भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 26

26.1

277.013. तत्रायुष्मान् वीतशोकः प्रत्यन्तिमेषु जनपदेषु शय्यासनाय निर्गतः।
277.013. तस्य च महान् व्याधिरुत्पन्नः।
277.014. श्रुत्वा च राज्ञा अशोकेन भैषज्यमुपस्थायिकाश्च विसर्जिताः।
277.014. तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत्।
277.015. यदा च व्याधिर्विगतः, तस्य विरूटानि शिरसि रोमाणि।
277.016. तेन वैद्योपस्थायकाश्च विसर्जिताः।
277.016. तस्य च गोरसप्राय आहारो ऽनुसेव्यते।
277.016. स घोषं गत्वा भैक्ष्यं पर्यटति।
277.017. तस्मिंश्च समये पुण्ड्रवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर् निपातिता चित्रार्पिता।
277.018. उपासकेनाशोकस्य राज्ञो निवेदितम्।
277.018. श्रुत्वा च राज्ञा अभिहितम्--शीघ्रमानीयताम्।
277.019. तस्योर्ध्वम् योजनम् यक्षाः शृण्वन्ति, अधो योजनं नागाः।
277.019. यावत्तं तत्क्षणेन यक्षैरुपनीतम्।
277.020. दृष्ट्वा च राज्ञा रुषितेनाभिहितम्--पुण्ड्रवर्धने सर्वे आजीविकाः प्रघातयितव्याः।
277.021. यावदेकदिवसे ऽष्टादशसहस्राण्याजीविकानां प्रघातितानि।
277.021. ततः पाटलिपुत्रे भूयो ऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर् निपातिता चित्रार्पिता।
277.022. श्रुत्वा च राज्ञा अमर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशायित्वा अग्निना दग्धः।
277.023. आज्ञप्तं च--यो मे निर्ग्रन्थस्य शिरो दास्यति, तस्य दीनारं दास्यामीति।
277.024. घोषितम्।
277.024. स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिं वासमुपगतः।
277.025. तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि, दीर्घकेशनखश्मश्रुः।
277.026. आभीर्या बुद्धिरुत्पन्ना--निर्ग्रन्थो ऽयमस्माकं गृहे रात्रिं वासमुपगतः।
277.027. स्वामिनमुवाच--आर्यपुत्र, संपन्नो ऽयमस्माकं दीनारः।
277.027. इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञो ऽशोकस्योपनामयेयमिति।
277.028. ततः स आभीरो ऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः।
277.029. आयुष्मता च वीतशोकेन पूर्वान्ते ज्ञानं क्षिप्तम्।
277.029. पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम्।
277.030. ततः कर्मप्रतिशरणो भूत्वा अवस्थितः।
277.030. तेन तथास्याभीरेण शिरश्छिन्नम्।
277.031. राज्ञो ऽशोकस्योपनीतम्--दीनारं प्रयच्छेति।
277.031. दृष्ट्वा च राज्ञा अशोकेन परिज्ञातम्--विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति।
277.032. ततो वैद्या उपस्थायका आनीताः।
277.032. तैर्दृष्ट्वा <278>अभिहितम्--देव, वीतशोकस्यैतच्छिरः।
278.001. श्रुत्वा राजा मूर्च्छितो भूमौ पतितः।
278.001. यावज्जलसेकं दत्वा स्थापितः।
278.002. अमात्यैश्चाभिहितम्--देव, वीतरागाणामप्यत्र पीडा।
278.002. दीयतां सर्वसत्त्वेष्वभयप्रदानम्।
278.003. यावद्राज्ञा अभयप्रदानं दत्तम्--न भूयः कश्चित् प्रघातयितव्यः॥
278.004. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति--किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितह्? स्थविर उवाच--तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु।
278.006. श्रूयताम्--
278.007. भुतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति।
278.008. अटव्यामुदपानम्।
278.008. स तत्र लुब्धो गत्वा पाशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति।
278.009. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते।
278.009. विस्तरः।
278.009. अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वा उदपानादुत्तीर्य वृक्षमूले पर्यङ्केन निषण्णः।
278.010. तस्य गन्धेन मृगास्तस्मिन्नुदपाने नाभ्यागताः।
278.011. स लुब्ध आगत्य पश्यति--नेइव मृगा उदपानमभ्यागताः।
278.012. पदानुसारेण च तं प्रत्येकबुद्धमभिगतः।
278.012. दृष्ट्वा चास्य बुद्धिरुत्पन्ना--अनेनैष आदीनव उत्पादितः।
278.013. तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः॥
278.014. किं मन्यध्वे आयुष्मन्तह्? यो ऽसौ लुब्धः स एष वीतशोकः।
278.014. यत्रानेन मेगाः प्रघातिताः, तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः।
278.015. यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितः, तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्च जन्मशतानि मनुष्येषूपपन्नः शस्त्रेण प्रघातितः।
278.017. तत्कर्मावशेषेणैतर्हि अर्हत्प्राप्तो ऽपि शस्त्रेण प्रघातितः॥
278.018. किं कर्म कृतम् येनोच्चकुले उपपन्नः, अर्हत्त्वं च प्राप्तम्? स्थविर उवाच--काश्यपे सम्यक्सम्बुद्धे प्रव्रजितो ऽभूत् प्रदानरुचिः।
278.019. तेन दायकदानपतयः संघभक्तं कारापितास्तर्पणानि यवागूपानानि निमन्त्रणकानि।
278.020. स्तूपेषु च च्छत्राण्यवरोपितानि, ध्वजाः पताकाः।
278.021. गन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः।
278.021. तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः।
278.022. यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति॥
278.024. इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतिमम्॥
********** अवदान 29 **********
279.001. दिव्29 अशोकावदानम्।
279.002. यदा राज्ञा अशोकेन अर्धामलकदानेन भगवच्छासने श्रद्धा प्रतिलब्धा, स भिक्षूनुवाच--केन भगवच्छासने प्रभूतं दानं दत्तम्? भिक्षव ऊचुह्--अनाथपिण्डदेन गृहपतिना।
279.004. राजा आह--कियत्तेन भगवच्छासने दानं दत्तम्? भिक्षव ऊचुह्--कोटिशतं तेन भगवच्छासने दानं दत्तम्।
279.005. श्रुत्वा च राजा अशोकश्चिन्तयति--तेन गृहपतिना भूत्वा कोटिशतं भगवछासने दानं दत्तम्।
279.006. तेनाभिहितम्--अहमपि कोटिशतं भगवच्छासने दानं दास्यामि।
279.007. तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, सर्वत्र च शतसहस्राणि दत्तानि--जातौ, बोधौ, धर्मचक्रे, परिनिर्वाणे च, सर्वत्र शतसहस्रं दत्तम्।
279.008. पञ्चवार्षिकं कृतम्।
279.009. तत्र च चत्वारि शतसहस्राणि दत्तानि, त्रीणि शतसहस्राणि भिक्षूणां भोजितानि यत्रेकर्महतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च।
279.010. कोशं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुणालं च आर्यसंघे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान्।
279.012. षण्णवतिकोट्यो भगवच्छासने दानं दत्तम्।
279.012. स यावद् ग्लानीभूतः।
279.012. अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः।
279.013. तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम्।
279.014. तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर् निपत्य कृताञ्जलिरुवाच--
279.015. यच्छत्रुसंघैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभम्।
279.017. पद्माननश्रीशतसम्प्रपीतं कस्मात् सबाष्पं तव देव वक्त्रम्

26.2

279.019. राजा आह--राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि, किं तु शोचामि--आर्यैर्यद्विप्रयुक्ष्यामि।
279.021. नाहं पुनः सर्वगुणोपपन्नं संघं समक्षं नरदेवपूजितम्।
279.023. संपूजयिष्यामि वरान्नपानैरेतं विचिन्त्याश्रुविमोक्षणम्

26.3

279.025. अपि च राधगुप्त, अयं मे मनोरथो बभूव--कोटिशतं भगवच्छासने दानं दास्यामीति, स च मे ऽभिप्रायो न परिपूर्णः।
279.026. ततो राज्ञा अशोकेन चत्वारः कोट्यः परिपूरयिष्यामीति हिरण्यसुवर्णं कुर्कुटारामं प्रषयितुमारब्धः॥
279.028. तस्मिंश्च समये कुणालस्य संपदिर् नाम पुत्रो युवराज्ये प्रवर्तते।
279.028. तस्यामात्यैरभिहितम्--कुमार, अशोको राजा स्वल्पकालावस्थायी।
279.029. इदं च द्रव्यं कुर्कुटारामं प्रेष्यते।
279.029. कोशबलिनश्च राजानः।
279.030. निवारयितव्यः।
279.030. यावत् कुमारेण भाण्डागारिकः प्रतिषिद्धः।
279.030. यदा राज्ञो ऽशोकस्याप्रतिषिद्धा (तस्य) सुवर्णभाजने आहारमुपनाम्यते।
279.031. भुक्त्वा तानि सुवर्णभाजनानि <280>कुर्कुटारामं प्रेषयति।
280.001. तस्य सुवर्णभाजनं प्रतिषिद्धम्।
280.001. रूप्यभाजने आहारमुपनाम्यते, तान्यपि कुर्कुटारामं प्रेषयति।
280.002. ततो रूप्यभाजनमपि प्रतिषिद्धम्, यावल्लोहभाजन आहारमुपनाम्यते।
280.003. तान्यपि राजा अशोकः कुर्कुटारामं प्रेषयति।
280.003. तस्य यावन्मृद्भाजन आहारमुपनाम्यते।
280.004. तस्मिंश्च समये राज्ञो ऽशोकस्य अर्धामलकं करान्तरगतम्।
280.004. अथ राजा अशोकः संविग्नो ऽमात्यान् पौरांश्च संनिपात्य कथयति--कः साम्प्रतं पृथिव्यामीश्वरह्? ततो ऽमात्य उत्थायासनाद्येन राजा अशोकस्तेनाञ्जलिं प्रणम्योवाच--देव, पृथिव्यामीश्वरः।
280.006. अथ राजा अशोकः साश्रुदुर्दिननयनवदनो ऽमात्यानुवाच--
280.008. दाक्षिण्यादनृतं हि किं कथयत भ्रष्टाधिराज्या वयं शेषं त्वामलकार्धमित्यवसितम् यत्र प्रभुत्वं मम।
280.010. एश्वर्यं धिग्नार्यमुद्धतनदीतोयप्रवेशोपमं मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम्

26.4

280.012. अथवा को भगवतो वाक्यमन्यथा करिष्यति? संपत्तयो हि सर्वा विपत्तिनिधना इति प्रतिज्ञातम् यदवितथवादिना गौतमेन, न हि तद्विसंवदति॥
280.014. प्रतिशिष्यते ऽस्मन्ने चिरादाज्ञा मम यावती यथा मनसा।
280.015. साद्यैव महाद्रिशिलातलविहतनदीवत् प्रतिनिवृत्ता

26.5

280.016. आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां महीमुत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान्।
280.018. भ्रष्टस्वायतनो न भाति कृपणः संप्रत्यशोको नृपह् छिन्नाम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा

26.6

280.020. ततो राजा अशोकः समीपो गतं पुरुषमाहूयोवाच--भद्रमुख, पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु।
280.021. इदं ममार्धामलकं ग्रहाय कुर्कुटारामं गत्वा संघे निर्यातय।
280.022. मद्वचनाच्च संघस्य पादाभिवन्दनं कृत्वा वक्तव्यम्--जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति।
280.023. इदं तावदपश्चिमं दानं तथा परिभोक्तव्यम् यथा मे संघगता दक्षिणा विस्तीर्णा स्यादिति।
280.024. आह च--
280.025. इदं प्रदानं चरमं ममाद्य राज्यं च तं चैव गतं स्वभावम्।
280.027. आरोग्यवैद्योषधिवर्जितस्य त्राता न मे ऽस्त्यार्यगणाद्बहिर्धा

26.7

280.029. ततथा भुज्यताम् येन प्रदानं मम पश्चिमम्।
280.030. यथा संघगता मे ऽद्य विस्तीर्णा दक्षिणा भवेत्

26.8

280.031. एवं देवेति स् पुरुषो राज्ञो ऽशोकस्य प्रतिश्रुत्य तदर्धामलकं कुरुकुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं संघे निर्यातयन्नुवाच--
281.001. <281>एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः।
281.003. भाग्यच्छिद्रमवेक्ष्य सो ऽद्य नृपतिः स्वैः कर्माभिर्वञ्चितः संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः

26.9

281.005. भक्त्यवनतेन शिरसा प्रणम्य संघाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिह्नितम्।
281.006. ततः संघस्थविरो भिक्षूनुवाच--भदन्ता भवन्तः, शक्यमिदानीं संवेगमुत्पादयितुम्।
281.007. कुतह्? एवं ह्युक्तं भगवता--परविपत्तिः संवेजनीयं स्थानमिति।
281.007. कस्येदानीं सहृदयस्य संवेगो नोत्पद्यते? कुतह्?
281.009. त्यागशूरो नरेन्द्रो ऽसावशोको मौर्यकुञ्जरः।
281.010. जम्बुद्वीपेश्वरो भूत्वा जातो ऽर्धामलकेश्वरः

26.10

281.011. मृत्यैः स भूमिपतिरद्य हृताधिकारो दानं प्रयच्छति किलामलकार्धमेतत्।
281.013. श्रीभोगाविस्तरमदैरतिगर्वितानां प्रत्यादिशन्निव मनांसि पृथग्जनानाम्

26.11

281.015. यावत्तदर्धामलकं चूर्णयित्वा यूषे प्रक्षिप्य संघे चारितम्।
281.015. ततो राजा अशोको राधगुप्तमुवाच--कथय राधगुप्त, कः साम्प्रतं पृथिव्यामीश्वरह्? अथ राधगुप्तो ऽशोकस्य पादयोर् निपत्य कृताञ्जलिरुवाच--देवः पृथिव्यामीश्वरः।
281.017. अथ राजा अशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य संघाय अञ्जलिं कृत्वोवाच--एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसंघे निर्यातयामि।
281.019. आह च--
281.020. इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननाम्।
281.022. ददाम्यहं भूतधरां समन्दरां संघाय तस्मिन्नुपभुज्यते फलम्

26.12

281.024. अपि च।
281.025. दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं काङ्क्षामि द्रुतवारिवेगचपलं प्रागेव राजश्रियम्।
281.027. दानस्यास्य फलं तु भक्तिमहतो यन्मे ऽस्ति तेनाप्नुयां चित्तैश्वर्यमहार्यमार्यमहितं नायाति यद्विक्रियाम्

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc