्यार्थाय साधयेति साम्प्रतं सपरिवारा साधयेत्।
456.009. राजा संलक्षयति--स्यादेवम्।
456.009. तेनासौ पुरुष उक्तह्--गच्छ भोः पुरुष, एवं वद--भगवतो ऽर्थाय साधयेति।
456.010. संप्रस्थितो ऽनुपमया प्रच्छन्नमुक्तह्--प्रघातयित्वानयेति।
456.011. तेन प्रघातयित्वा श्यामावत्या उपनीताः।
456.011. देव कथयति--भगवतो ऽर्थाय साधयेति।
456.012. सा सपरिवारा उद्युक्ता।
456.012. शाकुनिकेन गत्वा राज्ञे निवेदितम्--सा देव सपरिवारा उद्युक्तेति।
456.013. अनुपमा कथयति--श्रुतं देवेन? यदि तावत्प्राणातिपातो न कल्पते, श्रमणस्यार्थाय न कल्पते, देवस्यापि कल्पते? देवस्य न कल्पते इति कुत एतत्? राजा पर्यवस्थितो धनुः पूरयित्वा संप्रथितः।
456.015. मितामित्रमध्यमो लोकः।
456.015. अपरया श्यामावत्या निवेदितम्--देवो ऽत्यर्थं पर्यवस्थितो धनुः पूरयित्वा आगच्छति, क्षमयेति।
456.016. तया स्वोपनिषदुक्ता--भगिन्यः, सर्वा यूयं मैत्रीं समापद्यध्वमिति।
456.017. ताः सर्वा मैत्रीसमापन्नाः।
456.018. राज्ञा आ कर्णाद्धनुः पूरयित्वा शरः क्षिप्तः।
456.018. सो ऽर्धमार्गे पतितः।
456.018. द्वितीयः क्षिप्तः।
456.018. स निवर्त्य राज्ञः समीपे पतितः।
456.019. तृतीयं क्षेप्तुमारब्धः।
456.019. श्यामावती कथयति--देव, मा क्षेप्स्यसि।
456.019. मा सर्वेण सर्वं न भविष्यतीति।
456.020. राजा विनीतः कथयति--त्वं देवी नागी यक्षिणी गन्धर्वी किन्नरी महोरगीति? सा कथयति--न।
456.021. अथ का त्वम्? भगवतः श्राविका अनागामिनी।
456.021. मय भगवतो ऽन्तिके ऽनागामिफलं साक्षात्कृतम्, एभिश्च पञ्चभिः स्त्रीशतैः सत्यानि दृष्टानीति।
456.022. राजा अभिप्रसन्नः कथयति--वरं ते ऽनुप्रयच्छामीति।
456.023. सा कथयति--यदि देवो ऽभिप्रसन्नः, यदा देवो ऽन्तःपुरं प्रविशति, तदा ममान्तिके धर्मान्वयमुपस्थापयेदिति।
456.024. राजा कथयति--शोभनम्।
456.025. एवं भवत्विति।
456.025. सो ऽनुपमायाः श्यामावत्या अन्तिके धर्मान्वयं प्रसादयति।
456.025. यान्यस्य नवसस्यानि नवफलानि नवर्तुकानि समापद्यन्ते, तानि तत्प्रथमतः श्यामावत्याः प्रयच्छति।
456.027. ईष्र्याप्रकृतिर्मातृग्रामः।
456.027. अनुपमा संलक्षयति--अयं राजा मय सार्थं रतिक्रीडां प्रत्यनुभवति।
456.028. श्यामावत्या नवैः फलैर् नवैः सस्यकैर् नवर्तुकैः कारां करोति।
456.028. तदुपायसंविधानं कर्तव्यम् येनैषा प्रघात्यत इति।
456.029. सा च तस्याः प्रघातनाय रन्ध्रान्वेषणतत्परा अवस्थिता।
456.029. राज्ञश्चान्यतमः कार्वटिको विरुद्धः।
456.030. तेनैकं दण्डस्थानं प्रेषितम्।
456.030. तद्धतुप्रहतमागतम्।
456.031. एवं द्वितीयं तृतीयम्।
456.031. अमात्याः कथयन्ति--देवस्य बलं हीयते, कार्वटिकस्य बलं वर्थते।
456.032. यदि देवः स्वयमेव न गच्छति, स्थानमेतद्विद्यते यत् सर्वथासौ दुर्दम्यो <457>भविष्यति।
457.001. तेन कौशाम्ब्यां घण्टावघोषणं कारितम्--यो मम विजिते कश्चिच्छस्त्रोपजीवी प्रतिवसति, तेन सर्वेण गन्तव्यमिति।
