धर्मसूत्र · अध्याय 4
गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वांयवीयसीम् ।
असमानप्रवरैर् विवाहः ।
ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो ।
बीजिनश् च ।
मातृबन्धुभ्यः पञ्चमात् ।
ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्यालंकृताम् ।
संयोगमन्त्रः प्राजापत्ये सह धर्मश् चर्यताम् इति ।
आर्षे गोमिथुनं कन्यावते दद्यात् ।
अन्तर्वेद्यृत्विजे दानं दैवो ऽलंकृत्य ।
इच्छन्त्याः स्वयं संयोगो गान्धर्वः ।
वित्तेनानतिः स्त्रीमताम् आसुरः ।
प्रसह्यादानाद् राक्षसः ।
असंविज्ञातोपसंगमात् पैशाचः ।
चत्वारो धर्म्याः प्रथमाः ।
षड् इत्य् एके ।
अनुलोमानन्तरैकान्तरद्व्यन्तरासु ज्ञाताःसवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ।
प्रतिलोमास् तु सूतमागधायोगवकृतवैदेहकचण्डालाः ।
ब्राह्मण्य् अजीजनत् पुत्रान् वर्णेभ्य आनुपूर्व्याद्ब्राह्मणसूतमागधचण्डालान् ।
तेभ्य एव क्षत्रियामूर्धावसिक्थक्षत्रियधीवरपुल्कसांस् ।
तेभ्य एव वैश्याभृज्जकण्ठमाहिष्यवैश्यवैदेहान् ।
पारशवयवनकरणशूद्राञ् शूद्रेत्य् एके ।
वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यांसप्तमे
पञ्चमे वाचार्याः ।
सृष्ट्यन्तरजातानां च ।
प्रतिलोमास् तु धर्महीनाः ।
शूद्रायां च ।
असमानायां तु शूद्रात् पतितवृत्तिः ।
अन्त्यः पापिष्ठः ।
पुनन्ति साधवः पुत्राः ।
त्रिपुरुषम् आर्षात् ।
दश दैवाद् ।
दशैव प्राजापत्यात् ।
दश पूर्वान् दश परान् आत्मानं चब्राह्मीपुत्रो ब्राह्मीपुत्रः ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0