दिव्यावदान · अध्याय 22
211.024. भगवता तेषामववादो दत्तः।
211.024. तैरुद्यच्छमानैर्घटमानैर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
211.025. अर्हन्तः संवृत्तास्त्रैधातुकवीतरागाः पूर्ववद्यावत् पूज्याश्च अभिवाद्याश्च संवृत्ताः॥
211.027. आयुष्मान् संघरक्षितो बुद्धं भगवन्तं पृच्छति--इहाहं भदन्त सत्त्वानद्राक्षं कुड्याकारान् स्तम्भाकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकाराअन् रज्ज्वाकारान् संमार्जन्याकारान् खट्वाकारानुदूखलाकारान् स्थालिकाकारान्।
211.029. मध्ये ऽवच्छिन्नं तन्तुना धार्यमाणं गच्छति।
211.030. कस्य कर्मणो विपाकेन? भगवानाह--यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः कुड्याकारांस्ते काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
211.031. तैः सांघिकं कुड्यं श्लेष्माणा सिंहाणकेन <212>विनाशितम्।
212.001. ते तस्य कर्मणो विपाकेन कुड्याकाराः संवृत्ताः।
212.001. यथा कुट्याकाराः, एवं स्तम्भाकाराः सत्त्वाः।
212.002. यान् संघरक्षित सत्त्वानाद्राक्षीर्वृक्षाकारांस्ते काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
212.003. तैः सांघिकाः पुष्पवृक्षाः फलवृक्षाः पौद्गलिकपरिभोगेन भुक्ताः।
212.004. ते तस्य कर्मणो विपाकेन वृक्षाकाराः संवृत्ताः।
212.004. यथा वृक्षाकाराः, एवं पत्राकाराअः फलाकाराः पुष्पाकाराः।
212.005. यं त्वं संघरक्षित सत्त्वमद्राक्षी रज्ज्वाकारम्, स काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत्।
212.006. तेन संघिका रज्जुः पौद्गलिकपरिभोगेन परिभुक्ता।
212.007. स तस्य् कर्मणो संघरक्षित सत्त्वमद्राक्षीस्तप्वाकारम् (?) काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत् श्रामणेरकः।
212.009. सो ऽपरेण समयेन पानकवारमुद्दिष्टस्तद्वारकं निर्मादयति।
212.010. आगन्तुकाश्च भिक्षुव आगताः।
212.010. स तैः पृष्टह्--श्रामणेरक, किं संघस्य पानकं भविष्यति? स कथयति--नास्तीति।
212.011. ते निराशीभूताः प्रक्रान्ताः।
212.011. संघस्य च पानकं संपन्नम्।
212.011. स तस्य कर्मणो विपाकेन तप्वाकारः संवृत्तः।
212.012. यं त्वं संघरक्षित सत्त्वमद्राक्षीरुदूखलाकारम्, स काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत्।
212.013. तस्य पात्रकर्म प्रत्युपस्थितम्।
212.013. तत्रैकः श्रामणेरको ऽर्हन्।
212.014. स तेनोक्तह्--श्रामणेरक, ददस्व मे खलस्तोकं कुट्टयित्वा।
212.014. स कथयति--स्थविर, तिष्ठ तावन्मुहूर्तम्।
212.015. व्यग्रो ऽहम्।
212.015. पश्चाद्दास्यामीति।
212.015. सो ऽमर्षजातः कथयति--श्रामणेरक, यदि रोचते, त्वामेवाहमस्मिन्न् उदूखले प्रक्षिप्य कुट्टये प्रागेव खलस्तोकम्।
212.016. यत्तदर्हतो ऽन्तिके खरं वाक्कर्म निश्चारितम्, स तस्य कर्मणो विपाकेन उदूखलाकारः संवृत्तः।
212.017. यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः स्थाल्याकारांस्ते काश्यपस्य सम्यक्सम्ब्बुद्धस्य कल्पिकारका आसन्।
212.018. ते भिक्षूणां भैषज्यानि क्वाथयमानाः स्थालिकां भञ्जते।
212.019. तेषां भिक्षूणां विघातो भवति।
212.019. ते तस्य कर्मणो विपाकेन स्थाल्याकाराः संवृत्ताः।
212.020. यं त्वं संघरक्षित सत्त्वमद्राक्षीर्मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति, स काश्यपस्य सम्यक्सम्बुद्धस्य प्रवचने प्रव्रजित आसील्लाभग्राहिकः।
212.021. तेन यद्वार्षिकं लाभं तद् धैमन्तिकं परिणामितम्, यद्धैमन्तिकं तद्वार्षिकम्।
212.022. तस्य कर्मणो विपाकेन मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति॥
212.024. संघरक्षितावदानं त्रयोविंशतिमम्॥
********** अवदान 24 **********
213.001. दिव्24 नागकुमारावदानम्।
213.002. भिक्षुवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कुतो भदन्त तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा? भगवानाह--भूतपूर्वं भिक्षुवो ऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोकम् उत्पन्नस्तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
213.005. स एवं श्रावकाणां धर्मं देशयति--एतानि भिक्षवो ऽरण्यानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि ध्यायत।
213.006. भिक्षवो मा प्रमादत।
213.007. मा पश्चाद्विप्रतिसारिणो भूत।
213.007. इदमस्माकमनुशासनम्।
213.007. तत्र केचिद्भिक्षवः सुमेरुपरिषण्डायां गत्वा ध्यायन्ति, केचिन्मन्दाकिन्याः पुष्करिण्यास्तीरे, केचिदनवतप्ते महासरसि, केचित् सप्तसु काञ्चनमयेषु पर्वतेषु, केचित् तासु तासु ग्रामनिगमराजराष्ट्रधानीषु गत्वा ध्यायन्ति॥
213.011. अन्यतमश्च चिरजातको नागकुमारः सुपर्णिना पक्षिराजेन सुमेरुपरिषण्डायामुपरिष्टादपह्रियते।
213.012. यावत् तेन भिक्षवो ध्यानाध्ययनयोगमनसिकारयुक्ता विहरन्तो दृष्टाः।
213.012. दृष्ट्वा चास्य चित्तमभिप्रसन्नम्।
213.013. प्रसादजातः संलक्षयति--मुक्ता ह्येते आर्यका एवंविधाद् दुःखात्।
213.014. च्युतः कालगतो वाराणस्यां षट्कर्मनिरते ब्राह्मणकुले जातः।
213.014. उन्नीतो वर्धितो महान् संवृत्तः।
213.015. सो ऽपरेण समयेन काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितः।
213.015. तेनोद्यता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
213.016. अर्हन् संवृत्तः पूर्ववद्यावन्मान्यश्च पूज्यश्चाभिवन्द्यश्च संवृत्तः।
213.017. स संलक्षयति--कुतो ऽहं च्युतह्? तिर्यक्षु।
213.017. कुत्रोपपन्नह्? मनुष्येषु।
213.017. कुत्र मम मातापितरौ? यावत् पश्यति नागभवने रुदन्तौ तिष्ठतः।
213.018. स तत्र गतः।
213.018. गत्वा पृच्छितुमारब्धह्--अम्ब तात कस्यार्थे रुदितह्? तौ कथयतह्--आर्य, सुचिरजातको ऽस्माकं नागकुमारः सुपर्णिना पक्षिराजेनापहृतः।
213.020. स कथयति--अहमेवासौ।
213.020. आर्य, तादृशः स दुष्टानागो यद्वयं सुगतिगमनमपि न संभावयामः, प्रागेवेदृशानां धर्माणां लाभी भविष्यति।
213.021. तेन तौ स्मारितौ।
213.021. पादयोर् निपत्य कथयतह्--आर्य, एवंविधास्त्वया गुणगणा अधिगताः।
213.022. आर्य त्वं पिण्डकेनार्थी, वयं पुण्येनार्थिकाः।
213.023. इहैव त्वमागम्य दिवसे दिवसे भक्तकृत्यं कृत्वा गच्छ।
213.023. स नागभवने दिव्यां सुधां परिभुक्त्वा आगच्छति।
213.024. तस्य श्रामणेरकः सार्धविहारी।
213.024. स भिक्षुभिरुक्तह्--श्रामणेरक, अयं ते उपाध्यायः कुत्र भुक्त्वा आगच्छति? स कथयति--नाहं जाने।
213.025. ते कथयन्ति--नागभवने दिव्यां सुधां परिभुज्य पारिभुज्यागच्छति।
213.026. त्वं कस्यार्थे न गच्छति? स कथयति--अयं महर्द्धिको महानुभावो येन गच्छति।
213.027. कथमहं गच्छामि? ते कथयन्ति--यदा अयम् ऋद्ध्या गच्छति, तदा त्वमस्य चीवरकर्णिकं गृहाण।
213.028. स कथयति--मा पतेयम्।
213.028. ते कथयन्ति--भद्रमुख, यदि सुमेरुः पर्वतराजा चीवरकर्णिकमवलम्बते, नासौ पतेत्, प्रागेव त्वं पतिष्यसीति।
213.030. यो यस्मिन् स्थाने ऽन्तर्धास्यति, तेन तत्र निमित्तमुद्गृहीतम्।
213.030. स तत्प्रदेशं पूर्वमेव गत्वा अवस्थितः।
213.031. स चान्तर्धास्यतीति तेन चीवरकर्णिकं गृहीतम्।
213.031. तौ उपरि विहायसा <214>प्रक्रान्तौ यावत् तौ नागैर्दृष्टौ।
214.001. तयोर्द्वे ते आसनप्रज्ञप्तिकृतौ।
214.001. द्वौ मण्डलकौ आमार्जितौ।
214.001. स संलक्षयति--कस्यार्थे ऽयमपर आसनः प्रज्ञप्तह्? स प्रतिनिवर्त्य पश्यति यावत् श्रामणेरकम्।
214.003. स कथयति--भद्रमुख, त्वमप्यागतह्? उपाद्याय, आगतो ऽहम्।
214.003. शोभनम्।
214.003. नागाः संलक्षयन्ति--अयमार्यो महर्द्धिको महानुभावः।
214.004. शक्यते दिव्यां सुधां कारयितुम्।
214.004. अयमन्यो न शक्यते।
214.005. तैस्तस्य दिव्या सुधा दत्ता, तस्यापि प्राकृत आहारः।
214.005. स तस्य पात्रग्राहकः।
214.005. तेन तस्य पात्रं गृहीतम् यावत् तत्रैका ओदनमिज्य(?) वतिष्ठते।
214.006. सा तेनास्ये प्रक्षिप्ता यावद्दिव्यमास्वादनम्।
214.007. स संलक्षयति--ईदृशा अपि मत्सरिणो नागाः।
214.007. एकध्ये निषण्णयोरस्य दिव्या सुधा दत्ता, ममापि प्राकृत आहारः।
214.008. स प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धे ऽनुत्तरे महादक्षिणीये ब्रह्मचर्यं चीर्णम्, अनेनाहं कुशलमूलेनैतं नागमस्माद्भवनाच्च्यावयित्वा अत्रैवोपपद्येयमिति।
214.010. तस्य दृष्ट एव धर्मे उभाभ्यां पाणिभ्यां जलं स्यन्दितुमारब्धम्।
214.011. नागस्यापि शिरोर्तिर्बाधितुमारब्धा।
214.011. स कथयति--आर्य, अनेन श्रामणेरकेनाशोभनचित्तमुत्पादितम्।
214.012. प्रतिनिवर्तापयतु एनम्।
214.012. स कथयति--भद्रमुख, अपाया ह्येते, निवर्तय चित्तम्।
214.013. स गाथां भाषते--
214.014. प्रवणीभूउतमिदं चित्तं न शक्नोमि निवारयितुम्।
214.015. इहस्थस्यैव मे भदन्त पाणिभ्यां स्यन्दते जलम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0