धर्मसूत्र · अध्याय 5
ऋताव्(ऋतु) उपेयात् ।
सर्वत्र वा प्रतिषिद्धवर्जम् ।
देवपितृमनुष्यभूतर्षिपूजकः ।
नित्यस्वाध्यायः ।
पितृभ्यश् चोदकदानं ।
यथोत्साहम् अन्यत् ।
भार्यादिर् अग्निर् दायादिर् वा ।
तस्मिन् गृह्याणि कर्माणि ।
देवपितृमनुष्ययज्ञाः स्वाध्यायश् च बलिकर्म ।
अग्नाव् अग्निर् धन्वन्तरिर् विश्वे देवाः प्रजापतिःस्विष्टकृद् इति होमः ।
दिग्देवताभ्यश् च यथास्वम् ।
द्वार्षु महद्भ्यः ।
गृहदेवताभ्यः प्रविश्य ।
ब्रह्मणे मध्ये ।
अद्भ्य उदकुम्भे ।
आकाशायेत्य् अन्तरिक्षे
नक्तंचरेभ्यश् च सायम् ।
स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम् ।
ददातिषु चैवं धर्म्येषु ।
समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः ।
गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ।
भिक्षमाणेषु कृतान्नम् इतरेषु ।
प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात् ।
क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृतान्यपातकानि ।
भोजयेत् पूर्वमतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविराञ् जघन्यांश् ।
आचार्यपितृसखीनां च निवेद्य पचनक्रिया ।
ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थानेमधुपर्कः ।
सम्वत्सरे पुनः ।
यज्ञविवाहयोर् अर्वाक् ।
राज्ञश् च श्रोत्रियस्य ।
अश्रोत्रियस्यासनोदके ।
श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् चप्रकारयेत् ।
नित्यं वा संस्कारविशिष्टम् ।
मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते ।
विपरीतेषुतृणोदकभूमि ।
स्वागतम् अन्ततः ।
पूजानत्याशश् च ।
शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोःसमानानि ।
अल्पशो ऽपि हीने ।
असमानग्रामो ऽतिथिरैकरात्रिको ऽधिवृक्षसूर्योपस्थायी ।
कुशलानामयारोग्याणाम् अनुप्रश्नः ।
अन्त्यं शूद्रस्य ।
ब्राह्मणस्यानतिथिर् अब्राह्मणः ।
यज्ञे संवृतश् चेत् ।
भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मनेभ्यः ।
अन्यान् भृत्यैः सहानृशंस्यार्थम् आनृशंस्यार्थम् ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0