457.002. तेन संप्रस्थितेन योगन्धरायण उक्तह्--त्वमिह तिष्ठेति।
457.003. स न संप्रतिपद्यते।
457.003. स कथयति--देवेनैव सार्धं गच्छामीति।
457.003. घोषिलो ऽप्युक्त एवमेव कथयति।
457.004. राज्ञा माकन्दिकः स्थापित उक्तश्च--श्यामावत्या योगोद्वहनं कर्तव्यमिति।
457.005. संप्रस्थितेनाप्यनुव्रजन् स एवमेवोक्तः।
457.005. निवर्तमानेनापि तेन संप्रतिपन्नम्।
457.005. सो ऽनुपमायाः सकाशं गतः।
457.006. तया पृष्टह्--तात, क इह देवेन स्थापितह्? अहम्।
457.006. सा संलक्षयति--शोभनम्।
457.007. शक्यमनेन सहायेन वैरनिर्यातनं कर्तुमिति विदित्वा कथयति--नानुजानीषे श्यामावती का मम भवतीति।
457.008. पुत्रि, जाने सपत्नीति।
457.008. तात सत्यमेवम्।
457.008. नानुजानीषे कतरो धर्मो ऽत्यर्थं बाधत इति? पुत्रि, जाने ईर्ष्या मात्सर्यं च।
457.009. तात यद्येवम्, श्यामावतीं प्रघातय।
457.010. स कथयति--किं मे द्वे शिरसी? यावत् त्रिरप्यहं राज्ञा सिंदिष्टह्--श्यामावत्या योगोद्वाहनं करिष्यसीति।
457.011. भवतु नामापि न गृहीतुमिति।
457.011. सा कथयति--तात, ईदृशो ऽपि त्वं मूर्खह्? अस्ति कश्चित्पिता दुहितुरर्थे विमुखः, यः सपत्न्याः सकाशे अतीव स्नेहं करोति? प्रघातयसीत्येवं कुशलम्।
457.013. नो चेदहं पौराणे स्थाने स्थापयामीति।
457.013. स भीतः संलक्षयति--स्त्रीवशगा राजानः।
457.014. स्यादेवमिति।
457.015. सा कथयति--शोभनम्।
457.015. एवं कुरु।
457.015. स श्यामावत्याः सकाशं गतः।
457.016. स कथयति--देवि, किं ते करणीयमस्ति? सा कथयति--माकन्दिक, न किंचित्करणीयमस्ति।
457.017. अपि त्वेता दारिका रात्रौ प्रदीपेन बुद्धवचनं पठन्ति, अत्र भूर्जेन प्रयोजनं तैलेन मसिना कलमया तुलेन।
457.018. स कथयति--देवि, शोभनम्।
457.018. उपावर्तयामीति।
457.018. तेन प्रभूतमुपावर्त्य प्रवेशितम्, द्वारकोष्ठके राशिर्व्यवस्थापितः।
457.019. श्यामावती कथयति--माकन्दिक, अलं पर्याप्तंती।
457.020. माकन्दिकः कथयति--देवि प्रवेशयामि, न भूयो भूयः प्रवेशितव्यम्।
457.021. तेनपश्चिमे भूर्जभारके ऽग्निं प्रक्षिप्य शरः प्रवेशितः।
457.021. एत्न संधुक्षितेन द्वारकोष्ठकः प्रज्वालितः।
457.022. कौशाम्बीनिवासी जनकायः प्रधावितो निर्वापयितुम्।
457.022. माकन्दिको निष्कोषमसिं कृत्वा जनकायं निर्वासयितुमारब्धः।
457.023. तिष्ठत, किम् यूयं राज्ञो ऽन्तःपुरं द्रष्टुम्? कौशाम्ब्याम् यन्त्रकराचार्यः कथयति--अहमेनं द्वारकोष्ठकं ज्वलन्तम् यन्त्रेणान्यस्थानं संक्रमयामीति।
457.024. सो ऽपि माकन्दिकेनैवमेवोक्तो निवर्तितः।
457.025. श्यामावती ऋद्ध्या आकाशमुत्प्लुत्य कथयति--भगिन्यः, अस्माभिरेवैतानि कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
457.027. अस्माभिरेव कृत्यान्युपचितानि।
457.027. को ऽन्यः प्रत्यनुभविष्यति? उक्तं च भगवता--
457.029. नैवान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य।
457.031. न विद्यते पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत कर्म
इति।
458.001. <458>तत्कर्मपरायणैर्वो भवितव्यमित्युक्त्वा गाथां भाषते--
458.002. दृष्टो मया स भगवांस् तिर्यक्प्राकारसंनिभः।
458.003. आज्ञातानि च सत्यानि कृतं बुद्धस्य शासनम्
इति।
458.004. श्यामावतीप्रमुखास्ताः स्त्रियः पतङ्ग इवोत्प्लुत्याग्नौ निपतिताः।
458.004. इति तत्र श्यामावतीप्रमुखानि पञ्च स्त्रीशतानि दग्धानि।
458.005. कुब्जोत्तरा ससम्भ्रमेण निष्पलायिता।
458.005. माकन्दिकेन तेषां पञ्चानां स्त्रीशतानां कलेवराणि श्मशाने छोरितानि।
458.006. राजकुलं सान्तर्बहिः शोधितम्।
458.007. कौशाम्बीनिवासी जनकायो नानादेशाभ्यागतश्च विक्रोशन्निवारितः॥
458.008. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय कौशाम्बीं पिण्डाय प्राविक्षन्।
458.009. अश्रौषुः संबहुला भिक्षवः कौशाम्बीनगरे उदयनस्य वत्सराजस्य जनपदान् गतस्य अन्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि।
458.010. श्रुत्वा च पुनः कौशाम्बीं पिण्डाय प्रविश्या चरित्वा प्रतिक्रम्य पुनर्येन भगवांस्तेनोपसंक्रान्ता एतदूचुह्--अश्रौष्म वयं भदन्त संबहुला भिक्षवो कौशाम्बीं पिण्डाय चरन्त उदयनस्य वत्सराजस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि दग्धानि॥
458.014. भगवानाह--बहु भिक्षवस्तेन मोहपुरुषेणापुण्यं प्रसूतम् येनोदयनस्य वत्सराजस्य जनपदगतस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि।
458.015. किं चापि भिक्षवस्तेन मोहपुरुषेण बह्वपुण्यं प्रसूतम्, अपि तु न ता दुर्गतिं गताः।
458.016. सर्वाः शुद्धपुद्गलाः कालगताः।
458.017. तत्कस्य हेतोह्? सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः पञ्चानामवरभागीयानां सम्योजनानां प्रहाणादुपपादुकाः।
458.018. तत्र परिनिर्वायिण्यो ऽनागामिन्यो ऽनावृत्तिकधर्मिण्यः पुनरिमं लोकम्।
458.019. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
458.019. सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां सम्योजनानां प्रहाणाद्रागद्वेषमोहानां कालं कृत्वा सकृदागामिन्यः, सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यन्ति।
458.021. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
458.021. सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां सम्योजनानां प्रहाणाच्छ्रोतापन्ना अविनिपातधर्मिण्यो नियतसमाधिपरायणाः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति।
458.024. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
458.024. सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः स्वजीवितहेतोरपि शिक्षां न व्यतिक्रान्ताः।
458.025. इत्येवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
458.025. सन्ति तस्मिन्नन्तःपुरे स्त्रियो या ममान्तिके प्रसन्नचित्तालंकारं कृत्वा कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपन्नाः।
458.027. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
458.027. आगम्यत भिक्षवो येन श्यामावतीप्रमुखानां पञ्चस्त्रीशतानां कलेवराणि।
458.028. एवं भदन्तेति भिक्षवो भगवतः प्रत्यश्रौषुः।
458.028. अथ खलु भगवान् संबहुलैर्भिक्षुभिः सार्धम् येन तासां पञ्चानां स्त्रीशताणां कलेवराणि तेनोपसंक्रान्तः।
458.030. उपसंक्रम्य भिक्षूनामन्त्रयते स्म--एतानि भिक्षवस्तानि पञ्चशतकलेवराणि यत्र उदयनो वत्सराजो रक्तः सक्तो गृद्धो ग्रथितो मूर्च्छितो ऽध्यवसायमापन्नः।
458.031. तत्र नैव प्राज्ञधीः पादेनापि स्पृशेत्।
458.032. गाथां च भाषते--
459.001. <459>मोहसंवर्धनो लोको भव्यरूप इव दृश्यते।
459.002. उपधिबन्धना बलास्तमसा परिवारिताः।
459.003. असत्सदिति पश्यन्ति पश्यतां नास्ति किंचन
इति।
459.004. एवं चाह--तस्मात्तर्हि भिक्षव एवं शिक्षितव्यम्, यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः प्रागेव सविज्ञानके काये।
459.005. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
459.006. अथ कौशाम्बीनिवासिनः पौराः संनिपत्य संजल्पितुमारब्धाह्--भवन्तः, राज्ञ ईदृशो ऽनर्थः संवृत्त।
459.007. तत्को न्वस्माकं राज्ञ आरोचयिष्यतीति? तत्रेकै कथयन्ति--यो ऽसावप्रियाख्यायी स आरोचयिष्यति।
459.008. तं शब्दयाम इति।
459.008. अपरे कथयन्ति--एवं कुर्मः।
459.008. तैरसावाहूयोक्तह्--देवस्येदमीदृशमप्रियमनुपूर्व्या निवेदयेति।
459.009. वृत्तिर्दियताम्।
459.009. किमप्रियाख्यायिनो वृत्तिर्दीयत इत्ययं स कालः।
459.010. यूयमेव निवेदयत।
459.010. ते कथयन्ति--अतोर्थमेव तव वृत्तिर्दत्ता।
459.010. कार्यं निवेदयेति।
459.011. समयतो निवेदयामि यदहं ब्रवीमि तत्कुरुध्वम्? ब्रूहि, करिष्यामः।
459.011. एवमनुपूर्वेणास्य निवेदयितव्यम्--पञ्चहस्तिशतानि प्रयच्छत, पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णलक्षं कौशाम्ब्यधिष्ठानम्।
459.013 पटे लेखयत पुष्पदन्तप्रासादम् यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे च भूर्जभागे ऽग्निः प्रक्षिप्तः।
459.015. यथा द्वारकोष्ठकः प्रज्वालितः, यथा कौशाम्बीनिवासी जनकायो निर्वापयितुं प्रधावितः, यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः।
459.016. यथा यन्त्रकलाचार्य आगत्य कथयति--द्वारकोष्ठकं ज्वलन्तमन्यत् स्थानं संक्रमयामीति।
459.017. सो ऽपि माकन्दिकेन निवारितः।
459.017. यथा श्यमावतीप्रमुखानि पञ्चस्त्रीशतान्युत्प्लुत्य निपतितानि।
459.018. ते कथयति--एवं कुर्मः।
459.018. तैः पञ्चहस्तिशतान्युपस्थापितानि पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं कौशाम्ब्यधिष्ठानं पटे लिखितं पुष्पदन्तप्रासादः।
459.020. यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे भूर्जभारके ऽग्निः प्रक्षिप्तो यथा द्वारको ऽष्ठके प्रज्वालितः।
459.022. यथा कौशाम्बीनिवासी जनकायो निवार्पयितुं प्रधावितः।
459.022. यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः।
459.023. यथा यन्त्रकलाचार्य आगतह्--अहमेनं द्वारकोष्ठकं ज्वलन्तमन्यत् स्थानं संक्रमयामीति, सो ऽपि माकन्दिकेन निवारितः।
459.024. यथा श्यामावतीप्रमुखानि पञ्चस्त्रीशतान्यग्नावुत्प्लुत्य निपतितानि, तत्सर्वं पटे लिखितम्।
459.025. ततो ऽप्रियाख्यायिनो ऽमात्यानां लेखो ऽनुप्रेषितो राज्ञ ईदृशो ऽनर्थ उत्पन्नो ऽहमस्यानेनोपायेन निवेदयिष्यामि।
459.026. युष्माभिः साहाय्यं कल्पयितव्यमिति।
459.027. स तेषां लेखां लेखयित्वा चतुरङ्गबलकाययुक्तो ऽन्यतमस्मिन् प्रदेशे गत्वावस्थितः।
459.028. उदयनस्य च लेखो ऽनुप्रेषितह्--देव, अहमनुष्मिन् प्रदेशे राजा।
459.028. मम च पुत्रो मृत्युनापहृतः।
459.029. तदहं तेन सार्थं संग्रामं संग्रामयिष्यामि।
459.029. यदि तावत्त्वं शक्नोषि युद्धेन नियोक्तुमित्येवं कुशलम्, नो चेत्पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति।
459.032. राज्ञ उदयनस्य स कार्वटिको बलवान् संनामं न गच्छति।
459.032. सो ऽमात्यानां कथयति--
460.001. <460>भवन्तः, ईदृशो ऽपि राजा मूर्खह्? अस्ति कश्षिन्मृत्युनापहृतः शक्यत आनेतुम्? तद्गतम्।
460.002. एतत्तस्यैवं लिखितम्--ममैवंनामा कार्वटिकः संनामं न गच्छति।
460.002. स त्वमस्माकं तावत्साहाय्यं कल्पय, पश्चात्तवापि साहय्यं करोमीति।
460.003. सो ऽमात्यैस्तस्यैवं लेखो ऽनुप्रेषितः।
460.003. स लेखश्रवणादेवागत्य कार्वटिकस्य नातिदूरे व्यवस्थापितः।
460.004. कार्वटिकेन श्रुतम्।
460.004. स संलक्षयति--एकेन तावदहं राज्ञा दश दिशो विश्रान्तः, अयं च द्वितीयः।
460.005. सर्वथा पुनरपि विषयान्न तु प्राणान्निर्गच्छामीति।
460.006. स कण्ठे ऽसिं बद्ध्वा निर्गत्य राज्ञ उदयनस्य पादयोर् निपतितः।
460.006. स राज्ञा उदयनेन करदो व्यवस्थापितः।
460.007. अथसावप्रियाख्यायी राजलीलया राज्ञ उदयनस्य सकाशं गत्वा कथयति--देव, मम पुत्रो मृत्युना अपहृतः।
460.008. त्वं मम देवः साहाय्यं कल्पयतु।
460.009. अहं तेन सार्धं संग्रामं संग्रामयिष्यामीति।
460.009. यदि तावत्त्वं शक्नोषि युद्धेन निर्जेतुमियेवं कुशलम्, नो चेत्पञ्चहस्तिशतानि पञ्चहस्तिनीशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति।
460.011. उदयनो राजा कथयति--प्रियवयस्य, मूर्खस्त्वम्।
460.012. अस्ति कश्चिच्छक्यते मृत्योः सकाशादानेतुमिति? स कथयति--देव, न शक्यते।
460.013. यद्येवम्, इमं पटं पश्येति।
460.013. तेन पटः प्रसातितः।
460.013. राजा पटं निरीक्ष्य मर्मवेधविद्ध इव रुष्यमाणः कथयति--भोः किम्? कथयति--भोः पुरुष, किं कथयसि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दग्धानीति? स पट्टं मौलिं चापनीय गाथां भाषते--
460.016. नाहं नरेन्द्रो न नरेन्द्रपुत्रः पादोपजीवी तव देव मृत्यः।
460.018. अथाप्रियस्येव निवेदनार्थमिहागतो ऽहं तव पादमूलम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0