ध्वन्यालोक · अध्याय 4
अस्मिन् व्यङ्ग्य-व्यञ्जकभावविवेचनमये काव्य-लक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रयाः वृत्तयो याश्चार्थतत्त्वसम्बद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थानाम् इव वृत्तीनामश्रद्धेयत्वम् एव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानाम् अर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं जात्यत्वम् इव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेर् उच्यते केनचित्तदयुक्तम् इति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस् तावद् अक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस् तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वम् चेति विशेषः । तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मादनाख्येयत्वं सर्व-शब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततो ऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वम् उच्यते क्वचित् तद् अपि काव्यविशेषाणां रत्नविशेषाणाम् इव न सम्भवति । तेषां लक्षणकारैव्याकृत-रूपत्वात् । रत्नविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषाम् अपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्य् एव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत् त्व् अनिर्देश्यत्वं सर्व-लक्षण-विषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च तस्योक्तम् एव ध्वनिलक्षणं साधीयः । तद् इदम् उक्तम्-
अनाख्येयांश-भासित्वं निर्वाच्यार्थतया ध्वनेः ।
न लक्षणं, लक्षणं तु साधीयो ऽस्य यथोदितम् ॥
॥ इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके तृतीय उद्द्योतः ॥
--ओ)0(ओ--
(4)
॥ चतुर्थोद्द्योतः ॥
एवं ध्वनिं स-प्रपञ्चं विप्रतिपत्ति-निरासार्थं व्युत्पाद्य तद्-व्युत्पादने प्रयोजनान्तरम् उच्यते-
ध्व्_4.1:
ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः
य एष ध्वनेर् गुणी-भूत-व्यङ्ग्यस्य च मार्गः प्रकाशितस् तस्य फलान्तरं कवि-प्रतिभानन्त्यम् ।
कथम् इति चेत्-
ध्व्_4.2:
अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि
अतो ध्वनेर् उक्त-प्रभेद-मध्याद् अन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातन-कवि-निबद्धार्थ-संस्पर्शवत्य् अपि नवत्वम् आयाति । तथा ह्य् अविवक्षित-वाच्यस्य ध्वनेः प्रकार-द्वय-समाश्रयेण नवत्वं पूर्वार्थानुगमे ऽपि, यथा-
स्मितं किंचिन् मुग्धं तरल-मधुरो दृष्टि-विभवः
परिस्पन्दो वाचाम् अभिनव-विलासोर्मि-सरसः ।
गतानाम् आरम्भः किसलयित-लीला-परिमलः
स्पृशन्त्यास् तारुण्यं किम् इव हि न रम्यं मृगदृशः ॥
इत्य् अस्य,
स-विभ्रम-स्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्-गिरः ।
नितम्बालस-गामिन्यः कामिन्यः कस्य न प्रियाः ॥
इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अपि तिरस्कृत-वाच्य-ध्वनि-समाश्रयेणापूर्वत्वम् एव प्रतिभासते । तथा-
यः प्रथमः प्रथमः स तु तथा हि हत-हस्ति-बहल-पललाशी ।
श्वापद-गणेषु सिंहः सिंहः केनाधरी-क्रियते ॥इत्य् अस्य,
स्व-तेजः-क्रीत-महिमा केनान्येनातिशय्यते ।
महद्भिर् अपि मातङ्गैः सिंहः किम् अभिभूयते ॥
इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अप्य् अर्थान्तर-सङ्क्रमित-वाच्य-ध्वनि-समाश्रयेण नवत्वम् ।
विवक्षितान्य् अपर-वाच्यस्याप्य् उक्त-प्रकार-समाश्रयेण नवत्वं, यथा-
निद्रा-कैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधूर्
बोध-त्रास-निरुद्ध-चुम्बन-रसाप्य् आभोग-लोलं स्थिता ।
वैलक्ष्याद् विमुखीभवेद् इति पुनस् तस्याप्य् अनारम्भिणः
साकाङ्क्ष-प्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥
इत्य् आदेः श्लोकस्य,
शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किंचिच् छनैर्
निद्रा-व्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् ।
विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्थलीं
लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥
इत्य् आदिषु श्लोकेषु सत्स्व् अपि नवत्वम् ।
यथा वा-"तरङ्गभ्रूभङ्गा" इत्य् आदिश्लोकस्य "नानाभङ्गिभ्रमद्भ्रूः" इत्य् आदिश्लोकापेक्षयान्यत्वम्
ध्व्_4.3:
युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः ।
मिथो ऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात्
बहु-विस्तारो ऽयं रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणो मार्गो यथास्वं विभावानुभाव-प्रभेद-कलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुसर्तव्यः । यस्य रसादेर् आश्रयाद् अयं काव्य-मार्गः पुरातनैः कविभिः सहस्र-संख्यैर् असंख्यैर् वा बहु-प्रकारं क्षुण्णत्वान् मितो ऽप्य् अनन्तताम् एति । रस-भावादीनां हि प्रत्येकं विभावानुभाव-व्यभिचारि-समाश्रयाद् अपरिमितत्वम् । तेषां चैकैक-प्रभेदापेक्षयापि तावज् जगद्-वृत्तम् उपनिबध्यमानं सुकविभिस् तद्-इच्छा-वशाद् अन्यथा स्थितम् अप्य् अन्यथैव विवर्तते । प्रतिपादितं चैतच् चित्र-विचारावसरे । गाथा चात्र कृतैव महा-कविना-
अतथा-स्थितान् अपि तथा-संस्थितान् इव हृदये या निवेशयति ।
अर्थ-विशेषान् सा जयति विकट-कवि-गोचरा वाणी ॥
तद् इत्थं रस-भावाद्य्-आश्रयेण काव्यार्थानाम् आनन्त्यं सुप्रतिपादितम् । एतद् एवोपपादयितुम् उच्यते-
ध्व्_4.4:
दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् ।
सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः
तथा हि विवक्षितान्य् अपर-वाच्यस्यैव शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-प्रकार-समाश्रयेण नवत्वम् । यथा-"धरणी-धारणायाधुना त्वं शेषः" इत्य् आदेः ।
शेषो हिम-गिरिस् त्वं च महान्तो गुरवः स्थिराः ।
यद् अलङ्घित-मर्यादाश् चलन्तीं बिभ्रते भुवम् ॥
इत्य् आदिषु सत्स्व् अपि ।
तस्यैवार्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-समाश्रयेण नवत्वम् । यथा-"एवं-वादिनि देवर्षौ" इत्य् आदि श्लोकस्य ।
कृते वर-कथालापे कुमार्यः पुलकोद्गमैः ।
सूचयन्ति स्पृहाम् अन्तर्-लज्जयावनताननाः ॥
इत्य् आदिषु सत्स्व् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-प्रौढोक्ति-निर्मित-शरीरत्वेन नवत्वम् । यथा-"सज्जयति सुरभि-मासो" इत्य् आदेः ।
सुरभि-समये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः ।
रागवताम् उत्कलिकाः सहैव सहकार-कलिकाभिः ॥
इत्य् आदिषु सत्स्व् अप्य् अपूर्वत्वम् एव ।
अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरत्वेन नवत्वम् । यथा "ऽवाणिज्य हस्ति-दन्ताः" इत्य् आदि-गाथार्थस्य ।
करिणी-बेहब्बअरो मह पुत्तो एक्क-काण्ड-विनिबाई ।
हअ सोण्हाएं तह कहो जह कण्ड-करण्डअं बह{इ} ॥
[करिणी-वैधव्य-करो मम पुत्र एक-काण्ड-विनिपाती ।
हत-स्नुषया तथा कृतो यथा काण्ड-करण्डकं वहति ॥]
एवम् आदिष्व् अर्थेषु सत्स्व् अप्य् अनालीढतैव
यथा व्यङ्ग्य-भेद-समाश्रयेण ध्वनेः काव्यार्थानां नवत्वम् उत्पद्यते, तथा व्यञ्जक-भेद-समाश्रयेणापि । तत् तु ग्रन्थ-विस्तर-भयान् न लिख्यते, स्वयम् एव सहृदयैर् अभ्यूह्यम् । अत्र च पुनः पुनर् उक्तम् अपि सारतयेदम् उच्यते-
ध्व्_4.5:
व्यङ्ग्य-व्यञ्जक-भावे ऽस्मिन् विविधे सम्भवत्य् अपि ।
रसादि-मय एकस्मिन् कविः स्याद् अवधानवान्
अस्मिन्न् अर्थानन्त्य-हेतौ व्यङ्ग्य-व्यञ्जक-भावे विचित्रे शब्दानां सम्भवत्य् अपि कविर् अपूर्वार्थ-लाभार्थी रसादि-मय एकस्मिन् व्यङ्ग्य-व्यञ्जक-भावे यत्नाद् अवदधीत । रस-भाव-तद्-आभास-रूपे हि व्यङ्ग्ये तद्-व्यञ्जकेषु च यथा-निर्दिष्टेषु वर्ण-पद-वाक्य-रचना-प्रबन्धेष्व् अवहित-मनसः कवेः सर्वम् अपूर्वं काव्यं सम्पद्यते ।
तथा च रामायण-महाभारतादिषु सङ्ग्रामादयः पुनः पुनर् अभिहिता अपि नव-नवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानो ऽर्थ-विशेष-लाभं छायातिशयं च पुष्णाति । कस्मिन्न् इवेति चेत्-यथा रामायणे यथा वा महाभारते । रामायणे हि करुणो रसः स्वयम् आदि-कविना सूत्रितः "शोकः श्लोकत्वम् आगतः" इत्य् एवं-वादिना । निर्व्यूढश् च स एव सीतात्यन्त-वियोग-पर्यन्तम् एव स्व-प्रबन्धम् उपरचयता । महाभारते ऽपि शास्त्र-काव्य-रूप-च्छायान्वयिनि वृष्णि-पाण्डव-विरसावसान-वैमनस्य-दायिनीं समाप्तिम् उपनिबध्नता महा-मुनिना वैराग्य-जनन-तात्पर्यं प्राधान्येन स्व-प्रबन्धस्य दर्शयता मोक्ष-लक्षणः पुरुषार्थः शान्तो रसश् च मुख्यतया विवक्षा-विषयत्वेन सूचितः । एतच् चांशेन विवृतम् एवान्यैर् व्याख्या-विधायिभिः । स्वयम् एव चैतद् उद्गीर्णं तेनोदीर्ण-महा-मोह-मग्नम् उज्जिहीर्षता लोकम् अतिविमल-ज्ञानालोक-दायिना लोक-नाथेन-
यथा यथा विपर्येति लोक-तन्त्रम् असारवत् ।
तथा तथा विरागो ऽत्र जायते नात्र संशयः ॥
इत्य् आदि बहुशः कथयता । ततश् च शान्तो रसो रसान्तरैर् मोक्ष-लक्षणः पुरुषार्थः पुरुषार्थान्तरैस् तद्-उपसर्जनत्वेनानुगम्यमानो ऽङ्गित्वेन विवक्षा-विषय इति महाभारत-तात्पर्यं सुव्यक्तम् एवावभासते ।
अङ्गाङ्गि-भावश् च यथा रसानां तथा प्रतिपादितम् एव ।
पारमार्थिकान्तस् तत्त्वानपेक्षया शरीरस्येवाङ्ग-भूतस्य रसस्य पुरुषार्थस्य च स्व-प्राधान्येन चारुत्वम् अप्य् अविरुद्धम् ।
ननु महाभारते यावान् विवक्षा-विषयः सो ऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत् तत्र दृश्यते, प्रत्युत सर्व-पुरुषार्थ-प्रबोध-हेतुत्वं सर्व-रस-गर्भत्वं च महाभारतस्य तस्मिन्न् उद्देशे स्व-शब्द-निवेदितत्वेन प्रतीयते ।
अत्रोच्यते-सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्व-पुरुषार्थेभ्यः प्राधान्यम् इत्य् एतन् न स्व-शब्दाभिधेय-त्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन-"भगवान् वासुदेवश् च कीर्त्यते ऽत्र सनातनः" इत्य् अस्मिन् वाक्ये । अनेन ह्य् अयम् अर्थो व्यङ्ग्यत्वेन विवक्षितो यद् अत्र महाभारते पाण्डवादि-चरितं यत् कीर्त्यते तत् सर्वम् अवसान-विरसम् अविद्या-प्रपञ्च-रूपं च, परमार्थ-सत्य-स्वरूपस् तु भगवान् वासुदेवो ऽत्र कीर्त्यते । तस्मात् तस्मिन्न् एव परमेश्वरे भगवति भवत भावित-चेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नय-विनय-पराक्रमादिष्व् अमीषु केवलेषु केषुचित् सर्वात्मना प्रतिनिविष्ट-धियः । तथा चाग्रे-पश्यत निःसारतां संसारस्येत्य् अमुम् एवार्थं द्योतयन् स्फुटम् एवावभासते व्यञ्जक-शक्त्य्-अनुगृहीतश् च शब्दः । एवं-विधम् एवार्थं गर्भीकृतं सन्दर्शयन्तो ऽनन्तर-श्लोका लक्ष्यन्ते-"स हि सत्यम्" इत्य् आदयः ।
अयं च निगूढ-रमणीयो ऽर्थो महाभारतावसाने हरिवंश-वर्णनेन समाप्तिं विदधता तेनैव कवि-वेधसा कृष्ण-द्वैपायनेन सम्यक्-स्फुटी-कृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्य्-अतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्व-पक्षीकृतो न्यक्षेण प्रकाशते । देवता-तीर्थ-तपः-प्रभृतीनां च प्रभावातिशय-वर्णनं तस्यैव पर-ब्रह्मणः प्राप्त्य्-उपायत्वेन तद्-विभूतित्वेनैव देवता-विशेषाणाम् अन्येषां च । पाण्डवादि-चरित-वर्णनस्यापि वैराग्य-जनन-तात्पर्याद् वैराग्यस्य च मोक्ष-मूलत्वान् मोक्षस्य च भगवत्-प्राप्त्य्-उपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात् पर-ब्रह्म-प्राप्त्य्-उपायत्वम् एव परम्परया । वासुदेवादि-संज्ञाभिधेयत्वेन चापरिमित-शक्त्य्-आस्पदं परं ब्रह्म गीतादि-प्रदेशान्तरेषु तद्-अभिधानत्वेन लब्ध-प्रसिद्धि माथुर-प्रादुर्भावानुकृत-सकल-स्वरूपं विवक्षितं न तु माथुर-प्रादुर्भावांश एव, सनातन-शब्द-विशेषितत्वात् । रामायणादिषु चानया संज्ञया भगवन्-मूर्त्य्-अन्तरे व्यवहार-दर्शनात् । निर्णीतश् चायम् अर्थः शब्द-तत्त्व-विद्भिर् एव ।
तद् एवम् अनुक्रमणी-निर्दिष्टेन वाक्येन भगवद्-व्यतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्ष-लक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्य-नये च तृष्णाक्षय-सुख-परिपोष-लक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्त-सार-भूतत्वाच् चायम् अर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन । सार-भूतो ह्य् अर्थः स्व-शब्दानभिधेयत्वेन प्रकाशितः सुतराम् एव शोभाम् आवहति । प्रसिद्धिश् चेयम् अस्त्य् एव विदग्ध-विद्वत्-परिषत्सु यद् अभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्-छब्द-वाच्यत्वेन । तस्मात् स्थितम् एतत्-अङ्गिभूत-रसाद्य्-आश्रयेण काव्ये क्रियमाणे नवार्थ-लाभो भवति बन्ध-च्छाया च महती सम्पद्यत इति । अत एव च रसानुगुणार्थ-विशेषोपनिबन्धम् अलङ्कारान्तर-विरहे ऽपि छायातिशय-योगि लक्ष्ये दृश्यते । यथा-
मुनिर् जयति योगीन्द्रो महात्मा कुम्भ-सम्भवः ।
येनैक-चुलके दृष्टौ तौ दिव्यौ मत्स्य-कच्छपौ ॥इत्य् आदौ ।
अत्र ह्य् अद्भुत-रसानुगुणम् एक-चुलके मत्स्य-कच्छप-दर्शनं छायातिशयं पुष्णाति । तत्र ह्य् एक-चुलके सकल-जलधि-सन्निधानाद् अपि दिव्य-मत्स्य-कच्छप-दर्शनम् अक्षुण्णत्वाद् अद्भुत-रसानुगुणतरम् । क्षुण्णं हि वस्तु लोक-प्रसिद्ध्याद्भुतम् अपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानम् अद्भुत-रसस्यैवानुगुणं यावद् रसान्तरस्यापि । तद् यथा-
स्विद्यति रोमाञ्चते वेपते रथ्यायां तुलाग्रेण ।
स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥
[स्विद्यति रोमाञ्चते वेपते रथ्यायां तुलाग्रेण ।
स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥]
एतद् गाथार्थाद् भाव्यमानाद् या रस-प्रतीतिर् भवति, सा त्वां स्पृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्य् एवं-विधाद् अर्थात् प्रतीयमानान् मनाग् अपि नो जायते । तद् एवं ध्वनि-प्रभेद-समाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूत-व्यङ्ग्यस्यापि त्रिभेद-व्यङ्ग्यापेक्षया ये प्रकारास् तत्-समाश्रयेणापि काव्य-वस्तूनां नवत्वं भवत्य् एव । तत् त्व् अतिविस्तार-कारीति नोदाहृतं सहृदयैः स्वयम् उत्प्रेक्षणीयम्
ध्व्_4.6:
ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थ-विरामो ऽस्ति यदि स्यात् प्रतिभा-गुणः
सत्स्व् अपि पुरातन-कवि-प्रबन्धेषु यदि स्यात् प्रतिभा-गुणः, तस्मिंस् त्व् असति न किंचिद् एव कवेर् वस्त्व् अस्ति । बन्ध-च्छायाप्य् अर्थ-द्वयानुरूप-शब्द-सन्निवेशो ऽर्थ-प्रतिभानाभावे कथम् उपपद्यते । अनपेक्षितार्थ-विशेषाक्षर-रचनैव बन्ध-च्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्य् अर्थानपेक्ष-चतुर-मधुर-वचन-रचनायाम् अपि काव्य-व्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथा-विधे विषये काव्य-व्यवस्थेति चेत्-परोपनिबद्धार्थ-विरचने यथा तत्-काव्यत्व-व्यवहारस् तथा तथा-विधानां काव्य-सन्दर्भाणाम्
न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद् वाच्यार्थापेक्षयापीति प्रतिपादयितुम् उच्यते-
ध्व्_4.7:
अवस्थादेश-कालादि-विशेषैर् अपि जायते ।
आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः
शुद्धस्यानपेक्षित-व्यङ्ग्यस्यापि वाच्यस्यानन्त्यम् एव जायते स्वभावतः । स्वभावो ह्य् अयं वाच्यानां चेतनानाम् अचेतनानां च यद् अवस्था-भेदाद् देश-भेदात् काल-भेदात् स्वालक्षण्य-भेदाच् चानन्तता भवति । तैश् च तथा-व्यवस्थितैः सद्भिः प्रसिद्धानेक-स्वभावानुसरण-रूपया स्वभावोक्त्यापि तावद् उपनिबध्यमानैर् निरवधिः काव्यार्थः सम्पद्यते ।
तथा ह्य् अवस्था-भेदान् नवत्वं यथा-भगवती पार्वती कुमारसम्भवे "सर्वोपमा-द्रव्य-समुच्चयेन" [कु.सं. 1.49] इत्य् आदिभिर् उक्तिभिः प्रथमम् एव परिसमापित-रूप-वर्णनापि पुनर् भगवतः शम्भोर् लोचन-गोचरम् आयान्ती "वसन्त-पुष्पाभरणं वहन्ती" [कु.सं. 3.53] मन्मथोपकरण-भूतेन भङ्ग्यन्तरेणोपवर्णिता । सैव च पुनर् नवोद्वाह-समये प्रसाध्यमाना "तां प्राङ्-मुखीं तत्र निवेश्य तन्वीम्" इत्य् आद्य्-उक्तिभिर् नवेनैव प्रकारेण निरूपित-रूप-सौष्ठवा ।
न च ते तस्य कवेर् एकत्रैवासकृत्-कृता वर्णन-प्रकारा अपुनर्-उक्तत्वेन वा नव-नवार्थ-निर्भरत्वेन वा प्रतिभासन्ते । दर्शितम् एव चैतद् विषम-बाण-लीलायाम्-
ण अ ताणं घड(इ) ओही ण अ ते दीसन्ति कह बि पुनरुत्ता ।
जे बिब्भमा पिआणं अत्था वा सुक(इ)-बाणीनं ॥
[न च तेषां घटते ऽवधिः, न च ते दृश्यन्ते कथम् अपि पुनरुक्ताः ।
ये विभ्रमाः प्रियाणाम् अर्था वा सुकवि-वाणीनाम् ॥]
अयम् अपरश् चावस्था-भेद-प्रकारो यद् अचेतनानां सर्वेषां चेतनं द्वितीयं रूपम् अभिमानित्व-प्रसिद्धं हिमवद् गङ्गादीनाम् । तच् चोचित-चेतन-विषय-स्वरूप-योजनयोपनिबध्यमानम् अन्यद् एव सम्पद्यते । यथा कुमार-सम्भव एव पर्वत-स्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षि-प्रियोक्तिषु चेतन-तत्-स्वरूपापेक्षया प्रदर्शितं तद् अपूर्वम् एव प्रतिभाति । प्रसिद्धश् चायं सत्-कवीनां मार्गः । इदं च प्रस्थानं कवि-व्युत्पत्तये विषम-बाण-लीलायां स-प्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्य्-अवस्थाभिर् अन्यत्वं सत्-कवीनां प्रसिद्धम् एव । चेतनानाम् अवस्था-भेदे ऽप्य् अवान्तरावस्था-भेदान् नानात्वम् । यथा कुमारीणां कुसुम-शर-भिन्न-हृदयानाम् अन्यासां च । तत्रापि विनीतानाम् अविनीतानां च । अचेतनानां च भावानाम् आरम्भाद्य्-अवस्था-भेद-भिन्नानाम् एकैकशः स्वरूपम् उपनिबध्यमानम् आनन्त्यम् एवोपयाति । यथा-
हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम्
अन्यः को ऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो विभ्रमः ।
ते सम्प्रत्य् अकठोर-वारण-वधू-दन्ताङ्कुर-स्पर्धिनो
निर्याताः कमलाकरेषु बिसिनी-कन्दाग्रिम-ग्रन्थयः ॥[*23]
[*23] स्र्क् 284, स्क्म् 1309 (च्रेदितेद् तो कमलायुध)
एवम् अन्यत्रापि दिशानयानुसर्तव्यम् । देश-भेदान् नानात्वम् अचेतनानां तावत् । यथा वायूनां नाना-दिग्-देश-चारिणाम् अन्येषाम् अपि सलिल-कुसुमादीनां प्रसिद्धम् एव । चेतनानाम् अपि मानुष-पशु-पक्षि-प्रभृतीनां ग्रामारण्य-सलिलादि-समेधितानां परस्परं महान् विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथम् उपनिबध्यमानस् तथैवानन्त्यम् आयाति । तथा हि-मानुषाणाम् एव तावद् दिग्-देशादि-भिन्नानां ये व्यवहार-व्यापारादिषु विचित्रा विशेषास् तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् । उपनिबध्यते च तत् सर्वम् एव सुकविभिर् यथा-प्रतिभम् ।
काल-भेदाच् च नानात्वम् । यथ र्तु-भेदाद् दिग्-व्योम-सलिलादीनाम् अचेतनानाम् । चेतनानां चौत्सुक्यादयः काल-विशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्य-प्रभेदाच् च सकल-जगद्-गतानां वस्तूनां विनिबन्धनं प्रसिद्धम् एव । तच् च यथावस्थितम् अपि तावद् उपनिबध्यमानम् अनन्तताम् एव काव्यार्थस्यापादयति ।
अत्र केचिद् आचक्षीरन्-यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयम् अनुभूतानां सुखादीनां तन्-निमित्तानां च स्वरूपम् अन्यत्रारोपयद्भिः स्व-परानुभूत-रूप-सामान्य-मात्राश्रयेणोपनिबध्यन्ते कविभिः । न हि तैर् अतीतम् अनागतं वर्तमानं च परिचितादि-स्व-लक्षणं योगिभिर् इव प्रत्यक्षीक्रियते ; तच् चानुभाव्यानुभव-सामान्यं सर्व-प्रतिपत्तृ-साधारणं परिमितत्वात् पुरातनानाम् एव गोचरी-भूतम्, तस्याविषयत्वानुपपत्तेः । अत एव स प्रकार-विशेषो यैर् अद्यतनैर् अभिनवत्वेन प्रतीयते तेषाम् अभिमान-मात्रम् एव भणिति-कृतं वैचित्र्य-मात्रम् अत्रास्तीति ।
तत्रोच्यते-यत् तूक्तं सामान्य-मात्राश्रयेण काव्य-प्रवृत्तिस् तस्य च परिमितत्वेन प्राग् एव गोचरी-कृतत्वान् नास्ति नवत्वं काव्य-वस्तूनाम् इति, तद् अयुक्तम् ; यतो यदि सामान्य-मात्रम् आश्रित्य काव्यं प्रवर्तते किं कृतस् तर्हि महा-कवि-निबध्यमानानां काव्यार्थानाम् अतिशयः । वाल्मीकि-व्यतिरिक्तस्यान्यस्य कवि-व्यपदेश एव वा सामान्य-व्यतिरिक्तस्यान्यस्य काव्यार्थस्याभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्ति-वैचित्र्यान् नैष दोष इति चेत्-किम् इदम् उक्ति-वैचित्र्यम् ? उक्तिर् हि वाच्य-विशेष-प्रतिपादि वचनम् । तद्-वैचित्र्ये कथं न वाच्य-वैचित्र्यम् ? वाच्य-वाचकयोर् अविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद् रूपं तत् तु ग्राह्य-विशेषाभेदेनैव प्रतीयते । तेनोक्ति-वैचित्र्य-वादिना वाच्य-वैचित्र्यम् अनिच्छताप्य् अवश्यम् एवाभ्युपगन्तव्यम् । तद् अयम् अत्र सङ्क्षेपः-
वाल्मीकि-व्यतिरिक्तस्य यद्य् एकस्यापि कस्यचित् ।
इष्यते प्रतिभार्थेषु तत् तद् आनन्त्यम् अक्षयम् ॥
किं च, उक्ति-वैचित्र्यं यत् काव्य-नवत्वे निबन्धनम् उच्यते तद् अस्मत्-पक्षानुगुणम् एव । यतो यावान् अयं काव्यार्थानन्त्य-भेद-हेतुः प्रकारः प्राग् दर्शितः स सर्व एव पुनरुक्ति-वैचित्र्याद् द्वि-गुणताम् आपद्यते । यश् चायम् उपमा-श्लेषादिर् अलङ्कार-वर्गः प्रसिद्धः स भणिति-वैचित्र्याद् उपनिबध्यमानः स्वयम् एवानवधिर् धत्ते पुनः शत-शाखताम् । भणितिश् च स्व-भाषा-भेदेन व्यवस्थिता सती प्रतिनियत-भाषा-गोचरार्थ-वैचित्र्य-निबन्धनं पुनर् अपरं काव्यार्थानाम् आनन्त्यम् आपादयति । यथा ममैव-
मह मह इति भणन्तहो बज्जदि कालो जणस्स ।
तोइ ण देउ जनद्दणु गोअरीभोदि मणस्स ॥
[मम मम इति भणतो व्रजति कालो जनस्य ।
तथापि न देवो जनार्दनो गोचरो भवति मनसः]
इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यते ऽन्तः काव्यार्थानाम् । इदं तूच्यते-
ध्व्_4.8:
अवस्थादि-विभिन्नानां वाच्यानां विनिबन्धनम् ।
यत् प्रदर्शितं प्राक्-
भूम्नैव दृश्यते लक्ष्ये . . . . . . . . . . .
न तच् छक्यम् अपोहितुम् ।
. . . . . . . . . . .तत् तु भाति रसाश्रयात्
तद् इदम् अत्र सङ्क्षेपेणाभिधीयते सत्-कवीनाम् उपदेशाय-
ध्व्_4.9:
रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी ।
अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी
तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् ।
ध्व्_4.10:
वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव
यथा हि जगत्-प्रकृतिर् अतीत-कल्प-परम्पराविर्भूत-विचित्र-वस्तु-प्रपञ्चा सती पुनर् इदानीं परिक्षीणा पर-पदार्थ-निर्माण-शक्तिर् इति न शक्यते ऽभिधातुम् । तद्वद् एवेयं काव्य-स्थितिर् अनन्ताभिः कवि-मतिभिर् उपभुक्तापि नेदानीं परिहीयते, प्रत्युत नव-नवाभिर् व्युत्पत्तिभिः परिवर्धते । इत्थं स्थिते ऽपि
ध्व्_4.11:
संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् ।
स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः ।
किन्तु-
नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता
कथम् इति चेत्-
ध्व्_4.12:
संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम्
संवादो हि काव्यार्थस्योच्यते यद् अन्येन काव्य-वस्तुना सादृश्यम् । तत् पुनः शरीरिणां प्रतिबिम्बवद् आलेख्याकारवत् तुल्य-देहिवच् च त्रिधा व्यवस्थितम् । किंचिद् धि काव्य-वस्तु वस्त्व्-अन्तरस्य शरीरिणः प्रतिबिम्ब-कल्पम्, अन्यद् आलेख्य-प्रख्यम्, अन्यत् तुल्येन शरीरिणा सदृशम् ।
ध्व्_4.13:
तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् ।
तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः
तत्र पूर्वं प्रतिबिम्ब-कल्पं काव्य-वस्तु परिहर्तव्यं सुमतिना । यतस् तद्-अनन्यात्म तात्त्विक-शरीर-शून्यम् । तद्-अनन्तरम् आलेख्य-प्रख्यम् अन्य-साम्यं शरीरान्तर-युक्तम् अपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्न-कमनीय-शरीर-सद्भावे सति ससंवादम् अपि काव्य-वस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशो ऽप्य् एक एवेति शक्यते वक्तुम्
एतद् एवोपपादयितुम् उच्यते-
ध्व्_4.14:
आत्मनो ऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि ।
वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम्
तत्त्वस्य सार-भूतस्यात्मनः सद्-भावे ऽन्यस्य पूर्व-स्थित्य्-अनुयाय्य् अपि वस्तु भातितराम् ।
पुराण-रमणीय-च्छायानुगृहीतं हि वस्तु शरीरवत् परां शोभां पुष्यति । न तु पुनर्-उक्तत्वेनावभासते । तन्व्याः शशि-च्छायम् इवाननम्
एवं तावत् स-संवादानां समुदाय-रूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थ-रूपाणां च वस्त्व्-अन्तर-सदृशानां काव्य-वस्तूनां नास्त्य् एव दोष इति प्रतिपादयितुम् उच्यते-
ध्व्_4.15:
अक्षरादि-रचनेव योज्यते यत्र वस्तु-रचना पुरातनी ।
नूतने स्फुरति काव्य-वस्तुनि व्यक्तम् एव खलु सा न दुष्यति
न हि वाचस्पतिनाप्य् अक्षराणि पदानि वा कानिचिद् अपूर्वाणि घटयितुं शक्यन्ते । तानि तु तान्य् एवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थ-रूपाणि श्लेषादि-मयान्य् अर्थ-तत्त्वानि । तस्मात्-
ध्व्_4.16:
यदपि तद् अपि रम्यं . . . . . . . .
काव्य-शरीरं
. . . . . . . . यत्र लोकस्य किंचित्
यल् लोकस्य किंचित् ।
स्फुरितम् इदम् इतीयं बुद्धिर् अभ्युज्जिहीते ।
स्फुरणेयं काचिद् इति सहृदयानां चमत्कृतिर् उत्पद्यते ।
अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक्
सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति
तद्-अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् तादृक्षं सुकविर् विवक्षित-व्यङ्ग्य-वाच्यार्थ-समर्पण-समर्थ-शब्द-रचना-रूपया बन्ध-च्छाययोपनिबध्नन्-निन्द्यतां नैव याति । तद् इत्थं स्थितम्-
ध्व्_4.17:
प्रतीयन्तां वाचो निमित-विविधार्थामृत-रसा
न सादः कर्तव्यः कविभिर् अनवद्ये स्व-विषये ।
सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थ-विरचने न कश्चित् कवेर् गुण इति भावयित्वा ।
परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः
सरस्वत्य् एवैषा घटयति यथेष्टं भगवती
मूल पाठ: Dhvanyāloka (also known as Sahṛdayaloka) · Edition: K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982. · Data entry Rajani Arjun Shankar Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0