धर्मसूत्र · अध्याय 2
प्राग् उपनयनात् कामचारः कामवादः कामभक्षः ।
अहुतात् ।
ब्रह्मचारी ।
यथोपपादितमूत्रपुरीषो भवति ।
नास्याचमनकल्पो विद्यते ।
अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ।
न तदुपस्पर्शनाद् आशौचम् ।
न त्व् एवैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात् ।
न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् ।
उपनयनादिर् नियमः ।
उक्तं ब्रह्मचर्यम् ।
अग्नीन्धनभैक्षचरणे ।
सत्यवचनम् ।
अपाम् उपस्पर्शनम् ।
एके गोदानादि ।
बहिःसंध्यत्वं च ।
तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद् वाग्यतः ।
नादित्यम् ईक्षेत ।
वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्यगीतपरिवादभयानि ।
गुरुदर्शनेकण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि ।
निष्ठीवितहसितविष्कम्भितावस्फोतनानि ।
स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ।
द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् ।
आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ।
शुक्लवाचो ।
मद्यं नित्यंब्राह्मणः ।
अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ।
वाग्बाहूदरसंयतः ।
नामगोत्रे गुरोः समानतो निर्दिशेत् ।
अर्चिते श्रेयसि चैवम् ।
शय्यासनस्थानानि विहाय प्रतिश्रवणम् ।
अभिक्रमणं वचनाद् अदृष्टेन ।
अधःस्थानासनस् तिर्यग्वातसेवायां गुरुदर्शनेचोत्तिष्ठेत् ।
गच्छन्तम् अनुव्रजेत् ।
कर्म विज्ञाप्याख्याय ।
आहुतो ऽध्यायी ।
युक्तः प्रियहितयोः ।
तद्भार्यापुत्रेषु चैवम् ।
नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि ।
विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् ।
नैके युवतीनां व्यवहारप्राप्तेन ।
सार्ववर्णिकभैक्ष्यचरणम् अभिशस्तपतितवर्जम् ।
आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ।
आचार्यज्ञातिगुरुष्व् अलाभे ऽन्यत्र ।
तेषां पूर्वं पूर्वं परिहरेत् ।
निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत ।
असंनिधौतद्भार्यापुत्रसब्रह्मचारिभ्यः ।
वाग्यतस् तृप्यन्नलोलुप्यमानः संनिधायोदकम् ।
शिष्यशिष्टिर् अवधेन ।
अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ।
अन्येन घ्नन्(हन्) राज्ञा शास्यः ।
द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ।
प्रतिद्वादश वा सर्वेषु ।
ग्रहणान्तं वा ।
विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः ।
कृत्वानुज्ञातस्य वा स्नानम् ।
आचार्यः श्रेष्ठो गुरूणां ।
मातेत्य् एके ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0