दिव्यावदान · अध्याय 25
270.032. इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः।
270.032. यावद्राज्ञा अशोकेन तिष्यरक्षिता अमर्षितेन जतुगृहं प्रवेशयित्वा दग्धा, तक्षशिलाश्च पौराः प्रघातिताः॥
271.001. <271>भिक्षवः संशयजाताः सर्वसशयच्छेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छन्ति--किं कुणालेन कर्म कृतम् यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि? स्थविर उवाच--तेन ह्यायुष्मन्तः श्रूयताम्--
271.003. भूतपूर्वमतीते ऽध्वनि वाराणस्यामन्यतमो लुब्धकः।
271.004. स हिमवन्तं गत्वा मृगान् प्रघातयति।
271.005. सो ऽपरेण समयेन हिमवन्तं गतः।
271.005. तत्र पाशनिपतितान्येकस्यां गुहायां प्रविष्टान्यासादितानि।
271.006. तेन वागुरया सर्वे गृहीताः।
271.006. तस्य बुद्धिरुत्पन्ना--यदि प्रघातयिष्यामि, मांसः क्लेदंमुपयास्यति।
271.007. तेन पञ्चानां मृगशतानां नयनात्युत्पाटितानि॥
271.008. किं मन्यध्वमायुष्मन्तह्? यो ऽसौ लुब्धकः, स एष कुणालः।
271.008. यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि, तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मावशेषेण पञ्च जन्मशतानि तस्य नयनान्युत्पाटितानि॥
271.011. किं कर्म कृतम् यस्य कर्मणो विपाकेनोच्चे कुले उपपन्नः, प्रसादिकश्च संवृत्तः, सत्यदर्शनं च कृतम्?
271.013. तेन ह्यायुच्मन्तः श्रूयताम्--भूतपूर्वमतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि।
271.014. यदा क्रकुच्छन्दः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य अशोकेन राज्ञा चतूरत्नमयं स्तूपं कारितम्।
271.016. यदा राजा अशोकः कालगतः, अश्राद्धो राजा राज्यं प्रतिष्ठितः।
271.016. तानि रत्नान्यदत्तादायिकैर्हृतानि।
271.017. पांशुकाष्टं चावशिष्टम्।
271.017. अत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः।
271.018. तस्मिंश्च समये ऽन्यतमश्च श्रेष्ठिपुत्रः।
271.018. तेनोक्रह्--किमर्थं रुद्यत इति? तैरभिहितम्--क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य स्तूपं चतूरत्नमयमासीत्, स इदानीं विशीर्ण इति।
271.020. ततस्तेन च तत्र क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा, सा अभिसंस्कृता, सम्यक्प्रणिधानं च कृतम्--यादृशः क्रकुच्छन्दः शास्ता, ईदृशमेव शास्तारमारागयेयं मा विरागयेयमिति॥
271.023. किं मन्यध्वमायुष्मन्तह्? यो ऽसौ श्रेष्ठिपुत्रः, स एष कुणालः।
271.023. यत्रानेन क्रकुच्छन्दस्य स्तूपमभिसंस्कृतम्, तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः।
271.024. यत्प्रतिमा अभिसंस्कृता, तेन कर्मणो विपाकेन कुणाकः प्रासादिकः समृत्तः।
271.025. यत् प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन कुणालेन शाक्यमुनिः सम्यक्सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः, सत्यदर्शनं च कृतम्॥
271.028. इति श्रीदिव्यावदाने कुणालावदानं सप्तविंशतिमं समाप्तम्॥
********** अवदान 28 **********
272.001. दिव्28 वीतशोकावदानम्।
272.002. यदा राज्ञा अशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा, तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं पञ्चवार्षिकं च कृतम्।
272.003. त्रीणि शतसहस्ताणि भिक्षूणां भोजितानि यत्रैको ऽर्हतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च।
272.004. (स)समुद्रायां पृथिव्यां जनकाया यद्भूयसा भगवच्छासने ऽभिप्रसन्नाः।
272.005. तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः।
272.005. स तीर्थ्यैर्विग्राहितह्--नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति।
272.006. एते हि सुखाभिरताः परिखेदभीरवश्चेति।
272.007. यावद्राज्ञा अशोकेनोच्यते--वीतशोक, मा त्वमनायतने ऽप्रसादमुत्पादय, अपि तु बुद्धधर्मसंघे प्रसादमुत्पादय।
272.008. एष आयतनगतः प्रसाद इति।
272.008. अथ राजा अशोको ऽपरेण समयेन मृगवधाय निर्गतः।
272.009. तत्र वीतशोकेनारण्ये ऋषिर्दृष्टः पञ्चातपेनावस्थितः।
272.010. स च कष्टतपः सारसंज्ञी।
272.010. तेनाभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्टह्--भगवन्, कियच्चित्रं ते इहारण्ये प्रतिवसतह्? स उवाच--द्वादश वर्षाणीति।
272.011. वीतशोकः कथयति--कस्तवाहारह्? स ऋषिरुवाच--फलमूलानि।
272.012. किं प्रावरणम्? दर्भचीवराणि।
272.012. का शय्या? तृणसंस्तरणम्।
272.013. वीतशोक उवाच--भगवन्, किं दुःखं बाधते? ऋषिरुवाच--इमे मृगा ऋतुकाले संवसन्ति।
272.014. यदा मृगानां संवासो दृष्टो भवति, तस्मिन् समये रागेण परिदह्यामि।
272.015. वीतशोक उवाच--अस्य कष्टेन तपसा रागो ऽद्यापि न बाध्यते, प्रागेव श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः।
272.016. कुत एषां रागप्रहाणं भविष्यति? आह च--
272.017. कष्टे ऽस्मिन् विजने वने निवसतां वाय्वम्बुमूलाशिनां रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि।
272.019. भुक्तवान्नं सधृतं प्रभूतपिशितं दध्युत्तमालंकृतं शाक्येष्विन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे
272.021. सर्वथा वञ्जितो राजा अशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति।
272.021. एतच्च वचनं श्रुत्वा राजा उपायज्ञो ऽमात्यानुवाच--अयं वीतशोकस्तीर्थ्याभिप्रसन्नः।
272.022. उपायेन भगवच्छासने ऽभिप्रसादयितव्यः।
272.023. अमात्या आहुह्--देव, किमाज्ञापयसि? राजा आह--यदा अहं राजा अलंकारं मौलिं पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्योपायेन मौलिं पट्टं च बद्ध्वा सिंहासने निषादयिष्यथ।
272.025. एवमस्तु इति।
272.025. यावद्राजा राजालंकारं मौलिं पट्टं चापनयित्वा स्नानशालायां प्रविष्टः, ततो ऽमात्यैर्वीतशोक उच्यते--राज्ञो ऽशोकस्यात्ययात् त्वं राजा भविष्यसि।
272.027. इमं तावद्राजालंकारं प्रवरमौलिं पट्टं च बद्ध्वा सिंहासने निषीदयिष्यामह्--किं शोभसे न वेति।
272.028. तैस्तदाभरणमौलिं पट्टं च बद्ध्वा सिंहासने निषादितो राज्ञश्च निवेदितम्।
272.029. ततो राजा अशोको वीतशोकं राजालंकारं मौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति--अध्याप्यहं जीवामि।
272.030. त्वं राजा संवृत्तः।
272.030. ततो राज्ञा अभिहितम्--को ऽत्र? ततो यावद्वध्यघातका नीलाम्बरवसनाः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर् निपत्योवाच--देव, किमाज्ञापयसि? राजा आह--वीतशोको मया परित्यक्त इति।
273.001. <273>यावद्वीतशोक उच्यते--सशस्त्रैर्वध्यघातैरस्माभिः परिवृतो ऽसीति।
273.001. ततो ऽमात्या राज्ञः पादयोर् निपल्योवाच--देव, मर्षय वीतशोकम्।
273.002. देवस्यैष भ्राता।
273.002. ततो राज्ञा अभिहितम्--सप्ताहमस्य मर्षयामि।
273.003. भ्राता चैषः।
273.003. मम भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि।
273.003. यावत् तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, प्राणिशतसहस्रैश्चाञ्जलिः कृतः, स्त्रीशतैश्च परिवृतः।
273.005. वध्यघातकाश्च द्वारि तिष्ठन्ति।
273.005. दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति--निर्गतं वीतशोक एकं दिवसम्।
273.006. षडहान्यवशिष्टानि।
273.006. एवं द्वितीये दिवसे।
273.006. विस्तरेण यावत्सप्ताहदिवसे वीतशोको राजालंकारविभूषितो राज्ञो ऽशोकस्य समीपमुपनीतः।
273.007. ततो राज्ञा अशोकेनाभिहितम्--वीतशोक, कञ्चित्सुगीतं सुनृत्यं सुवादितमिति ? वीतशोक उवाच--न मे दृष्टं वा स्याच्छ्रुतं वेति।
273.009. आह च--
273.010. येन श्रुतं भवेद्गीतं नृत्यं चापि निरीक्षितम्।
273.011. रसाश्चास्वादिता येन स भूयात्तव निर्णयम्
273.012. राजा आह--वीतशोक, इदं मया राज्यं सप्ताहं तव दत्तम्, तूर्यशतानि संप्रवादितानि, जयशब्दैश्चानन्दितम्, अञ्जलिशतानि प्रगृहीतानि, स्त्रीशतैश्च परिचीर्णः।
273.013. कथं त्वं कथयसि--नैव मे दृष्टं न श्रुतमिति? वीतशोक उवाच--
273.015. न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदो न मे गन्धा घ्राता न खलु रसा मे ऽद्य विदिताः।
273.017. न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः समूहो नारीणां मरणपरिबद्धेन मनसा
273.019. स्त्रियो नृत्तं गीतं भवशयनान्यासनविधिर्वयो रूपं लक्ष्मीर्बहुविविधरत्ना च वसुधा।
273.021. निरानन्दा शून्या मम नृप वरशय्या गतसुखा स्थितान् दृष्ट्वा द्वारे वधकपुरुषान्नीलवसनान्
273.023. श्रुत्वा घण्टारवं घोरं नीलाम्बरधरस्य हि।
273.024. भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणम्
273.025. मृत्युशल्यपरीतो ऽहं नाश्रौषीद्गीतमुत्तमम्।
273.026. नाद्राक्षं नृपते नृत्तं न च भोक्तुं मनःस्पृहा
273.027. मृत्युज्वरगृहीतस्य न मे स्वप्नो ऽपि विद्यते।
273.028. कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्तयन्
273.029. राजा आह--वीतशोक, मा तावत् तवैकजन्मिकस्य मरणभयात्तव राजश्रियं प्राप्य हर्षो नोत्पन्नः।
273.030. किं पुनर्भिक्षवो जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति।
273.031. नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च, तिर्यक्षु अन्योन्यभक्षणपरित्रासदुःखम्, प्रेतेषु क्षुत्तर्षदुःखम्, पर्येष्टिसमुदाचारदुःखं मनुष्येषु, च्यवनपतनभ्रंशदुःखम्<274> देवेषु।
274.001. एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तम्।
274.001. शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति, शून्यग्रामभूतान्यायतनानि, चौरिभूतानि विषयाणि, कृत्स्नं च त्रैधातुकमनित्यताग्निना प्रदीप्तं पश्यन्ति।
274.003. तेषां रागाः कथमुत्पद्यते? आह च--
274.004. मा तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः।
274.005. मनसि विषयैर्मनोज्ञैः सततं खलु पश्यमानस्य
274.006. किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम्।
274.007. मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु
274.008. तेषां तु वस्त्रशयनासनभोजनादि मोक्षो ऽभियुक्तमनसां जनयेत सङ्गम्।
274.010. पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान्
274.012. कथं च तेषां न भवेद्विमोक्षो मोक्षार्थिनां जन्मपरान्मुखानाम्।
274.014. येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः
274.016. यदा वीतशोको राज्ञा अशोकेनोपायेन भगवच्छासने ऽभिप्रसादितः, स कृतकरपुट उवाच--देव, एषो ऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं चेति।
आह च--
274.019. एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम्।
274.020. बुधविबुधमनुजमहितं जिनं विरागं च संघं च
इति।
274.021. अथ राजा अशोको वीतशोकं कण्ठे परिष्वज्योवाच--न त्वं मया परित्यक्तः, अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः।
274.022. ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति, सद्धर्मं च शृणोति, संघे च कारां कुरुते।
274.024. स कुर्कुटारामं गतः।
274.024. तत्र यशो नां स्थविरो ऽर्हन् षडभिज्ञः।
274.024. स तस्य पुरतो निषण्णो धर्मश्रवणाय।
274.025. स्थविरश्च तमवलोलयितुमारब्धः।
274.025. स पश्यति वीतशोकमुपचितहेतुकं चरमभविकम्।
274.026. तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यम्।
274.026. तेन तस्य प्रव्रज्याया वर्णो भाषितः।
274.027. तस्य श्रुत्वा स्पृहा जाता--प्रव्रजेयं भगवच्छासने।
274.027. तत उत्थाय कृताञ्जलिः स्थवितमुवाच--लभेयाहं स्वख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
274.028. चरेयमहं भवतो ऽन्तिके ब्रह्मचर्यम्।
274.029. स्थविर उवाच--वत्स, राजानमशोकमनुज्ञापयस्वेति।
274.029. ततो वीतशोको येन राजा अशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच--देव, अनुजानीहि माम्।
274.030. प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धया अगारादनगारिकाम्।
274.031. आह च--
275.001. <275>उद्भ्रान्तो ऽस्मि निरङ्कुशो राजा इव व्यावर्तितो विभ्रमात् त्वद्बुद्धिप्रभवाङ्कुशेन विधिवद्बुद्धोपदेशैरहम्।
275.001. एकं त्वमर्हसि मे वरं प्रदर्शितुं त्वं पार्थिवानां पते लोकालोकवरस्य शासनवरे लिङ्गं शिभं धारयेत्
275.005. श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच--वीतशोक, अलमनेन व्यवसायेन।
275.006. प्रव्रज्य खलु वैवर्णिकाभ्युपगतावसः, पांशुकूलं प्रवरणं परिजनोज्ज्ञितम्, आहारो भैष्यं परकुले, शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः, व्याबाधे खल्वपि भैषज्यमसुलभं पूतिमूत्रं च भोजनम्।
275.008. त्वं च सुकुमारः शीतोष्णक्षुत्पिपासानां दुःखानामसहिष्णुः।
275.009. प्रसीद, निवर्तय मानसम्।
275.009. वीतशोक उवाच--देव,
275.010. नैव हि जाने तं नूनं विषयतृषितो ऽनायासविहतः प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्थकृपणः।
275.012. दुःखार्तं मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं पन्थानं जन्मभीरुः शिवमभयमहं गन्तुं व्यवसितः
275.014. श्रुत्वा च राजा अशोकः सत्वरं प्ररुदितुमारब्धः।
275.014. अथ वीतशोको राजानमनुनयन्नुवाच--देव,
275.016. संसारदोलामभिरुह्य लोलम् यदा निपातो नियतः प्रजानाम्।
275.018. किमर्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः
275.020. राजा आह--वीतशोक, भैक्षे तावदभ्यासः क्रियताम्।
275.020. राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः, भोजनं चास्य दत्तम्।
275.021. सो ऽन्तःपुरं पर्यटति, महार्हं चाहारं न लभते।
275.022. ततो राज्ञा अन्तःपुरिका अभिहिता--प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छतेति।
275.022. तेन यावदभिदूषिता पूतिकुल्माषा लब्धाः।
275.023. तांश्च परिभोक्तुमारब्धः।
275.023. दृष्ट्वा राज्ञा अशोकेन निवारितः।
275.024. तस्य बुद्धिरुत्पन्ना--यदीह प्रव्रजिष्यामि, आकीर्णो भविष्यामि।
275.025. ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः।
275.026. ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तम्।
275.026. अथायुष्मतो वीतशोकस्यार्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत्--अस्ति खलु मे--पूर्वं राज्ञो ऽशोकस्य गृहद्वारमनुप्राप्तः।
275.028. ततो दौवारिकमुवाच--गच्छ, राज्ञो ऽशोकस्य निवेदय--वीतशोको द्वारि तिष्ठति देवं द्रष्टुकाम इति।
275.029. ततो दौवारिको राजानमशोकमभिगम्योवाच--देव, दिष्ट्या वृद्धिः।
275.030. वीतशोको ऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः।
275.030. ततो राज्ञा अभिहितम्--गच्छ, शीघ्रं प्रवेशयेति।
275.031. यावद्वीतशोको राजकुलं प्रविष्टः।
275.031. दृष्ट्वा च रजा अशोकः संहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेणायुष्मन्तं वीतशोकं निरीक्षमानः प्ररुदन्नुवाच--
276.001. <276>भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारम्।
276.003. विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यातिरसस्य तृप्तः
276.005. अथ राज्ञो ऽशोकस्य राधगुप्तो नामाग्रामात्यः।
276.005. स पश्यति--आयुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृण्मयं पात्रम् यावदन्नं भैक्ष्यं लूहप्रणीतम्।
276.006. दृष्ट्वा च राज्ञः पादयोर् निपत्य कृताञ्जलिरुवाच--देव, यथा अयमल्पेच्छः संतुष्टश्च, नियतमयं कृतकरणीयो भविष्यति, प्रीतिरुत्पाद्येत।
276.008. कृतह्?
276.009. भैक्षान्नभोजनम् यस्य पांशुकूलं च चीवरम्।
276.010. निवासो वृक्षमूलं च तस्यानियतं कथम्
276.011. निराश्रवम् यस्य मनो विशालं निरामयं चोपचितं शरीरम्।
276.013. स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोके
276.015. श्रुत्वा ततो राजा प्रीतमना उवाच--
276.016. अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च।
276.017. दृष्ट्वा वंशानिवहं प्रहीणमदमानमोहसारम्भम्
276.018. अत्युद्धृतमिव मन्ये यशसा पूतं पुरमिव महं च।
276.019. प्रतिपद्यतां त्वया दशबलधरशासनमुदारेण
276.020. अथ राजा अशोकः सर्वाङ्गेन परिगृह्य प्रज्ञप्त एवासने निषादयामास, प्रणीतेन चाहारेण स्वहस्तं संतर्पयति।
276.021. भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय।
276.022. अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच--
276.024. अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्।
276.025. दुर्लभा त्रीणि रत्नानि नित्यं पूजय पार्थिव
276.026. स यावधर्म्यया कथया संहर्षयित्वा संप्रस्थितः॥
276.027. अथ राजा अशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतो ऽनेकैश्च पौरजनपदसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः।
276.028. वक्ष्यति हि--
276.029. भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यते।
276.030. प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलम्
277.001. <277>तत आयुष्मान् वीतशोकः स्वगुणानुद्भावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः।
277.002. अथ राजा अशोकः कृतकरपुटः प्राणिशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच--
277.004. स्वजनस्नेहनिःसङ्गो विहंग इव गच्छसि।
277.005. श्रीरागनिगदैर्बद्धानस्मान् प्रत्यादिशान्निव
277.006. आत्मायत्तस्य शान्तस्य महःसंकेतचारिणः।
277.007. ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यते
277.008. अपि च।
277.009. ऋद्ध्या खल्ववभर्त्सताः परमया श्रीगर्वितास्ते वयं बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयम्।
277.011. प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं संक्षेपेण सबाष्पदुर्दिनमुखाः स्थाने विमुक्ता वयम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0