भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 3

3.1

तस्याश्रमविकल्पम् एके ब्रुवते ।

3.2

ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः ।

3.3

तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतेरेषाम् ।

3.4

तत्रोक्तं ब्रह्मचारिणः ।

3.5

आचार्याधीनत्वम् आन्तम् ।

3.6

गुरोः कर्मशेषेण जपेत् ।

3.7

गुर्वभावे तदपत्यवृत्तिस् ।

3.8

तदभावे वृद्धे सब्रह्मचारिण्य् अग्नौ वा ।

3.9

एवंवृत्तो ब्रह्मलोकम् आप्नोति जितेन्द्रियः ।

3.10

उत्तरेषां चैतदविरोधि ।

3.11

अनिचयो भिक्षुः ।

3.12

ऊर्ध्वरेताः ।

3.13

ध्रुवशीलो वर्षासु ।

3.14

भिक्षार्थी ग्रामम् इयात् ।

3.15

जघन्यम् अनिवृत्तं चरेत् ।

3.16

निवृत्ताशीः ।

3.17

वाक्चक्षुःकर्मसंयतः ।

3.18

कौपीनाच्छादनार्थे वासो बिभृयात् ।

3.19

प्रहीणम् एके निर्णिज्य ।

3.20

नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम् उपाददीत ।

3.21

न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ।

3.22

मुण्डः शिखी वा ।

3.23

वर्जेयेद् बीजवधम् ।

3.24

समो भूतेषु हिंसानुग्रहयोः ।

3.25

अनारम्भी ।

3.26

वैखानसो वने मूलफलाशी तपःशीलः ।

3.27

श्रावणकेनाग्निम् आधाय ।

3.28

अग्राम्यभोजी ।

3.29

देवपितृमनुष्यभूतर्षिपूजकः ।

3.30

सर्वातिथिः प्रतिषिद्धवर्जम् ।

3.31

वैष्कम् अप्य् उपयुञ्जीत ।

3.32

न फालकृष्टम् अधितिष्ठेत् ।

3.33

ग्रामं च न प्रविशेत् ।

3.34

जटिलश् चीराजिनवासाः ।

3.35

नातिसंवत्सरं भुञ्जीत ।

3.36

एकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद्गार्हस्थस्य गार्हस्थस्य ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc